छान्दोग्योपनिषत् षष्ठः प्रपाठकः

छान्दोग्योपनिषत्

 

षष्ठः प्रपाठकः

 

प्रथमः खण्डः

 

[सद्विद्योपदेशार्थम् आख्यायिका]

 

श्वेतकेतुर्हारुणेय आस तँ पितोवाच, ‘श्वेतकेतो वस ब्रह्मचर्यम् न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतिइति ।। ।।

प्र. – सद्विद्याम् उपदेष्टुम् आख्यायिकाम् आह – श्वेतकेतुर्हारुणेय आस हः प्रसिद्ध्यर्थः । अरुणपुत्रस्य उद्दालकस्य पुत्र: श्वेतकेतुनामा बभूव इत्यर्थः । तँ ह पितोवाच इत्यादि । उद्दालकः पिता तम् – द्वादशवर्षम् अनुपनीतम् अनधीतिनं पुत्रं श्वेतकेतुं प्रति हे सोम्य ! – सोमार्ह ! प्रियदर्शन ! इति वाऽर्थः । श्वेतकेतो ! क्वचित् गुरौ अध्ययनार्थं ‘ब्रह्मचर्यं वस। अस्मत्कुलप्रसूतः कोपि अननूच्य – अनधीत्य ब्रह्मबन्धुरिव न भवति इति उवाच इत्यर्थः । यः स्वयम् अब्राह्मण एव सन् ब्राह्मणान् बन्धुत्वेन व्यपदिशति, सः ब्रह्मबन्धुः इत्युच्यते । अत्र स्वयं गुणवत एव पितु: गर्भाष्टमाद्युपनयनकालातिक्रमेऽपि उपनेतृत्वाभावे हेतुः प्रवासादिलक्षणात्यन्तानुपपत्तिः इति द्रष्टव्यम् ।।

 

द्वादशवर्षः उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय तँ पितोवाच ।। ।।

प्र. – द्वादशवर्षः इत्यादि । सः -श्वेतकेतुः द्वादशवर्षस्सन् गुरुम् उपेत्य, गुरुकुले द्वादश’वर्षान्’ उषित्वा सर्वान् वेदान् अधीत्य महामनाः प्रौढमतिः अनूचानमानी आत्मानं साङ्गवेदाध्यायिनं मन्यमानः स्तब्धः – परिपूर्णः इव  तृणीकृतजगत्त्रयः चतुर्विंशतिवर्षयुक्तः एपाय – प्रत्यागतः। तँ पितोवाच । स्पष्टोऽर्थः ।।

 

[पुत्रं प्रति ब्रह्मविषयकः प्रश्नः]

 

श्वेतकेतो ! यत्र सोम्येदं महामना अनूचानमानी स्तब्धोऽसि उत तमादेशमप्राक्ष्यो येनाश्रुतँ श्रुतं भवति अमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः आदेशो भवतीति ।। ।।

प्र. -उक्तिमेवाह – श्वेतकेतो यन्नु सोम्येदम् इत्यादि । हे सोम्य ! महामना अनूचानमानी स्तब्धोऽसि इति इदं यत् – यस्माद्धेतोः, सः कः इत्यर्थः । तस्य ब्रह्मज्ञानरहिततां जानन्नपि आरुणिः ‘जगदभिन्ननिमित्तोपादानभूतब्रह्मज्ञानवानेव पूर्णः’ ; नान्यः इति तस्मै ज्ञापयित्वा पूर्णत्वाभिमानं तदीयम् अपनुद्य ब्रह्मणि जिज्ञासां सम्पादयितुं तदनुजिघृक्षया पृच्छति – उत तमादेशमप्राक्ष्यः इत्यादि ।

अत्र व्यासार्याः’ ; उपक्रमे तावत्, ‘उत तमादेशमप्राक्ष्यः’ इत्यत्र आदेशशब्देन प्रशासिताऽभिधीयते । अत्र श्लोकौ आचार्यपादैरुक्तौ ‘छान्दोग्ये केचिदाहुर्दिशतिरुततमादेशमप्राक्ष्य इत्य- त्राङ्पर्वस्तूपदेशं प्रकटयति सतो न प्रशास्तिंन्तः । नो कर्तर्यस्ति कर्मण्यगणि घञिह सत् कर्तृ शास्तौ न कर्म स्यात्तत्कर्मोपदेशे तदिदमुततमादेशवाचोपदेश्यम्’ ।। (तत्त्व.सा.१६) ‘अत्र ब्रूमः । प्रशास्तिं वदति दिशिरसावाङ्मुखो नोपदेशं शास्ता सोऽतिप्रसिद्धो न हि पर इह चापेक्षितार्थप्रसङ्गः । युक्ताऽसाधारणोक्त्या घञगणि करणेऽप्यत्र वैवक्षिकत्वं शाब्दोक्तं कारकाणां ननु करणतया कर्तरि स्यात् विवक्षा’ ।। इति । (तत्त्व.सा.१७)

आदेशशब्देन उपदेश्यम् उच्यते । प्रकृत्यर्थः उपदेशः । प्रत्ययार्थः कर्मत्वम् , ‘अकर्तरि च कारके संज्ञायाम्’ (पा.सू.३-३-१९) इति कर्तृव्यतिरिक्तकारके घञो विहितत्वात् । उपदेशे ब्रह्मण: कर्मत्वोपपत्तेश्च । प्रशासने तु ब्रह्म न कर्म ; अपि तु कर्तृ । कर्तृव्यतिरिक्तकारके हि घञ् प्रत्ययविधिः । नात्र कर्तरि कप्रत्यय ‘उपपद्यते’, ‘किङिति च’ (पा.सू.१-१-५) इति गुणप्रतिषेधात् आदेशशब्दरूपासिद्धेः । नापि पचाद्यच्प्रत्ययः उपपद्यते । दिशिधातोः इगुपधत्वेन ‘इगुपधात्कः’ (पा.सू.३-१-१३५) इति अपवादसूत्रेण कप्रत्ययप्राप्तेः गुणाभावात् । अतो घञ्प्रत्ययान्तः एवम् अयम् आदेशशब्दः । स च प्रत्ययः कर्तर्यनभिहिते इति कर्मार्थकत्वस्यैव युक्तत्वात् उपदेश्यमेव आदेशशब्दवाच्यम् इति ।

अत्रोच्यते – प्रकृत्यर्थः शासनं प्रसिद्धिप्राचुर्यात्, अन्यथा स्वारस्यभङ्गात्, ‘आङ्पूर्वो दिशतिनियोक्तृप्रयोजनवचनः’ ; ‘उपपूर्वस्तु नियोज्यप्रयोजनवचनः’ इति हि न्यासकारः । नियोक्तरि प्रयोजनं यस्य तस्यार्थस्य वाचक इत्यर्थः । एवम् अन्यत्रापि । किञ्च उपदेश्यत्वं लौकिकालौकिकधर्मब्रह्मभागार्थसाधारणम् । प्रशासितृत्वं तु ब्रह्मणोऽसाधारणम् । ‘अन्तःप्रविष्टश्शास्ता जनानाम्’, (तै.आर.३-११-१०) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि'(बृ.३-५-८-९) इत्यादिभिः निरुपाधिकप्रशासनस्य ब्रह्मासाधारणत्वश्रवणात् । निरुपाधिकोपदेश्यत्वं ब्रह्मणः इत्यसाधारण्यम् इति चेन्न ; इष्टप्राप्त्यनिष्टनिवारणतत्साधनेषु साधारण्यात् । यद्यपि अमितसुखप्राप्ति दुःखनिवृत्त्यादि साक्षादुपदेश्यं स्यात्, तथाऽपि संसारनिवृत्ति-ब्रह्म-तदुपासनानाम् उपदेश्यत्वं साधारणम् । प्रष्टव्यस्य उपदेश्यत्वम् अर्थसिद्धम् । अतः उपदेश्यत्वकथने वैयर्थ्यञ्च । ननु येनाश्रुतम्’ इत्यादिना एकवाक्यत्वात् स्वज्ञानेन अन्यज्ञानहेतुताविशेषितम् उपदेश्यम् असाधारणम् इति चेत् – तथापि तादृशम् उपदेश्यत्वं प्रतिज्ञावाक्येन, द्रष्टव्यत्वोक्त्या च अर्थसिद्धम् इति अनपेक्षितोपदेश्यत्वकथनादपि अपेक्षितं प्रशासितृत्वमेव वाच्यम् इति युक्तम् । येनाश्रुतम् इत्युपादानत्वे सिद्धे प्रशासितृत्वेन हि निमित्तत्वं सिद्ध्येत् । निमित्तान्तरे सति हि ‘एकविज्ञानात् सर्वविज्ञानं नोपपद्यते । अतः प्रतिपिपादयिषितवस्तुनः अपेक्षित-असाधारणाकारणविशिष्टतया एव प्रतिपादनम् उचितम् । घञ् प्रत्ययस्य करणेऽपि उपपन्नत्वात् ‘विवक्षातः कारकाणां प्रवृत्तिः’ इति शाब्दोक्तन्यायेन कर्तरि एव करणान्तरनरपेक्ष्येण साधकतमत्वविवक्षया तथा प्रयोगः उपपद्यते । ‘अकर्तरि’……(पा.सू.३-३-१९) इति सूत्रस्य प्रयोजनं करणत्व विवक्षया विना कर्तरि असाधुत्वेन प्रयोगनिवृत्तिः । उपदेशपक्षे प्रकृत्यर्थास्वारस्यं प्रत्ययस्वारस्यं च प्रशासनपक्षे प्रत्ययास्वारस्यं प्रधानभूतप्रकृत्यर्थस्वारस्यम् अर्थोचित्यं च इति वैषम्यम् । अतः प्रशासनमेव आदेशशब्दाभिधेयम् इति स्वीकर्तुं युक्तम् इति । अत्र इदं विचार्यते यत् तावदुच्यते, प्रसिद्धिप्राचुर्यात् प्रकृत्यर्थः शासनमिति सत्यमेव तत् । ‘शासनं विविच्य ज्ञापनम्’ इति धातुवृत्तिकृता व्याख्यातत्वात् उपदेशे एव पर्यवसानम् । ‘उपदेशेऽजनुनासिक इत्’, (पा.सू.१.३-२) ‘स्थानिवदादेशोऽनाल्विधौ’ (पा.सू.१-१-५६) इत्यादि सूत्रेषु ‘दिशिरुच्चारणक्रियः’ इति  महाभाष्योक्तेः ‘अथातोऽहंकारादेशः’ (छा.उ.७-२५-१) इत्यादौ आदेशः उपदेश इत्यर्थः । ‘इदं शास्ति आचार्यः’ इति भाष्यस्य इदम् उपदिशति इति हि अर्थः। तदशिष्यम्’ इत्यादी अवक्तव्यम् इति व्याख्यातम् । ततश्च आदेशः शासनम् – उपदेशः । तत्कर्मत्वञ्च, ‘अनु म एतां भगवो देवतां शाधि’ (छां.उ.३-४-२-२) इति ब्रह्मणः सिद्धम् इति प्रकृतिप्रत्यययोः अविरोधसंभवात् प्रत्ययास्वारस्यानुसरणस्य ‘अनुचितत्वात् । न च अनुशासनकर्मत्वेऽपि न शासनकर्मत्वम् इति वाच्यम् । ‘शासु अनुशिष्टौ’ (धा.पा.१०२२) इति शासनस्यैव अनुशासनरूपत्वात् । ततश्च करणत्वस्य आरोपेण घञ्समर्थनमपि अनुचितम् । आरोपस्य अनुचितत्वात् । ननु करणत्वस्य न अध्यारोपः, तस्य सिद्धत्वात् इति चेन्न । तथा सति सिद्धान्ते प्रत्ययास्वारस्याभ्युपगमस्या अयुक्तत्वात् । अत एव, ‘असिः छिनत्ति’ इत्यादौ सौकर्यातिशयविवक्षया, ‘ब्रह्मदृष्टिरुत्कर्षात्’ (ब्र.सू.४-१-५) इति न्यायेन करणे कर्तृत्वारोपेऽपि कर्तरि करणत्वादेः असंभवः । तथा सति राजनि भृत्यत्वारोपस्य इव अनर्थावहत्वात् । अत एव, ‘साधकतमं करणम्’ (पा.सू. १-२-४२) इति सूत्रे अधिकरणस्थाल्याः तनुकपालतया साधकतमत्वविवक्षया ‘स्थाल्या पचति’ इति प्रयोगम् उपपाद्य, ‘न चैवं कर्तुरपि करणत्वविवक्षाप्रसङ्गः भिन्नजातीयत्वात् ।

