छान्दोग्योपनिषत् अष्टमः प्रपाठकः

छान्दोग्योपनिषत्

(सामवेदीयोपनिषत् )

अष्टमः प्रपाठकः

 

[दहरविद्या]

 

अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ।। ।।

प्र. -दहरविद्या प्रस्तूयते अथ यदिदमस्मिन् इति । ‘विद्यान्तरारम्भ प्रदर्शनार्थोऽयम् अथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारादिमत्त्वादिना च पुरशब्दिते अस्मिन् शरीरे पुण्डरीकाकारम् अल्पं हृदयाख्यं परस्य ब्रह्मण: वेश्म इत्यर्थः । दहरोऽस्मिन् अन्तराकाश इत्यादि । अस्मिन् वेश्मनि अन्तः दहरः – सूक्ष्मः आकाशः । अत्र यः इति पुल्लिङ्गयच्छब्दोऽध्याहर्तव्यः । अस्मिन् यो दहराकाशः इत्यर्थः । तस्मिन् यदन्तः इत्यत्र अन्तश्शब्दोऽन्तर्वर्तिपरः । च शब्दश्च अध्याहर्तव्यः । ततश्च अयमर्थः – अस्मिन् दहरपुण्डरीके यो दहराकाश: तदन्तर्वर्ति च यत्तदुभयं श्रवण-मननाभ्याम् अवगन्तव्यं ध्यातव्यं चेति । तदन्वेष्टव्यम् इत्यत्र तदिति नपुंसकलिङ्गनिर्देशः लिङ्गसामान्यविवक्षया द्रष्टव्यः । यद्वा दहरोऽस्मिन् अन्तराकाशः इति न पुंलिङ्ग यच्छब्दोऽध्याहर्तव्यः । अस्मिन् दहराकाशः तदन्तर्वर्ति च यदिति यच्छब्देनैव ‘नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्’ (पा.सू.१-२-६९) इति कृतनपुंसकैकशेषैकवद्भावेन एकेनैव नपुंसकलिङ्गेन द्वयोरपि परामर्शसम्भवात् ।  तदन्वेष्टव्यमिति वाक्ये तच्छब्देऽपि नपुंसकैकशेषसंभवात् एकेनैव तच्छब्देन द्वयोरी परामर्शः । ततश्च अनेन वाक्येन दहराकाशः तदन्तर्वर्ति च अन्वेष्टव्यम् इत्युक्तं मवति। उक्तञ्च भगवता भाष्यकृता – ‘यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ इत्यनूद्य तस्मिन् दहरपुण्डरीकवेश्मनि यो दहराकाशः, यच्च तदन्तर्वर्ति, तदुभयम् अन्वेष्टव्यमिति विधीयते’ इति । अत्र च आकाशशब्दः आसमन्तात् काशते प्रकाशते इति व्युत्पत्त्या परमात्मपरः । तत्र च हेतु: उत्तरत्र वक्ष्यते । न च तदन्तर्वर्तिनः एवान्वेष्टव्यत्वे प्रतीयमाने दहराकाशशब्दितस्यापि अन्वेष्टव्यतासिद्ध्यर्थम् एतावान् क्लेशः किमर्थम् आश्रीयते । किञ्च, ‘विश्वजित् सर्वपृष्ठोऽतिरात्रो भवति’ इत्यत्र पृष्ठगतसर्वताविध्याक्षिप्तपृष्ठविधिवत् दहराकाशान्तर्वर्तित्वेन गुणजातोपासनस्य दहराकाशोपासनमन्तरेण असम्भवेन आक्षेपादेव दहराकाशोपासनस्यापि सिद्धतया यत्तच्छब्दयोः नपुंसकैकशेषैकवद्भावचशब्दाध्याहारक्लेशानुभवो व्यर्थः इति वाच्यम् । ‘अथ य इहाऽऽत्मानमनुविद्य व्रजन्त्येताँश्च सत्यान् कामान्’ (छां.उ.८-१-६) इत्यौपसंहारिकोभयोपासनवचनानुसारेण अस्य क्लेशस्य अनुभोक्तव्यत्वात् । न च तदेव वाक्यं दहराकाशतदन्तर्वर्तिलक्षणोभयोपासनविधिपरम् अस्त्विति वाच्यम् । प्रक्रमस्थं विस्पष्टतव्यप्रत्यययुक्तं वाक्यं विहाय औपसंहारिकस्य विस्पष्टविधिप्रत्ययशून्यस्य यच्छब्दयुक्तस्य विधित्वकल्पनानौचित्यात् । तस्य विधित्वकल्पनायामपि अनुवादरूपस्यापि अस्य वाक्यस्य तदनुसारेण अर्थद्वयोपासनपरत्वस्य आश्रयणीयतया नपुंसकैकशेषादिक्लेशस्य आश्रयणीयत्वादिति । इति शब्दो वाक्यसमाप्तौ । अथवा, इतीत्यस्य अनन्तरम् आचार्यो ब्रूयात् इत्यध्याहारः ।।

 

तञ्चेत् ब्रूयुःयदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ।। ।।

 

ब्रूयात्यावान् वा अयमाकाश: तावानेषोऽन्तर्हृदय आकाशः उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि याच्चास्येहास्ति यच्च नास्ति, सर्वं तदस्मिन् समाहितमिति ।। ।।

प्र.तञ्चेत् ब्रूयुःइत्यादि । एवम् उक्तवन्तम् आचार्यं स्वल्पहृदयमध्यवर्तितया अतिस्वल्पे आकाशे किं वा वर्तितुम् अर्हति ? यदन्वेष्टव्यं स्यादिति दहराकाशराब्दितस्य ब्रह्मत्वं, तदन्तर्वर्तितया निर्दिष्टस्य तद्गुणजातत्वं च अजानानाः अन्तेवासिनः यदि ब्रूयु: इत्यर्थः । किं तदत्र विद्यते इति वाक्यं सर्वान्तरस्य परमात्मनः अन्तर्वर्त्यन्तरासम्भव-लक्षणानुपपत्तिगर्भान्तर्वर्ति-विशेषप्रश्नपरम् इति व्यासार्याणाम् अभिप्रायः इति यद्यपि प्रतीयते, तथाऽपि ‘यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश: इत्येतावन्मात्रं श्रुतवतां शिष्याणां परमात्मत्वविरोधिनि आकाशशब्दे जागरुके, दहरत्वान्वेष्टव्यान्तराधारत्वादिविरोधिलिङ्गे च जाग्रति, ब्रह्मलिङ्गेषु च अनुपन्यस्तेषु, परमात्मत्वनिश्चयस्य वा तदुपजीव्याक्षेपप्रवृत्तेः वा असम्भवात्, सर्वान्तरस्य परमात्मनः अन्तर्वर्यन्तरासम्भवलक्षणानुपपत्तेरेव शिष्याणां हृदि विपरिवर्तमानत्वेन प्रश्नयाक्ये, ‘दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः’ इति दहरपुण्डरीकान्तर्वर्तित्वेन आकाशस्य दहरत्वोपन्यासस्य वा प्रतिवचने, ‘यावान् वा अयमाकाशः’ (छां.उ.८-१-३) इति वैपुल्योपन्यासस्य वा असङ्गतत्वापातात्, व्यासार्याणामपि उक्तः एवार्थः अभिप्रेतः । केचित्तु शरीरस्य ब्रह्मपुरत्वेन उपक्रमादेव तदन्तर्र्वर्त्याकाशशब्दनिर्दिष्टं ब्रह्मेति अवगत्यैव तदन्तर्वर्तिवस्त्वन्तरासम्भवलक्षणानुपपत्तिम् अभिप्रयन्तः एव अन्तर्वर्तिविशेषं पप्रच्छु: इत्यपि सम्भवात् न अनुपपत्तिः इति वदन्ति ।। २ ।।

ब्रूयाद्यावान् वा इत्यादि । एवमुक्तः सः आचार्यः प्रतिब्रूयात् । किमिति ? हृदयपुण्डरीकमध्यवर्ती आकाशशब्दनिर्दिष्टः भूताकाशवत् विपुलः । द्यावापृथिव्यादिशब्दलक्षितं भोग्य-भोगस्थान-भोगोपकरणम्, अग्निसूर्यादिशब्दलक्षितः भोक्तवर्गश्च तदाश्रितः इत्यर्थः । याच्चास्येहास्ति इति । अस्य उपासकस्य इह लोके यत् भोग्यजातमस्ति, यच्च – मनोरथमात्रगोचरम् इह नास्ति, सर्वं तत् भोग्यजातम् अस्मिन् दहराकाशे समाहितम् इत्यर्थः । दहराकाशः निरतिशयभोग्यः इति यावत् । उक्तञ्च भगवता भाष्यकृता – ‘यावान्वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाशः’ इति दहराकाशस्य अतीव महत्ताम् अभिधाय ‘उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि’ इति प्रकृतमेव दहराकाशम् अस्मिन्निति निर्दिश्य ‘तस्य जगदाधारत्वम् अभिधाय, ‘यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम्’ इति पुनरपि अस्मिन्निति तदेव दहराकाशं परामृश्य तस्मिन्नस्य ‘उपासक स्येह लोके यत् भोग्यजातमस्ति, यच्च मनोरथमात्रगोचरमिह नास्ति, सर्वं तत् भोग्यजातमस्मिन् दहराकाशे समाहितमिति निरतिशयभोग्यत्वं दहराकाशस्य अभिधाय’ इति ।

न च, याच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम्’ इत्यनेन उपासक- भोग्यवस्त्वाधारत्वमात्रम् उपास्यस्य प्रतीयते, न तु दहराकाशस्य निरतिशयभोग्यत्वम् । ततश्च याच्चास्येहास्ति इति वाक्येन दहराकाशस्य निरतिशयभोग्यत्वम् अभिधाय इति भाष्यं कथम् उपपद्यतामिति वाच्यम् । उपासकस्य ब्रह्मप्राप्त्यैकफलकस्य स्वर्गपश्वादीनां भोग्यत्वाभावात्, याच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितम्’ इत्यनेन दहराकाशस्य निरतिशयभोग्यत्वमेव प्रतिपादितम् इति भाष्याभिप्रायः इति व्यासार्यै: उक्तत्वात् न अस्याः शङ्कायाः अवकाशः इति द्रष्टव्यम् । केचित्तु ‘स यदि पितृलोककामो भवति’ (छां.उ.८-२-१) इत्यादिना प्राचीनानेकजन्म सम्बन्धिपित्रादिवर्गदिदृक्षाया: सङ्कल्पमात्रेण तत्स्रष्टुत्वस्य च प्रतिपादयिष्यमाणत्वात् सूत्रकृताऽपि ‘सङ्कल्पादेव तच्छृतेः’ (ब्र.सू-४-४-८) इति सूत्रेण तद्वाक्यस्य विवक्षितार्थत्वाविष्करणात, ‘यो यो ह्यस्येत: प्रौति न तमिह दर्शनाय लभते’ अथ ये चाऽस्येह जीवा: ये च प्रेता: यच्चान्यदिच्छन्न लभते, सर्वं तदत्र गत्वा विन्दते’ (छा.उ.८-३-१-२) इति नष्टानां पित्रादीनां मुक्तकामनाविषयत्वप्रतिपादनात् , ‘प्रत्यक्षोपदेशान्नेति चेन्नाधिकारिक मण्डलस्थोक्तेः’ (ब्र.सू. ४-४-१८) इति सूत्रोक्तन्यायेन ब्रह्मविभूतितया नष्टपित्राद्यनुभयस्य कामनाविषयत्वसम्भवाच्च । अन्यथा ‘अस्मिन् कामाः समाहिताः, (छां..८-१-५) एतांश्च सत्यान् कामान्’ (छां.उ.८-१-६) इत्यादावपि कामशब्दस्य निरतिशयभोग्यार्थकत्वं का वारयेत् ? ततश्च ‘जक्षत्क्रीडन्’ (छां.उ.८-१२-३) इत्यत्रापि भोग्यत्वार्थकत्वं स्यादिति परो विजयेत । अतः अस्य वाक्यस्य यथाश्रुतार्थत्वेऽपि न दोषः । भाष्यमपि भोग्याधारत्व- फलितभोग्यत्वपरमेव अस्तु इति वदन्ति । अत्र ‘भूताकाशसदृश वैपुल्यप्रतिपादनेन, द्यावापृथिव्यादिजगदाश्रयत्वप्रतिपादनेन, उपासकं प्रति निरतिशयभोग्यत्वप्रतिपादनेन च, दहराकाशस्य प्रसिद्धाकाश-वेलक्षण्यप्रतिपादनात्, स्वल्पे दहराकाशे किमपि मातुं न शक्नोति इति आक्षेपबीजं परिहृतं भवति ।। ३ ।।

 

तञ्चेत् ब्रूयुःअस्मिँश्चेदिदं ब्रह्मपुरे सर्वं समाहितँ सर्वाणि भूतानि सर्वे  कामाः, यदैनज्जरामाप्नोति प्रध्वँसते वा किं ततोऽतिशिष्यत इति ।। ।।

प्र.तञ्चेत् ब्रूयुः इत्यादि । अल्पत्वरूपम् आक्षेपबीजं परिहृत्य ‘किं तदत्र विद्यते’ (छां.उ.८-२-२) इति प्रश्नं प्रति विवक्षत्येव आचार्ये उक्तेऽर्थे अनुपपतिं पश्यत: शिष्याः यद्याचार्ये ब्रूयुः । किमिति ? ब्रह्मपुरशब्दितं शरीरं द्यावापृथिव्यादिशब्दनिर्दिष्टभोग्य-भोगोपकरण-भोगस्थानम् अग्निवाय्वादिशब्दनिर्दिष्टः भोक्तृवर्गश्च, यदि आश्रयेयुः तदा शरीरस्य जरानाशादौ सति द्यावापृथिव्यादिकं किमपि न अवशिष्येत । तदपि नश्येत् इत्यर्थः । सर्वे च कामाः इत्यस्य, याच्चास्येहास्ति इति वाक्यनिर्दिष्टनिरतिशयभोग्यत्वानुवादित्वात् ‘सर्वे च कामाः’ इत्यस्य निरतिशयभोग्यत्वम् अर्थः इति व्यासार्यै: उक्तम् । ननु दहराकाशाश्रितं द्यावापृथिव्यादिकम् इति वदन्तं प्रति अस्याः शङ्काया: कथम् उत्थानम् । दहराकाशाश्रितत्वस्यैव उक्तत्वात् । ब्रह्मपुरशब्दितशरीराश्रितत्वस्य इह अनुक्ततया तज्जरानाशानुविधायिजरानाशत्वस्य दहराकाशाश्रिते द्यावापृथिव्यादौ कथं प्रसक्तिरिति चेत्, उच्यते । यथा घटाद्यन्तराकाशे निहितस्य दध्यादेः वस्तुतः घटादिरेव धारकः, आकाशः परमवकाशात्मना उपकरोति । एवं देहान्तर्वर्तिनि दहराकाशे विद्यमानस्य द्यावापृथिव्यादेः देहः एव धारकः । दहराकाशस्तु केवलम् अवकाशात्मना उपकरोति अस्तु वा दहराकाशस्य घटाद्याकाशवैलक्षण्येन स्वतो धारकत्वम्, तथाऽपि तस्य देहजराप्रध्वंसानुपदभाविजराप्रध्वंसत्वात् यावद्देहस्य भारधारणानुकूलं बलं तावत्पर्यन्तमेव दहराकाशस्य तद्धारकत्वम् इति फलतो देहः एव तस्य सर्वस्य धारकः पर्यवस्यति इति आक्षिपतां शिष्याणाम् अभिप्रायः ।।

 

[दहराकाशस्य परब्रह्मणः अपहतपाप्मत्वादिगुणवर्णनम् ]

 

ब्रूयात्नास्य जरयैतज्जीर्यति, वधेनास्य हन्यते एतत् सत्यं ब्रह्मपुरम् । अस्मिन् कामा: समाहिताः एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः । यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनं यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ।। ।।

प्र. – ब्रूयात् । आचार्यः तत्प्रतिवक्ति – नास्य जरयैतज्जीर्यति इत्यादि । भोग्य-भोगस्थान-भोगोपकरण-भोक्तृवर्गादिशालितया पुरमिव वर्तमानम् एतद्दहराकाशाख्यं ब्रह्म, न तु ‘घटादि वत् केवलमवकाशात्मना उपकारकम् । यथा पुरं भोग्य-भोगोपकरण-भोगस्थानादीनां स्वत एव आधारभूतं, न तु दध्यादीनां घटाकाशादिवत् आकाशात्मनः उपकारकं तथा इत्यर्थः । ननु स्वतो धारकत्वेऽपि तद्देहान्तर्वर्तितया तदन्तर्गतहदयवत् तत् जरानाशानुविधायिजरानाशत्वं स्यादिति शङ्काबीजं परिहरति – एतत्सत्यमिति

सत्यं – निर्विकारम् इत्यर्थः । अत एव न देहजरामरणानुविधायिजरामरणकमित्यर्थः । यद्वा, ‘अथ यत्सत् तदमृतम्’ (छां.उ.८-३-५) इति अस्मिन् प्रकरणे वक्ष्यमाणसत्यशब्दनिर्वचनरीत्या चेतनाचेतननियामकत्वं वा सत्यत्वम् । यथाकथञ्चित् घटाकाशादिविलक्षणाधारः इत्यर्थः । केचित्तु, ‘अस्मिंश्चेदिदं ब्रह्मपुरे’ इति प्रश्नवाक्ये ब्रह्मपुरशब्देन ब्रह्मरूपपुरत्वात्- दहराकाशः एवोच्यते । ‘यदैतज्जरावाप्नोति’ इत्येव पाठः । तत्र च पाठे एतस्य शरीरस्य जरा एतज्जरा । यदा दहराकाशं प्राप्नोति, तद्ध्वंसेन ध्वंसते वा, तदा द्यावा-पृथिव्यादिकं नावशिष्येत इत्येवार्थः । न तु ब्रह्मपुरशब्देन शरीरपरामर्शम् अभ्युपेत्य तदनुगुणैतादृशाभि-प्रायकल्पनपरिक्लेशः अनुसर्तव्यः इति वदन्ति ।

एवं मध्ये प्रसक्तमाक्षेपं परिहृत्य, ‘किं तदत्र विद्यते’ ? इति अन्तर्वर्तिविशेषजिज्ञासां शमयति – अस्मिन्कामास्समाहिताः । काम्यन्ते इति कामाः कल्याणगुणाः । कः दहराकाशः ? स च कैः कामैः विशिष्टः ? इत्याकांक्षायामाह – एष आत्मा इत्यादि । उक्तञ्च भगवता भाष्यकृता ‘दहराकाशस्य काम्यभूतकल्याणगुणविशिष्टत्वञ्च ‘एष आत्माऽपहतपाप्मा’ इत्यादिना सत्यसङ्कल्प इत्यन्तेन स्फुटीकृत्य’ इति । पाप-जरा-मरण-शोक-बुभुक्षा-पिपासावर्जितः सत्यकामस्सत्यसङ्कल्पश्च इत्यर्थः । परमात्मप्रकरणेषु पापशब्दः सुकृतसाधारणः । ‘न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते’ (छां.उ. ८-४-१) इति सुकृतेऽपि पापशब्दप्रयोगात्, ‘एते वै निरयास्तात स्थानस्य परमात्मनः’ इति स्वर्गादीनामपि मुमुक्ष्वनिष्टत्वेन स्वर्गादिसाधनकर्मणः मुमुक्षून् प्रति अनिष्टसाधनत्वेन अलौकिकत्वे सति अनिष्टसाधनत्वलक्षणपापशब्दप्रवृत्ति-निमित्तक्रोडीकृतत्वेन पापशब्दवाच्यत्वावश्यंभावात् । अपहतपाप्मत्वञ्च अनध्यस्तपाप्मत्वम् । ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युः न शोको न सुकृतं न दुष्कृतम्’ (छां.उ.८-४-१) इति सुकृतदुष्कृतप्रात्यभावश्रवणात् । तरतेः प्राप्तिवचनत्वात् । तस्मात् अपहतपाप्मत्वं अश्लिष्टपाप्मत्वम् इत्यर्थः । अकृतकर्माश्लेषस्य सर्वसाधारणत्वात् कृतेऽपि कर्मणि तत्फलाश्लेषः उच्यते । अतः ईश्वरेण कृतानि पुण्य-पापसजातीयानि कर्माणि न शुभाशुभफलजननशक्तानि इत्यर्थः । कृतेऽपि पापे तत्फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदीश्वरस्य स्वभावविशेष: अपहतपाप्मत्वम् । परिशुद्धात्मविषयस्य अपहतापाप्मत्वस्यापि अयमेवार्थः । स तु तस्य तिरोधानार्हः प्रतिबन्धनिवृत्तौ आविर्भवति । ईश्वरस्य तु तिरोधानानर्हो नित्याविर्भूतः इति विशेषः इति व्यासार्यै:, ‘अन्तस्तद्धर्मोपदेशात्’ (ब्र.सू.१-१-२१) इत्यत्र वर्णितः ।

