श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्रुत्वारिंशः सर्गः
रात्रियुद्धं ॥ १ ॥ द्वन्द्वयुद्धे अङ्गदनिहतहयसारथिनेन्द्रजिता रथत्यागेनमाययाऽन्तरिक्षे -ऽन्तर्हितेनसता रामलक्ष्मणावयवेषु नागमयशरवर्षणम् ॥ २ ।।
युध्यतामेव तेषां तु तदा वानररक्षसाम् ।
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ १ ॥
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम् ।
संप्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥ २ ॥
अथ रात्रियुद्धप्रवृत्तिश्चतुश्चत्वारिंशे- युध्यतामेवेत्यादि । युध्यतां युध्यमानेषु । प्राणहारिणी वानराणामिति शेषः ॥ १-२ ॥
राक्षसोसीति हरयो हरिवासीति राक्षसाः ।
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ ३ ॥
जहि दारय चैहीति कथं विद्रवसीति च ।
एवं सुतुमुल: शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ ४ ॥
हरिवासीति राक्षसा इति । दारुणतमस्कत्वेन रक्षसामपि मोहोभूदितिभावः ॥ ३–४ ॥
कालाः काञ्चनसन्नाहास्तस्मिंतमसि राक्षसाः ।
संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ ५ ॥
कालाः नीलाः । काञ्चनसन्नाहाः काञ्चनकवचा: । दीप्तौषधिवना: दीप्ततृणज्योतिर्वनाः ॥ ५ ॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूच्छिताः ।
परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ ६ ॥
परिपेतुः संचेरुः ॥ ६ ॥
ते हयान्काञ्चनापीडान्ध्वजांश्चाग्निशिखोपमान् ।
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ ७ ॥
ते वानराः । काञ्चनापीडान् सुवर्णशेखरान् ॥ ७ ॥
वानरा बलिनो युद्धेऽक्षोभयन्राक्षसीं चमूम् ।
कुञ्जरान्कुञ्जरारोहान्पताकाध्वजिनो रथान् ।
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूच्छिताः ॥ ८ ॥
वानरा इत्यादिसार्धश्लोकः ॥ युद्धेक्षोभयन्नित्यत्र अक्षोभयन्निति पदच्छेदः ॥ ८ ॥
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः ।
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ ९ ॥
दृश्यादृश्यानि ईषदृश्यानीत्यर्थ: ॥ ९ ॥
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम् ।
रुरोध कर्णनेत्राणि युध्यतां धरणीरजः ॥ १० ॥
विध्वस्तं चूर्णितं ॥ १० ॥
वर्तमाने महाघोरे संग्रामे रोमहर्षणे ।
रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ॥ ११ ॥
ततो भेरीमृदङ्गानां पणवानां च निस्वनः ।
शङ्खवेणुस्वनोन्मित्रः संबभूवाद्भुतोपमः ॥
[ विमर्दे तुमुले तस्सिन्देवासुररणोपमे ॥ १२ ॥
रुधिरोदाः । असंज्ञायामप्युदकशब्दस्योदादेश आर्षः ॥ ११ – १२ ॥
हतानां स्तनमानानां राक्षसानां च निस्वनः ।
शस्तानां वानराणां च संबभूवातिदारुणः ।। १३ ।।
स्तनमानानां स्तनतां । शस्तानां हिंसितानां ॥ १३ ॥
हतैर्वानिरवीरैश्च शक्तिशूलपरश्वधैः ।
निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ॥ १४ ॥
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी ।
दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ॥ १५ ॥
हतैरित्यादिश्लोकद्वयमेकान्वयं ।। निहतैरिति राक्षसविशेषणं । पर्वताग्रैः वानरप्रेरितैः । उपलक्षणेतृतीया । शस्त्राण्येव पुष्पोपहारा: पुष्पबलयो यस्यां सा । तत्र तदा । दुर्ज्ञेया कृच्छ्रज्ञेया । प्रतियोधिनः दुर्निवेशा दुष्प्रवेशा ॥ १४-१५ ।।
सा बभूव निशा घोरा हरिराक्षसहारिणी ।
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ १६ ॥
कालरात्रिः भीमरथिरात्रिः । रात्रिर्भीमरथिर्नाम सर्वप्राणिभयावहा इत्युक्तेः । शक्तिर्वा । सती च कालरात्रिश्च भैरवी गणनायिका इत्युक्तेः ॥ १६ ॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे ।
राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ॥ १७ ॥
संसृष्टाः संमिलिताः ॥ १७ ॥
तेषामापततां शब्दः क्रुद्धानामभिगर्जताम् ।
उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ॥ १८ ॥
उद्वर्ते अभिवृद्धौ । प्रलये वा ॥ १८ ॥
तेषां रामः शरैष्षड्भिष्पट् जघान निशाचरान् ।
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ १९ ॥
तेषां राक्षसानां मध्ये । षट् निशाचरान् । अग्निशिखोपमैः शितैः शरैः जघान ॥ १९ ॥
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ ।
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥ २० ॥
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः ।
युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ २१ ॥