सकलसाधनविनियोगकारी खल्वसौ’ । ‘न हि शतधनो निष्कधनेन स्पर्धितुमर्हति’ इति कर्तुः करणत्वविवक्षाऽभावस्यैव उपपादितत्वात् । निक्षेपरक्षायाम्’ भगवतो रक्षाकरणत्वानुसन्धानं प्रपत्तिः इतिपक्षे करणस्य कर्तृत्वासम्भवेन जीवस्यैव रक्षकत्वम् आपतेत् इदिति कर्तृत्वकरणत्वविरोधस्य, भगवति करणत्वानुसन्धाने ‘ब्रह्मदृष्टिरुत्कर्षात्’ (ब्र.सू.४-१-५) इति न्यायविरोधस्य च प्रतिपादितत्वात् । शक्तिविपर्ययात् (ब्र.सू.२-३-३७) इति सूत्रे अन्तःकरणस्य कर्तृत्वे ततोऽन्यत् करणं स्यात् इति अन्तःकरणातिरिक्तं करणान्तरम् अभ्युपगन्तव्यं स्यादिति परैरपि ‘उपपादितत्वाच्च । किञ्च प्रशासनकर्तुः करणत्वसम्भवे परमात्मनः प्रशासनकर्मत्वस्यापि संभवात् तदसंभवोक्तिः विरुद्ध्येत ।

किञ्च करणत्वे विवक्षिते, ‘करणाधिकरणयोश्च’ (पा.सू.३-३-११७) इति परेण ल्युटा बाधितत्वेन घञोऽप्रसङ्गात् । न च हलश्च (पा.सू. ३-३-१२५) इत्यनेन घञ: प्रसङ्गः । तत्रापि संज्ञायाम् इत्यनुवृत्तेः । न च त्वन्मतेऽपि कर्मणि घञ् न स्यात् । ‘अकर्तरि च कारके संज्ञायाम्’ (पा.सू.३-३-१९) इति संज्ञायामेव घञो विधानात् इति वाच्यम् ।  ‘अकर्तरि च’ इत्यत्र चकारस्य भिन्नक्रमत्वम् आश्रित्य संज्ञायामपि अस्ति इति पदमञ्जर्यादौ समर्थितत्वात् ‘संज्ञाग्रहणानर्थक्यञ्च सर्वत्र घञो दर्शनात्’ इति वार्तिककृता उक्तत्वाञ्च ।

किञ्च, घञ: करणार्थत्वे, उपक्रमे, आदेशशब्देन प्रशासिता अभिधीयते इति यदभिहितं तद्विरुध्येत । प्रशासनकरणत्वस्यैव अभिहितत्वेन प्रशासनकर्तुः अनभिहितत्वात् । यच्च उक्तम्, प्रशासितृत्वम् असाधारणम् इति तदपि न । आदेशशब्देन करणत्वमात्राभिधानेन ‘प्रशासितृत्वानभिधानात्’, तदभिधानेऽपि निरुपाधिकप्रशासितृत्वस्येव मुख्योपदेश्यत्वस्य ब्रह्मासाधारणत्वात् । अत एव ‘ब्रह्मजिज्ञासा’ (ब्र.सू.१-१-१) इति सूत्रे ब्रह्मणः इति कर्मणि षष्ठीपरिग्रहात् ब्रह्मणः एव आभिधानिकं जिज्ञासाकर्मत्वम्, तदुपासनादीनां तु आक्षेपम् इत्युक्तम् । किञ्च आदेशशब्दमात्रस्य हि अतिप्रसङ्गम् आशंक्य तमित्येवं विशेषणोपादानात् अवश्यं तमित्यस्य आदेशविशेषकत्वम् अभ्युपेयम् ।

यदि हि आदेशशब्दस्यैव निरुपाधिकप्रशासितृत्वमर्थः, तदा तस्य परमात्मासाधारणत्वात् तच्छब्दो विशेषको न स्यात् । यदपि च उक्तम्, प्रष्टव्यत्वकथनेन उपदेश्यत्वं सिद्धम् इति तत्कथनस्य अनपेक्षितत्वात् प्रशासितृत्वमेव अर्थः इति तन्न । यद्यपि पूर्व नाप्राक्षं, अधुना स्वयमेव ज्ञास्यमि इति बुद्धिं व्युदसितुं उपदेष्टव्यत्वकथनस्यैव अपेक्षितत्वात् ।

अत एव, ‘तं त्वौपनिषदं पुरुषं पृच्छामि’ (बृ.उ.३-५-९-२६) इत्यादौ प्रष्टव्यस्य उपदेश्यत्व’ लक्षणौपनिषदत्वकथनम् । यच्च उक्तम् – सर्वविज्ञानप्रतिज्ञासिद्ध्यर्थं निमित्तत्वम् अपेक्षितमिति – तन्न ; एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाबलात् उपादानस्येव तदन्यथानुपपत्त्या निमित्तत्वस्यापि लाभसंभवेन तस्य पृथगवक्तव्यत्वाभावात् तदनुपपत्तेः भवता एव उक्तत्वात् इति ।

अत्रोच्यते – ‘एष आदेशः’, ‘एष उपदेशः’ इत्येवं पृथगुपदिष्टयो: ‘न वायुक्रिये पृथगुपदेशात्’ (ब्र.सू.२-४-८) इति न्यायेन आदेशोपदेशयोः भेदावश्यम्भावात्, निमन्त्रणामन्त्रणयोरिव वृक्षवनस्पतिशब्दयोरिव च, स्नेहभक्तिशब्दयोरिव च क्वचिदेकविषये प्रयोगमात्रेण अनुभवभेदस्य दुरपह्नवत्त्वात् । आदिशति इत्युक्ते हि यद्वाक्योल्लङ्घने दण्डो भवति तादृशशब्दप्रयोक्तृत्वं नियमयितृत्वं आज्ञापयितृत्वं प्रतीयते । अत आदिशति इति व्यवहारः प्रभुविषयः एव । अत एव न्यासकारेण आदेशोपदेशयोः भेदो वर्णितः आङ्पूर्वो ‘दिशतिर्नि’योक्तृप्रयोजनवचनः इति । ‘अन्तःप्रविष्टश्शास्ताजनानाम्’ इत्यादौ तथैव प्रतीतेः । ततश्च प्रकृतिस्वारस्येन नियमनापरपर्यायाज्ञापनरूपार्थे प्रतीतेः घञ्प्रत्ययस्य कर्तृव्यतिरिक्तकारकमात्रवाचिनो योग्यतावशात् त्वन्मते कर्मार्थकत्ववत् अस्मन्मतेऽपि कारकवाचिनो घञ्प्रत्ययस्य सकलकारकप्रयोक्तृकर्तृलक्षणा समाश्रीयते । प्रष्टव्यवस्तुनः तादृग्रूपत्वात्। असञ्जातविरोधिमुख्यप्रकृत्यर्थानुग्रहेण जघन्यप्रत्ययलक्षणायाः आश्रयणीयत्वात् , पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः (इत्यादौ) अहःपरत्वस्वरसत्रिवृदादिपदमुख्यत्वानुसारेण जघन्यसंवत्सरपदस्यैव सौरचान्द्रमसाद्यनेकार्थसाधारण्येन निश्चयासामञ्जस्यादजहल्लक्षणाया’, अभ्युपेतत्वात् । तथा, ‘प्रयाजशेषेण हवींष्यभिधारयति’ इत्यादौ प्रयाजशेषप्रातिपदिकानुरोधेन तृतीयायाः द्वितीयार्थलक्षणाया आश्रितत्वात् । तथा ‘प्राणा वाव ऋषयः’ (ब्र.उ.४-२-३) इत्यादौ ऋषिशब्दानुसारेण बहुवचनश्रुतेः पाशन्यायेन ‘गौणार्थकत्वस्य गौण्यसम्भवात् तत्प्राक्च्छृतेश्च’ इत्यत्र उपपादितत्वाच्च । ननु आदेशपदस्य प्रशासनापरपर्यायाज्ञापनरूपादेशप्रसिद्धस्य उपदेशप्रसिद्धि-प्राचुर्याभावेऽपि उपदेशार्थकत्वे प्रकृते: सर्वात्मना मुख्यार्थत्यागाभावात्, ‘प्रत्ययस्यत्वन्मते कर्तृलक्षणायां मुख्यार्थत्यागात् कांस्यभोजिन्यायेन जघन्यद्यावापृथिव्येककपालानुरोधेन मुख्येन्द्राग्र्यादीनां प्रसूनबर्हिनियमाश्रयणवत्, एकधा ब्रह्मण उपहरति इत्यत्र सकृत्सहत्वसाधारणस्य एकधाशब्दस्य भक्षान्तरप्रापकदुर्बल चोदनानुग्रहेण ‘सहत्वार्थ स्वीकारवत्’, सप्तदश प्राजापत्यान् इत्यत्र प्रजापतिसम्बन्धविशिष्टान्वययोग्यस्यापि बहुत्त्वस्य एकपशुनिष्पन्नैकादशावदानप्रापकदुर्बल चोदकानुग्रहेण विशिष्टान्वयाभ्युपगमेन

द्रव्यदेवतासम्बन्धाक्षिप्तयागभेदाभ्युपगमवच्च, जघन्यघञ्प्रत्ययानुसारेण मुख्यदिशेः उपदेशार्थकत्वमेव युक्तम्, प्रकृतेः मुख्यार्थत्यागाभावात् । प्रचुरप्रसिद्धार्थत्यागमात्रं तु अवशिष्यते । तत्तु न दोषाय । अत एव पत्नय उपगायन्ति इत्यादी गीतिशब्दस्य शारीरगाने प्रसिद्धिप्राचुर्ये सत्यपि अशारीरवादित्रादिगानस्यापि गीतिशब्दप्रयोगविषयत्वेन मुख्यार्थत्वात् सन्निहितदुन्दुभ्यादिगानस्यैव काण्डवीणादिभिः उपचयं कुर्वन्त्य: पत्न्यो न ऋत्विजां निवर्तिका इति दशमे सिद्धान्तितम् इति चेत् – मैवम् ; गानशब्दस्य बर्हिराज्याधिकरणन्यायेन गीतिमात्रवाचित्वात् युक्तं तत्र सन्निहितदुन्दुभ्यादिगानवाचित्वम् । इह तु आदेशशब्दस्य क्वचिदपि, शिष्यो गुरुमादिदेश इत्यादिप्रयोगाभावेन साधारणोञ्चारणार्थकत्वाभावात् उपदेशातिदेशशब्दयोरिव आदेशोपदेशशब्दयोरपि भिन्नर्थत्वेन आदेशशब्दस्य उपदेशार्थकत्वे मुख्यार्थत्यागस्य ऊर्जनीयत्वेन जघन्यप्रत्यये एव लक्षणाया उचितत्वात् ।

वस्तुतस्तु ‘उपदेशेऽजनुनासिक इत्’ (पा.सू.१-३-२) इति सूत्रे, ‘करणाधिकरणयोश्च’ (पा. सू- ३-३-११७) इति ल्युटा बाधितस्य घञ:, ‘अकर्तरि च कारके’ (पा.सू.३-३-१९) इत्यनेन ‘अप्रसङ्ग’माशंक्य ‘कृत्यल्युटो बहुलम्’ (पा.सू.३-३-११३) इति घञो भाष्यकृता समर्थितत्वात् तन्न्यायेन कर्तरि अपि तेनैव सूत्रेण घञ्सिद्धौ लक्षणायाः अप्रसङ्गात् प्रशासितृत्वार्थकत्वमेव आदेशशब्दस्य युक्तम् । आदेशनम् आदेश इति घञन्तात् भाववाचिनः आदेशशब्दात् अर्शआद्यजन्तादपि प्रशासितृत्वार्थकत्वमेव आदेशशब्दस्य युक्तमिति वयम् उत्पश्यामः । ततश्च, एतस्य वा ‘अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः, प्रशासितारं सर्वेषाम्’ (बृ.उ.५-८-९) इत्यादि श्रुतिस्मृतिप्रतिपन्नं परमात्मधर्मभूतं प्रशासितृत्वम् इह आदेशशब्दार्थः । एतत्सर्वम् अस्माभिः भावप्रकाशिकाया प्रपञ्चितं तत्र अनुसन्धेयम् । प्रशासनेन’ च धारकत्वलक्षणमात्मत्वं फलितम् । ततश्च आदेशशब्दः आत्मत्वपर्यन्तः ।

‘येनाश्रुतं श्रुतं भवति’ इत्यत्र ‘कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’, (मुं.उ.१-१-३) ‘आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं भवति’ (बृ.उ.६-५-६) इति मुण्डक-बृहदारण्यकवाक्यानुसारेण येन श्रुतेन, मतेन, विज्ञातेन, अश्रुतम् अमतम् अविज्ञातं, श्रुतं मतं विज्ञातं भवति इति वाक्यपर्यवसितोऽर्थः । ब्रह्मस्वरूपसत्तामात्रस्य अश्रुतश्रुतत्वापादकत्वाभावात् । अथ अश्रुतामतादिशब्दानां ‘इदं सर्वं विदितं भवति’ (बृ.उ-६-५-६) इति श्रुत्यन्तरानुसारात् सर्वार्थकत्वं द्रष्टव्यम् । ततश्च येन श्रुतेन सर्वं श्रुतं भवति इत्यर्थः । ततश्च अश्रुतं श्रुतं भवति इति अश्रुतस्य श्रुतत्वप्रतिपादनं कथमिति शंकायाः नावकाशः । यद्वा – अवस्थाविशिष्टतया अश्रुतं स्वरूपेण श्रुतं भवति इत्यर्थः । अत्र विज्ञातशब्दो निदिध्यासनपरः । ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ इति क्रमप्रत्यभिज्ञानात् इति द्रष्टव्यम् ।

