श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षण्णवतितमः सर्गः
राक्षसीगणविलापश्रवणरुष्टेनरावणेन राक्षसान्प्रतिसंनाहनचोदनपूर्वकं स्वप्रतापप्रशंस -नेन रामादिवधप्रतिज्ञानम् ॥ १ ॥ तथा महापार्श्वादिभिःसह रथाधिरोहणेनरणधरणिंगतेनतेन बाणगणैर्वानरगणविदारणम् ॥ २ ॥
आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले ।
रावणः करुणं शब्दं शुश्राव परिदेवितम् ॥ १ ॥
स तु दीर्घं विनिश्वस मुहूर्तं ध्यानमास्थितः ।
बभूव परमक्रुद्धो रावणो भीमदर्शनः ॥ २ ॥
अथ रावणिनिर्याणं – आर्तानामित्यादि । परिदेवितं परिदेवितरूपं शब्दं ॥ १-२ ।।
संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः ।
राक्षसैरपि दुर्दर्श: कालाग्निरिव मूर्च्छितः ॥ ३ ॥
उवाच च समीपस्थान्राक्षसान्राक्षसेश्वरः ।
भयाव्यक्तकथस्तत्र निर्दहन्निव चक्षुषा ॥ ४ ॥
महोदरमहापार्श्वों विरूपाक्षं च राक्षसम् ।
शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया ॥ ५ ॥
तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः ।
चोदयामासुरव्यग्रान्राक्षसांस्तान्नृपाज्ञया ॥ ६ ॥
ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः ।
कृतस्वस्त्ययनाः सर्वे रणायाभिमुखा ययुः ॥ ७ ॥
प्रतिपूज्य यथान्यायं रावणं ते निशाचराः ।
तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः ॥ ८ ॥
संदृश्येत्यादिश्लोकत्रयमेकान्वयं ॥ मूर्च्छितः अभिवृद्धः, कालाग्निरिव स्थितः । भयाव्यक्तकथः भयादव्यक्तवचनः । ममाज्ञया वदतेत्युवाचेत्यन्वयः । इमौ महोदरमहापार्श्वौ सचिवौ । पूर्वहतौ तु मत्तप्रमत्तापरपर्यायौ । रावणभ्रातरौ ॥ ३-८ ॥
अथोवाच प्रहस्यैतान्रावणः क्रोधमूर्च्छितः ।
महोदरमहापार्श्वौ विरूपाक्षं च राक्षसम् ॥ ९
अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसन्निभैः ।
राघवं लक्ष्मणं चैव नेष्यामि यमसादनम् ।। १० ।।
प्रहस्येति । शत्रुषु तृणीकारात् ॥ ९-१० ।।
खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा ।
करिष्यामि प्रतीकारमद्य शत्रुवधादहम् ॥ ११ ॥
नैवान्तरिक्षं न दिशो न नद्यो नापि सागराः ।
प्रकाशत्वं गमिष्यन्ति मद्बाणजलदावृताः ॥ १२ ॥
अद्य वानरमुख्यानां तानि यूथानि भागशः ।
धनुषा शरजालेन विधमिष्यामि पत्रिणा ॥ १३ ॥
अद्य वानरसैन्यानि रथेन पवनौजसा ।
धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः ॥ १४ ॥
खरस्येत्यादिषु वधस्येति शेष: ॥ ११-१४ ॥
आकोशपद्मवक्त्राणि पद्मकेसरवर्चसाम् ।
अद्य यूथतटाकानि गजवत्प्रमथाम्यहम् ॥ १५ ॥
सशरैरद्य वदनैः सङ्ख्ये वानरयूथपाः ।
मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कजैः ॥ १६ ॥
अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम् ।
मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतं शतम् ॥ १७ ॥
हतो भर्ता हतो भ्राता यासां च तनया हताः ।
वधेनाद्य रिपोस्तासां करोम्यस्रप्रमार्जनम् ॥ १८ ॥
