श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः
राक्षसैरावणंप्रति कुबेरविजयादितदपादानप्रशंसनपूर्वकं रामस्यततोप्यल्पबलत्वोक्त्या कैमुत्येनतत्पराजयस्यसुकरत्वोक्तिः ॥ १ ॥ तथेन्द्रजिदपादानप्रशंसनपूर्वकं रामविजयाय -तन्नियोजनोक्त्त्या समाश्वासनम् ॥ २ ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः ।
ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम् ।
द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः ।। १ ।।
एवं रावणवचनमाकर्ण्य अविदितरघुनाथप्रभावा । मदोद्धता राक्षसास्तद्बलवर्णनपूर्वकं रावणं प्रशंसन्ति – इत्युक्ता इत्यादिना । सार्धश्लोक एकान्वयः । द्विषत्पक्षं द्विषद्बलं । पक्षो मासार्धके पार्श्वे गृहे सूर्यविरोधयोः । केशादेः परितो वृन्दे बले सखिस हाययोः इति विश्वः ॥ १ ॥
राजन्परिघशक्त्यृष्टिशूलपट्टिससङ्कुलम् ।
सुमहन्नो बलं कस्माद्विषादं भजते भवान् ।। २ ।।
परिधः परितो हननक्षमो गदाविशेषः । परिघः परिघातनः । इत्यमरः । शक्तिः दीर्घयष्टिः । ऋष्टिः असिः । खङ्गे तु निस्त्रिंशचन्द्रहासासिऋष्टय: इत्यमरः । शूलं प्रसिद्धं । पट्टिशः खड्गविशेषः । तैः संकुलं व्याप्तं । बलमस्ति समग्रबले एवं विद्यमाने कस्माद्धेतोः भवान् विषादं भजत इति योजना । अत्र सुमहन्नो बलमित्यत्र बलं नास्तीति प्रामादिका भाव्यनर्थसूचिकाखिलोक्तिः ॥ २ ॥
त्वया भोगवतीं गत्वा निर्जिताःपन्नगा युधि ।
कैलासशिखरावासी यक्षैर्बहुभिरावृतः ।
सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः ।। ३ ।।
स महेश्वरसख्येन श्लाघमानस्त्वया विभो ।
निर्जितः समरे रोषाल्लोकपालो महाबलः ।। ४ ।।
तिष्ठतु सैन्यं त्वमेक एव समस्तशत्रुविद्रावणक्षम इत्याशयेनाह – त्वयेत्यादिना ॥ सार्धश्लोक एकान्वयः । भोगवतीं सर्पराजनगरीं । कदनं युद्धं ॥ ३–४ ॥
विनिहत्य च यक्षौघान्विक्षोभ्य च विगृह्य च ।
त्वया कैलासशिखराद्विमानमिदमाहृतम् ।। ५ ।।
विमानं पुष्पकं ॥ ५ ॥
मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता ।
दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव ।। ६ ।।
दुहिता मन्दोदरी । यद्यपि मयेनाभिजात्यभ्रमाद्दत्तेत्युत्तरे वक्ष्यति तथाप्यत्र प्रशंसायां भयाद्दत्तेत्युक्तं ॥ ६ ॥
दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः ।
विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः ।। ७ ।।
दानवेन्द्रः मधुः । कुम्भीनसी रावणभगिनी । सुख मावहतीति सुखावहः भर्ता ॥ ७ ॥
निर्जितास्ते महाबाहो नागा गत्वा रसातलम् ।
वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः ।। ८ ।।
जटी सर्पविशेषस्य नाम । त्वया भोगवतीमित्यत्र तक्षकादिभिन्नक- र्कोटकादिजयोक्तिरिति न पौनरुक्त्यं ॥ ८ ॥
अक्षया बलवन्तश्च शूरा लब्धवराः पुनः ।
त्वया संवत्सरं युद्ध्वा समरे दानवा विभो ।। ९ ।।
स्वबलं समुपाश्रित्य नीता वशमरिन्दम ।
मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप ।। १० ।।