अत्र सत्यकामशब्दो न कामनायाः सत्यत्वपरः, अमोघाशत्वस्य सत्यसङ्कल्पशब्देनेव सिद्धत्वात् । नापि काम्यते इति व्युत्पत्त्या गुणमात्रपरः । कतिपयगुणान्तराणां पृथगुक्तेः । अत: भोग्य-भोगोपकरण-भोगस्थानरूपाः नित्याः कामाः अस्य सन्ति इत्युच्यते । तदक्षरे परमे व्योमन्’ इत्युक्तनित्यविभूतिविशिष्टत्वं सत्यकामशब्दार्थः इति व्यासार्यै: उक्तम् । वेदार्थसङ्ग्रहे भाष्यकृताऽप्युक्तं सत्यसङ्कल्पः अप्रतिहतसङ्कल्पः इति । यथा ह्येवेह प्रजा इत्यादि । इह – अस्मिन् लोके प्रजाः यथानुशासनं – राजशासनानुल्लङ्घनेन राजानम् अन्वाविशन्ति – अनुसरन्ति इत्यर्थः । अनुसृत्य किंं कुर्वन्ति इत्यत्राह – यं यमन्तमभिकामा भवन्ति । कर्मणः फलापवर्गत्वात् फलमेव कर्मणोऽन्तः । यं यमन्तम् – यद्यत्फलमभिकामः अभ्यर्थिनो भवन्ति जनपदक्षेत्रादिकं वा कामयन्ते तत्तत्फलं यथाशासनमेव उपजीवन्ति । राजशासनानुरोधेनैव इहलोके यथा उपजीवन्ति, तथा परलोकेऽपि परतन्त्राः एव भवन्ति इति भावः । यद्वा यं यमन्तमभिकामाः भवन्ति तं तमिह लोके यथा प्रजा अन्वाविशन्ति – राजानम् अनुसृत्य लभन्ते तथा परलोकेऽपि उपजीवन्ति इत्यर्थः । अयमेवार्थो व्यासार्यै: वर्णितः ।।

 

[स्वर्गलोकफलस्य अनित्यत्वकथनम् ]

 

तद्यथेह कर्मचितो लोकः क्षीयते, एवमेवामुत्र पुण्यचितो लोकः क्षीयते । तद्य इहात्मानमननुविद्य व्रजन्त्येताँश्च सत्यान् कामान् , तेषां सर्वेषु लोकेष्वकामचारो भवति । अथ इहात्मानमनुविद्य व्रजन्त्येताँश्च सत्यान् कामान् , तेषाँ सर्वेषु लोकेषु कामचारो भवति ।। ।।

प्र. -एवं कर्मसाध्ये परलोके पारतन्त्र्यमुक्त्वा क्षयिष्णुत्वमपि आह – तद्यथेह कर्मचितो इत्यादि । राजसेवादिकर्मणा चितः आर्जितः लोकः यथा क्षीयते एवमेव अमुत्र परलोकेऽपि पुण्यचितः – पुण्यसंपादितः लोकः क्षीयते इत्यर्थः । तद्य इहात्मानम् इत्यादि । यस्मात् सुकृतसाध्येषु परलोकेषु पारतन्त्र्यक्षयिष्णुत्वादिकं तस्मात् ये उक्तमात्मानम् एतम् अपहतपाप्मत्वादीन् एतांश्च सत्यान् नित्यान् काम्यमानान् कल्याणगुणांश्च अनुपास्य परलोकं व्रजन्ति तेषां सर्वलोककामचारो न भवति, पारतन्त्र्यमिति यावत् । अथ इहात्मानम् इत्यादि । ये तु आत्मानम् अपहतपाप्मत्वादींश्च काम्यमानान् कल्याणगुणान् उपास्य परलोकं व्रजन्ति, ते ब्रह्मविभूतिभूतान् विकारलोकान् अनुभूय यथाकामं तृप्ताः न पारतन्त्र्यम् अनुभवन्ति इत्यर्थः ।

ननु अपहतपाप्मा ‘इत्यादिवाक्ये’ अपहतपाप्मत्वादिधर्माणां स्वातन्त्र्येण अनुपस्थितानां कथं एतानि इत्यनेन परामर्श:? न च गत्यभावात् तेषामेव परामर्श: इति वाच्यम् । ‘यशास्येहास्ति’ (छां.उ.८-१-३) इति वाक्ये निर्दिष्टस्य, ‘सर्वाणि च भूतानि सर्वे च कामा:’ (छां.उ.८-१-४) इति बहुवचनान्तकामशब्देन अनूदितस्य निरतिशयभोग्यत्वस्येव’ अस्मिन् कामाः समाहिताः’ ‘एतांश्च सत्यान् कामान्’ इत्यत्रापि निर्देशोऽस्तु इति चेन्न । तथा सति ‘अपहतपाप्मा विजर’ इत्याद्युपन्यासस्य वैयर्थ्यप्रसङ्गात् । कामान् इत्यस्य भोग्यत्वापरत्वे बहुवचनासङ्गतेश्च, अपहतपाप्मत्वादयः एव ‘एतांश्च सत्यान् कामान्’ इति कामशब्देन निर्देश्याः । भोग्यत्वहेतुपितृलोकादिविषयपरत्वे ‘सत्याः’ इति कामानां नित्यत्वकथनासम्भवात् इति सिद्धम् ।

ततश्च ‘दहरोऽस्मिन्नन्तराकाशः’ इति आकाशशब्दनिर्दिष्टः परमात्मा न मृताकाशः, तस्मिन्यदन्तः इति निर्दिष्टम् अपहतपाप्मत्वादिगुणजातम् इति इयता सन्दर्भण उपदिष्टं भवति । एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते । अत्र दहराकाशः मृताकाशः । आकाशशब्दस्य तत्रैव प्रसिद्धेः, व्यापके परमात्मनि दहरत्वस्य अभावाच्च, ‘तस्मिन् यदन्तः’ इति अन्वेष्ट व्यान्तराधारतया निर्देशच्च । न हि परमात्मनः स्वयमेव अन्वेष्टव्यस्य अन्वेष्टव्यान्तराधारत्वं सम्भवति । ‘यावान्वा अयम्’ इत्यादिना निर्दिश्यमानभूताकाशोप-मेयत्वस्य ‘गगनं गगनाकारम्’ (रा.यु.११०-२४) इत्यादिवत् अभेदेऽपि उपपत्तेः, निरतिशयविपुले परमात्मन्यपि परिच्छिन्नभूताकाशोपमेयत्वस्य अस्वरसत्वाच्च भूताकाशो दहराकाशः इति पूर्वपक्षे प्राप्ते उच्यते – ‘दहर उत्तरेभ्यः’ (ब्र.सू.१-३-१३) । दहराकाशः परमात्मा, वाक्यशेषगतभूताकाशोपमेयत्व-सर्वाधारत्व-निरतिशयभोग्यत्व-निरुपाधिकापहतपाप्मत्वादिगुणानां परमात्मव्यतिरिक्ते भूताकाशे असम्भवात्, परमात्मनोऽपि अपहतपाप्मत्वादिलक्षणान्वेष्टव्यान्तराधारत्वसंभवाच्च । न च ‘गगनं गगनाकारम्’ इतिवत् अभेदेऽप्युपमानोपमेयभावोऽस्तु इति वाच्यम् । गगनं गगनाकारम् इत्यादौ अभेदे सादृश्यं निबध्यमानम् अनन्वितत्वात् अनुपमकत्वफलकं सत् अनन्वयालङ्काररूपम् । न चेह तथा सम्भवति । ‘यावान्वा अयमाकाशः’ इति वाक्ये बाह्याकाशत्वहार्दाकाशतारूपोपमानोपमेयतावच्छेदकधर्मभेदसत्त्वेन अनन्वयस्य असंभवात् । उपमानोपमेयतावच्छेदकधर्मक्ये हि अनन्वयालङ्कारो यथा, ‘गगनं गगनाकारम्’ इत्यादौ । यच्चोक्तम् अतिविपुलस्य ब्रह्मणः परिच्छिन्नभूताकाशोपमेयत्वं न सम्भवति इति, तन्न । ‘अधिक’जवेऽपि सवितरि ‘इषुवद्गच्छति सविता’ इति गतिमान्द्यनिवृत्तिपरवचनवत् स्वल्पत्वनिवृत्त्यर्थतया भूताकाशसादृश्यकथनस्य उपपत्तेः । यदुक्तम् – आकाशशब्दस्य भूताकाशे प्रसिद्धत्वात् इति तत्राह – ‘प्रसिद्धेश्च (ब्र.सू.१-३-१६) ‘यदेष आकाश आनन्दो न स्यात्’ (ते.उ.आन.७-१) इत्यादौ परमात्मन्यपि आकाशशब्दस्य प्रसिद्धत्वात् । यदुक्तम् – परमात्मनः अल्पपरिमाणत्वं नोपपद्यते इति, तत्राह – ‘अल्पश्रुतेरिति चेत्तदुक्तम्’ (ब्र.सू.१-३-२०) । शाण्डिल्यविद्यायां ‘निचाय्यत्वादेवं व्योमवच्च’ (ब्र.सू.१-२-७) इति सूत्रखण्डेन उपासनार्थँ विपुलस्य अल्पत्वोपदेशः उपपद्यते इति पूर्वमेवोक्तम् इत्यर्थः । तथा, ‘प्रदानवदेव तदुक्तम्’ (ब्र.सू.३-३-४२) इत्यत्र ‘इहात्मानमनुविद्य व्रजन्ति’ इति दहराकाशोपासनमुक्त्वा, ‘एतांश्च सत्यान् कामान्’ इत्यपहतपाप्मत्वादिगुणानाम् उपासनस्य पृथगाम्नानात् अपहतपाप्मत्वादिगुणोपासनदशायां न धर्मिस्वरूपं चिन्तनीयम् । ततश्च प्रथमं दहराकाशाख्यं धर्मिस्वरूपम् अनुसन्धाय तस्य अपहतपाप्मत्व-विजरत्व-विमृत्युत्व-विशोकत्व-विजिघत्सत्व-अपिपासत्व-सत्यकामत्व-सत्यसङ्कल्पत्वरूपाः कामाः इत्येव चिन्तनीयम् । न तु, अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः’ इति गुणाश्रयस्य गुणिनोऽपि चिन्तनम् इति पूर्वपक्षे प्राप्ते उच्यते ‘प्रदानवदेव तदुक्तम्’ । यद्यपि दहराकाशः एव अपहतपाप्मत्वादिगुणानां गुणी । स च प्रथमं चिन्तितः, तथाऽपि स्वरूपमात्रात् गुणविशिष्टाकारस्य भिन्नत्वात्, प्रकृते च अस्मिन् कामाः समाहिताः इति ब्रह्मणि ‘कामसमाधानाधारत्वम् उक्त्वा, के ते कामाः ? इत्याकाङ्क्षायां निष्कृष्य अपहतपाप्मत्त्वं विजरत्वम् इति अनुक्त्वा अपहतपाप्मा विजरो – विमृत्युरिति तद्विशिष्टविशेष्यपर्यन्ततया निर्देशात् अनेनैव आकारेण अनुसन्धानं कर्तव्यम् इति श्रुतेः आशयः उन्नीयते । अतः वैशिष्ट्यानुसन्धानार्थं विशेष्यचिन्तनमपि आवर्तनीयं प्रदानवत् । तदुक्तं सङ्कर्षे – ‘नाना वा देवतापृथक्त्वात्’ (सङ्कर्षे.२-२-३६) इति । तत् नानाप्रदानाधिकरणमित्थम् –

 ‘अस्ति त्रैधा तथा विधेष्टिः । यथा ‘इन्द्राय राज्ञे पुरोडाशमेकादशकपालं निर्वपेदिन्द्रायाधिराजायेन्द्राय स्वराज्ञे’ (तै.सं.२-३-६) इति त्रिपुरोडाशा । तत्र तेषां पुरोडाशानाम् उपर्युपरि अधिश्रयणं सर्वेषां युगपत् अवदानञ्च विहितम् । तेषां पूर्वार्धात् अवदानं प्रकृतिवत् कर्तुं शक्यम्, तथाऽपि मध्यात् अवदानं कर्तुम् अशक्यम् । पुरोडाशानां मध्ये नलकप्रवेशाद्युपायेन मध्यादपि युगपत् अवदानं ग्राह्यम् । एवं स्थिते. प्रदानमपि युगपत् कर्तव्यम् क्रमेण वा ? इति संशये, तेषामपृथकप्रदानमवदानेकत्वात्। (सङ्कर्षे.२-२-३५) इति सूत्रेण, अवदानवत् प्रदानमपि युगपदेव कर्तव्यम् इति पूर्वपक्षः तत्रेदं सिद्धान्तसूत्रम्, ‘नाना वा देवतापृथक्त्वात्’ (सङ्कर्ष.२-२-३६) इति । त्रयाणां यागद्रव्याणं भेदात् विशिष्टरूपाणां देवतानां च भेदात् त्रिभिः द्रव्यदेवतासम्बन्धे:

कल्प्यानाञ्च यागानां तत्तद्देवतोद्देशेन क्रमिकाणि प्रदानानि कर्तव्यानीति सूत्रार्थः इति स्थितम् । प्रकृतमनुसरामः ।।

 

इति प्रथमखण्डभाष्यम् ।।

 

द्वितीयः खण्डः

 

[दहरविद्योपासनाफलम्]

 

यदि पितृलोककामो भवति, सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति तेन पितृलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि मातृलोककामो भवति, सङ्कल्पादेवास्य मातरः समुत्तिष्ठन्ति । तेन मातृलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि भ्रातृलोककामो भवति, सङ्कल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति तेन भ्रातृलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि स्वसृलोककामो भवति, सङ्कल्पादेवास्य स्वसारः समुत्तिष्ठन्ति तेन स्वसृलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि सखिलोककामो भवति, सङ्कल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि गन्धमाल्यलोककामो भवति, सङ्कल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः । तेन गन्धमाल्यलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यद्यन्नपानलोककामो भवति, सङ्कल्पादेवास्य अन्नपाने समुत्तिष्ठतः । तेन अन्नपानलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि गीतवादित्रलोककामो भवति, सङ्कल्पादेवास्य गीतवादित्रे समुत्तिष्ठतः तेन गीतवादित्रलोकेन सम्पन्नो महीयते ।। ।।

 

अथ यदि स्त्रीलोककामो भवति, सङ्कल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन स्त्रीलोकेन सम्पन्नो महीयते ।। ।।

 

यं यमन्तमभिकामो भवति, यं कामं कामयते, सोऽस्य सङ्कल्पादेव समुत्तिष्ठति तेन सम्पन्नो महीयते ।। १० ।।

 

।। इति द्वितीयः खण्डः ।।

प्र. – यदि इत्यादि । सः मुक्तस्सन् यदि प्राचीनानेकजन्मसम्बन्धिपितृवर्ग दिदृक्षेत, तदा स पितृवर्गः एतस्य सङ्कल्पमात्रात् समुत्थितो भवति । तेन सहितः पूज्यते इत्यर्थः ।। १ ।।

अथ यदि इत्यादि । सर्वं पूर्ववत् ।। १-९ ।।

यं यमन्तं इत्यादि । यं यमन्तं फलम् । यं यं कामं इष्टं कामयते स सर्वोऽस्य सङ्कल्पादेव समुत्तिष्ठति इत्यादि पूर्ववत् । एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् उपन्यस्यते – अत्र सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि राजादीनाम् अभिलषितसृष्टेः प्रयत्नान्त’रापेक्षत्व’दर्शनात् मुक्तस्यापि सिसृक्षितपितृलोकादिसृष्टिः सङ्कल्पव्यतिरिक्तप्रयत्नान्तरसापेक्षैव इति प्राप्ते उच्यते ‘सङ्कल्पादेव तच्छ्रुतेः’ (ब्र.सू.४-४-८) । सङ्कल्पमात्रादेव सृष्टि: न प्रयत्नान्तरसापेक्षा । कुतः ? ‘सङ्कल्पादेव पितरः समुत्तिष्ठन्ति’ इत्येवकारश्रुतेः । न चैवकारस्य अयोगव्यवच्छेदकत्वम् अत्यन्तायोगव्यवच्छेदकत्वं वाऽर्थः । विशेषणक्रियासङ्गतैवकारयोः एव अयोगात्यन्तायोगव्यवच्छेदकत्वेन एतस्य च अतथात्वेन अन्ययोगव्यवच्छेदकत्वस्यैव युक्तत्वात् । ‘अत एव चानन्याधिपतिः’ । (ब्र.सू.४-४-९) एतच्च सूत्रं पूर्वमेव व्याकृतम् । अतः पित्रादीनां सङ्कल्पमात्रसाध्यत्वं स्थितम् । प्रकृतमनुसरामः ।। १० ।।

इति द्वितीयखण्डभाष्यम् ।।

 

तृतीयः खण्डः

 

[जीवस्वरूपस्य कर्मणा तिरोधानम्]

 

इमे सत्याः कामा अनृतापिधानाः तेषाँ सत्यानाँ सतामनृतमपिधानम् यो यो ह्यस्येतः प्रैति, तमिह दर्शनाय लभते

प्र. – इमे सत्याः इत्यादि । परमात्मनिष्ठाः इमे सत्याः – अपहतपाप्मत्यादयः कामाः । अनृतापिधानाः अनृतम् अपिधानं येषां ते अनृतापिधानाः – अनृताच्छादिताः । “ऋतेतरविषयो हि अनृतशब्दः । ऋतम् इति कर्मवाचि । ‘ऋतं पिबन्तौ’ (क.उ.३-१) इति वचनात् । ऋतं कर्मफलाभिसन्धिरहितं परमपुरुषाराधनवेषं तत्प्राप्तिफलम् । अत्र तव्द्यतिरिक्तफलं सांसारिकफलं कर्म अनृतं ब्रह्मप्राप्तिविरोधि” इति महासिद्धान्ते भाषितम् ।

तेषां सत्यानां सतां विद्यमानानामेव कर्म आच्छादकम् । ततश्च स्वात्मभूतपरमात्मगताः अपहतपाप्मत्वादयः धर्माः कर्मरूपाविद्यातिरोहितत्वात् न भासन्ते इत्यर्थः । यो यो ह्यस्य इत्यादि । अस्य उपासकस्य यो यो बन्धुवर्गः इतः प्रैति न सः इह द्रष्टुं शक्यः इत्यर्थः ।।

 