अत्र, ‘येनाश्रुतं श्रुतम्’ इत्यनेन किम् उपादानमिति पृष्टं भवति । प्रशासितृत्वार्थकेन आदेशशब्देन च आत्मस्वरूपं पृष्टं भवति । ततश्च आत्मभूतम् उपादानं किमिति प्रश्नस्य फलितार्थः । अत एव श्रीविष्णुपुराणे – ‘यन्मयं च जगद् ब्रह्मन् यतश्चैतच्चराचरम्’ (वि.पु. १-१-५) इति ‘उपादानं’ च पृष्टम् । अत एव च – ‘सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ (छां.उ. ६-८-४) इति प्रतिवचने सदायतना इति सतः आत्मत्वम्, सन्मूलाः, सत्प्रतिष्ठाः इति सतः उपादानत्वं च प्रतिपाद्यते इति द्रष्टव्यम् ।

अत एव, ‘अथातो अहंकारादेशः, (छा.उ.७-२५-१) ‘अथात आत्मादेशः’, (छां.उ.७-२५-२). ‘अथात आदेशो नेति नेति’, (बृ.उ.२-३-६) ‘आदित्यो ब्रह्मेत्यादेशः’, (छा.उ.३-१९-१) ‘उभयमादिष्टं भवति अध्यात्मञ्चाधिदैवतञ्च’ (छा.उ.३-१८-१) इत्यादौ इव आदेशशब्दस्य उपदेशार्थकत्वमेव अस्तु, न प्रशासनार्थकत्वमिति शंका पराकृता । अतो जगदुपादानभूतं जगदात्मानं किं पृष्टवानसि इत्यर्थः । अत्र ज्ञातवानसि इत्यनुक्त्वा पृष्टवानसि इत्युक्तवतः, ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।। (भ.गी.४.३४) इत्युक्तरीत्या प्रणिपातादिप्रसन्नाचार्योपदेशगम्यः एव सोऽर्थः । न तु प्रकारान्तरेणापि ज्ञातुं शक्यते इत्यभिप्रायः । अन्यज्ञानेन अन्यज्ञानासम्भवात् एकविज्ञानेन सर्वविज्ञानासम्भवं मन्वानः चोदयति कथं नु भगव: आदेशो भवतीति हे भगवः ! ईदृशः आदेशः कथं भवेत् इत्यर्थः ।।

 

[उपादानोपादेयभावः]

 

यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातँ स्यात् ; वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।। ।।

प्र. – उपादानोपादेययोः तत् सम्भवति इत्यभिप्रायेण उत्तरमाह – यथा सौम्यैकेन इत्यादि । यथा उपादानभूते मृत्पिण्डे ज्ञाते तदुपादेयघटशरावादिकं ज्ञातं भवति, तद्वदित्यर्थः । नैयायिकरीत्या – असदेव घटादिकं मृत्पिण्डेन उत्पद्यते । अतश्च उपादानोपादेययोः भेदात् न मृत्पिण्डे ज्ञाते सर्वमृण्मयानां ज्ञातत्वं सम्भवति इति मन्वानं प्रत्याह वाचारम्भणं विकारः इत्यादि । घटत्वादिलक्षणो विकारो घटशरावादिनामधेयञ्च, आरभ्यते – आलभ्यते – स्पृश्यते इत्यारम्भणम् । कर्मणि ल्युट् । तेनैव मृद्द्रव्येण घटशरवादिलक्षणो विकारो घटशरावादिनामधेयञ्च स्पृश्यते इत्यर्थः । आरम्भणशब्दस्य पुन्नपुंसकलिङ्गान्तविकारनामधेयविशेषणत्वेऽपि नपुंसकैकशेषैकवद्भावाभ्यां वा लिङ्गसामान्यादिविवक्षया वा आरम्भणमिति नपुंसकैकवचननिर्देशः । मृद्द्रव्येण विकारनामधेये कस्मै प्रयोजनाय स्पृश्येते इत्यत्राह – वाचा इति । प्रयोजनस्य हेतुत्वविवक्षया तृतीया ।

वाक्छब्दश्च अजहल्लक्षणया वागादिव्यवहारपरः । ततश्च वाक्पूर्वकहानादिव्यवहारार्थं मृत्पिण्डेन नामरूपे स्पृश्यते । मृत्पिण्ड एव नामरूपभाक् भवति इत्यर्थः । अत्र यद्यपि मृत्पिण्डमृन्मयाभेदप्रतिपादनं वाचारम्भणं विकारः इति एतावन्मात्रेणापि सिद्ध्यति इति न नामधेयस्यापि स्पृश्यत्वं वक्तव्यम् । तथाऽपि संज्ञाभेदात् उपादानोपादेययोः भेदशङ्काव्युदासाय नामापि मृद्रव्येण स्पृश्यते इत्युक्ति: अपेक्षिता इति द्रष्टव्यम् । कार्यकारणयोः एकद्रव्यत्वे प्रमाणमाह – मृत्तिकेत्येव सत्यम् । मृन्मयं घटादिकं मृतिका इत्येव प्रमाणप्रतिपत्रं, न तु तद्भिन्नत्वेन इत्यर्थः । यद्वा मृन्मयं मृत्तिका इति वाक्यमेव सत्यं अबाधितार्थकम् इत्यर्थः । ततश्च उपादानोपादेययोः अभेदात् उपादाने ज्ञाते उपादेयस्य ज्ञातता भवति इत्यर्थः ।

एतेन ‘विकारो वाचारम्भणं वागालम्बनमात्रम् । नामधेय स्वार्थे धेयट्प्रत्ययः । नामैव केवलं, न विकारो नाम वस्तु अस्ति, मृत्तिकैव सत्यम्’ इति यत्परै: उक्तम् -तदपास्तम् । वाचारम्भणम् इत्यस्य वागालम्बनम् इत्येतदर्थकत्वे प्रमाणाभावात् । नामधेयम् इत्यनेन वागालम्बनमात्रम् इत्यतः अतिरिक्तार्थाप्रतिपादनात् पुनरुक्तिश्च । मृत्तिकासत्यत्वमात्रत्वविवक्षायाम् इति शब्दवैयर्थ्यञ्च । उक्तञ्च अभियुक्तैः वाचारम्भणमित्युक्तेमिथ्येत्यश्रुतकल्पनम् । पुनरुक्तिर्नामधेयमितीत्यस्य निरर्थता ।। इति ।

किञ्च परमते, ‘येनाश्रुतं श्रुतं भवति’ इति सन्दर्भोऽपि न युज्यते । शुक्तितत्त्वे ज्ञाते तदध्यस्तरजतादेः निवृत्तावपि रजतत्वस्य ज्ञातत्वादर्शनेन ब्रह्मणि ज्ञाते तदध्यस्तप्रपञ्चस्य निवृत्तावपि ज्ञातत्वासम्भवात् । ननु शुक्तौ ज्ञातायां रजतस्य तत्त्वं ज्ञातमेव । शुक्तिव्यतिरिक्त ‘त्त्वस्या भावात् । एवं ब्रह्मणि ज्ञाते प्रपञ्चस्य तत्त्वं ज्ञातमेवेति चेत् न परमार्थशुक्तः अपरमार्थरजततत्त्वरूपत्वाभावात् । न हि शुक्तौ ज्ञातायां रजततत्त्वं ज्ञातमिति व्यवहारो दृष्टचरः इति आस्तां तावत् ।

ननु ‘सर्वं मृन्मयं विज्ञातं स्यात्’ इत्यत्र विकारार्थमयट्प्रत्ययेन घटत्वशरावत्वाद्यव-स्थावद्रव्यरूपो विकारः एव अभिधातव्यः । न तु घटत्वशरावत्वाद्यवस्थारूपो विकारः, तस्य मृत्पिण्डापेक्षया भिन्नत्वेन तज्ज्ञानेन ज्ञातत्वासम्भवात् । ततश्च तदुपपादके, ‘वाचारम्भणं विकारः’ इति वाक्येऽपि विकारशब्देन अवस्थावद्रव्यलक्षणस्य विकारस्य अभिधानम् उचितम्, न तु अवस्थालक्षणविकारस्य इति चेत्, सत्यम् । तस्यैव अभिधानम् उचितम् । तथाऽपि मृद्द्रव्येण घटशरावादिलक्षणस्य अवस्थावतो द्रव्यस्य स्पर्शासम्भवात् । न हि आत्मैव आत्मना स्प्रष्टुं शक्यः । अतः मृन्मयम् इत्यत्र विकारवाचिमयट् प्रत्ययेन अवस्थावत: अभिधानेऽपि तदुपपादके वाचारम्भणं विकारः इति वाक्ये विकारशब्देन अवस्थायाः एव ग्रहणम् उचितम् । तथा ‘मृत्तिकेत्येव सत्यम्’ इत्यत्र विशेष्याकाङ्क्षायां सत्यमिति नपुंसकलिङ्गानुरोधात् अवस्थावद्द्रव्यवाची मृन्मयम् इत्येतत् विशेष्यतया अनुषज्यते । ततश्च ‘सर्वं मृन्मयं,’ ‘मृत्तिकेत्येव सत्यम्’ इत्यत्र अवस्थावद्रव्यमेव विकारवाचिना मयट्प्रत्ययेन अभिधीयते इति न कश्चिद्दोषः इति द्रष्टव्यम् ।।

यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातँ स्यात् वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ।। ।।

प्र. – यथा सोम्यैकेन इत्यादि । लोहमणिः – सुवर्णपिण्डविशेषः । शिष्टं पूर्ववत् ।।

यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातँ स्यात् ; वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यम् – एवँ सोम्य स आदेशो भवतीति ।। ६ ।।

प्र. – यथा सोम्यकेन इत्यादि । नखनिकृन्तनशब्देन कार्ष्णयसपिण्डो लक्ष्यते । शिष्टं पूर्ववत् । एवं सोम्य ! आदेशो भवतीति । मयोक्तः आदेशो मृत्पिण्डादितुल्य: इत्यर्थः ।।।

 

वै नूनं भगवन्तस्त एतदवेदिषुः यद्ध्येतदवेदिष्यन्, कथं मे नावक्ष्यन् इति भगवाँस्त्वेव मे तद्ब्रवीतुइति तथा सोम्यइति होवाच ।। ।।

।। इति प्रथमः खण्डः ।।

प्र.-एवमुक्तः पुत्र आह- वै नूनं भगवन्तस्ते इत्यादि । भगवन्तः पूजावन्तो मम गुरवः एतत्स्वरूपं न ज्ञातवन्तः । यत् – यदि एतत् वस्तुतो जानीयुः तर्हि भक्ताय गुणवते मह्यम् उपदिशेयुर्हि । नोपदिष्टवन्तस्तु ते । तेनाहं मन्ये न विदितवन्तः इति इत्यर्थः । एवम् अवाच्यमपि गुरोन्यङ्गं पुनः गुरुकुलं प्रति प्रेषणभयात् उक्त्वा, ‘भगवानेव तद्वस्तु उपदिशतु’ इति पितरं प्रार्थयामास इत्यर्थः । तथा सोम्येति होवाच । पिताऽपि ‘तत् तथैव वदानि’ इत्युक्तवान् इत्यर्थः ।।

 

।। इति प्रथमखण्डभाष्यम् ।।

 

द्वितीयः खण्डः

 

[सदेव सोम्येदमिति वाक्यार्थः]

 

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् तद्धैक आहुः, ‘असदेवेदमग्र आसीदेकमेवाद्वितीयम् तस्मादसतस्सज्जायत।। ।।