के ते षडित्यपेक्षायामाह-यमेति ॥ दुर्धर्षः धर्षितुमशक्य: । यमशत्रुः । महोदरमहापार्श्वौ । महाकाय: वज्रदंष्ट्रः । तौ उत्तरद्वाररक्षकत्वेन पूर्वोक्तौ । उभौ शुकसारणौ चेति षट् । अत्र महाकाय इति वज्रदंष्ट्रविशेषणं । अपसृताः पलायिता: । सावशेषायुषः आयुःशेषयुक्ता इति जीवने हेतुः ।। २० – २१ ।।
तैत्र काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः ।
दिशश्चकार विमलाः प्रदिशश्च महाबलः ।
[ रामनामाङ्कितैर्बाणैर्व्याप्तं तद्रणमण्डलम् ] ।। २२ ॥
महाबलः रामः ॥ २२ ॥
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः ।
तेऽपि नष्टाः समासाद्य पतङ्गा इव पावकम् ॥ २३॥
सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः ।
बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ २४ ॥
पावकं समासाद्येत्यन्वयः ॥ २३ – २४ ॥
राक्षसानां च निनदैर्हरीणां चापि निस्वनैः ।
सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ २५ ॥
पूर्वमेव घोरा सा भूयः विशिष्य घोरतरा बभूव ॥ २५ ॥
तेन शब्देन महता प्रवृद्धेन समन्ततः ।
त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ॥ २६ ॥
प्रव्याहरदिव प्रतिव्याहरदिवेत्यर्थः ॥ २६ ॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः ।
संपरिष्वज्य बाहुभ्यां भक्षयन्रजनीचरान् ॥ २७ ॥
भक्षयन् अभक्षयन् ।। २७ ।।
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः ।
रावणिं निजघानाशु सारथिं च हयानपि ॥ २८ ॥
पूर्वप्रसक्तस्याङ्गदेन्द्रजितोर्द्वन्द्वयुद्धस्य शेषं वक्तुमुपक्रमते – अङ्गदस्त्वित्यादिना ॥ २८ ॥
वर्तमाने तदा घोरे संग्रामे भृशदारुणे ।
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः ॥
अङ्गदेन मेहाकायस्तत्रैवान्तरधीयत ॥ २९ ॥
तत्रैव तस्मिन्देश एव ॥ २९ ॥
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः ।
तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥ ३० ॥
पूजनार्हस्य स्तुत्यर्हस्य ॥ ३० ॥
प्रभावं सर्वभूतानि विदुरिन्द्रजितो युधि ।
[ अदृश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः । ]
तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्पितम् ॥ ३१ ॥
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः ।
साधुसाध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ॥ ३२ ॥
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा ।
संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ ३३ ॥
ते तानि । लिङ्गव्यत्यय आर्ष: । महात्मानं महाधैर्यं । तेन अङ्गदेन । प्रधर्षितं पराजितं । दृष्ट्वा तुष्टाः ॥ ३१ – ३३ ॥
एतस्मिन्नन्तरे रामो वानरान्वाक्यमब्रवीत् ॥ ३४ ॥
एतस्मिन्नित्यर्धं ॥ ३४ ॥
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन संगताः ॥ ३५ ॥
स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम् ।
भवतामर्थसिद्ध्यर्थं कालेन स समागतः ।
अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ॥ ३६॥
सर्व इत्यर्धं ॥ ३५ – ३६ ॥
सोन्तर्धानगतः पापो रावणी रणकर्कशः ।
[ ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूच्छितः । ]
अदृश्यो निशितान्वाणान्मुमोचाशनिवर्चसः ॥ ३७ ॥
अन्तर्धानगतः अन्तर्धानविद्यां प्राप्तः ॥ ३७ ॥
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः ।
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ॥ ३८ ॥
सर्वगात्रेषु सर्वावयवेषु ॥ ३८ ॥
मायया संवृतस्तत्र मोहयन्राघवौ युधि ।
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः ।
बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ ३९ ॥
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः ।
सहसा निहतौ वीरौ तदा प्रेक्षन्त वानराः ॥ ४० ॥
मायया संवृतः मायया युक्तः । अतएव अदृश्य: । कूटयोधी कपटयोधी । राघवौ रघुकुलोद्भवौ रामलक्ष्मणौ । शरबन्धेन शररूपबन्धकेन । बबन्ध । वेष्टनदंशनादिना नागमयत्वं । वेदनादिना शरमयत्वं ।। ३९–४०।।
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः ॥
मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥ ४१ ॥
मायाप्रयोगः किमर्थस्तत्राह-प्रकाशेति ॥ समुपाजगाम उपचक्रमे । बबन्ध च । महात्मा महाबुद्धिः ॥ ४१ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुश्रुत्वारिंशः सर्गः ॥ ४४ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