[कर्मणः आच्छादकत्वम्]

 

अथ ये चास्येह जीवा ये प्रेता यच्चान्यदिच्छन्न लभते,सर्वं तदत्र गत्वा विन्दते अत्र ह्यस्यैते सत्याः कामा अनृतापिधानाः तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो विन्देयुः, एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं विन्दन्ति ; अनृतेन हि प्रत्यूढाः ।।।।

प्र. – अथ ये चास्य इति । अस्य तु ये जीवन्त: नष्टाश्च बन्धवः, अलभ्याश्च मनोरथाः, तत्सर्वं दहराकाशं परमात्मानं प्राप्य लभते । अत्र, ‘यच्चास्येहास्ति यच्च नास्ति’ (छां.उ.८-१-३) इति वाक्यसमानार्थत्वात् अस्य वाक्यस्य, ‘मुक्तस्य प्राप्यान्तरासम्भवात्, निरतिशयभोग्यत्वमेव अर्थः । अत्र हि अस्यैते इति । यतः उपासकस्य काम्यमानाः भोग्यभूताः अपहतपाप्मत्वादयः एतन्निष्ठाः पूर्वम् अनृतशब्दितकर्माच्छादिताः इदानीं दहराकाशं प्राप्तस्य आविर्भवन्ति, अतः निरतिशयभोग्यत्वम् इत्यर्थः । हिशब्दो हेतुपरः । तद्यथा हिरण्यनिधिं इत्यादि । यथा अधस्तान्निक्षिप्तं हिरण्यनिधिं अक्षेत्रज्ञाः – निधिमत्क्षेत्र-स्वभावविज्ञानहीनाः निधेः उपर्युपरि सञ्चरन्तोऽपि निधिं न लभन्ते, एवमेव इमास्सर्वाः प्रजाः सुषुप्तिकाले अहरहर्गच्छन्त्यः सुषुप्तौ, ‘सति सम्पद्य न विदुः’ (छां.उ.६-९-२) इत्युक्तरीत्या अविभागं गच्छन्त्यः एतं दहराकाशाख्यं ब्रह्मलोकं विन्दन्ति-न लभन्ते – न जानन्ति इत्यर्थः । ब्रह्मलोकशब्दौ च ‘निषादस्थपति’ न्यायेन समानाधिकरणौ । तत्र हेतुमाह – अनृतेन हि प्रत्यूढाः इति । प्रत्यूढाः -प्रतीपं नीताः । स्वभावान्तरं प्रापिताः । आच्छादिताः इति यावत् । यद्वा – अहरहर्गच्छन्त्यः इति न सुषुप्तिकालीनं गमनम् उच्यते । अपितु अन्तरात्मत्वेन सर्वदा वर्तमानस्य दहराकाशस्य हिरण्यनिधिवत् परमपुरुषार्थभूतस्य उपर्युपरि अहरहर्गच्छन्त्यः सर्वस्मिन् काले वर्तमानाः तम् अजाननत्य: तं न विन्दन्ति न लभन्ते इत्यर्थः । अर्थद्वयमपि भाष्यकृता वर्णितं, ‘गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च’ (ब्र.सू.१.३-१४) इति सूत्रे ।

सूत्रस्य च अयमर्थः । तद्यथा हिरण्यनिधि निहितम्’ इति अहरहः सर्वेषां क्षेत्रज्ञानां गमनात्, ब्रह्मलोकशब्दाच्च, दहराकाशो ब्रह्मेति अवसीयते । तथा हि अन्यत्र सुषुप्तिकालीनगमनब्रह्मलोकशब्दौ ब्रह्मविषयौ एव दृष्टौ । ‘एवमेव खलु सोम्येमाः सर्वाः प्रजा: सति सम्पद्य न विदुः, (छां.उ.६-९-२) ‘एष ब्रह्मलोक: सम्राडिति होवाच’ (बृ.उ.६-३-३३) इति । ‘मा भूत् अन्यत्र सुषुप्तिकाले ब्रह्मणि गमनदर्शनं ; एतदेव तु दहराकाशे सर्वेषां क्षेत्रज्ञानां प्रळयकाले इव निरस्तनिखिलदुःखानां सृषुप्तिकालेऽवस्थानं ब्रह्मव्यतिरिक्तेषु असंभावितं दहराकाशस्य परब्रह्मत्वे लिङ्गम्’ । भाष्ये एवमेकां व्याख्यां कृत्वा, ‘अथवा अहरहर्गच्छन्त्य इति न सुषुप्तिविषयं गमनम् उच्यते । अपि तु अन्तरात्मत्वेन सदा वर्तमानस्य दहराकाशस्य परमपुरुषार्थभूतस्य उपर्युपरि अहरहर्गच्छन्त्यः सर्वस्मिन् काले वर्तमानाः तम् अजानन्त्यः तं विन्दन्ति – न लभन्ते । यथा हिरण्यनिधिं निहितं तत्स्थानम् अजानानाः तदुपरि सर्वदा वर्तमानाः अपि न लभन्ते तद्वत् इत्यर्थः । सेयमेव अन्तरात्मत्वेन अवस्थितस्य दहराकाशस्य उपरि तन्नियमितानां सर्वासां ‘प्रजानां सर्वदा गतिः अस्य दहराकाशस्य परब्रह्मतां गमयति । तथा हि – अन्यत्र परब्रह्मणः अन्तरात्मतया अवस्थितस्य स्वनियाम्याभिः स्वस्मिन् वर्तमानाभिः प्रजाभिः अवेदनं दृष्टम् । यथा अन्तर्यामिब्राह्मणे – ‘य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद’ (बृ.उ.मा.पा.३,५-७-२२,३०) इति, ‘अदृष्टो द्रष्टा अश्रुतः श्रोता’ (बृ.उ.५-७-२७) इति च । मा भूदन्यत्र दर्शनं ; स्वयमेव तु इयं निधिदृष्टान्तावगतपरमपुरुषार्थभावस्य अस्य हृदयस्थस्य उपरि तदाधारतया अहरहः सर्वासां प्रजानाम् अजानतीनां गतिरस्य परब्रह्मत्वे पर्याप्तं लिङ्गम्’ इति व्याख्यातम् । सुषुप्तिकालीनगमनविषयपूर्वव्याख्यायाम् , ‘उपर्युपरि’ इत्यस्य दृष्टान्ते एवान्वयः न दार्ष्टान्तिके, सुषुप्तिकाले एकीभावसद्भावेऽपि उपरि गमनाभावात् । अन्तर्यामिविषयद्वितीयव्याख्यायां तु अन्तर्यामिणः उपरि सर्वदा गतिसत्त्वात् उपर्युपरीत्यस्य दार्ष्टान्तिकेऽप्यन्वयो द्रष्टव्यः ।

अत्र व्यासार्यै: अन्तर्यामिविषयतया व्याख्याने अन्तर्यामिणि अहरहर्गमनस्य दहराकाशपरब्रह्मत्वसाधकत्वमयुक्तम् । उपासकानुग्रहावस्थितो हि दहराकाशः, अन्तरात्मतया स्थितो हि अस्याधारः, तयोः रूपभेदात् इत्याशङ्क्य धर्मक्याभिप्रायेण एवमुक्तमिति परिहतम् ।।

 

[आत्मनो हृदयान्तर्वतित्वम् ]

 

वा एष आत्मा हृदि तस्यैतदेव निरुक्तँ हृद्ययमिति तस्माद्धृदयम् । अहरहर्वा एवंवित् स्वर्गं लोकमेति ।। ।।

प्र. – ‘पूर्वोक्तं’ हृदयान्तर्वर्तित्वं स्मारयति – वा एष आत्मा हृदि । अन्तर्वर्तते इति शेषः । हृदयनामनिर्वचनादपि आत्मनो हद्तत्वं सिद्ध्यति इत्याह – तस्यैतदेव इति तस्य – एतस्य हृदयस्य, हृदि अयमात्मा वर्तते इति हि हृदयशब्दनिरुक्तम् इति भावः । अहरहर्वा इति । अहरहः – प्रत्यहमाप्रयाणं एवंवित् एतादृशदहराकाशोपासननिष्ठ: स्वर्गं – सुखरूपं लोकं लोक्यमानं ब्रह्म प्राप्नोति इत्यर्थः । ब्रह्मोपासननिष्ठस्य तत्क्रतुयायेन ब्रह्मप्राप्तेरेव वक्तव्यतया प्रसिद्धस्वर्गलोकप्राप्त्यसंभवादिति द्रष्टव्यम् ।।

 

[मुक्तौ जीवस्य स्वरूपाविर्भावः]

 

अथ एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, एष आत्मेति होवाच एतदमृतमभयमेतद्ब्रह्मेति तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ।। ।।

प्र.-कथं ब्रह्मप्राप्तिः ? प्राप्तस्य वा तत: किं भवति ? इत्यत्राह – अथ एष इत्यादि । अथशब्दः प्रकृतापेक्षत्वद्योतकः । संप्रसादशब्दः सुषुप्तिस्थानवचनस्सन्  तत्सम्बन्धात् जीवं लक्षयति । एषः संप्रसादः ‘अहरहर्वा एवंवित्’ इति पूर्ववाक्ये निर्दिष्टः उपासकः जीवः, अस्मात् हेयतया परिदृश्यमानात् शरीरात् उत्क्रम्य देशविशेषनिष्ठं परमात्मानं प्राप्य स्वेन रूपेणाभिनिष्पद्यते इत्यर्थः । अस्य वाक्यस्यार्थः प्रजापतिविद्यायां विशिष्य वक्ष्यते । एष आत्मा इत्यादि । एष आत्मा एतदमृतमभयमेतत् इत्यत्र एतच्छब्दाः पूर्ववाक्ये ‘परञ्ज्योतिरुपसम्पद्य’ इति प्राप्यतया निर्दिष्टपरञ्ज्योतिःशब्दितब्रह्मपराः, प्राप्यतया प्राधान्यात् अव्यवहितत्वाच्च

ननु ‘प्रजापतिर्वरुणायाश्वमनयत् स स्वां देवतामार्च्छेत्’ इत्यत्र विभक्त्यैकरूप्यात् व्यवहितस्यापि प्रजापतेः स इत्यनेन ग्रहणं दृष्टं, न तु अव्यवहितस्य संप्रदानत्वेन प्रधानस्य वरुणस्य ग्रहणम् इत्युक्तं मीमांसकैः । ‘आकाशाच्चन्द्रमसमेव सोमो राजा’ (छां.उ.५-१०-४) इत्यत्र एतच्छब्दस्य न अव्यवहिताभिसंभाव्यचन्द्रम:परामर्शित्वं दृष्टं, अपि तु अभिसम्भवितृपरत्वम् । ततश्च इहापि व्यवहितस्य संप्रसादशब्दितस्य जीवस्यैव ‘एष आत्मा’ इत्येतच्छब्देन ग्रहणमुचितं विभक्त्यैकरूप्यात् इति चेन्न – प्रजापतिर्वरुणाय इति वाक्ये स इत्यनेन प्रजापतिपरामर्श अश्वदानसंप्रदानरूपत्वेन स्वीयां वरुणदेवतामाळुत् प्राप्नोति इत्यर्थो युज्यते । वरुणपरामर्शे तु वरुणस्य आत्मीयायाः देवतायाः प्रागप्रस्तुतत्वात् अर्थासंगत्या व्यवहितोऽपि प्रजापतिः परामृष्टः, न तु विभक्त्यैकरूप्यमात्रेण । ‘एष सोमो राजा’ इति पितृयाणवाक्ये एतच्छब्देन चन्द्रपरामर्शे तस्य सोमराजभावविधानवैय्यर्थ्यात् व्यवहिताभिसंभवितृपरामर्शित्वम्, न विभक्त्यैकरूप्यात् । प्रकृते अव्यवहितप्रधानभूत-परञ्ज्योतिशब्दित-परमात्मपरित्यागे कारणाभावात् । प्रत्युत तेन व्यवहितसंप्रसादशब्दितजीवपरिग्रहे तस्य निरुपाधिकात्मत्व-निरतिशयसुखरूपत्वलक्षणामृतत्व-दुःखासंभिन्नत्व-रूपाभयत्व-ब्रह्मत्व-विधानासम्भवाच्च, ‘एष आत्मा इति होवाच’ इत्येतच्छब्देन प्राप्यभूतः परमात्मैव परामृश्यते ।

यद्यपि, स्वेन रूपेणाभिनिष्पद्यते इति स्वरूपाविर्भावे कथिते आविर्भवत् स्वरूपं किमित्याकाङ्क्षायां प्रजापतिवाक्ये – ‘एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्म (छां.उ.४-१५-१) इति निर्दिष्टम् अमृताभयब्रह्मात्मशब्दनिर्दिष्टं मुक्तरूपम् इत्येवमर्थकत्वेऽपि न अनुपपत्तिः – तथाऽपि, ‘तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति’ इत्युत्तरवाक्यनिर्देक्ष्यमाण-चेतनाचेतननियन्तृत्वार्थकसत्यनामत्वस्य मुक्तात्मनि असम्भवात् पूर्ववाक्यनिर्दिष्टोऽपि न जीव: परामृश्यते, अपि तु प्राप्यं ब्रह्मैव । एष आत्मेति होवाच इत्येतावन्मात्रस्य आविर्भवत्स्वरूपपरत्वम् । एतदमृतमभयमेतद्ब्रह्म’ इत्यत्र तु एतच्छब्दस्य परंज्योतिश्शब्दितब्रह्मपरत्वम् इत्याश्रयणेऽपि न अनुपपत्तिः । अनेन च वाक्यसन्दर्भण परमात्मनः मुक्तप्राप्यत्व-तत्स्वरूपाविर्भावयितृत्वलक्षणः महिमा प्रतिपादितः भवति । अत एव सूत्रकृताऽपि, ‘एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परंज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते एष आत्मेति होवाच’ इति दहरविद्यामध्यस्थवाक्ये जीवप्रतिपादनदर्शनात् दहराकाशोऽपि जीवः एवास्तु । तस्य ‘यावान्वा अयम्’ इत्यादिवाक्यसन्दर्भप्रतिपादितभूताकाशोपमेयत्वस्य भूताकाशेऽनन्वयेन दहराकाशस्य भूताकाशत्वाभावेऽपि जीवे कथञ्चित् निर्लेपत्वादिना भूताकाशोपमेयत्वसम्भवात् अणुपरिमाणे जीवे दहरशब्दिताल्पपरिमाणत्वस्यापि सम्भवात् दहराकाशो जीवः एवास्त्विति, ‘इतरपरामर्शात् स इति चेत्’ (ब्र.सू.१-३-१७) इति सूत्रखण्डेन आक्षिप्य ‘दहर उत्तरेभ्यः’ (ब्र.सू.१-३-१३), ‘गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च’ (ब्र.सू.१-३-१४), ‘धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः’ (ब्र.सू.१-३-१५) इति सूत्रत्रयोक्तानां परमात्मधर्माणां जीवे असंभवात् न जीवो दहराकाशः इति, ‘नासंभवात्’ (ब्र.सू.१-३-१७) इति सूत्रखण्डेन परिहत्य, तर्हि ब्रह्मप्रकरणे, एष संप्रसादोऽस्माच्छरीरात् समुत्थायेति जीवपरामर्शः किमर्थम् ? इत्याशङ्क्य, मुक्ते तत्स्वरूपाविर्भावयितृत्वलक्षणपरमात्ममहिमप्रकाशनार्थो जीवपरामर्शः इति, ‘अन्यार्थश्च परामर्शः’ (ब्र.सू.१-३-१९) इति सूत्रेण प्रतिपादितम् । तस्य वा इति । स्पष्टोऽर्थः ।।

 

[सत्यपदनिर्वचनम्]

 

तानि वा एतानि त्रीण्यक्षराणि सत् ति यमिति तद् यत् सत्, तदमृतम् । अथ यत् ति, तन्मर्यम् अथ यद् यम्, तेनोभे यच्छति यदनेनोभे यच्छतितस्मात् यम् अहरहर्वा एवंवित् स्वर्गं लोकमेति ।। ।।

 

इति तृतीयः खण्डः ।।

प्र. – तानि वा एतानि इति । सत् ति यमिति सत्यनाम त्र्यक्षरात्मकमित्यर्थः । तत् यत् सत् इति । अत्र अमृतमर्त्यशब्दाभ्यां चेतनाचेतने निर्यिश्येते । अथ यद् यम् इति । अमृतत्वमर्त्यत्वरूपेण उपलक्षिते उभे यच्छति इति यम् इत्यर्थः । तदेव उपसंहरति – यदनेनोभे इति । अनेन चेतनाचेतनत्वरूपेण उपलक्षिते उभे यतो यच्छति तस्मात् इत्यर्थः । नामनिर्वचनाभिज्ञं स्तौति – अहरहर्वा इति । पूर्ववत् स्पष्टोऽर्थः ।।

 

।। इति तृतीयखण्डभाष्यम् ।।

 

चतुर्थः खण्डः

 

[आत्मनः माहात्म्यम्]

 

अथ आत्मा सेतुर्विधृतिरेषां लोकानामसंभेदाय नैतँ सेतुमहोरात्रे तरतो जरा मृत्युः शोको सुकृतँ दुष्कृतँ सर्वे पाप्मानोऽतो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोकः ।।।।

प्र.- अथ आत्मा इति । उक्तलक्षणः आत्मा सेतुरिव विधृतिः – विधारकः इत्यर्थः । किमर्थं सेतुविधृतिः इत्यत्राह – एषां लोकानाम् इति । असंभेदः – असङ्करः । यद्ययं परमात्मा ‘स्वशासनेन’ जगत् न धारयेत् सर्वधर्माणां साङ्कर्यमेव स्यात् । पृथिव्याः गन्धवत्त्वम्, जलस्य शैत्यम्, तेजसः औष्ण्यम् इत्यादयो हि धर्माः परमात्माज्ञया व्यवस्थिताः भवन्ति । सिनोति बध्नाति स्वस्मिन् चिदचिद्वस्तुजातमसङ्कीर्णमिति सेतुरुच्यते इति ‘सामान्यात्तु’ (ब.सू.३-२-३१) इति सूत्रे भाषितम् । नैतं सेतुम् इति । ‘तरतिः प्राप्तिवचनः । वेदान्तं तरति’ इतिवत् इति तत्रैव भाषितत्वात् एतं परमात्मसेतुम् अहोरात्रे परिच्छेदकत्वेन न प्राप्नुवतः । जरादिकमपि न प्राप्नोति इत्यर्थः । उक्तमर्थं निगमयति – सर्वे पाप्मानो इति । शोकादिषु पाप्मशब्दस्य अमुख्यत्वेऽपि सुकृतदुष्कृतयोः अलौकिकमुमुक्ष्वनिष्टसाधनत्वलक्षण पापशब्दप्रवृत्तिनिमित्तसंभवात् पाप्मशब्द: मुख्यः इति व्यासार्यै: लघुसिद्धान्ते वर्णितम् । तत्र हेतुमाह – अपहतपाप्मा इति । ब्रह्मरूपः लोकः एषः अपहतपाप्मा । हिः हेतौ । यस्मादयम् अपहतपाप्मा, तस्मात् सर्वे पाप्मानः अतः निवर्तन्ते इत्यर्थः । पापहेतुकर्मा’चरणेऽपि तदुत्पत्तिप्रतिबन्धकशक्तियोगित्वमेव हि अपहतपाप्मत्वम् । तस्मात् न पाप्मशब्दमुख्यार्थसुकृत-दुष्कृतयोः तत्फलभूतजरारोगादीनाञ्च प्रसक्तिः इत्यर्थः ।।

 

[मुक्तस्वरूपम्]

 