[निर्जिताः समरे रोषाल्लोकपाला महाबलाः ।
देवलोकमितो गत्वा शक्रश्चापि विनिर्जितः] ।। ११ ।।
अक्षया इत्यादिश्लोकद्वयमेकान्वयं ॥ लब्धवराः ब्रह्मणेति शेषः । अक्षयाः चूर्णीकरणेपि पुनरुत्पत्तिमत्त्वेन क्षयरहिता इत्यर्थः । दानवाः कालकेयाः । तत्र कालकेयसकाशात् । बहवः बह्वयः । वोतो गुणवचनात् इति पक्षे ङीषभावः ॥ ९–११ ॥
शूराश्च बलवन्तश्च वरुणस्य सुता रणे ।
निर्जितास्ते महाबाहो चतुर्विधबलानुगाः ।। १२ ।।
चतुर्विधबलानुगा: रथगजतुरगपदातिभेदेन चतुर्विधानि बलानि पृष्ठगानि येषां ते तथा ॥ १२ ॥
मृत्युदण्डमहाग्राहं शाल्मलिद्रुममण्डितम् ।
कालपाशमहावीचिं यमकिंकरपन्नगम् ।। १३ ।।
[महाज्वरेण दुर्धर्षं यमलोकमहार्णवम्] ।
अवगाह्य त्वया राजन्यमस्य बलसागरम् ।
जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः ।। १४ ।।
मृत्युदण्डेत्यादिश्लोकद्वयमेकान्वयं ॥ मृत्युदण्डः यमदण्डः स एव महाग्राह: महानक्रः यस्मिन् । शाल्मलय: कण्टकशाल्मलिवृक्षाकारायुधविशेषाः त एव द्रुमाः तैर्मण्डितं । मृत्युः यम: । प्रतिषेधितः युद्धादपक्रामितः ॥ १३–१४ ॥
सुयुद्धेन च ते सर्वे लोकास्तत्र विलोलिताः ।। १५ ।।
सुयुद्धेनेत्यर्धं । सुयुद्धेन स्वल्पयुद्धेनेत्यर्थः । विलोलिताः द्राविताः ॥ १५ ॥
क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः ।
आसीद्वसुमती पूर्णा महद्भिरिव पादपैः ।। १६ ।।
क्षत्रियैः अनरण्यप्रभृतिभिः ॥ १६ ॥
तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे ।
प्रसह्य ते त्वया राजन्हताः परमदुर्जयाः ।। १७ ।।
तिष्ठ वा किं महाराज श्रमेण तव वानरान् ।
अयमेको महाबाहुरिन्द्रजित्क्षपयिष्यति ।। १८ ।।
न समो राघव इति । तेभ्योपि निहीनबल: सुखेन निग्राह्य इति भावः ॥ १७-१८ ॥
अन्न हि महाराज माहेश्वरमनुत्तमम् ।
इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः ।। १९ ।।
माहेश्वरं महेश्वरप्रीतिकरं ॥ १९ ॥
शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम् ।
गजकच्छपसंबाधमश्वमण्डूकसंकुलम् ।। २० ।।
रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम् ।
रथाश्वगजतोयौघं पदातिपुलिनं महत् ।। २१ ।।
शक्तितोमरेत्यादिश्लोकत्रयमेकान्वयं ।। २०-२१ ॥
अनेन हि समासाद्य देवानां बलसागरम् ।
गृहीतो दैवतपतिर्लङ्का चापि प्रवेशितः ।। २२ ।।
पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा ।
गतस्त्रिविष्टपं राजन्सर्वदेवनमस्कृतः ।। २३ ।।
दैवतपतिः इन्द्रः ॥ २२ – २३ ॥
तमेव त्वं महाराज विसृजेन्द्रजितं सुतम् ।
यावद्वानरसेनां तां सरामां नयति क्षयम् ।। २४ ।।
विसृज प्रेषय । यावन्नयति नेष्यति ॥ २४ ॥
राजन्नापदयुक्तेयमागता प्राकृताज्जनात् ।
हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम् ।। २५ ।।
अयुक्ता असंभाविता । प्राकृतात् क्षुद्रात् हनुमतः ॥ २५ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः ॥ ७ ॥
इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तमः सर्गः ॥ ७ ॥