प्र. प्रतिज्ञातस्य एकविज्ञानेन सर्वविज्ञानस्य समर्थनाय जगतो ब्रोककारणतां प्रतिपादयितुं प्रवृत्तः, यथा लोके अपराह्ने प्रसारितानां घटशरावोदञ्चनादीनां मृत्पिण्डैकोपादानतां प्रतिपिपादयिषुः पूर्वाह्ने एतद्धटशरावादिकं मृत्पिण्डः एव आसीत् इति प्रतिपादयति तथा प्रतिपादयति – सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । इदम् – विभक्तनामरूपं बहुत्वावस्थं जगत् अग्रे – सृष्टेः प्राक् एकमेव अविभक्तनामरूपतया एकत्वावस्थापन्नमेव अद्वितीयम् – अधिष्ठात्रन्तरशून्यं सदेव आसीत् इत्यर्थः। अत्र सच्छब्दो नामसम्बन्धयोग्यत्वलक्षणं सत्त्वं प्रवृत्तिनिमित्तीकृत्य परमात्मनि वर्तते । अयं च सच्छब्द: विशेष्यभूतपरमात्मवाचकोऽपि कारणविषयत्व सामर्थ्यात् कारणत्वौपयिकगुणविशिष्ट प्रकृतिपुरुषकालशरीरकं परमात्मानम् उपस्थापयति । ‘देवाँ आज्यपाँ आवह’ इत्यादौ विशेष्यवाचिनः एव आज्यशब्दस्य विकृतिषु पृषदाज्यवाचित्वस्य दाशमिकन्यायसिद्धत्वात् । अत्र सदेव इत्येवकारेण नैयायिकाभिमतम् उत्पत्तेः प्राक् जगतो असत्त्वं व्यावय॑ते । सदेव इत्येवकारस्य नैयायिकमत ‘सिद्धोत्पत्ति प्राक्कालीनकार्यासत्त्वव्या वर्तकत्वम् ‘तद्धैक आहु रसदे वेदमग्र आसीत्’ इति असत्कार्यवादिदर्शनप्रतिक्षेपपरोत्तरवाक्यसन्दर्भात् अवसीयते । एकमेव इति एवकारेण ‘बहु स्याम्’ इति वक्ष्यमाणा स्रक्ष्यमाणकार्यबहुत्वावस्था व्युदस्यते । तदैक्षत’, ‘तत्तेजोऽसृजत’ इत्युत्तरवाक्यसन्दर्भ सच्छब्दितस्यैव निमित्तत्वकथनात् अद्वितीयम् इत्यनेन निमित्तान्तरं निषिध्यते । ततश्च एकम् अद्वितीयम् इति पदाभ्यां अभिन्ननिमित्तोपादानत्वं सिद्धं भवति ।

ततश्च अयमर्थः – इदं बहुत्वावस्थं विभक्तनामरूपं प्रत्यक्षतया दृश्यमानं जगत् सृष्टेः प्राक् निमित्तान्तरशून्यम् अविभक्तनामरूपतया एकं सच्छब्दितं ब्रह्मैव आसीत् इत्यर्थः । यद्यपि इदानीमपि जगत् सदेव, तथापि अविभक्तनामरूपसद्भावापत्तिः सृष्टेः प्रागेव इति अग्रे इत्यस्य न अनुपपत्तिः । न च सच्छब्दस्य सूक्ष्मप्रकृतिकाल जीव शरीरकब्रह्मपरत्वेन सच्छब्दस्य कार्यभूते जगति सृष्टे: प्राक् तादृशब्रह्मत्वबोधकत्वेऽपि जगति सत्तासम्बन्धबोधकत्वाभावेन असत्कार्यवादव्युदासकत्वं कथम् ? इति वाच्यम् सृष्टे: प्राक् सच्छब्दितब्रह्माभेदबोधने नैयायिकाभिमतासत्त्वव्युदासस्यापि अर्थसिद्धत्वात् ।

एतेन ‘एकमेवाद्वितीयम्’ इत्येतत् प्रपञ्चमिथ्यात्वे प्रमाण यन्तः परे प्रत्युक्ताः तस्य ब्रह्मव्यतिरिक्तमिथ्यात्वपरत्वे, ‘सदेव सोम्येदमग्र आसीत्’ इति कालप्रापकेण पूर्वेण अग्रपदेन ‘तदैक्षत’, ‘नामरूपे व्याकरवाणि’ इति ईक्षणनामरूपात्मकप्रपञ्चप्रापकेणोत्तरेण च विरोधप्रसङ्गात् । किञ्च, ‘इदं शब्दोदितं सर्वं जगत् सृष्टेः प्राक् एकमेवाद्वितीयं सदेवासीत’ इति परैः व्याख्यातत्वेन सृष्टिप्राक्काले अद्वितीयपदेन द्वितीयासत्त्व “बोधनेऽपि सृष्ट्युत्तरकालं तस्य असत्त्वाप्रतिपादनेन जगतः मिथ्यात्वसिद्धेः । घटशरावादिकं सर्वं सृष्टेः प्राक्काले अद्वितीय एकमृत्पिण्डः एव आसीत् इत्युक्त्या घटशरावादीनां मिथ्यात्वप्रतिपादनादर्शनात् । प्रागसत्त्वप्रतिपादनेन हि अनित्यत्वमात्रं सिद्ध्येत् न तु मिथ्यात्वम् । न च ‘नेह नानास्ति’ (बृ.उ.६-४-१९) इति वाक्यात् सृष्ट्युत्तरकालेऽपि असत्त्वावेदनात् मिथ्यात्वसिद्धिः इति वाच्यम् । ‘न स्थानतोऽपि परस्य’ (ब्र.सू.३-२-११)

इत्यधिकरणे तस्य वाक्यस्य ब्रह्मगतनानात्वनिषेधपरतया परैरेव व्याख्यातत्वात् । ननु अनित्यत्वमेव मिथ्यात्वम् । ‘अनित्यस्य धर्मिणः अनित्यत्वं असत्यत्वम्’ इति वाचस्पतिमिश्रोक्तेः, विद्यारण्ययतिनाऽपि तथैव उक्तत्वात् , ‘अनाशी परमार्थश्च प्राज्ञैरभ्युपगम्यते । यत्तु कालान्तरेणापि नान्यसंज्ञामुपैति वै” । ‘परिणामादिसम्भूतां तद्वस्तु नृप ! तञ्च किम्’ ? ।। (वि.पु.२-१२-२४) इति पराशरस्मरणादपि अनित्यत्वमेव मिथ्यात्वम् इति चेत् – ईदृशस्य प्रामाणिकस्य प्रत्यक्षाविरुद्धस्य प्रपञ्चमिथ्यात्वस्य अस्माभिरपि अप्रतिक्षेप्यत्वात् इति आस्तां तावत् ।

सदेवासीत् इति सृष्टिप्राक्काले ब्रह्माभेदप्रतिपादनमुखेन सत्कार्यवादम् उक्त्वा तद्विरोध्यसत्कार्यवादं नैयायिकाभिमतं वाचारम्भणम् इत्यादिना प्रतिक्षिप्तमपि कण्ठतः प्रतिक्षेप्तुं तन्मतम् उपन्यस्यति – तद्धैक आहुः असदेवेदम् इत्यादि । इदं जगत् अग्रे – सृष्टेः प्राक् असदेव आसीत् । न तु सत् आसीत् इत्यर्थः । नामरूपविभागाभावलक्षणस्य असत्त्वस्य सिद्धान्तेऽपि सम्मतत्वादाह – एकमेवाद्वितीयम् । प्रागभावव्यतिरेकेण अवस्थायाः वा अवस्थाश्रयस्य वा कस्यापि सत्त्वं नास्ति इत्यर्थः । यद्वा असदेव इत्यत्र अ इत्येतत् सत्पदेन असमस्तं सत् ‘सदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्’ इति वाक्यार्थप्रतिक्षेपकम् । तस्मादसतस्सज्जायत । सदिति भावप्रधानो निर्देश: । ‘सत्ता इत्यर्थः । यस्माद्धेतोः उत्पत्तेः प्रागवस्थाश्रयस्यापि अभावः तस्माद्धेतोः असतः सकाशात् सत्त्वरूपा उत्पत्तिः अजायत अभवत् इत्यर्थः । पर्यवसन्नम् इति यावत् । जायत इत्यत्र अडभावः छान्दसः ।।

 

कुतस्तु खलु सोम्येवँ स्यात्इति होवाचकथमसतः सज्जायेतइति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।। ।।

 

प्र.-तन्मतं प्रतिक्षिपति – कुतस्तु खलु इति । कुतः केन प्रमाणेन असतः उत्पत्तिः प्रतीयते ? तदेव इदम् इति प्रत्यभिज्ञाविरोधेन प्रमाणस्य अनवतारात् इति भावः । अतः कथम् असतो द्रव्यस्य सत्ता भवेत् ? अतः असतः सत्त्वम् उत्पत्तिः न भवति । अपि तु सत एव द्रव्यस्य प्रथमक्षणावच्छिन्नावस्थान्तरसम्बन्धः एव उत्पत्तिः इत्यर्थः । एवं परपक्षं प्रतिक्षिप्य स्वमतम् उपसंहरति – सत्त्वेव इति । ननु इदम् शब्देन जगन्मात्रपरामर्शे तस्य सच्छब्दितब्रह्मभिन्नत्वेन ‘सदेवेदमग्र आसीत्’ इति ब्रह्माभेदानु’पपत्तिः । नापि इदंशब्देन इदंशब्दितजगच्छरीरकब्रह्मप्रतिपादनं सम्भवति । अश्रुतवेदान्तं प्रति इदमादिशब्दानां ब्रह्मपर्यन्तप्रत्यायकत्वासंभवात् इति चेत् अस्याः शङ्कायाः परिहारो मुण्डकप्रकाशिकायामेव प्रपञ्चितः । अत्रापि च स्वावसरे करिष्यामः । तत्रैव, ‘अनुसन्धातव्यः ।।

 

तदेक्षत, बहु स्यां प्रजायेयेति तत् तेजोऽसृजत तत्तेज ऐक्षत, बहु स्यां प्रजायेयेति तदपोऽसृजत तस्मात् यत्र क्वचन शोचति स्वेदते वा पुरुषःतेजस एव तदध्यापो जायन्ते ।। ।।

प्र.-तदैक्षत बहुस्याम् इत्यादि । तत् – एतत् सच्छब्दवाच्यं परं ब्रह्म विचित्रानन्तचिदचिन्मिश्रव्यष्टिजगद्रूपेण अहमेव बहु स्याम् । तदर्थ तेजोबन्नादिसमष्टिरूपेण प्रकर्षेण जायेय इति सङ्कल्प्य तेजः ससर्ज इत्यर्थः । तत्तेज ऐक्षत बहु स्याम् इत्यादि । अत्र अचेतनस्य तेजआदेः ईक्षितृत्वासम्भवात् तेजआदिशब्दाः तच्छरीरक परमात्मपरा: द्रष्टव्याः । भगवता भाष्यकृता – ‘गौणश्चेन्नात्मशब्दात्’ (ब्र.सू.१-१-६) इति सूत्रे तेज:- प्रभृतयोऽपि शब्दाः परमात्मनः एव वाचकाः । ‘तत्तेज ऐक्षत, ता आप ऐक्षन्त इति मुख्यः एव ईक्षणव्यपदेशः’ इति भाषितम् । तथा ‘तदभिध्यानादेव तु तल्लिङ्गात् सः’ (ब्र.सू. २-३-१४) इति सूत्रे ‘तत्तेज ऐक्षत, ता आप ऐक्षन्त’ इति श्रूयमाणम् ईक्षणं तच्छरीरकस्य परस्यैव ब्रह्मणः उपपद्यते इति भाषितम् । संज्ञामूर्तिकॢप्त्यधिकरणे ‘तत्तेज ऐक्षत’ इति तेजश्शरीरकं परब्रह्मैव अभिधीयते इति च भाषितम् । न च तत्तेज ऐक्षत इत्यत्र तेजश्शब्दस्य तेजश्शरीरकब्रह्मपरत्वे ‘तत्तेजोऽसृजत’ इति वाक्येऽपि तेजश्शब्दस्य ब्रह्मपरत्वं स्यात् । न च इष्टापत्तिः । ब्रह्मणः सृज्यत्वाभावात् इति चेन्न । तेजश्शरीरकब्रह्मणः कार्यत्वेन सृज्यत्वे दोषाभावात् । तेजसो जलहेतुत्वे उपपत्तिं दर्शयति – तस्मादन्यत्र क्वचन इत्यादि । यत्र क्वचन देशे-काले च पुरुषः शोचति -सन्तप्यते स्वेदते – प्रस्विद्यते वा तत् तदा तेजसः एवाऽपो अधिजायन्ते इत्यर्थः ।।

 

ता आप ऐक्षन्त बह्व्यः स्याम प्रजायेमहीति ता अन्नमसृजन्त । तस्मात् यत्र क्वचन वर्षति, तदेव भूयिष्ठमन्नं भवति अभ्द्य एव तदध्यन्नाद्यं जायते ।। ।।

 