तस्माद्वा एतँ सेतुं तीर्त्वाऽन्धस्सन् अनन्धो भवति ; विद्धस्सन् अविद्धो भवति उपतापी सन् अनुपतापी भवति तस्माद्वा एतँ सेतुं तीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते सकृद्विभातो ह्येवैष ब्रह्मलोकः ।। ।।

 

तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति, तेषामेवैष ब्रह्मलोकः, तेषाँ सर्वेषु लोकेषु कामचारो भवति ।।।।

 

इति चतुर्थः खण्डः

प्र. – तस्मात् इति । यस्मात् अयम् अपहतपाप्मा, तस्मादेव एतं परमात्मलक्षणं सेतुं प्राप्य पूर्वम् आन्ध्यायुधवेधज्वरादियुक्तदेहोऽपि सन् तद्दोषरहितदिव्यदेहयुक्तः भवति इत्यर्थः । तस्मात् इति । परमात्मानं प्राप्तस्य तमिस्रा रात्रिरपि दिवैव । तस्य अज्ञानप्रसक्तेः अभावात् अहस्सदृशी सा रात्रिः । अहोरात्रयोः न विशेषः इत्यर्थः । तत्र हेतुः सकृद् इति । एषः पूर्वोक्त: ब्रह्मलोकः हि यस्मात् सकृतिभातः सर्वदा ब्रह्मस्वरूपप्रकाशस्य अनावृततया भासमानत्वात् इत्यर्थः ।। २ ।।

तद्य एव इत्यादि । तत् तत्र एवं सति ये एतं परमात्मानं स्त्रीविषयतृष्णात्याग-रूपब्रह्मचर्यपूर्वकशास्त्राचार्योपदेशादिना अनुविन्दन्ति – जानन्ति, तेषामेव ईदृशब्रह्मप्राप्तिः सर्वलोकानुभवश्च ; न ‘ब्रह्मचर्य’हीनानाम् इत्यर्थः । सूत्रितञ्च ‘धृतेश्च महिनोऽस्यास्मिन्नुपलब्धेः’ (ब्र.सू.१-३-१५) इति । ‘एष सेतुर्विधरण एषां लोकानामसम्भेदाय’ (बृ.उ.६-४-२२) इति परब्रह्ममहिमत्वेन प्रसिद्धस्य जगद्विधरणमहिम्न: दहराकाशे उपलभ्यमानत्वात् दहराकाशः परंब्रह्म इत्यर्थः ।।

इति चतुर्थखण्डभाष्यम् ।।

पञ्चमः खण्डः

[ब्रह्मचर्यप्रशंसा]

अथ यत् यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते अथ यदिष्टमित्याचक्षते, ब्रह्मचर्यमेव तत् ब्रह्मचर्येण ह्येवेष्ट्वाऽऽत्मानमनुविन्दते ।। ।।

प्र. – यज्ञेष्टसत्त्रायण-मौनानाशकायन-आरण्यायनाख्यानि कर्माणि ब्रह्मचर्यसाध्यत्वात् ब्रह्मलोकसाधनत्वेन प्रस्तुतं प्राङ्निर्दिष्टं ब्रह्मचर्यमेवेति स्तौति – अथ इत्यादि । लोके यत् – पाकयज्ञ-हविर्यज्ञादिकं कर्म वैदिकाः यज्ञ इत्याचक्षते, तत् ब्रह्मचर्यसाध्यत्वात् ब्रह्मचर्यमेव इत्यर्थः । ननु यज्ञस्य कथं ब्रह्मलोकसाधनब्रह्मचर्यसाध्यत्वम्, न हि ब्रह्मप्राप्तिसाधनस्य ब्रह्मचर्यस्य यज्ञः द्वारम् इत्याशङ्क्य ब्रह्मचर्यसाध्यस्य ब्रह्मप्राप्तिसाधनस्य ज्ञानस्य यज्ञरूपत्वात् ज्ञानसाधनस्य ब्रह्मचर्यस्य यज्ञसाधनत्वमप्यस्ति इति प्रतिपादयितुम् एकशब्दरूपितत्वेन तयोः ऐक्यं सम्पादयति – ब्रह्मचर्येण इत्यादि । ब्रह्मचर्यपुरस्सरब्रह्मज्ञानवान् हि तं . ब्रह्मलोकं विन्दते इत्यर्थः । अत्र, यो ज्ञाता ब्रह्मचर्येण इत्युक्तयां यो ज्ञाता-इत्यस्य ब्रह्मचर्यसाध्यत्वं प्रतीयते । यो ज्ञाता इति शब्दैकदेशस्य योज्ञशब्दस्य यज्ञशब्दस्य च साम्यकृताभेदाध्यवसायेन तदर्थाभेदाध्यवसायमूला यज्ञस्यापि ब्रह्मचर्यसाध्यता इति भावः । एवमुत्तरत्रापि द्रष्टव्यम् । अथ इत्यादि । अत्रापि ब्रह्मप्राप्तिसाधनस्य ब्रह्मचर्यसाध्यस्य परमात्मपूजनस्य ‘दर्शपूर्णमासादीनाञ्च’ इष्टया इत्येकशब्दरूपितत्वेन अभेदाध्यवसायः ।।

 

[ब्रह्मचर्यस्यात्मरक्षकत्वम् ]

 

अथ यत् सत्त्रायणमित्याचक्षते, ब्रह्मचर्यमेव तत् ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दते अथ यन्मौनमित्याचक्षते, ब्रह्मचर्यमेव तत् ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ।। ।।

प्र. – अथ इत्यादि । अत्रापि ब्रह्मप्राप्तिसाधनस्य ब्रह्मचर्यसाध्यस्य विषयान्तर-विमुखीकरणलक्षणस्य सच्छब्दिताऽऽत्मत्राणस्य गवामयनादिसत्रस्य च सत्त्रायणरूपैक-शब्दरूपितत्वेन अभेदाध्यवसायः । अथ यन्मौनम् इत्यादि । वाङ्नियमनलक्षणमौनस्य ब्रह्मचर्यसाध्यात्मश्रवणाधीनमननस्य च मौनरूपैकशब्दरूपितत्वेन अभेदाध्यवसायः ।।

 

[व्रतोपवासादीनां ब्रह्मचर्यार्थत्वम्]

 

अथ यदनाशकायनमित्याचक्षते, ब्रह्मचर्यमेव तत् एष ह्यात्मा नश्यतियं ब्रह्मचर्येणानुविन्दते । अथ यदरण्यायनमित्याचक्षते, ब्रह्मचर्यमेव तत् अरश्च वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरम्मदीयँ सरः तदश्वत्थः सोमसवनः । तदपराजिता पूर्ब्रह्मणः, प्रभुविमितँ हिरण्मयम् ।। ।।

प्र.- अथ यदनाशकायनम् इत्यादि । ब्रह्मचर्यसाध्यनाशाभावरूपफलस्य च अनशनलक्षणमार्गस्य च  अनाशकायनशब्दैक्यकृतोऽभेदः । अथ यदरण्यायनम् इत्यादि । इतः – भूलोकापेक्षया तृतीये धुशब्दिते ब्रह्मलोके अरण्यसंज्ञकार्णवौ स्तः । अतश्च अरण्यायनस्य ब्रह्मलोकस्य च अरण्यवासस्य च अरण्यायनशब्दकृतोऽभेदः । भुवं चतुर्मुखलोकान्तान्तरिक्षलोकं च अपेक्ष्य भगवल्लोकस्य तृतीयत्वम् । न तु चतुर्मुखलोकस्य तृतीयत्वमिति मन्तव्यम् । प्रश्नोपनिषदि चतुर्मुखलोकस्यापि अन्तरिक्षलोककोटौ निवेशितत्वात् ।

प्रसङ्गात् भागवल्लोकचिह्नानि कनिचिदाह, तदैरम्मदीयम् इति । तत्र ऐरम्मदीयनारकं सर: अतीति शेष:। इरया अमृतेन माद्यन्ते यस्मिन्  तदैरम्मदीयम् अमृतमयं सर: इत्यर्थः । सोसवननामा अश्वत्थश्चास्ति इत्यर्थः । चन्द्रवदाह्लादकत्वात् सोमसवतत्वम् । तदपराजिता पूर्ब्रह्मण:- तत् – तत्र अब्रह्मविद्भि: प्राप्तुमशक्यत्वेन अपराजिता नाम परब्रह्मणः पूरी च अस्तीत्यर्थः । प्रभुविमितं हिरण्मयम् । मण्टपमिति शेषःप्रभुणा भगवता विशेषण मितं स्वभोगभूमित्वेन विशेषतः परिगृहीतम्  इत्यर्थः । भगवतः व्याप्तत्वेऽपि नित्यविग्रहविशिष्टतया सन्निधानात् विमितत्वम् ।अतश्च तद्देशविशिष्टब्रह्मप्रप्तिरेव ब्रह्मप्रप्ति: इति भावः ।।

 

[ब्रह्मचर्यस्य मुक्तिप्रयोजकत्वम्]

 

तद्य एवैतावरञ्च ण्यञ्चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति, तेषामेवैष ब्रह्मलोकः तेषाँ सर्वेषु लोकेषु कामचारो भवति ।। ।।

 

।। इति पञ्चमः खण्डः ।।

प्र.-प्रसङ्गादाह – तद्ये इत्यादि । ब्रह्मप्राप्तिसाधनीभूतारण्यशब्दितार्णवद्वयप्राप्तेः ब्रह्मचर्याधीनत्वात् ब्रह्मचर्यमेव सर्वसाधनोत्कृष्टमिति भावः ।।

।। इति पञ्चमखण्डभाष्यम् ।।

षष्ठः खण्डः

[उत्क्रान्तिनिरूपणम्]

 

अथ या एता हृदयस्य नाड्यः, ताः पिङ्गळस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति असौ वा आदित्यः पिङ्गळः एष शुक्ल एष नील एष पीत एष लोहितः ।।।।

 

प्र.-उक्तब्रह्मलोकप्राप्तिसाधनतया मूर्धन्यनाडीगमनं प्रस्तौति अथ इत्यादि । हृदयसम्बन्धिन्यः नाड्यः पिङ्गल-शुक्ल-नीलादिनानारूपसूक्ष्मान्नरससंपूर्णाः तिष्ठन्ति इत्यर्थः । असौ वा इत्यादि । आदित्यस्य पिङ्गलशुक्लनीलपीतादिनानारूपाश्रयत्वञ्च मधुविद्या प्रसिद्धम् , प्रत्यक्षसिद्धश । ततश्च एतद्रश्मिसम्बन्धादेव अन्नरसस्य नानारूपत्वं च इति भावः ।।

 

तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमञ्चामुञ्च, एवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छतीमञ्चामुञ्च अमुष्मादादित्यात् प्रतायन्ते ; ता आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते ; तेऽमुष्मिन्नादित्ये सृप्ताः ।। ।।

 

प्र.-तद्यथा इति । यथा विस्तीर्णो महान् पन्थाः ग्रामद्वयप्रविष्टः भवति, तथा आदित्यरश्मय: लोकद्वयानुप्रविष्टाः इत्यर्थः । लोकद्वयप्रवेशक्रममाह – अमुष्मात् इति । प्रतायन्ते – सन्तताः । सृप्ताः प्रविष्टाः । रश्मीनाम् उभयलिङ्गत्वात् ते ताः इति च निर्देश: । शिष्टं स्पष्टम् ।।

 

तद्यत्रैतत् सुप्तः समस्तः संप्रसन्नः स्वप्नं विजानाति, आसु तदा नाडीषु सृप्तो भवति तं कश्चन पाप्मा स्पृशति तेजसा हि तदा संपन्नो भवति ।। ।।

प्र. – तद्यत्र इत्यादि । तत् – तस्मादित्यर्थः । यत्र यदा समस्त: उपसंहृतकरणमण्डल: अत एव सम्प्रसन्नः – बाह्यविषयसंपर्कजनितकालुष्यशून्यः स्वप्नं विजानाति – न पश्यति इत्येतत् । स्वप्नादर्शनं सुषुप्तिरिति यावत् । तदा आसु नाडीषु सृप्तः – प्रविष्टः भवति । पुरीतद्गतब्रह्मगमनाय नाडीषु प्रविष्टः भवति इत्यर्थः ।

‘नाड्यो द्वासप्ततिः सहस्राणि हृदयात् पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते’ (बृ.उ.४-१-१९) इति श्रुत्यन्तरात् । नाडीपुरीतद्ब्रह्मणां समुच्चयेन सुषुभिस्थानत्वस्य तदभावो नाडीषु तच्छ्रुतेरात्मनि च’ (ब्र.सू. ३-२-७) इत्यत्र स्थितत्वात् नाडीनामपि सुषुप्तिस्थानत्वमस्तीति द्रष्टव्यम् । तन्न इत्यादि । सुषुप्तौ सतोऽपि कर्मण: फलजननसामर्थ्य नास्तीत्यर्थः । कश्चन पाप्मा स्पृशति इत्यस्मिन् वाक्ये अनुष्ठानाशक्तिः विवक्षिता इति व्यासार्यवचनस्यापि अयमेवार्थः । तत्र हेतुमाह – तेजसा इत्यादि । ‘सता सोम्य तदा सम्पन्नो भवति’ (छां.उ.६-८-१) इति श्रुतेः तेजश्शब्दः प्रकाशत्वगुणयोगात् ब्रह्मपरः । ब्रह्मणि सम्पत्तिर्नाम देहेन्द्रियाधिष्ठातृत्वराहित्येन ब्रह्मणि अवस्थानम् । सम्पत्यधिकरणस्य करणत्यविवक्षया तृतीयानिर्देशः ।।

 

अथ यत्रैतदबलिमानं नीतो भवति, तमभित आसीना आहुः, जानासि मां जानासि मामिति यावदस्माच्छरीरादनुत्क्रान्तो भवति, तावज्जानाति ।। ।।

प्र.-अथ इति । अथशब्दः अर्थान्तरप्रस्तावार्थः । अबलस्य भावः अबलिमा अबलत्वम् – रोगादिकृतदौर्बल्यं नीतो भवतीत्येतत् । यत्र यदा इत्यर्थः । यदा दौर्बल्यं प्राप्तवानित्यर्थः । तमभितः इत्यादि । तं ‘तादृशदशाविष्टं परित: वर्तमानाः बान्धवाः मां जानासि किं ? मां जानासि किम् ? इत्याहुः । यद्वा एतत् – एतासु नाडीषु स्थितः इत्यर्थः । यावत् इत्यादि । स्पष्टोऽर्थः ।।

 

अथ यत्रैतदस्माच्छरीरादुत्क्रामति, अथैतैरेव रश्मिभिरूर्ध्वं आक्रमते।स ओमिति वाहोद्वा मीयते यावत् क्षिप्येन्मनः, तावदादित्यं गच्छति एतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ।। ।।

प्र.-अथ इत्यादि । एतैरेव रश्मिभिः – पूर्वोक्तै: आदित्यरश्मिभिः इत्यर्थः । इदञ्च वाक्यम् उत्क्रान्तिपादे चिन्तितम् । निशि मृतस्य विदुषः रश्म्यनुसारेण गमनासम्भवात् रश्मिभिरेव गमनमिति न नियमः । ‘अर्थतैरेव रश्मिभिरूर्ध्वमाक्रमते’ इति वचनं तु पक्षप्राप्तविषयम् । एवकारः अत्यन्तायोगव्यवच्छेदार्थः इति पूर्वपक्षे प्राप्ते उच्यते ‘ रश्यनुसारी’ (ब्र.सू. ४-२-१७) । विद्वान् नियमेन रश्मीन् अनुसत्यैव गच्छति । एतैरेव रश्मिभिः’ इति एवकारस्य क्रियासङ्गतैवकारत्वाभावेन अत्यन्तायोगव्यवच्छेदकत्वासम्भवेन अन्ययोगव्यवच्छेदकत्वस्यैव वक्तव्यत्वात् । यदुक्तम् निशि मृतस्य रश्म्यसम्भवात् रश्मीन् अनुसृत्य गमनं नोपपद्यते इति – तन्न । निदाघसमये हि रात्रावपि ऊष्मोपलम्भात् रश्मिसम्भवः । हेमन्तादौ तु हिमाभिभवात् दुर्दिने इव ऊष्मानुपलम्भः । श्रूयते च नाडीरश्मीनां सर्वदा अन्योन्यान्वयः । ‘तद्यथा महापथ आतते उभौ ग्रामौ गच्छति इमञ्चामुञ्च, एवमेवैता आदित्यस्य रश्मयः उभौ लोकौ गच्छन्ति इमञ्चामुञ्च । अमुष्मादादित्यात् प्रतायन्ते, ता आसु नाडीषु सप्ताः । आभ्यो नाडीभ्यः प्रतायन्ते, तेऽमुष्मिन्नादित्ये सृप्ताः’ (छां.उ.८-६-२) इति – इति ।

ओमिति वाहोद्वा मीयते सः विद्वान्, ‘ओं तत् सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ (भ.गी.१७-२३), ‘तस्योदिति नाम’ (छां.उ.१-६-७) इति च प्रमाणप्रसिद्धं परमात्मानम् आह कीर्तयति, कीर्तयन्नेव च मीयते प्रमीयते च । मरणकाले तस्य भगवन्नामस्मरणं सम्भवति । यद्वा – सः एतैः रश्मिभिः उन्मीयते उन्नीयते च । एक: वाशब्दोऽवधारणार्थः । यावत् इति । मनोवेगेन आदित्यं सः गच्छतीत्यर्थः । न च  यावत्क्षिप्येन् मनः तावदादित्यं गच्छति इति त्वरावचनेन रश्म्यनुसारिमार्गस्य मार्गान्तरवैलक्षण्यप्रतीते: मार्गभेदः शङ्क्यः । ‘अर्चिरादिना तत्प्रथितेः’ (ब्र.सू.४-३-१) इत्यधिकरणे नानाशाखासु तस्यैव मार्गस्य प्रथितेः प्रत्यभिज्ञानात् अर्चिरादिः एकः एव मार्गः । अतः अर्चिरादिनैव मार्गेण विद्वान् गच्छतीति समर्थितत्वात् । ‘स यावत्क्षिप्येन्मनः’ इति त्वरावचनस्य, काश्मीरापेक्षया मगधान् क्षिप्रं गच्छतीतिवत् गन्तव्यस्वर्गाद्यपेक्षया आदित्यगमनस्य शैघ्र्येणापि उपपत्तेः न दोषः ।

एतद्वै इत्यादि । विदुषां – ब्रह्मलोकस्य द्वारं, प्रपदनं. – प्रपद्यते अनेन इति प्रपदनं – प्राप्तिसाधनम् यः आदित्यः । द्वारापेक्षया नपुंसकनिर्देशः एतत् इति । अविदुषाञ्च निरोधो – ‘रोधकः’ । अविद्वांसः हि सूर्यमण्डलभेदासामर्थ्यात् न गन्तुं शक्नुवन्ति इत्यर्थः ।।

 

[विदुषः मूर्धन्यनाड्या उत्क्रमणम् ]

तदेष श्लोकः

शतञ्चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङ्न्या उत्क्रमणे भवन्ति उत्क्रमणे भवन्ति ।।।।

 

।। इति षष्ठः खण्डः ।।

प्र.-तदेष श्लोकःतत् – तस्मिन्विषये एष: वक्ष्यमाणः श्लोकः प्रवृत्तः इत्यर्थः । शतञ्च इत्यादि । मूर्धन्यनाड्या गच्छन् मुक्तिं प्राप्नोति । विष्वङ्ङ्न्यानानागतयः इतरनाड्यस्तु उत्क्रमणमात्रे प्रभवन्ति । न तु अमृतत्वसाधनीभूत – ऊर्ध्वगतौ इत्यर्थः । यद्वा विष्वगुत्क्रमणे अन्याः नाड्यः उपयुज्यन्ते इत्यर्थः । शिष्टं स्पष्टम् ।।