आकोशपद्मवक्त्राणि ईषद्विकसितपद्मभूतवक्त्राणि । पद्मकेसरवर्चसां बानराणामिति शेषः । प्रमथामि प्रमथ्नामि । श्राभाव आर्ष: ॥ १५–१८ ॥
अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः ।
करोमि वानरैर्युद्धे यत्नावेक्ष्यतलां महीम् ।। १९ ।।
अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे ।
सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्पितैः ॥ २० ॥
गतचेतनैः गतप्राणैः । यत्नावेक्ष्यतलामिति । नैरन्ध्र्येण भूमौ वानरान्पातयिष्यामीत्यर्थः ॥ १९-२० ॥
कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।
अनुप्रयान्तु मां सर्वे येऽवशिष्टा निशाचराः ॥ २१ ॥
तस्य तद्वचनं श्रुत्वा महापार्श्वोब्रवीद्वचः ।
बलाध्यक्षान्स्थितांस्तत्र बलं संत्वर्यतामिति ॥ २२ ॥
कल्प्यतां आकल्प्यतां । अलंक्रियतामित्यर्थः ॥ २१-२२ ॥
[बलाध्यक्षस्य तच्छ्रुत्वा महापार्श्वस्य भाषितम् ॥ ]
बलाध्यक्षास्तु संरब्धा राक्षसांस्तागृहाद्गृहात् ॥
चोदयन्तः परिययुर्लङ्कायां तु महाबलाः ॥ २३ ॥
संरब्धा इति । पुनः पुनराह्वानेप्यनागमनात्कुपिताइत्यर्थः । परिययुः प्रतिरथ्यं ययुरित्यर्थः ॥ २३ ॥
ततो मुहूर्तान्निष्पेतू राक्षसा भीमदर्शनाः ।
नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः ॥ २४ ॥
असिभिः पट्टिशैः शूलैर्गदाभिर्मुसलैहुलैः ।
शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः ॥ २५ ॥
यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः ।
भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः ॥ २६ ॥
तत इत्यादिश्लोकत्रयमेकान्वयं । हुलै: द्विफलपत्राग्रायुधविशेषैः । हुलं द्विफलपत्रा इति वैजयन्ती । भुजैरित्याद्युपलक्षणे तृतीया ॥ २४-२६ ।।
अथानयद्बलाध्यक्षः सत्वरो रावणाज्ञया ।
[ रथानां नियुतं साग्रं नागानां नियुतत्रयम् ॥ २७ ॥
अश्वानां पष्टिकोट्यस्तु खरोष्ट्राणां तथैव च ।
पदातयस्त्वसंख्याता जग्मुस्ते राजशासनात् ।
बलाध्यक्षाश्च संस्थाप्य राज्ञः सेनां पुरस्स्थिताम् ॥ २८ ॥
एतस्मिन्नन्तरे सूतः स्थापयामास तं रथम् ।
दिव्यास्रवरसंपन्नं नानालङ्कारभूषितम् ॥ २९ ॥
नानायुधसमाकीर्णं किङ्किणीजालसंयुतम् ।
नानारत्नपरिक्षिप्तं रत्नस्तंभैर्विराजितम् ॥ ३० ॥
जांबूनदमयैश्चैव सहस्रकलशैर्वृतम् ।
तं दृष्ट्वा राक्षसास्सर्वे विस्मयं परमं गताः ॥ ३१ ॥
तं दृष्ट्वा सहसोत्थाय रावणो राक्षसेश्वरः ।
कोटिसूर्यप्रतीकाशं ज्वलन्तमिव पावकम् ॥ ]
द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम् ॥ ३२ ॥
अथानयद्बलाध्यक्षः सर्वतो रावणाज्ञया । द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथंमिति पाठः ।। २७-३२ ।।
आरुरोह रथं भीमो दीप्यमानं स्वतेजसा ॥ ३३ ॥
आरुरोहेत्यर्धमेकं वाक्यं ।। भीमः रावणः ॥ ३३ ॥
ततः प्रयातः सहसा राक्षसैर्बहुभिर्वृतः ।
रावणः सत्वगाम्भीर्याद्दारयन्निव मेदिनीम् ॥ ३४ ॥
[ ततश्चासीन्महानादस्तूर्याणां च ततस्ततः ।