इति द्वितीयः खण्डः ।।

प्र. – ता आप ऐक्षन्त इत्यादि । अत्र अन्नशब्देन महाभूताधिकारात् पृथिवी उच्यते । सूत्रितञ्च, ‘पृथिवी’, (ब्र.सू.२-३-१२) ‘अधिकाररूपशब्दान्तरेभ्यः (ब्र.सू.२-३-१३) इति । अधिकारः महाभूताधिकारः । रूपम् यत्कृष्णं तदन्नस्य इति। तैत्तिरीयके – अभ्द्यपृथिवी (तै आन.१) इति शब्दान्तरम् । एतञ्च सूत्रम् अन्यत्र व्याकृतम् । अपाम् अन्नहेतुत्वे युक्तिमाह – तस्मात् यत्र क्वचन वर्षति इत्यादि । तदेव भूयिष्ठमन्नं भवति तदेव . तत्रैव इत्यर्थः । अभ्द्य एव तदध्यन्नाद्यं जायते तत् – तस्मात् पृथिव्येकदेशभूते व्रीहियवादिलक्षणस्य अन्नस्य वृष्टिप्रभवत्वदर्शनादेव हेतोः अन्नाद्यं – अन्नप्रभृतिपृथिवीत्वावच्छिन्नमपि अभ्द्य एव अधिजायते इत्यर्थः ।

एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणं ‘लिख्यते’ द्वितीयाध्याये – छान्दोग्ये ‘तत्तेजोऽसृजत’ इति तेजस एव प्रथमतः सृष्ट्यभिधानात्, आकाशोत्पत्तेः अश्रुतेः आकाशो नोत्पद्यते इति ‘न वियदश्रुतेः’ (ब्र.सू.२-३-१) इति सूत्रेण पूर्वपक्षे प्राप्ते उच्यते – ‘अस्ति तु’ (ब्र.सू.२-३-२) आकाशस्यापि उत्पत्तिः अस्त्येव । तैत्तिरीयके – ‘आत्मन आकाशस्सम्भूतः’ (तै.उ.आन २-१-१) इत्युत्पत्तेः श्रवणात् । पुनश्चोदयति – ‘गौण्यसम्भवाच्छब्दाच्च‘ (ब्र.सू.२-३-३) । ‘आत्मन आकाशस्सम्भूतः’ इति उत्पत्तिश्रुतिर्गाणी, निरवयव आकाशोत्पत्तेः छान्दोग्ये च अश्रुतायाः प्रतिपादनासम्भवात्, ‘वायुश्चान्तरिक्षञ्चैतदमृतमुभयम्’ इति आकाशस्य अमृतत्वश्रवणाञ्च इत्यर्थः । ननु -‘आत्मन आकाशस्सम्भूतः’ इत्यत्र आकाशे सम्भूतशब्दस्य गौणत्वे  ‘आकाशाद्वायुः, वायोरग्निः’ (तै.उ.आन.१) इत्यादौ श्रुतस्य सम्भूतत्वस्यापि गौणत्वं स्यादिति । तत्राह ‘स्याच्चैकस्य ब्रह्मशब्दवत्’ (ब्र.सू. २-३-५), एकस्यैव सम्भूतशब्दस्य आकाशे गौणत्वम्, ‘वायोरग्निः’ इत्यादौ अनुषक्तस्य सम्भूतशब्दस्य मुख्यत्वञ्च सम्भवति । यथा मुण्डके -‘तस्मादतत् ब्रह्म नामरूपमन्नञ्च जायते’ (मुं.उ.१-१-९) इति प्रधाने गौणतया प्रयुक्तस्य ब्रह्मशब्दस्य तस्मिन्नेव प्रकरणे तपसा चीयते ब्रह्म’ (मुं.उ.१-१-८) इति ब्रह्मणि मुख्यतया प्रयोगदर्शनात् ।

परिहरति – ‘प्रतिज्ञाऽहानिरव्यतिरेकात्’ (ब्र.सू. २-३-५) । आकाशस्यापि ब्रह्मोपादेयतया ब्रह्माव्यतिरेके सत्येव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञायाः अहानि: भवति । ब्रह्माकार्यस्यापि वस्तुनः सत्त्वे एकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं हीयेत इत्यर्थः । ‘शब्देभ्यः’ (ब्र.सू.२-३-६) ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्, ऐतदात्म्यमिदं सर्वम्’ (छा.उ.६-८-७) इत्यादिशब्दैः सर्वस्यापि वस्तुनी ब्रह्मकार्यत्वब्रह्मात्मकत्वप्रतिपादनपरैश्च अयमर्थो विधीयते । ‘यावद्विकारं तु विभागो लोकवत्’ (ब्र.सू.२-३-७) । तुशब्दश्चार्थे । छान्दोग्ये ‘ऐतदात्म्यमिदं सर्वम्’ इत्यादिभिः आकाशादेः सर्वस्यापि विकारत्वप्रतिपादनादेव विभागशब्दिता उत्पत्तिरपि उक्तैव । यथा लोके एते सर्वे देवदत्तपुत्रा इत्यभिधाय तेषु केषाञ्चित् उत्पत्तिप्रतिपादनेऽपि सर्वेषामपि उत्पत्तिः प्रतिपादितैव भवति तद्वत् ।

‘वायुश्चान्तरिक्षञ्चैतदमृतम्’ (बृ.उ.२-३-३) इति तु देवानामिव चिरकालस्थायित्वाभिप्रायम् । ‘एतेन मातरिश्वा व्याख्यातः’ (ब्र.सू. २-३-८) आकाशोत्पत्तिप्रतिपादनेनैव वायोरपि उत्पत्तिः प्रतिपादितैव इत्यर्थः । ‘असम्भवस्तु सतोऽनुपपत्तेः’ (ब्र.सू.२-३-९) । तु शब्दो अवधारणार्थः । असम्भवः अनुत्पत्तिः सतः ब्रह्मण एव । तद्व्यतिरिक्तस्य कृत्स्नस्य अव्यक्तमहदहङ्कारतन्मात्रेन्द्रियवियत्पवनादिकस्य प्रपञ्चस्य एकविज्ञानेन सर्वविज्ञानादिभिः अवगतकार्य भावस्य’ अनुत्पत्तिः न उपपद्यते इत्यर्थं इति स्थितम् । प्रकृतमनुसरामः ।

 

।। इति द्वितीयखण्डभष्यम् ।।

 

तृतीयः खण्डः

 

तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जम् इति ।। ।।

 

प्र.-सर्वस्य इतरस्य तेजोऽबन्नात्मकबीजत्रयप्रसूतत्वं दर्शयति – तेषां खल्वेषाम् – इत्यादि । आण्डजं अण्डजं पक्षिसर्पादि । स्वार्थे अण् । जीवजम् गर्भवेष्टन’लक्षणजरायुजं पुरुषपश्वादि । उद्भिज्जम् – उद्भिनत्ति इति उद्भित् स्थावरम् । ततो जातम् उद्भिज्जम् । न च स्वेदजानाम् अत्र सङ्कीर्तनाभावात् कथं त्रीण्येव बीजानि इत्यवधारणम् इति शङ्कयम्, उद्भिज्जशब्देन स्वेदजस्यापि सङ्ग्रहोपपत्तेः । सूत्रितञ्च ‘तृतीयशब्दावरोध: संशोकजस्य’ (ब्र.सू.३-१-२१) इति । संशोकजस्य स्वेदजस्य आण्डजं जीवजम् उद्भिज्जम् इत्यत्र तृतीयेन उद्भिज्जशब्देन अवरोधः सङ्ग्रहः इत्यर्थः । इदञ्च सूत्रम् अन्यत्र व्याख्यातम् । अण्डनादिशब्दनिर्दिष्टानाम् एषां भूतानां तेजोबन्नानि त्रीण्येव बीजानि इत्यर्थः । तदेवं परस्मात्ब्रह्मणो अनन्यत्वं जगतः अभ्युपगन्तव्यम् इति स्थितम् ।

 

सेयं देवतैक्षत, ‘हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।। ।।

प्र. तदेव उपपादयति – सेयं देवतैक्षत इत्यादि । अत्र संज्ञामूर्तिकॢप्त्यधिकरणे भगवता भाष्यकृता, सेयं देवता इत्यादिवाक्यस्य अयमर्थः । सेयं – सच्छब्दितापरदेवता इमाः तेजोऽबन्नरूपाः तिस्रो देवताः अनेन जीवेन – जीवसमष्टिविशिष्टेन आत्मना अनुप्रविश्य नामरूपे व्याकरवाणि देवादिविचित्रसृष्टिं तन्नामधेयानि च करवाणि इति भाषितम् । ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ (ब्र.सू.२-१-५) इति सूत्रे, ‘हन्ताहमिमास्तिस्रो देवताः इति तेजोऽबन्नानि देवताशब्देन विशेष्यन्ते’ इति भाषितत्वात् अत्र देवता इत्यभिमानिदेवतापरत्वम् ‘अवगन्तव्यम् । ततश्च इमास्तिस्रो देवता इत्यस्य अयमर्थः । स्वस्वाभिमानिदेवताधिष्ठितानि तेजोऽबन्नानि इति । तेजोऽबन्नाभिमानिदेवतानां परमात्मव्यतिरिक्तत्वे प्रमाणाभावात्, परमात्मनश्च सर्वाभिमानिदेवतात्वसम्भवाच्च, परमात्मरूपदेवताधिष्ठिता इत्यर्थः । परमात्मव्यतिरिक्तदेवताऽभ्युपगमेऽपि देवताशब्दस्य तदधिष्ठितत्वमेव अर्थः । न च ‘तत्तेजोऽसृजत, तत्तेज ऐक्षत’ इत्यादौ तेज आदिशब्दानां परमात्मपरत्वात् तेजोऽबन्नावस्थापन्नपरमात्मनां तत्तदुपहितत्वाद्यवस्थाऽधीनबहुत्वा- श्रयाणामेव, ‘इमास्तिस्रो देवताः’ इति देवताशब्देन परामर्शोऽस्तु ; न तु देवताशब्दस्य तदधिष्ठितपरामर्शित्वम् इति वाच्यम् । तत्तदवस्थपरमात्मसु जीवस्य प्रवेशासम्भवेन प्रवेशयोग्यतेजोऽबन्नानामेव अभेदोपचारेण लक्षणया वा देवताशब्देन निर्देष्टव्यत्वात् ।  महासिद्धान्ते – ‘तदेक्षत’ इति सर्वज्ञत्वम्, ‘असृजत’ इति निमित्तत्वम्, ‘बहुस्याम्’ इति उपादानत्वम्, तदुभयानुगुणं सर्वशक्तित्वं सत्यसङ्कल्पत्वं च, अनेन जीवेनात्मनाऽनुप्रविश्य’ इति सर्वान्तरत्वञ्च उक्तं भवति । जीवेनात्मना इति जीवशरीरकेण मया इत्यर्थः । ‘सिंहेन भूत्वा बहवो मयात्ताः, व्याघेण भूत्वा बहवो मयात्ताः’ इतिवत् । सार्वश्यादिगुणकस्य तद्विपरीताकारजीवैक्यासम्भवात् , ‘यस्यात्मा शरीरम्’ (बृ.उ.मा.पा.५-७-२६) इत्यादिवचनात्, ‘तदनुप्रविश्य’ इत्यचेतन इव जीवेऽपि अनुप्रवेशश्रवणान्च, शरीरवाचिशब्दस्य शरीरिपर्यन्तत्वमुख्यताया उपपन्नत्वाच्च, अयमेव अर्थः इति व्यासार्यै: उक्तम् । ननु जीवशरीरकेण मया प्रविश्य व्याकरवाणि इत्यर्थो न सम्भवति । व्याकरवाणि इति तिङा कर्तुः अभिहितत्वेन अनभिहिताधिकारविहिततृतीयानुपपत्तेः । न च व्याकरणक्रियाकर्तुः तिङा अभिहितत्वेऽपि प्रवेशक्रियाकर्तुः अनभिहितत्वात् तृतीया भविष्यति इति वाच्यम् । तर्हि, ‘मया भुक्त्वा व्रजामि’ इत्यपि प्रयोगः साधुः स्यात् । व्रजिक्रियाकर्तुः अभिधानेऽपि भुजिक्रियाकर्तुः अनभिहितत्वात् । ‘स्वादुमि णमुल्’ (पा.सू.३-४-२६) इति सूत्रे कैयटेन क्त्वाप्रत्ययस्य भावार्थत्वात्, ‘पक्त्वौदनं भुङ्क्ते देवदत्तः’, ‘पक्त्वौदनो भुज्यते देवदत्तेन’ इत्यत्र च क्त्वाप्रत्ययेन पचिक्रियाकर्तृकर्मणोः अनभिधानात् तृतीयाद्वितीये कुतो न प्राप्नुतः इत्याशङ्कय, ‘आख्यातपदवाच्या क्रिया विशेष्यत्वात् प्रधानम् । इतरा तु विशेषणत्वात् अप्रधानम् । तत्क्रियासाधनयोः अपि शक्तयोः तद्वारको गुणप्रधानभावः । तत्र ‘प्रधान’शक्तयभिधाने गुणक्रियाशक्तिरभिहितवत् प्रकाशते, प्रधानानुरोधात् गुणानाम्, पृथक् तद्विरुद्धस्वकार्यारम्भायोगाच्च‘ इत्युक्तत्वात् इति चेत् -सत्यम् । मया इत्यस्य स्वरूपेण इत्यर्थः । आत्मशब्दः स्वरूपपरः । यद्यपि जीवशरीरकं स्वरूपं व्याकरणकर्तुः न भिद्यते । तथाऽपि ‘व्यपदेशिवदेकस्मिन् बुद्ध्या नानात्वकल्पना’ इति न्यायेन कल्पितभेदम् आदाय अनभिहिताधिकारविहिततृतीयोपपत्तेः । घटः स्वेन रूपेण इतरव्यावृत्तिं करोति इत्यादिप्रयोगदर्शनात्, करोति इंति तिङा कर्तुः अभिहितत्वात् । ननु तत्र करणार्थे तृतीया, करणञ्च न तिङाऽभिहितम् इति चेत्, तर्हि प्रकृतेऽपि तथाऽस्तु । ‘तेनेशस्तद्विशिष्टस्यकरणकतयाऽनुप्रेवेशेऽपि कर्ता’ (अधि.सा.२६४) इति अधिकरणसारावल्युक्तच अयमर्थः ।