 

।। इति षष्ठखण्डभाष्यम्

 

सप्तमः खण्डः

 

[प्रजापतिविद्या]

 

आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकाम:, सत्यसङ्कल्पः, सोऽन्वेष्टव्यः विजिज्ञासितव्यः सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति प्रजापतिरुवाच ।। ।।

प्र.-एवं दहरविद्यां समाप्य तदङ्गभूतां प्रत्यगात्मविद्या प्रस्तौति : आत्मा इत्यादि । यस्तम् इत्यादि । अत्र “अनुविद्य इति वाक्यार्थज्ञानम् उच्यते । विजानाति इति ध्यानम्” इति लघुसिद्धान्ते भाषितम् । शिष्टं स्पष्टम् ।।

 

तद्धोभये देवासुरा अनुबुबुधिरे ते होचुःहन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति । इन्द्रो हैव देवानामभिप्रवव्राज ; विरोचनोऽसुराणाम् तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ।। ।।

प्र. – तद्धोभये देवासुरा अनुबुबुधिरेतत् प्रजापतिवचनम् ऐतिह्यरूपेण देवा:, असुराश्च उभयेऽपि अनुबुबुधिरे श्रुतवन्तः इत्यर्थः । ते होचुः इत्यादि ।अन्विच्छाम‘अवगच्छामः’ इत्यर्थः । शिष्टं स्पष्टम् । इन्द्रो हैव इति । देवानां मध्य इन्द्रश्च, असुराणां मध्ये विरोचनश्च प्रजापतिसमीपं गन्तुं प्रस्थितौ इत्यर्थः । तो हासंविदानौ इति । असंविदानौ – परस्परासूयया परस्परसम्मन्त्रणम् अकुर्वन्तौ इत्यर्थः । शिष्टं, स्पष्टम् ।।

 

[इन्द्रविरोचनयोः ब्रह्मचर्यवासः]

 

तौ द्वत्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः तौ प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौ होचतुर्य आत्माऽपहतपाप्मा विजरो विमृत्युविंशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्प: सोऽन्वेष्टव्यः विजिज्ञासितव्यः  सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते तमिच्छन्ताववास्तमिति ।। ।।

प्र. तौ इत्यादि । द्वात्रिंशद्वर्षाणि शुश्रूषापरौ भूत्वा ब्रह्मचर्यं चेरतुः इत्यर्थः । तौ  इत्यादि । किं प्रयोजनमुद्दिश्य उषितवन्तौ इति पृष्टवान् इत्यर्थः । तौ होचतुःय आत्माऽपहतपाप्मा इत्यादि । य आत्माऽ पहत पाप्मा इत्यादि हि भगवतः पूज्यस्य तव वचः वेदयन्ते ऐतिह्यरूपेण जनाः । तमिच्छन्ताववास्तम् – तज्ज्ञानमिच्छन्तौ आवां ब्रह्मचर्यम् उषितवन्तौ इति तौ प्रजापतिं प्रत्यूचतुः इत्यर्थः । अवास्तम् इति पुरुषव्यत्ययः छान्दसः ।।

 

[ताभ्यां प्रजापत्युपदेशस्य प्रतिबिम्बात्मपरत्वग्रहः]

 

तौ प्रजापतिरुवाच एषोऽक्षिणि पुरुषो दृश्यते, एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्मेति अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति एष एवैषु सर्वेष्वन्तेषु परिख्यायत इति होवाच ।। ।।

 

।। इति सप्तमः खण्डः ।।

प्र. – तौ इत्यादि । अत्र, य एषोऽक्षिणि पुरुषो दृश्यते’ (छां.उ.४-१५-१) इति न इह अक्षिपुरुषः परमात्मा । एवं त्वेव ते भूयोऽनुव्याख्यास्यामि'(छां.उ.८-९-३) इत्युपक्रम्य स्वप्नाद्यव-स्थानाम् अभिधानात् । न चायं छायादिपुरुषः प्रजापतिना उपदिश्यते, आत्मजिज्ञासया उपसन्नयोः तयोः तदुपदेशायोगात् । आत्मत्वामृतत्वाभयत्वब्रह्मत्वाद्ययोगाच्च । अतः अत्र प्रजापतिना प्रत्यगात्मैव उपदिश्यते । न च इह अक्षिणि जीवस्थितिः उपदिश्यते, अपि तु अक्षिप्रसादविकाराभ्यां जीवस्य स्थितिगती निश्चीयेते । अतः अक्ष्णोः जीवस्थितिगतिसूचकत्वात् अक्षिणि दृश्यते इत्युक्तम् । कर्मणः सामर्थ्यसूचकत्वाभिप्रायेण, अस्मिन् कर्मणि अस्य सामर्थ्यं दृष्टमितिवत् । ततश्च गृहे स्थित्वा निर्गच्छन् पुरुषः यथा गृहात् अन्यः, एवं शरीरे स्थितिगतिमान् आत्माऽपि शरीरात् अन्यः इत्युक्तं भवति । अमृतम् इति निरतिशयसुखरूपत्वम्, अभयम् इति दुःखासंभिन्नत्वम्, ब्रह्म इति असङ्कुचितविज्ञानतया बृहत्वं च उक्तम् इति व्यासायैः उक्तम् ।

अथ इत्यादि । एवं प्रत्यगात्मनि प्रजापतिना उपदिष्टे, छायापुरुषः आत्मा इत्युपदिष्टः इति भ्रान्त्या स्वगृहीतच्छायापुरुषात्मत्वदृढीकरणाय जलादर्शादिप्रतिबिम्बोऽपि अक्षिप्रतिबिम्बाभिन्नात्मैव ? उत तद्भिन्नोऽनात्मा ? इत्यभिप्रायेण पप्रच्छतुः इत्यर्थः । एवं ताभ्यां पृष्टः प्रजापतिः तयोः भ्रान्तिम् अनिराकुर्वन्नेव आह – एष इत्यादि । यः चक्षुषि दृश्यत्वेन मया उक्तः, सः आत्मा सर्वान्तर: जलादिष्वपि न भिद्यते इत्युत्तरं ददौ इत्यर्थः । शिष्यभ्रान्तिम् अनिराकृत्य तद्भ्रान्तिदृढीकरणाय इत्थम् उत्तरं ददत: आचार्यस्य अयम् अभिप्राय: – सुरासुरेन्द्रौ इन्द्रविरोचनौ स्वात्मनि अध्यारोपितपाण्डित्यमहत्त्वातिशयौ; तथैव जगति प्रसिद्धौ च । तद्यदि, ‘युवां भ्रान्तौ’ इति ब्रूयाम्, तदा चित्तावसादात् पुनः प्रश्नग्रहणधारणेषु भग्नोत्साहौ स्याताम् । अतः यथाश्रुतप्रश्नमात्रस्य उत्तरमिदानीं वक्तव्यमिति । अनेन च उत्तरेण पूर्वोत्पन्नप्रतिबिम्बात्मभ्रमः दृढीभवति चेत् – भवतु । दृढीभूतोऽपि स भ्रम: उदशरावनिरीक्षणनियोजनोपायेन अपनेष्यते इति च । अत एव तद्भ्रमापनयनार्थमेव ‘उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथः तन्मे प्रब्रूतमिति’ (छां.उ.८-८-१) उदशरावावेक्षणे तो नियुयोज । अत्र व्यासार्यै: एतादृशाभिप्रायपरिकल्पनस्य अतिक्लिष्टत्वात् , वोऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति एष एवैषु सर्वेष्वन्तेषु परिख्यायते इत्येतावान् सर्वोऽशोऽपि प्रश्नः एव । प्रश्नवाक्यमध्यगत: इतिशब्दः प्रश्नान्ते निवेशितव्यः । इति होवाच इत्येतत् उत्तरस्य उदशरावब्राह्मणस्य शेषभूतम् । ‘उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथः, तन्मे प्रब्रूतमिति’ इति होवाच इत्युत्तरेणान्वयः । तत्र च एक: इतिशब्दः समाप्तिद्योतकः । अन्यस्तु प्रकारवचनः । अथवा कतम एष इति इत्यत्र इतिशब्दः वक्ष्यमाणवचनः । अन्यत्र तु उक्तवचनः । यद्वा प्रश्नवाक्ये प्रथमः इति शब्द: प्रकारवचनः, द्वितीयस्तु प्रश्नसमाप्तिद्योतकः । स होवाच इति तु उत्तरशेषभूतम् । प्रब्रूतम् इति सहोवाच इत्यन्वये इत्येवं न इति शब्दद्वयवैयर्थ्यम् इत्यभिप्रेत्य प्रजापतिहृदयानभिज्ञानेन छायापुरुषः उपदिष्टः इति मत्वा पुनः पप्रच्छतुः योऽयं भगवोऽप्सु परिख्यायत इत्यादिना । ‘सर्वेष्वन्तेषु नेत्रादिस्थानेषु परिख्यायते कतम एष इत्यर्थः’ इत्युक्तम् । चक्षुरादिप्रतिबिम्बः एव आत्मा इति स्वग्रहणदाढ्यार्थै पुनरपि पप्रच्छतुरिति भावः । अप्सु परिख्यायते, आदर्शे परिख्यायते इत्येवं प्रकारेण जलादिष्वन्तेषु स्थानेषु यः दृश्यते, स नेत्रे दृश्यमानः एषः भवदुक्तः एव किम् ? उत अन्यः ? कतमः एषः ? इत्यर्थः इति व्यासार्याणाम् अभिप्रायः ।।

 

।। इति सप्तमखण्डभाष्यम् ।।

 

अष्टमः खण्डः

 

[इन्द्रविरोचनयोः उदशरावे आत्मदर्शनम्]

 

उदशराव आत्मानमवेक्ष्य यदात्मनो विजानीथः तन्मे प्रब्रूतमिति तौ होदशरावेऽवेक्षाञ्चक्राते तौ प्रजापतिरुवाचकिं पश्यथ इति तौ होचतुः, सर्वमेवेदमावां भगवआत्मानं पश्याव आलोमभ्य आनखेभ्यः प्रतिरूपमिति ।।।।

प्र.-उदशरावे इत्यादि । उदकपूर्णे ‘शरावे’ आत्मानं दृष्ट्वा आत्मसम्बन्धिनम् अनुपपन्नतया भासमानं सम्यक् अनवगतमंशं युवां वदतम् इति इत्युक्तवान् इत्यर्थः । तौ होदशरावेऽवेक्षाञ्चक्राते – तौ प्रतिबिम्बम् अवलोकितवन्तौ । अवलोक्यापि दोषास्फुरणात् तूष्णीम् उषितवन्तौ । तयोः अनुपपत्त्यस्फूर्ति ज्ञात्वा, किं पश्यथ इति स्वयमेव प्रजापतिरुवाच इत्याह –तौ प्रजापतिरुवाच किं पश्यथ इति तो होचतुः इत्यादि । इदं प्रतिरूपम् आत्मानं पश्यावः इति प्रतिबिम्बात्मभ्रममेव उद्घाटितवन्तौ इत्यर्थः ।।

 

तौ प्रजापतिरुवाच साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावे अवेक्षेथामिति तौ साध्वलङ्कृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षाञ्चक्राते । तौ प्रजापतिरुवाच किं पश्यथ इति

प्र.-तौ प्रजापतिरुवाच इत्यादि । स्पष्टोऽर्थः ।।

 

तौ होचतुःयथैवेदमावां भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ स्वःएवमेवेमौ भगवः साध्वलङ्कृतौ सुवसनौ परिष्कृतौ इति एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्मेति तौ शान्तहृदयौ प्रवव्रजतुः

प्र.-तौ होचतुः इत्यादि । आवां साध्वलङ्कतौ सुवसनौ परिष्कृतौ भवाव: इतीदं यथैव तथैव इमावपि प्रतिबिम्बौ साध्वलङ्कारादियुक्तौ इति प्रत्यूचतुः इत्यर्थः । अत्र उदशरावावेक्षणालङ्कृतदेहप्रतिबिम्बनिरीक्षणयोः नियुञ्जानस्य प्रजापतेः अयमभिसन्धि; आगमापायशालि – द्वात्रिंशद्वर्षब्रह्मचर्यदीर्घाभूतकेश-नख-वस्त्रालङ्कारादिलक्षणदोषगुण-युक्ताव्यवस्थितदेहानुकारिदोषगुणवत्त्वात् देहवत् तत्प्रतिबिम्बोऽपि अनात्मा निरतिशयसुखत्व -दुःखासंभिन्नत्वलक्षणामृतत्वाभयत्वशून्यः इति जानीतमिति । एवं द्विविधनियोजनेऽपि तयोः अप्रक्षीणकल्मषतया दोषादर्शनेन प्रतिबिम्बात्मभ्रमः नापनीतः । ततः प्रजापतिः, भ्रान्तिनिवारणार्थं मया कृतस्य द्विविधप्रतिबिम्बदर्शनस्य अभिप्रायम् इमौ अप्रक्षीणकल्मषत्वात् न अवगच्छतः । प्रत्यक्षम्, युवां भ्रान्तौ इति वक्तुमपि अनर्हौ । तदिदानीम् एतदीयहृदयानुरोधेन प्रतिबिम्बमेव निर्दिश्य सर्वान्तरं परमात्मानं मनसि निधाय एषः एव आत्मा इत्युपदेशेन तयोः आकाङ्क्षां निवर्तयिष्यामि । कालेन कल्मषे प्रक्षीणे मद्वचनसन्दर्भस्य सर्वस्यापि अभिप्रायं स्वयमेव अवगमिष्यतः इति, विचिकित्समानौ वा मत्समीपम् आगमिष्यतः इति मत्वा आह – एष इत्यादि । स्पष्टोऽर्थः । तौ इत्यादि । शान्तहृदयौ – निवृत्ताकाङ्क्षौ इत्यर्थः ।।

 

[विरोचनस्य देहात्मग्रहणेनैव तृप्तता]

 

तौ हान्वीक्ष्य प्रजापतिरुवाचअनुपलभ्यात्मानमननुविद्य व्रजतः यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा, ते पराभविष्यन्तीति ।  शान्तहृदय एव विरोचनोऽसुरान् जगाम तेभ्यो हैतामुपनिषद प्रोवाचआत्मैवेह महय्य आत्मा परिचर्यः आत्मानमेवेह महयन्नात्मानं परिचरन् उभौ लोकाववाप्नोतीमञ्चामुञ्चेति ।। ।।

प्र.-तो हान्वीक्ष्य प्रजापतिरुवाच । एवं तयोः प्रतिनिवृत्तयोः सतोः प्रजापतिः भ्रान्तिगृहीतार्थश्रद्धया इमौ विनष्टौ मा भूताम्, इदमपि मद्वचनम्, ‘य आत्मा’ इति वचनवत् कर्णाकर्णिकया शृणुताम् इत्यभिप्रेत्य उवाच इत्यर्थः । उक्तिमेवाह – अनुपलभ्य इत्यादि । एतौ इन्द्रविरोचनौ आत्मस्वरूपं श्रवणमननाभ्याम् अज्ञात्वा व्रजत: गच्छतः । यतरे देवा वा असुरा वा एतदुपनिषदो भविष्यन्ति । उपनिषच्छब्दः उपदेशपरः । अनयोः उपदेशात् ‘भ्रान्तिगृहीतार्थ’निश्चया: ये भविष्यन्ति, ते पराभविष्यन्ति नित्यसंसारिणः भविष्यन्ति इत्यर्थः ।

इत्यादि । विरोचनस्तु प्राजापत्यस्य द्विविधदेहच्छायादर्शननियोगस्य, देहानुकारित्वात् छायायाः देहः एव आत्मेति सूचने तात्पर्यम् – अलङ्कृतदेहच्छायां निर्दिश्य ‘एष आत्मा’ इत्युपदेशस्य, ‘नीलानीलयोः आदर्शे दृश्यमानयोः वाससोः यत् नीलं तत् महार्घम्’ इति वचनस्य छायानिमित्ते वाससीव, अलङ्कृतदेहे तात्पर्यमिति मन्वानः, ‘देह एवात्मा अलङ्कारादिभिः परिचरणीयः’ इति निश्चित्य राज्यं प्राप्य असुरेभ्यः तथा उपादिक्षत् इत्यर्थः । आत्मैवेह महय्य इत्यादि । आत्मैव – देहः एव, महय्यः पूज्य: इत्यर्थः । उभौ लोकौ इति । सर्वलोकसुखानुभवोऽपि शरीरगत: एवेति भावः । शिष्टं स्पष्टम् ।।

 

तस्मादप्यद्येहाददानमश्रद्दधानमयजमानमाहुः, आसुरो बतति असुराणाँ ह्येषोपनिषत् प्रेतस्य शरीरं भिक्षया वसनेनालङ्कारेणेति सँस्कुर्वन्ति एतेन ह्यमुं लोकं जेष्यन्तो मन्यन्ते

 

।। इति अष्टमः खण्डः ।।

प्र.-स सम्प्रदाय: अद्यापि अनुवर्तते इत्याह तस्मात् इत्यादि । यस्मात् असुरेभ्यः एव इयमुपनिषत् प्रवृत्ता, ‘तस्मात्’ यागदानश्रद्धा वैमुख्य हेतुभूता नास्तिक्यबुद्धिः असुराणामेव हि । अत एव तादृशं पुरुषं जनाः असुरमाहुः इत्यर्थः । प्रेतस्य शरीरम् इत्यादि । यतः एवं देहस्यैव आत्मतया परिचरणीयत्वम्, अत एव प्रेतस्य – मृतस्य शरीरं भिक्षित्वा वस्त्रालङ्कारादिभिः पूजयन्ति । कुणपसंस्कारेणैव परलोकजयं मन्यमानाः इत्यर्थः ।।

 

।। इति अष्टमखण्डभाष्यम् ।।

नवमः खण्डः

[अतृप्तेन इन्द्रेण पुनः गुरूपसदनम् ]

 

अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श यथैव खल्वयमस्मिन् शरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति, सुवसने सुवसनः, परिष्कृते परिष्कृतःएवमेवायमस्मिन्नन्धेऽन्धो भवति, स्त्रामे स्रामः, परिवृक्णे परिवृक्णः अस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ।।।।

प्र.-अथ इत्यादि । इन्द्रस्य शुद्धान्तःकरणत्वात् देहात्मभ्रमोऽपि नाभूत् । सः स्वराज्यं प्राप्य देवेभ्यः तदुपदेशात् प्रागेव मध्येमार्गं प्रतिबिम्बात्मन्यपि इमं वक्ष्यमाणं दोषम् अपश्यत् इत्यर्थः । यथैव इत्यादि । अयं देहप्रतिबिम्ब: इत्यर्थः । परिष्कृते अपाकृतनखलोमादिके इत्यर्थः । एवमेव इत्यादि । नासिका यस्य सदा स्रवति, स स्रामः । ‘छिन्न’पाणिपादः परिवृक्णः । प्रतिबिम्बस्य बिम्बभूतशरीरगतसाध्वलङ्कृृतत्व-सुवसनत्वपरिष्कृ तत्वानुविधायित्ववत् तद्गतान्ध्य – स्राम्य – परिवृक्णत्व-नाशानुविधायित्वावश्यंभावेन अमृतत्वाभयत्वात्मत्वादिकं न सम्भवति इति अमन्यत इत्यर्थः ।।

 

समित्पाणिः पुनरेयाय तँ प्रजापतिरुवाचमघवन् यच्छान्तहृदयः प्राव्राजी:, सार्धं विरोचनेन, किमिच्छन् पुनरागम इति होवाच यथैव खल्वयं भगवोऽस्मिन् शरीरे साध्वलङ्कृते साध्वलङ्कृतो भवति, सुवसने सुवसनःपरिष्कृते परिष्कृतः, एवमेवायमस्मिन्नन्धेऽन्धो भवति, स्त्रामे स्रामः, परिवृक्णे परिवृक्णोऽस्यैव शरीरस्य नाशमन्वेष नश्यति नाहमत्र भोग्यं पश्यामीति ।। ।।

