श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः
रामेण मातलिसमानीतेन्द्रशक्त्या रावणविसृष्टशूलविभेदनपूर्वकं रावणललाटोरसि -बाणैः प्रहरणम् ॥ १ ॥
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।
सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ १ ॥
सिंहशार्दूलवाञ्शैलः संचचाल चलद्रुमः ।
बभूव चातिक्षुभितः समुद्रः सरितांपतिः ॥ २ ॥
अथ रावणस्य शूलोद्धरणं चतुःशततमे – तस्येत्यादि ॥ १-२ ॥
खगाश्च खरनिर्घोषा गगने परुषा घनाः ।
औत्पातिकानि नर्दन्तः समन्तात्परिचक्रमुः ॥ ३ ॥
रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् ।
वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम् ॥ ४ ॥
औत्पातिकानि उत्पातसूचकानि । नर्दन्तः गर्जन्तः ॥ ३-४ ॥
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।
ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥ ५ ॥
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् ।
नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥ ६ ॥
विमानस्था इत्यादिश्लोकद्वयमेकान्वयं लोकसंवर्तस्य प्रलयस्येव संस्थितं संस्थानं यस्य तत्तथोक्तं ॥ ५-६ ॥
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।
प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ ७ ।।
विग्रहमागताः विग्रहं युद्धं उद्दिश्यआगताः । युद्धं द्रष्टुमागता इत्यर्थः । यद्वा विग्रहमागताः रामरावणपक्षपातात् परस्परं कलहायमाना इत्यर्थः । भक्त्या प्रेक्षमाणाः सन्तः प्रहृष्टवद्वाक्यमूचुरिति संबन्धः ॥ ७ ॥
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।
देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥ ८ ॥
तद्वाक्यं विविच्य दर्शयति – दशग्रीवमिति ॥ यद्यप्यसुराणामपि रावणो बाधकः तथापि देवानामतिशयो मा भूदित्यसूयया रावणं वर्धयन्तीति बोध्यम् ॥ ८ ॥
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।
प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ॥ ९ ॥
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।
शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥ १० ॥
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।
अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ ११ ॥
त्रासनं सर्वभूतानां दारणं भेदनं तदा ।
प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ॥ १२ ॥
तच्छ्रलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।
अनेकैः समरे शूरै राक्षसैः परिवारितः ॥ १३ ॥
समुद्यम्य महाकायो ननाद युधि भैरवम् ।
संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् ॥ १४ ॥
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।
प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ १५ ॥
अतिनादस्य नादेन तेन तस्य दुरात्मनः ।
सर्वभूतानि वित्रेसुः सागरथ प्रचुक्षुभे ॥ १६ ॥
एतस्मिन्नन्तर इत्यादिश्लोकचतुष्टयमेकान्वयं ॥ राघवस्य क्रोधात् राघवविषयक्रोधात् । प्रहरणं आयुधं । स्पृशन् परामृशन् । किं वेदानीं ग्रहीतुमुचितमिति क्षणं चिन्तयनित्यर्थः । कूटै: शिखराकारैरयः शङ्कुभिः चितं युक्तमित्यर्थ: । अतिरौद्रं रौद्रं शूलमतिवर्तमानं । अनासाद्यं शत्रुभिरप्रधृष्यं । कालेन यमेन दारणं क्रकचवत्कृन्तनं । भेदनं द्विधाकरणं । दुष्टात्मा रावणः राघवस्य क्रोधात् प्रहर्तुकामः महत्प्रहरणं स्पृशन्सन् वज्रसारत्वादिविशिष्टं शूलं रोषेण प्रदीप्त इव स्थितो रावणो जग्राहेति संबन्धः ॥ ९-१६ ॥
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।
विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ १७ ॥
शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।
तव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति ॥ १८ ॥
विनद्येति । पूर्वं शूलोद्यमनजनितोत्साहकृतो नाद उक्त: । इह प्रक्षेपजनितोत्साहकृतो नाद इति विवेकः ।। १७-१८ ।।
रक्षसामद्य शूराणां निहतानां चमूमुखे ।
त्वां निहत्य रणश्लाघिन्करोमि तरसा समम् ।
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ॥ १९ ॥
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ २० ॥
रक्षसामित्यादिसार्धश्लोकमेकान्वयं ॥ त्वां विनिहत्य रक्षोभिः समं करिष्यामीत्यर्थः । तुल्यार्थैः इत्यादिना षष्ठी ॥ १९-२० ॥
तद्रावणकरान्मुक्तं विद्युज्वालासमाकुलम् ।
अष्टघण्टं महानादं वियद्गतमशोभत ॥ २१ ॥
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ।
ससर्ज विशिखान्रामश्चापमायम्य वीर्यवान् ॥ २२ ॥
आपतन्तं शरौघेण वारयामास राघवः ।
उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ २३ ॥
निर्ददाह स तान्बाणान्रामकार्मुकनिस्सृतान् ।
रावणस्य महाशूल: पतङ्गानिव पावकः ॥ २४ ॥
दृष्ट्वातान्भस्मसाद्भूताञ्शूलसंस्पर्श चूर्णितान् ।
सायकानन्तरिक्षस्थान्राघवः क्रोधमाहरत् ॥ २५ ॥
स तां मातलिनाऽऽनीतां शक्तिं वासवनिर्मिताम् ।
जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ २६ ॥
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।
नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥ २७ ॥
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात ह ।
भिन्नः शक्त्या महाञ्शूलो निपपात हतद्युतिः ।
[ सांधुसाध्विति भूतानि प्रशशंसू रघूत्तमम् ॥ २८ ॥ ]
विद्युज्वाला विद्युत्सदृशज्वाला २१-२८ ॥
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।
रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ॥ २९ ॥
बाणैः शब्दायमानैः । अण । बाणशब्दे इत्यस्मात् पचाद्यच् । बाणशब्दः शरभेदसंज्ञेत्यप्याहुः ।। २९ ।।
निर्बिभेदोरसि ततो रावणं निशितैः शरैः ।
राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥ ३० ॥
पत्रिभिस्त्रिभिरिति प्रयोगभेदान्नपुनरुक्तिः। पत्रिभिः पत्रवद्भिरित्येके ।। ३० ।।
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।
राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ ३१ ॥
समूहस्थः युद्धस्थः ॥ ३१ ॥
स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।
जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥ ३२ ॥
समाजे युद्धे ।। ३२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुरुत्तरशततमः सर्गः ॥ १०४ ॥