यद्रा आरम्भणाधिकरणे, ‘अनेन जीवनात्मना • मदात्मकजीवेन आत्मतया अनुप्रविश्य एतद्विचित्रनामरूपभाक् करवाणि’ इति भाषितत्वेन जीवशब्दस्य परमात्मपर्यन्तत्वाभावस्यापि प्रदर्शितत्त्वात् तदनुसारेण जीवेन इत्यस्य जीवः एवार्थः । आत्मशब्दस्य शरीरत्वम् अर्थः । शरीरभूतेन अनेन जीवेन अनुप्रविश्य नामरूपे व्याकरवाणि इत्यर्थः । आत्मशब्दस्य शरीरवाचित्वम् अभिप्रेत्यैव मदात्मकजीवेन इति भाषितम् । ‘आत्मतयाऽनुप्रविश्य’ इति भाष्यस्य अयमर्थः । आत्मतया इति हेती तृतीया । हेतुत्वञ्च प्रयोजनत्वेन विवक्षितम् । आत्मत्वार्थम् अनुप्रविश्य इत्यर्थः । प्रविश्य नियन्तृत्वाभावे आत्मत्वासम्भवात् । ‘चारेणानुप्रविश्य परबल सङ्कलयानि’ इतिवत् इति । यद्वा – ‘अनेन जीवेनात्मनाऽनुप्रभूतः पेपीयमानी मोदमानस्तिष्ठति’ इत्यत्र इव ‘अनेन जीवेनात्मनाऽनुप्रविश्य’ इत्यत्रापि जीवात्मना इत्येवार्थः । अस्मिन् पक्षे अनेन इति शब्दस्य प्रमाणप्रतिपन्नपुरोवर्तिवाचिनो मच्छरीरभूतेन इत्यर्थः । ‘अनयोः ‘चारेणानुप्रविश्य परसैन्यं सङ्कलयानि’, ‘देवदत्तेन पक्त्वा चैत्रेण भुज्यते’ इत्यत्र इव विशिक्रियाप्रयोजककर्त्रा परमात्मना व्याप्रियमाणस्य जीवात्मनः करणतया तृतीयासंभवात् तृतीयायाः न अनुपपत्तिः । इयांस्तु विशेषः । नामरूपव्याकरणस्य ‘तासां विवृतं त्रिवृतमेकैकां करवाणि’ इति वक्ष्यमाणेन त्रिवृत्करणेन समानकर्तृकत्वावगमात् नामरूपव्याकरणांशे साक्षात्कर्तृत्वम् अस्ति । प्रवेशे तु सर्वव्यापकस्य परमात्मनः साक्षात्कर्तृत्वासम्भवात् प्रयोजक कर्तृत्वम् एवञ्च अनुप्रवेशनामरूपव्याकरणयोः समान-कर्तृकत्वसम्भवात् क्त्वाप्रत्ययस्यापि नानुपपत्तिः इति द्रष्टव्यम् । एतेन अन्त:करणविशिष्टस्य अहमर्थत्वं वदन्तः परे प्रत्युक्ताः । ‘बहु स्याम्’, ‘हन्ताहमिमाः’ इति सङ्कल्पसमये तस्य अभावात् इत्यास्तां तावत् ।।

 

तासां त्रिवृतं त्रिवृतमेकैकां करवाणिइति सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् ।। ।।

 

प्र.-तासां त्रिवृतम् इति । अत्र संज्ञामूर्तिकॢप्त्यधिकरणे भगवता भाष्यकृता, ‘तदर्थमन्योन्यसंसर्गमप्राप्तानामेषां तेजोऽबन्नानां विशेषसृष्ट्यसमर्थानां तत्सामर्थ्यायकैकां त्रिवृतं त्रिवृतं करवाणि’ इति इत्येतद्वाक्यार्थ उक्तः । अत्र तदर्थम् इत्यस्य देवादिविचित्ररूपाणां तन्नामधेयानां च करणार्थम् इत्यर्थः । पूर्वं ‘देवादिविचित्रसृष्टिं तन्नामधेयानि च करवाणि’ इत्युक्तेः इति द्रष्टव्यम् । अत्र इतिशब्दस्य, ‘सेयं देवतेक्षत’ इति पूर्वेण सम्बन्धः ।

एवम् ईक्षित्वा परा देवता यथासङ्कल्पम् अकरोत् इत्याह – सेयं देवता इत्यादि । अत्र त्रिवृत्करणाधीनत्वात् नामरूपव्याकरणस्य अर्थक्रमानुरोधेन पाठक्रमो बाध्यते । तत्र तेजोऽबन्नदेवतासु एकैकां त्रिवृतं त्रिवृतं कृत्वा नामरूपव्याकरणम् अकरोत् इत्यर्थः । अत्र व्यापकस्य परमात्मनः स्वरूपेण ‘अपृथक्सिद्ध सर्ववस्तुप्रवेशस्य सर्वदा सत्त्वेऽपि स्वशरीरभूतजीवेन अनुप्रवेशस्य पूर्वम् अभावात्, ‘जीवेनानुप्रविश्य नामरूपे व्याकरोत्’ इत्यस्य न अनुपपत्तिः ; चारस्य राजशरीरत्वाभावात् न चारेण अनुप्रविश्येति वाक्यसाम्यञ्च इति द्रष्टव्यम् ।।

 

तासां त्रिवृतं त्रिवृतमेकैकामकरोत् यथा तु खलु सोम्येमास्तिस्रो देवताः त्रिवत् त्रिवृदेकैका भवति, तन्मे विजानीहीति ।। ।।

 

।। इति तृतीयः खण्डः ।।

 

प्र. यथा तु इति । देवताधिष्ठितानां तेजोऽबन्नानां त्रिवृत्प्रकारं मे निगदतः शृणु इत्यर्थः । व्यासार्यै: आनन्दमयाधिकरणे – ‘अनुप्रविश्य नामरूपे व्याकरवाणि’ इत्यत्र नामरूपव्याकरणस्य अनुप्रवेशपूर्वकत्वम् अवगम्यते । ‘तत्सृष्ट्वा तदेवाऽनुप्राविशत्’ इत्यत्र अनुप्रवेशस्य सृष्टिपूर्वकत्वं गम्यते । तस्मात् समानकर्तृकत्वमेव विवक्षितम् । न पौर्वापर्यमपि । अत एव हि ‘तस्य त्वष्टा विदधद्रूपमेति’ (वा.सं.३१-२१) इति सृष्ट्यनुप्रवेशयोः समानकालिकत्वमेव प्रतीयते । अथवा ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति सृष्ट्यनन्तरत्वेन श्रूयमाणानु- प्रवेशः स्थित्यर्थोऽन्य एव इत्युक्तम् । व्यापकस्यापि परमात्मनः अन्तर्यामिविग्रहद्वारा अनुप्रवेशः उपपद्यते इति केचित् । जीवद्वारा एवानुप्रवेशः न स्वतः इति केचित् । प्रतिवस्तु तत्तद्वस्तुमात्रपूर्णपरमात्मकार्यकारित्वात् तत्र प्रविष्टः इव इत्युक्तिः इति केचित् ।।

 

।। इति तृतीयखण्डभाष्यम् ।।

 

चतुर्थः खण्डः

 

यदग्ने रोहितँ रूपम्, तेजसस्तद्रूपम् यच्छुक्लम्, तदपाम् यत्कृष्णम्तदन्नस्य अपागादग्नेरग्नित्वम् वाचारम्भणं विकारो नामधेयम् ; त्रीणि रूपाणीत्येवं सत्यम् ।।।।

 

प्र.-यदग्ने रोहितँ रूपम् इति । अग्नेः यद्रोहितं रूपं स्वरूपम् । रोहितोभागो दृश्यते, तत् अत्रिवृत्कृतस्य तेजसः स्वरूपम् । यच्छुक्लं तदपाम् इति । अपाम् अन्नस्य इत्यत्र रूपम् इत्यनुवर्तते । यदि इत्यतःपूर्वम् अग्नेः इत्यनुवर्तते । स्पष्टोऽर्थः । अग्रे. तेजोऽबन्नसमुदायरूपत्वे यावत्तेजोऽबन्नावस्थानम् अग्निरूपेण उपलम्भः प्राप्नोति इत्यत्राह . अपागादग्नेरग्नित्वम् – तेष्वेव तेजोऽबन्नेषु अग्न्याद्यवस्थानाशकसामग्रीसन्निधाने अग्नित्वावस्था अपेता भवति, अवस्थान्तरं प्रादुर्भवति । वाचारम्भणम् इति । अतः तेजोऽबन्नैरेव अग्नित्वाद्यवस्थालक्षणो विकारः अग्न्यादिनामधेयञ्च वाक्पूर्वकव्यवहारसिद्धये तेजोऽबन्नैरेव स्पृश्यते । अत: तेजोऽबन्नस्वरूपाणि एव अग्निः इति सत्यम् इत्यर्थः ।।

 

यदादित्यस्य रोहितँ रूपम्, तेजसस्तद्रूपम् यच्छुक्लम्, तदपाम् यत्कृष्णम्तदन्नस्य अपागादादित्यादादित्यत्वम् वाचारम्भणं विकारो नामधेयम् ; त्रीणि रूपाणीत्येव सत्यम् ।। ।।

 

यच्चन्द्रमसो रोहितँ रूपम् तेजसस्तद्रूपम् यच्छुक्लम्, तदपाम् यत्कृष्णम्तदन्नस्य अपागाच्चन्द्राच्चन्द्रत्वम् वाचारम्भणं विकारो नामधेयम् ; त्रीणि रूपाणीत्येव सत्यम् ।। ।।

 

यद्विद्युतो रोहितँ रूपम्, तेजसस्तद्रूपम् यच्छुक्लम्, तदपाम् यत्कृष्णम्तदन्नस्य अपागाद्विद्युतो विद्युत्त्वम् वाचारम्भणं विकारो नामधेयम् ; त्रीणि रूपाणीत्येव सत्यम् ।। ।।

प्र.-यदादित्यस्य रोहितँ इत्यादि । पूर्ववदर्थः ।। २-४ ।।

 

एतद्धस्म वै तद्विद्वाँस आहुः पूर्वे महाशाला महाश्रोत्रियाः, ‘ नोऽध्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यतिइति ह्येभ्यो विदाञ्चक्रुः ।। ।।

प्र. एतद्धस्म वै तद्विद्वांसः इति । उपादानात् उपादेयं न भिद्यत इत्येतत् स्वरूपज्ञाः महाशाला: – महागृहस्था: पूर्वे सर्ववेदपारगाः वक्ष्यमाणप्रकारेण उक्तवन्तः इत्यर्थः । ‘लट् स्मे’ (पा.सू.३-२-११८) इति स्मयोगात् भूतार्थेऽपि आहुः इति लडुपपत्तिः ।  नोद्य कश्चनाश्रुतम् इति । तेजोऽबन्नान्येव ‘ज्ञात्वा नः अस्माकम्, एभ्यः । तेजोऽबन्नेभ्यः अतिरिक्तम् अश्रुतममतमविज्ञातम् कोऽपि न उदाहर्तुं शक्नोति इति तेजोऽबन्नेभ्य एव सर्वं ज्ञातवन्तः इत्यर्थः ।।

 

यद् रोहितमिवाभूदिति, तेजसस्तद्रूपमिति तद्विदाञ्चक्रुः यदु शुक्लमिवाभूदिति, अपाँ रूपमिति तद्विदाञ्चक्रुः यदु कृष्णमिवाभूदिति, अन्नस्य रूपमिति तद्विदाञ्चक्रुः ।। ।।

 

प्र.-सर्वस्यापि तत्र अन्तर्भावमेव प्रदर्शयति – यदु रोहितमिवाभूत् इत्यादि । रोहितशुक्लकृष्णत्वेन भासमानं तेजोऽबन्नात्मकमेव इति ज्ञातवन्तः इत्यर्थः ।।