प्र. – समित्पाणिः इत्यादि । सः इन्द्रः एयाय । प्रजापतिमिति शेषः । मघवन् इति । हे मघवन् ! शान्तहृदयः शान्तदोषशङ्कः विरोचनेन सार्धं यत् यस्मात् त्वं प्राव्राजी: गतवान्, सः किं प्रयोजनमभिलषन् पुनरागतोऽसि ? इत्यर्थः । आगम इति गमेर्लुंङि ङित्वादङ्’ । होवाच इति । उक्तोऽर्थः ।।

 

एवमेवैष मघवन्निति होवाच, एतं त्वेव ते भूयोऽनुव्याख्यास्यामि । वसापराणि द्वात्रिँशतं वर्षाणीति हापराणि द्वात्रिँशतं बर्षाण्युवास तस्मै होवाच ।। ।।

 

।। इति नवमः खण्डः ।।

 

प्र.-एवम् इत्यादि । हे मघवन् ! त्वदुक्तं सत्यमेव । उक्तमिममेव आत्मानं पुनरपि त्वदुक्तदोषशून्यतया प्रतिपादयिष्यामि । अन्तःकरणशुद्ध्यर्थम् इतोऽपि द्वात्रिँशतं वर्षाणि ब्रह्मचर्यं वसेति प्रजापत्याज्ञप्त: मघवान् तथैव कृतवान् इत्यर्थः । तस्मै होवाच । एवम् उषितवते इन्द्राय प्रजापति: वक्ष्यमाणम् उवाच इत्यर्थः ।।

 

।। इति नवमखण्डभाष्यम् ।।

 

दशमः खण्डः

 

[इन्द्राय स्वप्नपुरुषोपदेशः]

 

एष स्वप्ने महीयमानश्चरति, एष आत्मेति होवाच एतदमृतमभयमेतत् ब्रह्मेति शान्तहृदयः प्रवव्राज हाप्राप्यैव देवानेतद्भयं ददर्श । तद्यद्यपीदँ शरीरमन्धं भवति, अनन्धः भवति ; यदि स्रामम्, अस्रामः। नैवैषोऽस्य दोषेण दुष्यति ।। ।।

 

वधेनास्य हन्यते, नास्य स्राम्येण स्रामः घ्नन्ति त्वेवैनं विच्छादयन्तीवअप्रियवेत्तेव भवति अपि रोदितीव नाहमत्र भोग्यं पश्यामीति ।। ।।

प्र.- एष ब्रह्मेति यः स्वप्ने स्त्र्यादिभिः महीयमान: – पूज्यमानः चरति, एषः स्वप्नद्रष्टा निरतिशयसुखत्वादि’लक्षणामृतत्वादियुक्त:’ आत्मा इत्युक्तवान् इत्यर्थ: । नायं पूर्वोक्तदेहगत आन्ध्यसाम्याद्यनु विधायित्वलक्षणदोषदुष्टः इति भावः । ह शान्त……ददर्श इत्यादि । उक्तोऽर्थः । तदेवाह – तद्यद्यपि……स्रामः । तदिदं शरीरं यद्यप्यन्धं भवति, तथाऽपि सोऽनन्धः भवतीति योजना । सः स्वप्नात्मा । शिष्टं स्पष्टम् ।। १ ।।

वधेनास्य……स्रामः । स्वप्नात्मेति शेषः । स्पष्टोऽर्थः । घ्नन्ति त्वेवैनं विच्छादयन्तीव । एवशब्द इवार्थः । एनं स्वप्नात्मानं केचन घ्नन्तीव, केचन विच्छादयन्ति द्रावयन्तीव भान्ति इत्यर्थः । अप्रिय……पश्यामीति । हन्यमानत्व-द्राव्यमाणत्व-बन्धुजनमरणाद्यप्रियवेत्तृत्व-रोदितृत्वादिदर्शनात् स्वप्नावस्थस्य न भोग्यत्वम् इत्यर्थः ।। २ ।।

 

समित्पाणि: पुनरेयाय तँ प्रजापतिरुवाचमघवन् यच्छान्तहृदयः प्राव्राजी:, किमिच्छन् पुनरागम इति सहोवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः भवति, यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ।। ।।

 

वेधेनास्य हन्यते नास्य स्राम्येण स्रामः घ्नन्ति त्वेवैनं विच्छादयन्तीव । अप्रियवेत्तेव भवति अपि रोदितीव नाहमत्र भोग्यं पश्यामीति एवमेवैष मघवन्निति होवाच एतं त्वेव ते भूयोऽनुव्याख्यास्यामि वसापराणि द्वात्रिँशतं वर्षाणीति अपराणि द्वात्रिँशतं वर्षाण्युवास तस्मै होवाच ।। ।।

 

।। इति दशमः खण्डः ।।

प्र. – समित्पाणिः इत्यादि । उक्तोऽर्थः ।। ३-४ ।।

 

।। इति दशमखण्डभाष्यम् ।।

 

एकादशः खण्डः

 

[सुषुप्तपुरुषोपदेशः]

 

तद्यत्रैतत्सुप्तः समस्त: संप्रसन्नः स्वप्नं विजानाति, एष आत्मेति होवाचएतदमृतमभयमेतद्ब्रह्मेति शान्तहृदयः प्रवव्राज हाप्राप्यैव देवानेदद्भयं ददर्शनाह खल्वयमेवँ संप्रत्यात्मानं जानात्ययमहमस्मीति ; नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ।। ।।

प्र. – तद्यत्रैतत्सुप्तः इत्यादि । यत्र यदा, तदेतत् – स एष पुरुषः । ‘सुपां सुलुक् (पा.सू.७-१-३९) इति सोर्लुक्’ । समस्त: उपसंहृतकरणग्रामः । संप्रसन्नः – बाह्यविषय-संपर्कजनितकालुष्यरहितः । शिष्टं स्पष्टम् । इत्यादि । उक्तोऽर्थः । दोषदर्शनमेवाह –नाह खलु इत्यादि । अह इत्याश्चर्ये । अयं सुषुप्तः संप्रति सुषुप्तिकाले अयमहमस्मीति विशेषज्ञानाभावेन स्वेतरभूतविषयकज्ञानाभावेन च सुषुप्तः विनष्टप्रायः इत्यर्थः । विनाशमेव विनाशमिव । अपीत: अपि इतः। इतिच्छेदः । विनष्टप्रायः इत्यर्थः ।।

समित्पाणि: पुनरेयाय तेँ प्रजापतिरुवाचमघवन् यच्छान्तहृदयः प्राव्राजी: किमिवेच्छन् पुनरागम इति होवाच नाह खल्वयं भगव एवँ संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ।। ।।

 

प्र.- समित्पाणिः इत्यादि । उक्तोऽर्थः ।।

 

एवमेवैष मघवन्निति होवाच, एतं त्वेव ते भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैतस्मात् वसापराणि पञ्च वर्षाणीति सहापराणि पञ्च वर्षाण्युवास । तान्येकशतँ संपेदुः एतत् तत्, यदाहुः, एकशतँ वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास तस्मै होवाच ।। ।।

 

।। इति एकादशः खण्डः ।।

प्र. – एवम् एतस्मात् पूर्वोक्तात् अन्यत्र इतरत् नो व्याख्यास्यामि । किन्तु एतमेव पूर्वोक्तमेव ‘निर्दोषतया व्याख्यास्यामि इत्यर्थः । तान्येकशतं संपेदुः । तानि वर्षाणि आहत्य एकशतं सम्पन्नानि इत्यर्थः । एतत् इत्यादि । एकशतसंवत्सरान् इन्द्रः प्रजापतेः सन्निधौ ब्रह्मचर्य चरन् उवास इति लोके प्रसिद्धतया यदाहुः, तत् एतत् एवं विधम् – अनेन प्रकारेणेति यावत् । तस्मै होवाच । एकशतवर्षब्रह्मचर्यनिर्मलीकृतान्तः-करणाय मघवते ‘शुद्धात्मस्वरूप योग्यतां परीक्ष्य उपादिक्षत् इत्यर्थः । अनया च आख्यायिकया बहुकालब्रह्मचर्यनिर्मलीकृतान्तःकरणतया संपन्नोपदेशयोग्यत्वाय उपदेष्टव्यम् इत्यर्थः सूच्यते ॥

 

इति एकादशखण्डभाष्यम् ।।

द्वादशः खण्डः

 

[ब्रह्मचर्यानन्तरं आत्मतत्त्वोपदेशः]

 

मघवन् मयं वा इदँ शरीरमात्तं मृत्युना तदस्यामृतस्याशरीरस्यात्मनः अधिष्ठानम् आत्तो वै सशरीरः प्रियाप्रियाभ्याम् वै सशरीरस्य सतप्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः ।। ।।

 

प्र.-मघवन् इत्यादि । वाशब्द एवार्थे । हे मघवन् ! इदं शरीरमेव हि मर्त्यम् – मरणधर्मि । न केवलं मरणमित्वमात्रम्, अपि तु मृत्युना आत्तम् तद्व्याप्तञ्च । सततविनाशशीलम् इति यावत् । इदञ्च शरीरे हेयत्वानुसन्धानार्थमुक्तम् । एवंभूतं तदिदं शरीरं कर्मकृतशरीरराहित्यलक्षणामृतत्वस्वरूपस्य आत्मनः भोगाधिष्ठानम् । कर्मवशेन जीवेन भोगार्थं परिगृहीतम् इत्यर्थः । ततश्च अशरीरत्वमेव स्वरूपम् । सैव अमृतत्वलक्षणा मुक्ति: ; सशरीरत्वमेव तदभावः इत्युक्तं भवति । ननु पुरुषार्थस्य हि मुक्तिरूपत्वं वक्तव्यम्, न ह्यशरीरत्वं पुरुषार्थः । अपितु दुःखाभावः, ततश्च तस्यैव अमृतत्वरूपत्वम् उचितम् ; न तु अशरीरत्वस्य इत्यत्राह – आत्तो वै इति । स्पष्टोऽर्थः । तदेव उपपादयति – इति । कर्मारब्धशरीरयोगिनः तदनुगुणसुखदुःखयोगस्य अवश्यंभावित्वात् कर्मणा आरब्धदेहसम्बन्धा भावस्य’ पुरुषार्थतया मुक्तिरूपत्वम् उपपद्यते इति भावः । व्यतिरेकं दर्शयति – अशरीरम् इति । वाव शब्द: प्रसिद्धौ ; अवधारणे वा । शिष्टं स्पष्टम् ।।

[जीवस्य परमात्मप्राप्तिः]

अशरीरो वायुः ; अभ्रं विद्युत् स्तनयित्नुः अशरीराण्येतानि तद्यथैतानि अमुष्मादाकाशात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्तेएवमेवैष संप्रसादोऽस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ।। ।।

 

प्र.-अशरीरो वायुः – शिरःपाण्यादिलक्षणशरीरशून्यः वायुः इत्यर्थः । अभ्रम् इति । अभ्रादीनि च अशरीराणि इत्यर्थः । ‘अभ्रं भूत्वा मेघो भवति’ (छां.उ.५-१०-६) इत्यादिवत् अभ्रस्तनयित्नोः अवस्थाभेदेन भेदः द्रष्टव्यः । अशरीराणाञ्च प्रियाप्रियानन्वयः ‘दृष्टः’ इति भावः । तद्यथा इत्यादि । अत्र व्यासार्यै:, ‘वाय्वादीनामाकाशात् समुत्थानं नाम स्वकार्यकरणाय ऊर्ध्वदेशे अभिवृद्धिः । परशब्दो वाय्वादीनां कारणावस्थावाची । ज्योतिश्शब्दस्तु कारणानां कार्योत्पादनद्वारेण तदभिव्यञ्जकतया प्रयुक्तः । वाय्वादीनि च कारणद्रव्यमुपगम्य कार्यावस्थां हित्वा कारणसदृशेन रूपेण विशिष्टानि भवन्ति । वायुर्हि आवहप्रवहादिरूपेण सप्तविधत्वं हित्वा वायुत्वमात्रेण अवतिष्ठते । विद्युत्तु विद्युत्त्वं हित्वा तेजस्त्वेन । अभ्रस्तनयित्नू च अभ्रत्वादिप्रहाणेन स्वकारणभूतरूपेण । एवं जीवोऽपि मार्गविशेषेण देशविशेषविशिष्टं परं ब्रह्म प्राप्य संसार्यवस्थाप्रहाणेन परमात्मतुल्यरूपेण आविर्भवति इत्येवमर्थे सत्येव दृष्टान्तदार्ष्टान्तिकवाक्यसामञ्जस्यं भवति’ इति वर्णितम् । इदञ्च वाक्यं फलपादे चिन्तितम् । ‘स्वेन रूपेणाभिनिष्पद्यते’ इति देवादिरूपवत् साध्येन रूपेणाभिनिष्पत्तिः उच्यते । अभिनिष्पत्तिशब्दस्य आगन्तुकधर्मोत्पत्तिपरत्वात् । स्वशब्दः स्वात्मीयवचनः । आगन्तुकस्यापि रूपस्य आत्मीयत्वात् स्वेनरूपेण इत्युपपद्यते । न तु ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यत्र स्वशब्दस्य आत्मार्थकत्वं वा निष्पत्तिशब्दस्य आविर्भावार्थकत्व वा युक्तम् । स्वरूपस्य नित्यत्वेन तत्प्राप्ते: अपुरुषार्थत्वप्रसङ्गादिति पूर्वपक्षे प्राप्ते, उच्यते – ‘सम्पद्याविर्भावः स्वेन शब्दात्’ (ब्र.सू. ४.४.१) । परंज्योतिरुपसंपद्य स्वस्य रूपस्यैव आविर्भावः । न तु आगन्तुकात्मीयधर्मोत्पत्तिः । तथा हि सति ‘स्वेनरूपेणाभिनिष्पद्यते’ इत्यत्र ‘स्वेन’ शब्दवैयर्थ्यप्रसङ्गात् । अतः स्वशब्दः न आत्मीयवचनः अपि तु आत्मवचनः एव । आविर्भावऽपि अभिनिष्पत्तिशब्दः रश्यते, ‘युक्त्याऽयमर्थो निष्पन्नः, ‘इदमेकं सुनिष्पन्नम्’ इत्यादिषु । ननु आत्मनः पूर्वसिद्धत्वात् कथं तस्य पुरुषार्थत्वम् ? तत्राह – ‘मुक्तः प्रतिज्ञानात्’ (ब्र.सू. ४.४.२) ‘स्वेन रूपेणाभिनिष्पद्यते’ इत्यस्य मुक्तः भवति इत्यर्थः । निवृत्ताविधातिरोधानः भवतीति यावत् । कथमिदमवसीयते इति चेत् – प्रतिज्ञानात् । जागराद्यवस्थात्रयकलुषितं जीवं प्रस्तुत्य, ‘एतं त्वेव ते भूयोऽनुव्याख्यास्यामि, नो एवान्यत्रैतस्मात्’ इति तस्यैव अशरीरत्वलक्षणमुक्तत्वम्, ‘मघवन् मर्त्यं वा इदं शरीरम्’ इत्यादिना चतुर्थेन पर्यायेण प्रतिपादयिष्यामीति प्रतिज्ञानात् । निवृत्ताविद्यातिरोधानस्य स्वेन रूपेण साध्यत्वमस्त्येव इति न पुरुषार्थत्वहानिः ।

ननु निवृत्ततिरोधानस्यापि आत्मस्वरूपस्य कथञ्चित् साध्यत्वसम्भवेऽपि तस्य न पुरुषार्थत्वे प्रमाणमस्ति इत्यत्राह – ‘आत्मा प्रकरणात्’ (ब्र.सू.४-४-३) । ‘य आत्माऽपहतपाप्मा’ इत्यादि वाक्यसन्दर्भप्रतिपाद्यापहतपाप्मत्वादिगुणाष्टकविशिष्टतया अत्यन्तानुकूलत्वेन परमपुरुषार्थभूतोऽयमात्मा । अपहतपाप्मत्वादीनां कथं जीवसम्बन्धित्वम् इत्यत्राह प्रकरणात् इति । अवस्थात्रयकलुषितं जीवं प्रकृत्यैव अपहतपाप्मत्वादिगुणानाम् आम्नानात् इत्यर्थ इति स्थितम् ।

‘स्वेन रूपेणाभिनिष्पद्यते’ इत्युच्यमानं स्वरूपं ‘किमित्याकांक्षायाम्’ अस्मिन् प्रकरणे अपहतपाप्मत्वादिगुणानामेव उपन्यासात्, सत्यसङ्कल्पत्वकार्यजक्षणादिभ्यश्च, ब्रह्मसम्बन्धिना अपहतपाप्मत्वादिगुणलक्षणेन रूपेण आविर्भवतीति जैमिनिराचार्यों मन्यते इति, ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’ (ब्र.सू.४-४-५) इति जैमिनिमतम् उपन्यस्य,  ‘प्रज्ञानधन एव’, (बृ.उ.६-५-१३) विज्ञानघन एव’ (बृ.उ.४-४-१२) इति ज्ञानैकरसत्वाम्नानेन निर्धर्मकत्वप्रतिपादनात्, ज्ञानमात्रस्वरूपेण आविर्भवतीति, ‘चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः’ (ब्र.सू.४-४-६) इत्यौडुलोमिमतम् उपन्यस्य, एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः’ (ब्र.सू.४-४-७) इति स्वसिद्धान्तमाविष्कृतवान् । तस्य च अयमर्थः । एवमपि विज्ञानघनत्वेऽपि अपहतपाप्मत्वाद्युपन्यासेन, ‘ब्राह्मेण जैमिनिरुपन्यासादिभ्यः’ (ब्र.सू.४-४-५) इति पूर्वसूत्रोक्तब्रह्मरूपस्यापि संभवात्, सैन्धवघनस्य कृत्स्नस्य रसनेन्द्रियावगतरसघनत्वस्य चक्षुराद्यवगतरूपकाठिन्यादेश्च अविरोधवत् मानान्तरावगतब्राह्मरूपस्य च मानान्तरावगतविज्ञानघनत्वस्य च अविरोधः इति बादरायणः आचार्यो मन्यते ; ‘विज्ञानघन एव’ इत्येवकारस्य स्वप्रकाशत्वाव्याप्तांशनिषेधमात्रपरत्वात् इति स्थितम् । यत्परैरुक्तम्, ‘शरीरात् समुत्थाय-शरीरे आत्माभिमानं हित्वा स्वेन रूपेण परमात्मरूपेण साक्षात्कृत्य परं ज्योतिर्भवति – परमात्मा भवति इत्यर्थः । न तु शरीरादुत्क्रमणं देशान्तरगमनं वाऽत्र विवक्षितम्’ इति – तदसत्, अपदार्थत्वात् । न हि ‘शरीरात् समुत्थाय’ इत्यस्य शरीरे आत्माभिमानं हित्वा इत्यर्थो भवति । स्वरूपसाक्षात्कारलक्षणस्वरूपाभिनिष्पत्त्यनन्तर-भाविनः परंज्योतिर्भावस्य च ‘परंज्योतिरुपसंपद्य’ इति पूर्वकालतया निर्देशः न युक्तः । न हि सर्पात् समुत्थाय रज्जुमुपसंपद्य इति च प्रयोगः दृष्टचरः । वाय्वभ्रादिदृष्टान्तवैरूप्यञ्च स्पष्टमेव । किञ्च निर्विशेषब्रह्मभावोऽत्र परज्योतिरुपसंपद्य इत्यनेन विवक्षितश्चेत् सुषुप्तिदशोद्घाटितस्य विशेषविज्ञानाभावप्रयुक्तनष्टप्रायत्वदोषस्य अपरिहृततया तद्दोषपरिहाराय मुक्त्यवस्थोपदेशासाङ्गत्यं स्यात् इत्यास्तां तावत् ।।