मृदङ्गैः पटहैः शङ्गैः कलहैः सह रक्षसाम् ॥ ३५ ॥
आगतो रक्षसां राजा छत्रचामरसंयुतः ।
सीतापहारी दुवृत्तो ब्रह्मघ्नो देवकण्टकः ।
योद्धुं रघुवरेणेति शुश्रुवे कलहध्वनिः ॥ ३६ ॥
तेन नादेन महता पृथिवी समकंपत ।
तं शब्दं सहसा श्रुत्वा वानरा दुद्रुवुर्भयात् ॥ ३७ ॥
रावणस्तु महाबाहुः सचिवैः परिवारितः ।
आजगाम महातेजा जयाय विजयं प्रति ॥ ३८ ॥]
रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ ।
विरूपाक्षश्च दुर्धर्षो स्थानारुरुहुस्तदा ॥ ३९ ॥
ते तु हृष्टा विनर्दन्तो भिन्दन्त इव मेदिनीम् ।
नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः ॥ ४० ॥
ततो युद्धाय तेजस्वी रक्षोगणवलैर्वृतः ।
निर्ययावुद्यतधनुः कालान्तकयमोपमः ॥ ४१ ॥
सत्त्वगाम्भीर्यात् बलातिशयात् ॥ ३४-४१ ॥
ततः प्रजवनाश्वेन रथेन स महारथः ।
द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ ॥ ४२ ॥
द्वारेणेति । उत्तरद्वारेणेत्यर्थः ॥ ४२ ॥
ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः ।
द्विजाश्च नेदुर्घोराश्च संचचालेव मेदिनी ॥ ४३ ॥
ववर्ष रुधिरं देवश्चेस्खलुस्तुरगाः पथि ।
ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः ॥ ४४ ॥
नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत ।
विवर्णं वदनं चासीत्किंचिदभ्रश्यत स्वरः ॥ ४५ ॥
ततो नष्टप्रभ इत्यादिश्लोकचतुष्टयमेकान्वयं ॥ ४३ – ४५ ॥
ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः ।
रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे ॥ ४६ ॥
अन्तरिक्षात्पपातोल्का निर्धातसमनिस्स्वना ।
विनेदुरशिवा गृध्रा वायसैरनुनादिताः ॥ ४७ ॥
एतानचिन्तयन्घोरानुत्पातान्समुपस्थितान् ।
निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः ॥ ४८ ॥
तेषां तु रथघोषेण राक्षसानां महात्मनाम् ।
वानराणामपि चमूर्युद्धायैवाभ्यवर्तत ॥ ४९ ॥
रूपाणि दुर्निमित्तरूपाणि । ततः अनन्तरं । ततः उत्तरद्वारात् । निष्पततः निष्क्रमतः । सूर्यनष्टप्रभत्वादीनि रूपाणि जज्ञिर इतिसंबन्धः ॥ ४६-४९ ॥
तेषां तु तुमुलं युद्धं बभूव कपिरक्षसाम् ।
अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम् ॥ ५० ॥
ततः कुद्धो दशग्रीवः शरैः काञ्चनभूषणैः ।
वानराणामनीकेषु चकार कदनं महत् ।। ५१ ।।
आह्वयानानां आह्वयमानानां स्पर्धया आह्वयतां । आगमशासनस्यानित्य -त्वान्मुगागमाभाव: ॥ ५०–५१ ॥
निकृत्तशिरसः केचिद्रावणेन वलीमुखाः ।
केचिद्विच्छिन्नहृदयाः केचिच्छ्रोत्रविवर्जिताः ।। ५२ ।।
निरुच्छ्वासा हताः केचित्केचिरपार्श्वेषु दारिताः ।
केचिद्विभिन्नशिरसः केचिच्चक्षु र्विवर्जिताः ॥५३॥
दशाननः क्रोधविवृत्तनेत्रो यतो यतोऽभ्येति रथेन संख्ये ।
ततस्ततस्तस्य शरप्रवेगं सोढुं न शेकुर्हरिपुङ्गवास्ते ॥ ५४ ॥
निकृत्तशिरस इत्यादिश्लोकद्वयं ॥ ५२–५४ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षण्णवतितमः सर्गः ॥ ९६ ॥