 

यद्वविज्ञातमिवाभूदिति, एतासामेव देवतानाँ समास इति तद्विदाञ्चक्रुः । यथा तु खलु सोम्येमास्तिस्रो देवता: पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवतितन्मे विजानीहीति ।। ।।

 

।। इति चतुर्थः खण्डः ।।

प्र. – यद्वविज्ञातमिवाभूत् इति। उः त्वर्थे । यदु – यत्तु उक्तेन रूपेण अज्ञायमानम् अभूत्, तदपि पीतमाञ्जिष्ठधूसरशोणादिरूपवत्त्वेन ज्ञायमानं रोहित शुक्लकृष्णतेजोऽबन्न-समुदायात्मकमेव ; न तु ततोऽतिरिक्तमिति ज्ञातवन्तः इत्यर्थः ।

एवं सर्वस्यापि प्रपञ्चस्य त्रिवृत्कृततेजोऽबन्नरूपत्वेन तदभेदं प्रसाध्य, अध्यात्मं मांसलोहितमज्जास्थिलक्षणस्य देहस्य त्रिवृत्कृततेजोऽबन्नाभेदम् इन्द्रियमनःप्राणानाञ्च त्रिवृत्कृततेजोबन्नाप्यायितत्वं प्रदर्शयितुं प्रस्तौति – यथा तु खलु इति – तेजोऽबन्नानि पुरुषेण भुज्यमानानि पुरुषं प्राप्य – यथा त्रिधा त्रिधा परिणमन्ते, तं परिणामप्रकारं शृणु इत्यर्थः ।।

 

।। इति चतुर्थखण्डभाष्यम् ।।

 

पञ्चमः खण्डः

 

अन्नमशितं त्रेधा विधीयते तस्य : स्थविष्ठो धातुस्तत् पुरीषं भवति यो मध्यमस्तन्माँसम्; योऽणिष्ठस्तन्मनः ।।।।

प्र. – अन्नमशितं त्रेधा विधीयते अशितं पुरुषेण भुक्तं जाठराग्निना पच्यमानम् अन्नं स्थविष्ठमध्यमाणिष्ठरूपेण त्रेधा विभक्तं भवति । तस्य यः स्थविष्ठः इत्यादि । स्थूलांशः पुरीषताम् आपद्यते । मध्यमांशस्तु मांसताम् । अणिष्ठांशस्तु मनस आप्यायकताम् आपद्यते । मनसः आहङ्कारिकत्वेन अन्नविकारत्वाभावात् इति भावः ।।

 

आप: पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ; यो मध्यमस्तल्लोहितम् योऽणिष्ठः प्राणः ।। ।।

 प्र.-आप: पीता: त्रेधा विधीयन्ते इत्यादि । योऽणिष्ठः प्राण: अपां सूक्ष्मांश: प्राणाप्यायको भवति इत्यर्थः । शिष्टं स्पष्टम् ।।

तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुः तदस्थि भवति यो मध्यमः मज्जा; योऽणिष्ठः सा वाक् ।। ।।

 

प्र.-तेजोऽशितं त्रेधा विधीयते इत्यादि । तैलघृतादिकं तेजश्शब्देन उच्यते । मज्जा अस्थ्यन्तर्गतस्नेहो धातुविशेषः । घृततैलादेः पीतस्य सूक्ष्मांश: वागाप्यायकः इत्यर्थः ।।

अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।। ।।

 

।। इति पञ्चमः खण्डः ।।

 

प्र. – अन्नमयं हि सोम्य मन इति । उक्तरीत्या मन:प्राणवाचां अन्न-जल-तेजस्सूक्ष्मांशाः आप्यायितत्वात् मनः अन्नमयं, प्राणः अम्मय: तेजोमयी वाक् इत्यर्थः । ननु के वलान्नभक्षाणाम् आखुप्रभृतीनामपि वाग्मित्वप्राणवत्त्वदर्शनात्, अम्मात्रभक्षाणामपि मत्स्यादीनां मनस्वित्ववाग्मित्वदर्शनात्, घृत-तैलमात्रभक्षाणामपि मनस्वित्वप्राणवत्त्वदर्शनात्, कथम्, ‘अन्नमयं हि सोम्य मन, आपोमयः प्राणस्तेजोमयी वाक्’ इति उपपद्यत इति चेत्, सर्वस्यापि त्रिवृत्कृतत्वेन सर्वस्यापि भक्ष्यस्य तेजोऽबन्नरूपतया ‘अन्नमयं हि सोम्य मन आपोमयः प्राणस्तेजोमयी वाक्’ इत्युपपद्यत इति न क्षतिः इति द्रष्टव्यम् भूय एव इति । भूयः – पुनरपि सम्यग्दृष्टान्तै: अमुमर्थं दर्शयेति शिष्यः प्रार्थयामास इत्यर्थः । तथा सोम्येति होवाच । आचार्योऽपि तथाऽस्तु इति उवाच इत्यर्थः ।।

 

।। इति पञ्चमखण्डभाष्यम् ।।

 

।।षष्ठ: खण्ड:।।

 

[भक्ष्यमाणस्य अणीयभाग: मन आदिर्भवति इति]

 

दध्न: सोम्य मथ्यमानस्य योऽणिमा ऊर्ध्व: समुदीषति तत् सर्पिर्भवति ।।।।

 

एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा ऊर्ध्वः समुदीषति तन्मनो भवति ।।।।

 

अपाँ सोम्य पीयमानानां योऽणिमा ऊर्ध्वः समुदीषति प्राणो भवति ।।।।

 

तेजसः सोम्याश्यमानस्य योऽणिमा ऊर्ध्वः समुदीषति सा वाग्भवति ।। ।।

 

आन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति ।। भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।। ।।

 

।। इति षष्ठ: खण्ड: ।।

 

प्र.-दध्नस्सोम्य मथ्यमानस्य इत्यादि । हे सोम्य ! मथ्यमानस्य दध्न:, ऊर्ध्वः उद्गतोऽणीयानंशो यथा सर्पिर्भवति इत्यर्थः । एवमेव खलु इत्यादि । एवमेव – उक्तदृष्टान्तवदेव औदर्येण अग्निना पच्यमानस्य अन्नस्य योऽणिमा – अणीयानंशः, ऊर्ध्वः – उद्गतोमनो भवति । मनस आप्यायको भवति इत्यर्थः । समुदीषति ‘ईषगतिहिंसादर्शनेषु’ (धा.पा.६११) इति हि धातुः । अपाँ सोम्य पीयमानानां इत्यादि । पूर्ववदर्थः । अन्नमयँ हि सोम्य मन इत्यादि । स्पष्टम् । भूय एव मा भगवान् विज्ञापयत्विति । मनसोऽन्नमयत्वं यथा बुद्ध्यारूढं भवति, तथा प्रदर्शयेति । श्वेतकेतुराह इत्यर्थः । तथा सोम्येति होवाच पूर्ववदर्थः ।। १-५ ।।

 

।। इति षष्ठखण्डभाष्यम् ।।

 

सप्तमः खण्डः

 

[षोडशकलपुरुषोपदेशः]

 

षोडशकल: सोम्य पुरुषः पञ्चदशाहानि माऽशीः; काममपः पिबआपोमयः प्राणो पिबतो विच्छेत्स्यत इति ।। ।।

 

प्र.-षोडशकलस्सोम्य पुरुषः षोडशांशयुक्तमनआदिकलायुक्तः पुरुषः । ततश्च मनआदेः षोडशांशाः प्रत्यहं भुज्यमानै:  अन्नादिभिः आप्यायिता भवन्ति । पञ्चदशाहानि माशीः तत्र पञ्चदशाहानि मा भुङ्क्थाः । काममपः पिब यथेष्टं जलं पिब । आपोमयः प्राणो इति । जलपाने प्राणविच्छेदो न भविता । जलमयत्वात् प्राणस्य इत्याचार्य उवाच इत्यर्थः ।।

 

पञ्चदशाहानि नाऽऽश अथ हैनमुपससाद, ‘किं ब्रवीमि भोइति । ऋचः सोम्य यजूँषि सामानीति होवाच, ‘ वै मा प्रतिभान्ति भोइति ।।।।

 

प्र.- पञ्चदशाहानि नाश । एवं पित्रोक्तः पुत्रः पञ्चदशाहानि नाशन भुक्तवान्’ । अथ हैनम् इति । षोडशेऽहनि पितरम् उपसनश्शिष्य: ‘भगवन् कि ब्रवीमि’ इत्युक्तवान् इत्यर्थः । इतर आह – ऋचः सोम्य इति । अधीतान् वेदान् पठ इत्युक्तवान् इत्यर्थः । होवाच इति । मां प्रति वेदाः न प्रतिभान्ति इति इतरः प्रत्युक्तवान् इत्यर्थः ।।

 

तँ होवाचयथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गार; खद्योतमात्रः परिशिष्टः स्यात् ; तेन ततोऽपि बहु दहेत्एवँ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टा स्यात् ; तयैतर्हि वेदान्नानुभवसि अशान अथ मे विज्ञास्यसीति ।।।।

प्र.-तँ होवाच । पिता प्रत्युवाच इत्यर्थः । यथा सोम्य इत्यादि । हे सोम्य ! यथा लोके, महत: इन्धनैः अभ्याहितस्य प्रज्वलितस्य अग्रेः शान्तस्य एकोऽङ्गारः खद्योतमात्रपरिशिष्टो भवेत् । तेन अङ्गारेण, ततोऽपि खद्योतमात्रपरिमाणात् किञ्चिदपि, बहु न दहेत् । एवमेव खलु सोम्य ! ते अन्नोपचितानां षोडशानां मनसोऽशानाम् एकोंऽशोऽवशिष्टः । पञ्चदशदिनेषु पञ्चदशकलानां क्षीणत्वात् इति भावः । अतोऽल्पीयसा तेनांशेन इदानीं वेदान् न प्रतिपद्यसे । अशान भुङ्क्ष्व तत ऊर्ध्वं मे मदुक्तं ज्ञास्यसि इत्यर्थः ।।

हाऽऽश अथ हैनमुपससाद तँ यत् किञ्च पप्रच्छ, सर्वं प्रतिपेदं तँ होवाच ।। ।।

प्र.- हाऽऽश अथ हैनमुपससाद । एवं पित्रोक्तः सः श्वेतकेतुः आऽऽश -भुक्तवान् । अथ भुक्त्वा पितरम् उपसन्नः । तँ यत्किञ्च इति । तँतदा पिता यद्यत्पृष्टवान् तत्तत्सर्वं स ज्ञातवान् इत्यर्थः तँ होवाच । पिता इति शेषः ।।

 

यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृणैरुपसमाधाय प्राज्वालयेत् ; तेन ततोऽपि बहु दहेत् ।। ।।

 

एवँ सोम्य ते षोडशानां कलानामेका कलाऽतिशिष्टाऽभूत् ; साऽन्नेनोपसमाहिता प्राज्वालीत् तयैतर्हि वेदान् अनुभवसि

अन्नमयँ हि सोम्य मन आपोमयः प्राणस्तेजोमयी वागिति । तद्धास्य विजज्ञावितिविजज्ञाविति ।। ।।

प्र.-यथा सोम्य इत्यादि । यथा महतो ज्वलितशान्तस्य वह्ने: एकमङ्गारं खद्योतमात्रं परिशिष्टं तृणादिभिः, उपसमिध्य प्राज्वालयेत् प्रकर्षेण आसमन्तात् वर्धयेत् । तेन च एवम् इद्धेन अङ्गारेण ततोऽपि पूर्वपरिमाणात् बहु दहेत् इत्यर्थः । एवं सोम्य इत्यादि। एवमेव पूर्वोक्तदृष्टान्तवत् हे सोम्य ! ते षोडशानाम् नोंऽशानाम् एकोंऽशोऽन्नेन आप्यायितः प्राज्वालीत् – प्रज्वलितः । स्वकार्यकरणसमर्थः अभूत् इत्यर्थः । प्राज्वालीत् इति दीर्घश्छान्दसः । अतो वेदान् इदानीं प्रतिपद्यसे इत्यर्थः ।