 

[परमपदप्राप्तस्य जीवस्य वर्णनम्]

 

उत्तमः पुरुषः तत्र पर्येति जक्षत् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनँ स्मरन्निदं शरीरम् यथा प्रयोग्य आचरणे युक्तःएवमेवायमस्मिन् शरीरे प्राणो युक्तः ।। ।।

प्र.- उत्तमः पुरुषः तत्र पर्येति सः उपसंपदनीयः उत्तमः पुरुषः इत्यर्थः । ‘उत्तमः पुरुषस्त्वन्यः’ (भ.गी.१५-१७) इति भगवतः एवोत्तमपुरुषत्वेन उपसम्पदनकर्तरि उत्तमपुरुषत्वस्य बाधितत्वात्, तत्र पर्येति इत्युत्तरवाक्यस्वारस्य-भङ्गप्रसङ्गाच्च । सः उपसत्ता, तत्र परमात्मनि पर्येति । तं परितोऽनुभवति । यद्वा अनुसञ्चरति इत्यर्थः । ‘कामरूप्यनुसञ्चरन्’ (तै.उ.भृ.१५), ‘यत्र यत्र धाता गच्छति’ इति हि श्रुत्यन्तरम् । जक्षत् इति । यथेष्टं भोगान् अवाप्नोति इत्यर्थः । नोपजनं स्मरत्रिदं शरीरम् – स्त्रीपुंसयोः अन्योन्योपगमेन जातम् इत्युपजनत्वं शरीरस्य; तेन च अपुरुषार्थत्वम् उच्यते । अथवा उपजनं – जनानां बन्धुजनानां समीपे शयितम् ‘कुणपम्’ इत्यर्थः ।

यद्यपि मुक्तः सर्वज्ञत्वात् त्यक्तमपि शरीरम् अनुभवत्येव – तथाऽपि अब्रह्मात्मकया दुःखरूपत्वेन अनुभूतं शरीरं न मुक्तिदशायां तथाऽनुभवतीत्यर्थः । आत्मनः अशरीरस्वभावत्वे प्राक्छरीरसम्बन्धः किन्निबन्धनः इत्यत्राह यथा इत्यादि । यथा आचरणे शकटे, प्रयोग्य: युग्य: अश्वः बलीवर्दः वा पाशेन युक्तः भवति, एवमेवायं प्राणः – प्राणसहचर: प्रत्यगात्मा संसारदशायां कर्मपाशेन युक्तः भवतीत्यर्थः । अनेन युग्यशकटदृष्टान्तेन देहात्मनोः व्यतिरेकः दृढीकृतः भवति ।।

 

अथ यत्रैतदाकाशमनुविषण्णं चक्षुः, चाक्षुष: पुरुष:; दर्शनाय चक्षु: अथ यो वेदेदं जिघ्राणीति, आत्मा; गन्धाय घ्राणम् अथ यो वेदेदमभिव्याहराणीति आत्मा ; अभिव्याहाराय वाक् अथ यो वेदेदँ शृणवानीति, आत्माश्रवणाय श्रोत्रम् ।। ।।

प्र. अथ इन्द्रियव्यतिरेकं प्रपञ्चयति – अथ इति । आकाशं प्रकाशम् आलोकादि, अथवा प्रकाश्यमानत्वात् आकाशं रूपम् । ततश्च अयमर्थः – यस्मिन्नुपकरणत्वेन अनुविषण्णम् निबद्धं चक्षुः आकाशं आलोकं रूपं वा प्रकाशयतीति शेषः । यद्वा –आकाशं रूपादिप्रकाशकमित्यर्थः । सः चाक्षुषः चक्षुरुपकरणकः पुरुषः आत्मा इत्यर्थः । चक्षुरुपकरणकम् उद्दिश्य पुरुषशब्देन आत्मत्वं विधीयते । चक्षुस्तु तद्दर्शनाय करणमात्रम् इत्यर्थः । ततश्च चक्षुरादीनां रूपादीनाम् आत्मनश्च करणत्व-ज्ञेयत्व-ज्ञातृत्वप्रदर्शनमुखेन शरीरेन्द्रियेभ्यः व्यतिरेकः उपपादितः भवति । अथ इति । गन्धग्रहणकरणं घ्राणम्, ज्ञाता तु आत्मा इत्यर्थः । अनेन घ्राणेन्द्रियव्यतिरेकः उक्तः भवति । अथ इति स्पष्टम् ।।

 

[आत्मनः इन्द्रियव्यतिरिक्तस्य तन्निरपेक्षदिव्यचक्षुस्संपत्तिः]

अथ यो वेदेदं मन्वानीति, आत्मा ; मनोऽस्य दिव्यं चक्षुः वा एष एतेन दिव्येन चक्षुषा मनसैतान् कामान् पश्यन् रमते, एते ब्रह्मलोके ।। ।।

 

तं वा एतं देवा आत्मानमुपासते तस्मात् तेषाँ सर्वे लोका आत्ताः, सर्वे  कामाः सर्वाँश्च लोकानाप्नोति सर्वाँश्च कामान्, यस्तमात्मानमनुविद्य विजानातीति प्रजापतिरुवाच प्रजापतिरुवाच ।। ।।

 

।। इति द्वादशः खण्डः ।।

प्र.-अथ इति । सकलेन्द्रियविषयमननसाधनत्वात् मन: दिव्यं चक्षुः उच्यते । शिष्टं स्पष्टम् । इत्यादि । एषः उक्तरीत्या शरीरेन्द्रियग्रामविलक्षण: आत्मा विधूतकर्मनिमित्तशरीरेन्द्रियः पुरुषः मनश्शब्दाभिहितेन दिव्येन स्वाभाविकेन चक्षुषा ज्ञानेन पूर्वोक्तब्रह्मलोकशब्दितदहराकाशनिष्ठान् सर्वान् कामान् अनुभवन् मोदते इत्यर्थः ।। ५ ।।

तं वा एतम् इत्यादि । एतादृशात्मस्वरूपस्य प्रजापतिना मघवते उपदिष्टत्वात् देवाः सर्वे मघवत: एतम् आत्मानम् उपश्रुत्य तमेव उपासते । अतः तेषां सर्वलोक-सर्वकामाप्त्युपलक्षितब्रह्मानुभवः भवति । असुराणां तु न तथेति ‘भावः’ । स सर्वाँश्च इत्यादि । अद्यत्वेऽपि मनुष्याणामपि तमात्मानं श्रुत्वा उपासीनानां सर्वलोक-सर्वकामावाप्तिः भवति इत्यर्थः । अत्र किं प्रमाणम् इत्यत्राह – इति इत्यादि । अत्र प्रत्यगात्मविद्यायाः ब्रह्मविद्याङ्गत्वेन अङ्गिभूतब्रह्मविद्याफलमेव तदङ्गभूतप्रत्यगात्मविद्यायां स्तुत्यर्थं निर्दिश्यते इति द्रष्टव्यम् । उक्तञ्च भगवता भाष्यकृता, ‘प्रजापतिवाक्ये च मुक्तात्मस्वरूपयाथात्म्यविज्ञानं दहरविद्योपयोगितया उक्तम् । ब्रह्मप्रेप्सोर्हि जीवात्मनः स्वस्वरूपञ्च ज्ञातव्यमेव । स्वयमपि कल्याणगुणः एव सन् अनवधिकातिशयासंख्येय-कल्याणगुणगणं परं ब्रह्म अनुभविष्यति इति ब्रह्मोपासनफलान्तर्गतत्वात्, सर्वाँश्च लोकानाप्नोति सर्वांश्च कामान् इति प्रजापतिवाक्ये कीर्त्यमानं फलं दहरविद्याफलमेव’ इति । ननु प्रजापतिविद्यायाः दहरविद्याङ्गत्वे दहरब्रह्मविद्याधिकृताय एव उपदेष्टच्या स्यात्, उपकोसलविद्याङ्ग भूताग्निशिविद्यावत् । प्रकृते च दहरनहाविद्याविधुराय इन्द्राय उपदिश्यमानायाः प्रत्यगात्मविषयकप्रजापतिविद्यायाः कथं विद्यान्तरशेषत्वमिति चेत् . न । प्रजापतिवाक्यस्य ‘एष संप्रसादः’ इति दहरविद्यावाक्यान्तर्गतसंप्रसादशब्दार्थशोधनार्थ प्रवृत्ततया तदेकवाक्यत्वेन तादयें सिद्धे इन्द्रस्यापि पश्चात् दहरविद्या उपदिष्टा इत्येव अवगन्तव्यत्वेन अदोषात् ।

ननु प्रजापतिविद्यायाः प्रकरणात् दहरविद्याशेषत्वे सर्वब्रह्मविद्याशेषत्वं न स्यात् ; विद्यान्तरशेषत्वे प्रमाणाभावात् । न चेष्टापत्तिः । ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ (ब्र.सू.४-१-३) इत्यत्र प्रत्यगात्मनः परमात्मात्मकत्वेन अनुसन्धानस्य सकलब्रह्मविद्याङ्गत्वेन उक्तत्वात् । ‘प्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ (ब्र.सू.१-४-६) इति सूत्रे उपास्यस्वरूपवत् उपासकस्वरूपस्यापि ज्ञातव्यत्वोक्तेश्च । ‘आत्मेति तूपगच्छन्ति’ (ब्र.सू.४-१-३) इत्यधिकरणसिद्धं जीवोपास्यत्वम् अङ्गीकृत्य किं कर्तृत्वादिविशिष्टं सांसारिकस्वरूपम् अनुसन्धेयम् ? उत प्रजापतिवाक्योदितापहतपाप्मत्वादिलक्षणः सांसारिकरूपव्यतिरेकः वा इति विशये – कर्तृत्वादिविशिष्टमेव रूपम् अनुसन्धेयम् । शरीरे वर्तमानस्य उपासितुः आत्मनः तथाभावादित्येके मन्यन्ते ‘इति’ ‘एक आत्मनः शरीरे भावात्’ (ब्र.सू.३-३-५१) इति सूत्रेण पूर्वपक्षं कृत्वा प्रजापतिवाक्योदित-अपहतपाप्मत्वादिलक्षणः सांसारिक-रूपव्यतिरेकः एव अनुसन्धेयः । तथा उपासने सत्येव तत्क्रतुन्यायेन तादृशात्मस्वरूपफलप्राप्तेः भावित्वात् इति ‘व्यतिरेकस्तद्भावभावित्वात्’ (ब्र.सू.३-३-५२) इति सूत्रेण सिद्धान्तितत्वादिति चेत् -न । यथा विद्याविशेषप्रकरणश्रुतानां सत्यत्व-ज्ञानत्वादिस्वरूपनिरूपकधर्माणां ‘आनन्दादयः प्रधानस्य’ (ब्र.सू.३-३-११) इत्यधिकरणोक्तन्यायेन सर्वब्रह्मविद्यापेक्षित-ब्रह्मस्वरूपप्रतिपत्त्युपयोगितया सामर्थ्यरूपात् लिङ्गात् प्रकरणभङ्गेन सर्वब्रह्मविद्यासाधारण्यम् आश्रीयते । यथा वा, ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति’ (बृ.उ.६-४-२२) इति विद्याविशेषप्रकरणश्रुतानां वेदानुवचनादीनां सर्वविद्यापेक्षितचित्तनैर्मल्योपयोगित्व-लक्षणसामर्थ्यरूपलिङ्गवशेन सर्वविद्यासाधारण्यम्, एवमिहापि ब्रह्मप्राप्तिपूर्वक अपहतपाप्मत्वादिगुणाष्टकविशिष्टस्वात्माविर्भावलक्षणमोक्षरूपफलस्य तत्क्रतुन्यायेन तादृशस्वात्मोपासनसाध्यत्वेन प्रजापतिवाक्योदितप्रत्यगात्मविद्यायाः सर्वब्रह्मविद्याङ्गत्वसिद्धेः । दहरविद्यायाः परमात्मपरत्वञ्च दहराधिकरणे स्थितम् । तस्मिंश्च अधिकरणे ‘दहर उत्तरेभ्यः’ (ब्र.सू. १-३-१३), ‘गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गञ्च’ (ब्र.सू.१-३-१४), ‘धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः’ (ब्र.सू.१-३-१५), ‘प्रसिद्धेश्च’ (ब्र.सू.१-३-१६), ‘अल्पश्रुतेरिति चेत् तदुक्तम्’ (अ.सू.१-३-२०) ‘इतरपरामर्शात् स इति चेन्नासम्भवात्’ (ब्र.सू.१-३-१७), ‘अन्यार्थश्च परामर्शः’ (ब्र.सू.१-३-१९), ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ (ब्र.सू.१-३-१८), ‘अनुकृतेस्तस्य च’ (ब्र.सू.१-३-२१) ‘अपि स्मर्यते’ (ब्र.सू.१-३-२२) इति दश सूत्राणि । तत्र आद्यानि सप्त सूत्राणि स्वावसर एव व्याख्यातानि । ‘उत्तराच्चेदाविर्भूतस्वरूपस्तु’ ‘अनुकृतेस्तस्य च, ‘अपि स्मर्यते’ इति त्रीणि सूत्राणि अव्याख्यातानि व्याख्यास्यन्ते । उत्तरात् प्रजापतिवाक्यात् जीवस्यापि अपहतपाप्मत्वादिगुणयोगावसायात् अपहतपाप्मत्वादिगुणैः दहराकाशः परमात्मेति न शक्यं निर्णेतुम् इति चेत् – तत्राह – आविर्भूतस्वरूपस्तु इति । पूर्वमनृततिरोहितापहतपाप्मत्वादिगुणकस्वस्वरूपः पश्चात् विमुक्तकर्मबन्धः शरीरात् समुत्थितः परञ्ज्योतिरुपसम्पन्नः आविर्भूतस्वरूपः सन् अपहतपाप्मत्वादिगुणविशिष्टः तत्र प्रजापतिवाक्ये अभिधीयते । दहरवाक्ये तु अतिरोहितस्वभावापहतपाप्मत्वादिविशिष्टः एव दहराकाश: प्रतीयते । आविर्भूतस्वरूपस्यापि जीवस्य संभावनीयाः सेतुत्वविधरणत्वादयः, सत्यशब्दनिर्वचनावगतं चेतनाचेतनयोः नियन्तृत्वम्, दहराकाशस्य परब्रह्मतां साधयन्ति । सेतुत्वसर्वलोकविधरणत्वादयः न मुक्तानां नित्यमुक्तानां वा सम्भवन्तीति ‘जगद्व्यापारवर्जम्’ (ब्र.सू.४-४-१७) इत्यत्र स्थितम् । अत एव नित्यानां नित्याविर्भूतापह-तपाप्मत्वादि’गुणाष्टकत्वात् तेषु अतिप्रसक्तस्य नित्याविर्भूतापहतपाप्मत्वादिमत्त्वस्य कथं ब्रह्मलिङ्गत्वमिति शङ्काऽपि निरस्ता । सेतुत्वादीनां तदसम्भावितधर्माणाम् अत्र श्रवणात् ।

ननु य एषोऽक्षिणि पुरुषो दृश्यते’ (छां.उ.८-७-४) इति प्रजापतिविद्यागतवाक्यान्यपि ब्रह्मपराण्येव भवन्तु । वाक्यत्रयेऽपि, ‘एतदमृतमभयमेतत् ब्रह्म’ (छां.उ.८-७-४) इति श्रवणात् , अक्षिवाक्ये उपकोसलविद्योपास्यप्रत्यभिज्ञानात्, ‘य एष स्वप्ने महीयमानश्चरति’ (छां.उ.८-८-१) इति वाक्येऽपि स्वाप्नपदार्थस्रष्टत्वेन महीयमानस्य परमात्मनः एव प्रतिपादनसंभवात्, सुषुप्तिपर्यायेऽपि यत्र यस्मिन् आधारे समस्तः सुप्तः भवतीति सुषुप्त्याधारब्रह्मपरत्वोपपत्तेः इति चेत् – उच्यते । स्वप्नपर्याये ‘घ्रन्ति त्वेवैनं विच्छादयन्तीवाप्रियवित्तेव भवत्यपि रोदितीव’ (छां.उ.८-१०-४) इति इन्द्रेण तस्य हन्यमानत्व-द्राव्यमाणत्व-बन्धुजनमरणाद्यप्रियद्रष्टुत्व-रोदितृत्वादिप्रतिभासत: दुष्टत्वस्य उपन्यासात्, सुषुप्तिसम्बन्ध्यात्मोपदेशानन्तरं ‘नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि, विनाशमेवापीतो भवति’ (छां.उ.८-११-२) इति तस्य विशेषज्ञानरहिततया विनष्टप्रायत्वस्य उक्तत्वात्, अभयत्वामृतत्वादीनाञ्च मुक्त्यवस्थाभाविरूपापेक्षया अपि उपपत्तेः जीवविषयत्वमेव द्वितीयतृतीयपर्याययोः । एवं तयोः स्वप्रसुषुप्त्यवस्थावत् जीवपरत्वे स्थिते प्रथमपर्यायस्य जागरावस्थावत् जीवविषयत्वमेव उपपद्यते । एषोऽक्षिणि पुरुषो दृश्यते’ (छां.उ.८-७-४) इत्यस्य दर्शनलिङ्गात् अक्षिणि सन्निहितोऽनुमीयते इत्यर्थकत्वेन जागरावस्थाविषयत्वस्यैव उपपन्नत्वात् उपकोसलविद्यावैषम्यम् । ततश्च प्रजापतिवाक्ये जीवः संसारदशायाम् अनृततिरोहि-तापहतपाप्मत्वादिकः सन् मुक्तिदशायां साधनाधीनतदाविर्भावः प्रतिपाद्यते । दहराकाशे श्रूयमाणं तु अपहतपाप्मत्वादिकं नित्याविर्भूतमेव ग्राह्यम् । नित्याविर्भूतस्य ग्रहणसंभवे तिरोहितत्वेन असत्प्रायस्य साधनाधीनाविर्भावस्य ग्रहणायोगात् ।

ननु स्यादेवं यदि ब्रह्मणः नित्याविर्भूतापहतपाप्मत्वादिमत्त्वं जीवस्य अतथात्वञ्च यदि प्रमाणसिद्धं स्यात् । तदा दहराकाशे श्रूयमाणम् अपहतपाप्मत्वादिकं ब्रह्मगतं नित्याविर्भूतमेव ग्राह्यम् इति शक्यते वक्तुम् । न च तदस्तीति शङ्कमानं प्रत्याह – ‘अनुकृतेस्तस्य च’ (ब्र.सू. १-३-२१) । अनुकृतिः अनुकारः – साम्यम् । तस्य परब्रह्मणः उपासनया तदनुकारः हि जीवस्य श्रूयते – ‘तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ (मु.उ.३-१-३) इति । ‘अपि स्मर्यते’ (ब्र.सू.१-३-२२) ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ (भ.गी. १४-२) इति च स्मर्यते इत्यर्थः । ततश्च तदुपासनासिद्धम् एतस्य ऐश्वर्यम् । तस्य तु नान्योपासनसिद्धम् ; अपि तु नित्याविर्भूतम् । ततश्च दहरवाक्ये, श्रूयमाणम् अपहतपाप्मत्वादिकं ब्राह्ममेव इति स्थितम् । प्रकृतमनुसरामः ।। ६ ।।

 

।।इति द्वादशखण्डभाष्यम् ।।

 

त्रयोदशः खण्डः

 

[विद्याङ्गमन्त्रः]

 

श्यामाच्छबलं प्रपद्ये शबलाच्छ्यामं प्रपद्ये अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीति अभिसंभवामीति ।।।।

 

।। इति त्रयोदशः खण्डः ।।

प्र.-श्यामात् इत्यादि । एते च मन्त्रा: विद्याङ्गभूताः विद्वद्भिः जप्याः । परमात्मनः हि त्रिविधम् उपासनमुक्तम्, ‘उपासात्रैविध्यात्” (ब्र.सू.१-१-३२) इत्यत्र, चिच्छबलतया अचिच्छबलतया स्वरूपेण च । तत्र स्वरूपेण अनुसन्धाने ज्ञानादिगुणवत् दिव्यविग्रहयोगिताऽपि अनुसन्धेया । तत्सिद्धयर्थमेव हि पुण्डरीकाक्षम् अप्राकृतं वपुः अतिदिश्यते – ‘स यश्चायं पुरुषे यश्चासावादित्य स एकः’ (तै.उ.आन.८) इति । तत्र ‘स यश्चायं पुरुषे’ इत्यानन्दमयम् अनूद्य ‘यश्चासावादित्ये’ इति विग्रहातिदेश: इति व्यासार्यै: उपासात्रैविध्यात् इत्यत्रोक्तम् । वेदार्थसङ्ग्रहे च भगवता भाष्यकृता, ‘य एषोऽन्तरादित्ये हिरण्मयः पुरुषः’, (छां.उ.१-६-६) ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ (महा.ना.१-८) विद्युद्वर्णात् पुरुषादित्यर्थः । ‘नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा’ (महा.ना.११-१२) मध्यस्थनीलतोयदा विद्युल्लेखेव सेयं दहरपुण्डरीकमध्यस्थाकाशवर्तिनी वह्निशिखा स्वान्तर्निहितनीलतोयदाभपरमात्मस्वरूपा स्वान्तर्निहितनीलतोयदा विद्युदिवाभातीत्यर्थः, इत्युक्तम् । अतः नीलविग्रहवैशिष्टयं सिद्धम् । अत एव हि, ‘श्यामा एकरूपा भवन्ति, एवमिव हि प्रजापतिः समृद्ध्या’ इति प्रजापतिशब्दितस्य भगवतः श्यामरूपत्वमुक्तम् । तस्मात् श्यामः इति विग्रहविशिष्टस्वरूपमुच्यते । ततश्च श्यामात् इति ल्यब्लोपे पञ्चमी श्यामविग्रहविशिष्टं स्वरूपं प्रपद्य – स्वरूपमुपास्य, शबलं – चिदचिद्विशिष्टं, प्रपद्ये . उपासे । शबलमुपास्य श्याममुपासे इत्यर्थः । ततश्च निरन्तरं त्रैविध्येन उपासे इत्यर्थः । अश्व इव इत्यादि । अश्वः रोमाणीव स्वयं पापं विधूय – विधूय इत्यनेन पापत्यागः उच्यते -राहुमुखप्रमुक्तश्चन्द्र इव शरीरात् विमुक्तः । अकृतं – नित्यं ‘भगवल्लोकं’, कृतात्मा . कृतार्थात्मा सन् अभिसंभवामि – प्राप्नुवामि इत्यर्थः । अभिसंभवामीति अभिसंभवामीति द्विरुक्तिः खण्डसमाप्त्यर्था ।।

 

।। इति प्रयोदशखण्डभाष्यम् ।।

 

चतुर्दशः खण्डः

 

[कारणत्वेन आकाशाख्यब्रह्मोपदेशः]

 

आकाशो वे नाम नामरूपयोर्निर्वहिता, ते यदन्तरा तद् ब्रह्म तदमृतँ स आत्मा। प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां यशोऽहमनु प्रापत्सि हाहं यशसां यशः श्वेतमदत्कमदत्कँ श्वेतं लिन्दुमाऽभिगाम् लिन्दुमाऽभिगाम् ।। ।।

 

।। इति चतुर्दशः खण्डः ।।

प्रआकाशो वै इति । अत्र, आकाशो वै नामरूपयोर्निवहितेत्यपि पालान्तरे प्रश्व्यम् । उभयत्रापि अयमर्थः । श्रुतिषु आकाशः इति प्रसिद्ध: नामरूपयोः निर्वहिता ‘कर्ता’ । यत् – आकाशशब्दितम् । विधेयबह्याभिप्रायेण नपुंसकत्वम् । ते – नामरूपे, अन्तरा मध्ये वर्तमानम् । ताभ्याम् अस्पृष्टमित्यर्थः । ब्रह्मामृतात्मशब्दानां पूर्ववदेवार्थः । इदञ्च वाक्ये समन्वयाध्याये चिन्तितम् । तत्र ‘आकाशो ह वै नामरूपयोर्निर्वहिता’ इति नामरूपवोढृत्वश्रवणात्, नामरूपवोढृत्वस्य परमात्मनि ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ (छां.उ.६-३-२) इति जीवद्वारकतया एव उपपाद्यतया नामरूपवोढृत्वस्य जीवे एव स्वरसत्वात्, ‘एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते’ (छो.उ.८-३-४) इति वाक्यप्रतिपाद्यस्य, ‘नामरूपयोः निर्वहिता ते यदन्तरा’ इति वाक्ये प्रत्यभिज्ञानात्, पूर्वं निरूढनामरूपः एव पश्चाद्विमुक्त इह प्रतिपाद्यते । आकाशशब्दस्यापि यौगिक्या वृत्त्या मुक्तात्मनि संभवात् इत्येवं पूर्वपक्षे प्राप्ते – उच्यते ‘आकाशोऽर्थान्तरत्वादिव्यपदेशात्’ (ब.सू.१-३-४२) । आकाशः परं ब्रह्म, अर्थान्तरत्वादि-व्यपदेशात् , ‘नामरूपयोनिर्वहिता’ इति जीवापेक्षया, अर्थान्तरत्वस्य भेदकधर्मस्य व्यपदेशात् । न हि नितरां वोढृत्वं, निवोढृत्वं । रूढ्या निर्वोढृशब्दस्य कर्तृत्वाभिधायित्वात् । ते यदन्तरा’ इति नामरूपास्पृष्टत्वकथनाच्च । नामरूपास्पृष्टत्वे सति नामरूपकर्तृत्वस्य बद्धे मुक्ते वा असंभवात्, मुक्तस्यापि ‘जगद्व्यापारवर्जम्’ (ब्र.सू.४-४-१७) इति जगद्व्यापारराहित्यस्य प्रतिपादितत्वात् । आदिशब्देन अमृतत्वाभयत्वादीनां सङ्ग्रहः ।

ननु प्रत्यगात्मनोऽर्थान्तरत्वव्यपदेशात् इति न वक्तुं युक्तम् । शुद्धावस्थः एव हि प्रत्यगात्मा, परमात्मा परं ब्रह्मेति च व्यपदिश्यते । तत्राह – ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’ (ब्र.सू.१-३-४३)। वाजसनेयके, ‘कतम आत्मा योऽयं विज्ञानमयः प्राणेषु’ (बृ.उ.६-३-७) इति प्रकृतस्य प्रत्यगात्मनः सुषुप्तौ उत्क्रान्तौ च ‘प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्’ (बृ.उ.६-३-२१) इति, ‘प्राज्ञेनात्मना अन्वारूढ उत्सर्जन्  याति’ (बृ.उ.६-३-३५) इति च प्राज्ञेन परिष्वङ्गान्वारोहौ आम्नायेते । जीवस्यैव शुद्धावस्थस्य परमात्मत्वे परिष्वङ्गान्वारोहौ नोपपद्येयाताम् । न ह्यभेदे तो संभवतः । ‘पत्यादिशब्देभ्यः’ (ब्र.सू.१-३-४४) ‘सर्वस्य वशी सर्वस्येशानः । सर्वस्याधिपतिः स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् । एष सर्वेश्वरः, एष भूताधिपतिः,  एष भूतपालः, एष सेतुर्विधरणः एषां लोकानामसंभेदाय’ (बृ.उ.६-४-२२) इति प्रत्यगात्मासंभावितानां पतित्वादिधर्माणां श्रवणात् नायं मुक्तात्मा इति स्थितम् । प्रकृतमनुसरामः ।

प्रजापतेः इति । प्रजापते: परमात्मनः, सभांस्थानं वेश्म प्रपद्ये। ‘प्रभुविमितं हिरण्मयम्’ (छां.उ.८-५-३) इति दहरविद्यायां निर्दिष्टं वेश्म प्रपद्ये इत्यर्थः ।।न चात्र प्रजापतिशब्दः कार्यहिरण्यगर्भविषयः । ‘न च कार्ये प्रत्यभिसन्धिः’ (ब्र.सू.४-३-१३) इति सूत्रकृतैव निरस्तत्वात् । भाष्यकृता च, ‘न चायं प्रत्यभिसन्धिः कार्यहिरण्यगर्भ, अपि तु परस्मिन्नेव ब्रह्मणि, ‘यशोऽहं भवामि ब्राह्मणानाम्’ इत्येतस्य अभिसन्धातुः सर्वाविद्याविमोकपूर्वक-सर्वात्मभावाभिसन्धानात्, – ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात् प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि’ ।। (छां.उ.८-१३-१) इति अभिसंभाव्यब्रह्मलोकस्य अकृतत्वश्रवणात्, सर्वबन्धविनिर्मोकस्य च साक्षाच्छ्रवणात् इति भाषितम् । यशो इति । अत्र यशश्शब्देन ‘आत्मा’ उच्यते । ब्राह्मणादीनाम् आत्माऽस्मि इत्यर्थः । अत्र अहम् इति शब्दः स्वान्तर्यामिपरमात्मपरः । ननु तव ब्राह्मणादीन् प्रति कथं यशश्शब्दितमात्मत्वम् इत्यत्राह यशः इति । अहं यशः – यशोरूपं परमात्मानम् आत्मतया अहन्त्वेन प्राप्तवानस्मि, साक्षात्कृतवानस्मि । अतः सोऽहं परमात्मरूपोऽहं यशसां – जीवात्मनां, यशः आत्माऽस्मि इत्यर्थः । श्वेतमदत्कमदत्कं श्वेतं लिन्दु माभिगाम् श्वेतम् – शुक्लधातुम्, अदत्कं दन्तहीनं श्वेतम् । अत्र श्वेतशब्देन लक्षणया सत्त्वगुणः उच्यते । तस्य अदत्कं भक्षयितृ । चरमधातोः सत्त्वगुणतत्कार्यज्ञानादिप्रमोषकत्वात् तद्भक्षकत्वम् । तादृशं चरमधातुमदत्कं भक्षयितृ । लिन्दु स्त्रीव्यञ्जनं, माभिगाम् – न प्राप्नुयाम् । चरमधात्वाधारयोनिप्रवेशः माभूदिति, जन्म माभूदिति यावत् । लिन्दु माभिगाम्लिन्दु माभिगाम् इति द्विर्वचनं जप्यमन्त्रपरिसमाप्त्यर्थम् ।।

 

।। इति चतुर्दशखण्डभाष्यम् ।।

 

पञ्चदशः खण्डः

 

[ब्रह्मविदः अपुनरावृत्तिः]

तद्धैतद् ब्रह्मा प्रजापतय उवाच, प्रजापतिर्मनवे मनुः प्रजाभ्यः । आचार्यकुलाद वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुदुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधत् आत्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिँसन ‘सर्वा’ भूतान्यन्यत्र तीर्थेभ्य: स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते न च पुनरावर्तते ।। १ ।।

प्र.-तद्धैतद् ब्रह्मा इति । एतत् – ब्रह्मविज्ञानम्, ब्रह्मा हिरण्यगर्भः, प्रजापतये – कश्यपाय इत्यर्थः । शिष्टं स्पष्टम् । विद्याङ्गभूततया कर्म अनुष्ठातव्यम् इत्येतत् प्रस्तौति – आचार्य इति । यथाविधानं . विधिमनतिक्रम्य । गुरोः कर्मातिशेषेण – कर्मावशिष्टकालेन । गुरुशुश्रूषानवरुद्धेन कालेन अधीत्य इति योजना । व्यासार्यैस्तु – पुरुषार्थाधिकरणे, ‘अतिशेषेण निश्शेषम् इत्यर्थः’ इति व्याख्यातम् । तेषाम् अयमाशयः ‘ब्रह्मचारी वेदमधीत्यो पन्याहत्य’ गुरवे, अनुज्ञातो दारान् कुर्वीत । विद्यान्ते गुरुमर्थेन निमन्त्र्य कृतानुज्ञातस्य वा स्नानम्’ इत्यादि-स्मृत्यनुसारात् : ‘आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सी: ‘(तै.उ.शि.१९) इत्यादि श्रुत्यनुसाराञ्च, गुरोः यथाविधानं आचार्यस्य नियमनम् अनतिलङ्घ्य कर्तव्यं कर्म अतिशेषेण अतिमर्वादम् इत्यादौ अते; मर्यादाऽभावे वृत्तेः दर्शनात् अतिः अर्थाभायें वर्तते । ततश्च अतिशेषेण – अशेषेण, अभिसमावृत्य – निर्वर्त्य इत्येव अन्वयः । न तु अतिशेषेण इत्यस्य अधीत्येति पूर्वेणान्वयः । तस्य व्यवहितत्वात्  निराकांक्षत्वाच्च । न च ‘गुरो:, कर्मशेषेण जपेत्’ (गौ,ध.सू.१-३-६) इति गौतमस्मृत्यैकरूप्यात् कर्मातिशेषशब्दस्यापि कर्मातिशिष्ट कालपरत्वं वक्तव्यमिति वाच्यम्, शेषातिशेषशब्दयो: भिन्नार्थत्वेन तत्प्रत्यभिज्ञानाभावादिति । अभिसमावृत्य – इति । अभिसमावृत्य समावर्तनं कृत्या, गुरुकुलात् निवृत्य इत्यर्थः । न्यायत: दारानाहृत्य कुटुम्बे स्थित्वा गार्हस्थ्यविहितकर्मनिष्ठ:, इत्यर्थः । ‘शुचौ देशे स्वाध्यायमधीयानः’ इत्यत्र स्वाध्यायमिति नित्यकर्मणामपि उपलक्षणम् धार्मिकान् विदधत् – पुत्रशिष्यादीन् धर्मे नियुञ्जान: । आत्मनि इति । अनात्मविषयेभ्यः इन्द्रियाणि निगृह्य शास्त्रीयर्हिसाव्यतिरिक्ता हिंसाम् अकुर्वाणः इत्यर्थः । न च अशुद्धमिति चेन्न शब्दात्’ (ब्र.सू.३-१-२५) इति सूत्रे क्रत्वर्थपशुहिंसायाः हिंसात्वाभावस्य उक्तत्वात्, अन्यत्र तीर्थभ्यः इति व्यर्थमिति वाच्यम् । ‘न वा उ एतन्म्रियसे न रिष्यसि’ (तै.ब्रा.३-७-१२) इति मन्त्रलिङ्गात् तस्य हिंसात्वाभावेऽपि गृहस्थानाम् अवर्जनीयतुलस्याहरणादिहिंसायाः हिंसाधात्वर्थत्वसंभवेन तत्पर्युदासार्थम् अन्यत्र तीर्थेभ्यः इत्यस्य आवश्यकत्यादिति द्रष्टव्यम् ।  खल्वेवम् इति । ‘आप्रयाणात् तत्रापि हि दृष्टम्’ (ब्र.सू.४-१-१२) इत्यत्र इदमपवर्गसाधनम् उपासनम् एकस्मिन्नेव अहनि कार्यम्, शास्त्रार्थस्य तावतैव समाप्तत्वात् इति पूर्वपक्षं कृत्वा आप्रयाणात् – आमरणात् अनुवर्तनीयम् । आमरणं सर्वस्मिन् काले ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते’ इत्युपासनस्य दृष्टत्वात् । अतः आप्रयाणं कर्तव्यमिति स्थितम् । ‘सहकार्यन्तरविधिः’ (ब्र.सू. ३-४-४६) इत्यधिकरणे, – छान्दोग्ये “अभिसमावृत्य कुटुम्बे शुचौ देशे इत्यारभ्य स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते’ इति ब्रह्मविदः यावदायुषं गृहस्थधर्मेण स्थितिदर्शनात् आश्रमान्तरेषु न ब्रह्मविद्या ‘अस्तीत्याशङ्क्य’ सर्वेषु आश्रमेषु विद्यायाः प्रमाणप्रतिपन्नत्वात् गृहस्थधर्मेण उपसंहारः, आश्रमान्तरधर्माणामपि उपलक्षणार्थः इति ‘कृत्स्नभावात्तु गृहिणोपसंहारः’ (ब्र.सू.३-४-४७) इति सूत्रेण समर्थितम् ।

‘अनावृत्तिश्शब्दादनावृत्तिश्शब्दात्’ (ब्र.सू.४-४-२२) इत्यत्र, ‘स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न च पुनरावर्तते’ इति शब्दात् मुक्तस्य पुनः प्रकृतिवश्यतालक्षणा आवृत्तिः नास्तीत्युक्तम् । तत्र पुनरावृत्तौ हि न मुक्तेच्छा हेतुः । अनवधिकातिशयानन्दरूपं ब्रह्म अनुभवत: ‘प्राकृतभोगेच्छाया:’ असंभवात् । नापि’ परमपुरुषेच्छावशात् पुनरावृत्तिः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः । ज्ञानी त्वात्मैव मे मतम्’ (भ.गी.७-१), इत्युक्तरीत्या ‘परमप्रियं ज्ञानिनं प्राप्य आत्मानं कृतार्थं मन्यमानस्य परमपुरुषस्य तत्त्यागेच्छाया असंभवात् । नापि कर्मवशात् पुनरावृत्तिः । उच्छिन्नकर्मबन्धत्वेन कर्माधीनायाः अपि पुनरावृत्तेः असंभवादिति’ भाष्ये प्रतिपादितम् । च पुनरावर्तते पुनरावर्तते इति द्विरुक्तिः ब्रह्मविद्यायाः साङ्गायाः परिसमाप्त्यर्था ।।

 

आप्यायन्तु ममाङ्गानि वाक् प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि सर्वाणि सर्वं ब्रह्मोपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोत् अनिराकरणमस्तु अनिराकरणं मेऽस्तु तदात्मनि निरते उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।। ।।

 

।। इति पञ्चदशः खण्डः ।।

 

।। इति अष्टमः प्रपाठक: समाप्तः ।।

 

।। छान्दोग्योपनिषत् समाप्ता ।।

प्र. आप्यायन्तु इति । अध्ययनजपादौ शान्तिपाठार्थोऽयं मन्त्रः । मदङ्गानि बागादिभिः सह आप्यायितानि भवन्तु इत्यर्थः । सर्वं इति । सर्वां ब्रह्मप्रतिपादिकाम् उपनिषदं प्रति, ब्रह्मविषये च नास्तिक्यबुद्धि मा कार्षम् इत्यर्थः । मा मा ब्रह्म निराकरोत् मा मां ब्रह्म निराकुर्यात् अनुगृह्णातु इत्यर्थः । अनिराकरणम् इति । परस्परम् अनिराकरणमस्तु इत्यर्थः । तदात्मनि इति’ । आत्मज्ञाननिरतस्य ये धर्माः शान्तिदान्त्यादयः उपनिषत्सु प्रसिद्धाः, ते सर्वे मयि सन्तु इत्यर्थः । ते मयि सन्तु ते मयि सन्तु इति द्विरुक्ति: उपनिषत्समाप्त्यर्था ।।

क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः । वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम् ।।

।। इति श्रीरङ्गरामानुजमुनिविरचिता प्रकाशिका समाप्ता ।।

 

इति छान्दोग्योपनिषद्भाष्यं संपूर्णम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.