अन्नमयं हि इत्यादि । अतोऽन्नमयं एवं मनः । अनयैव रीत्या आपोमयः प्राण: तेजोमयी वागिति जानीहि इत्याचार्य उक्तवान् इत्यर्थः । तद्धास्य विजज्ञाविति विजज्ञाविति तत् मनआदीनाम् अन्नमयत्वादिकम् अस्य पितुः उपदेशात् पुत्रः ज्ञातवान् इत्यर्थः । ‘द्विरभ्यास स्रिवृत्करणप्रकार परिसमात्यर्थः प्रकृतविषयाण्यधिकरणानि लिख्यन्ते । द्वितीयाध्यायान्ते – ‘अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि’ इति स्वांशत्वेन आत्मभूतस्य जीवस्यैव अनुप्रवेशव्याकरणकर्तृत्वाभिधानात्, परदेवतायाः स्वेनरूपेण अनुप्रवेशानुक्तेः हिरण्यगर्भस्य नामरूपव्याकर्तृत्वस्य पुराणादिषु प्रसिद्धत्वात्, परमात्मांशभूतो हिरण्यगर्भ एव प्रवेशनामरूपव्याकरणयोः कर्ता । न च एवं ‘व्याकरवाणि’ इति परमात्मनः अभिसन्धिः न उपपद्यते इति वाच्यम् । जीवस मष्ट्याश्रयस्य प्रवेश-व्याकरणकर्तुः हिरण्यगर्भस्य परमात्मांशतया अत्यन्तभिन्नत्वाभावेन तद्गतनामरूपव्याकर्तृत्वस्य प्रवेशसमानाधिकरणस्य स्वनिष्ठतया परमात्मनः अनुसन्धानोपपत्तेः । प्रयोजककर्तृतयाऽपि, ‘व्याकरवाणि’ इति अभिसन्ध्युपपत्तेश्च । यदि पुनः परमात्मन: साक्षात्कर्तृभावो भवेत्, तर्हि ‘अनेन जीवेन’ इत्यनर्थकम् । जीवस्य कर्तृत्वाभावेन ‘चारेण अनुप्रविश्य परसैन्यं संकलयानि’ इतिवत् करणत्वे एव तृतीया वाच्या । करणत्वञ्च तदेव उपपद्यते, यदि परमात्मा प्रयोजककर्ता, जीवश्च प्रयोज्यकर्ता स्यात् । प्रयोजककर्तुर्हि साक्षात्कर्ता करणं भवति। प्रधानक्रियोद्देशेन प्रयोजकेन प्रयोज्यकर्तुः व्याप्रियमाणत्वात् । अतः ‘जीवेन’ इति करणत्वेन निर्दिश्यमानो जीवः साक्षात्कर्ता इत्यवसीयते । अत: तेजोऽबन्नानि प्रविश्य हिरण्यगर्भ एव नामरूपे व्याकरोति । अतः हिरण्यगर्भकर्तृकैव नामरूपव्याक्रिया इति प्राप्ते उच्यते-‘संज्ञामूर्तिकॢप्तिस्तु त्रिवृत्कुर्वत उपदेशात्’ (ब्र.सू.२-४-१७) । संज्ञामूर्तिकॢप्तिः नामरूपव्याकरणं त्रिवृत्करणं कुर्वतः परमात्मनः एव ; न हिरण्यगर्भस्य । ‘अनेनैव जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति त्रिवृत्करणनामरूपव्याकरणयोः समानकर्तृकत्वावगमात् । न च त्रिवृत्करणं हिरण्यगर्भकर्तृकं संभवति । हिरण्यगर्भस्य त्रिवृत्कृततेजोऽबन्नोत्पादितब्रह्माण्डसृष्टत्वावेदनेन तस्य त्रिवृत्करणकर्तृत्वासम्भवात् । अतो जीवसमष्टिशरीरकस्सन् परमात्मा नामरूपे व्याकरोत् इति सिद्धम् । ‘अनेन जीवेनाऽऽत्मनाऽनुप्रविश्य’ इत्यस्य उपपत्तिस्तु तद्वाक्यविवरणदशायाम् एव उक्ता तत्रैव अनुसन्धेया ।

ननु, ‘यदग्ने रोहितं रूपं तेजसस्तद्रूपम्,’ ‘अन्नमशितं त्रेधा विधीयते’ इत्युत्तरत्र चतुर्मुखसृष्टाग्न्यादिषु त्रिवृत्करणप्रकारप्रदर्शनात् त्रिवृत्करणमपि चतुर्मुखकर्तृकमेव इत्यत्राह – ‘मांसादि भौमं यथाशब्दमितरयोश्च’ (ब्र.सू.२-४-२१) । यदुक्तम् अण्डसृष्ट्युत्तरकालं चतुर्मुखसृष्टदेवादिविषयोऽयम्, ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति त्रिवृत्करणोपदेशः इति – तत् न उपपद्यते ; ‘अन्नमशितं त्रेधा विधीयते’ इत्यत्र मांसमनसोः पुरीषात् अणुत्वेन’ अणीयस्त्वेन च व्यपदिष्टयोः आप्यत्वतैजसत्वप्रसङ्गात् । यद्यदपेक्षया सूक्ष्म, तत् तस्य ‘कारणम्’ । अत एव हि पार्थिवाप्यतैजसानाम् उत्तरोत्तरसूक्ष्मतया उत्तरोत्तरकारणत्वम् । ततश्च पुरीषस्य स्थविष्ठत्वात् पार्थिवत्वम्, ततः सूक्ष्मस्य मांसस्य आप्यत्वम् , ततोऽणिष्ठस्य मनस: तैजसत्वम् अभ्युपगन्तव्यम् । तथा ‘आपः पीताः’ इत्यत्रापि स्थविष्ठस्य मूत्रस्य पार्थिवत्वम्, मध्यमस्य लोहितस्य आप्यत्वम्, ततोऽपि अणीयसः प्राणस्य तैजसत्वम् अभ्युपगन्तव्यम् । तथा ‘तेजोऽशितम्’ इत्यत्रापि स्थूलस्य अस्थ्न: पार्थिवत्वम्, मध्यमायाः मज्जायाः आप्यत्वम्, अणिष्ठायाः वाचः तैजसत्वम् अभ्युपगन्तव्यम् । न च एवम् इष्यते ।

प्रथमपर्याये पुरीषवत् मांसमनसी अपि पार्थिवे एव प्रतिपाद्येते – ‘अन्नमशितं त्रेधा विधीयते’ इति प्रक्रमात् । तथा द्वितीये पर्याये मूत्रलोहितप्राणानाम् अब्विकारत्वं प्रतिपाद्यते । तृतीयपर्याये अस्थिमज्जावाचां तेजोविकारत्वमेव प्रतिपाद्यते । अतः ‘तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इत्युक्तत्रिवृत्करणप्रकार: ‘अन्नमशितम्’ इत्यादिना न प्रदर्श्यते । तथा सति हि मनःप्राणवाचां तिसृणामपि अणीयस्त्वेन, ‘अन्नमयं हि सोम्य मनः आपोमयः प्राणस्तेजोमयी वाक् इति विरुध्येत । अतः प्रागेव त्रिवृत्कृतानां पृथिव्यादीनां पुरुषं प्राप्तानाम्, ‘अन्नमशितम्’ इत्यादिना एकैकस्य त्रेधा परिणामः उच्यते । अण्डसृष्टे: प्रागेव तेजोऽबन्नानां त्रिवृत्करणेन भवितव्यं । अत्रिवृत्कृतानां तेषां कार्यारम्भासामर्थ्यात् । अन्योन्यसंयुक्तानामेव हि कार्यारम्भसामर्थ्यम् । तदेव च त्रिवृत्करणम् । तथा च

स्मर्यते –

नानावीर्याः पृथग्भूतास्ततस्ते संहति विना ।

नाशक्नुवन् प्रजाः स्रष्टुमसमागत्य कृत्स्रशः।।

समेत्यान्योन्यसंयोग परस्परसमाश्रयाः ।

महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते ।। (वि.पु.१-२-५२,५३)

इति । अत एव च ‘अनेनैव जीवेनाऽऽत्मनाऽनुप्रविश्य नामरूपे व्याकरोत् । तासां त्रिवृतं त्रिवृतमेकैकामकरोत्’ इति पाठक्रमोऽपि अर्थक्रमेण बाध्यते । अण्डान्तर्वतिषु अग्नयादिषु त्रिवृत्करणप्रदर्शनं तु श्वेतकेतोः शुश्रूषोः अण्डान्तर्वतित्वेन तस्य बहिःष्ठवस्तुषु त्रिवृत्करणप्रदर्शनायोगात् त्रिवृत्कृतानां कार्येषु अग्न्यादिषु त्रिवृत्करणप्रदर्शनं कृतम् इत्यविरोधः ।

ननु अण्डान्तर्गतानां सर्वेषां त्रिवृत्कृततेजोऽबन्नरूपत्वे व्यवस्थिततेजोऽबन्नव्यवहार: कथं स्यात् इत्यत्राह ‘वैशेष्यात्तु तद्वादस्तद्वादः’ (ब्र.सू.३-४-१९) । पृथिव्यंशानां भूयस्त्वे पृथिवीव्यवहारः । जलांशानां भूयस्त्वे जलव्यवहारः इति व्यवहारव्यवस्था उपपद्यते इत्यर्थः । ‘तद्वादस्तद्वादः’ इति सूत्रे द्विरुक्ति: अध्यायपरिसमाप्तिद्योतनार्था इति स्थितम् ।

तथा द्वितीयाध्याये आरम्भणाधिकरणे-उपादेयम् उपादानात् अन्यदेव । घटेन उदकम् आह्रियते, मृत्पिण्डेन घटादिः निर्मीयते इति कार्यभेदात् । तथा घटस्य दण्डचक्रादिकं कारणम्, मृत्पिण्डस्य तु जलसंयोजनमर्दनात् इति कारणभेदात् । तथा घटः पृथुबुध्नोदराकारः, मृत्पिण्डस्तु अतदाकारः इत्याकारभेदात् । तथा पूर्वकालं कारणम्, अपरकालं कार्यम् इति कालभेदात् । बहवः तन्तवः, एकः पटः इति संख्याभेदात् । सत्यामेव मृदि घटो नष्टः इति प्रतीते: । कार्यकारणयो: बुद्धिशब्दादिभेदस्य दर्शनाञ्च उपादानात् अन्यदेव उपादेयम् । इतरथा कारकव्यापारवैयर्थ्यप्रसङ्गात् इति काणादादिमतावलम्बनेन पूर्वपक्षे प्राप्ते उच्यते ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र.सू.२-१-५) । तस्मात् परमकारणात् ब्रह्मणः जगतः अनन्यत्वं वाचारम्भणशब्दादिभिः अवगम्यते । ‘वाचारम्भणं विकारो नामधेयम्’ इत्यस्य अर्थः पूर्वमेव वर्णितः । आदिशब्देन, ‘सदेव सोम्येदमग्र आसीत् ‘, ‘येनाश्रुतं श्रुतं भवति,’ ‘एकमेवाद्वितीयम्’ इत्यादिकं गृह्यते । यदि च वैशेषिकादिरीत्या उपादेयम् उपादानात् अन्यत् स्यात्, तदा कारणगुणप्रक्रमेण कार्यगुणोत्पत्तेः उपादानसुवर्णगुरुत्वेन तदुपादेयकुण्डले गुरुत्वोत्त्पत्यभ्युपगमावश्यंभावेन गुरुत्वद्वैगुण्यप्रसङ्गात् । बुद्धिशब्दादिभेदानाम् उभयसंप्रतिपन्नावस्थया एव व्यवस्थोपपत्तौ अवस्थाश्रयद्रव्यान्तरोत्पत्तिकल्पनायाः अप्रामाणिकत्वात् । ननु विरलतन्त्वारब्धपटे ‘एकस्मिन्नेव’ कथम् एकत्वानेकत्वयोः युगपदुपलम्भः, एकस्मिन् धर्मिणि विरुद्धधर्मद्वयासम्भवात् इति चेन्न । एकस्मिन्नेव वृक्षे मूलाद्यवच्छेदकभेदेन संयोगतदभावसत्त्ववत् कुविन्दकारितसंयोगविशेषावच्छेदेन तन्तुषु पटत्वम् एकत्वञ्च, तन्तुत्वावच्छेदेन तु अनेकत्वम् इत्युपपत्तेः । ननु कुविन्दकारितसंयोगाः तन्तुत्वसङ्कीर्णाः एव इति कथं विरुद्धधर्मावच्छेदकत्वम् इति चेन्न । आर्द्रेन्धनप्रभववह्नित्वावच्छेदेन धूमव्याप्यतावच्छेदकत्ववति वह्नित्वे अविशेषितवह्नित्वत्वावच्छेदेन व्याप्यतावच्छेदकत्वा-भावस्य वृत्त्यभ्युपगमात् । एवं कार्यकारणानन्यत्ववादेऽपि एकस्मिन्नेव द्रव्ये तन्तुत्वावस्था-प्रापकांशुसंयोगविशेषावच्छेदेन तन्तुत्वम् तन्तुत्वावच्छेदेन अनेकत्वञ्च । पटत्वप्रापकतन्तु- संयोगविशेषावच्छेदेन पटत्वम् । पटत्वावच्छेदेन एकत्वं च इति पटत्वतन्तुत्वयोः एकत्वानेकत्वयोश्च समावेशोपपत्तेः न कश्चित् दोषः । ननु संस्थानस्य असत: उत्पत्तौ असत्कार्यवादप्रसङ्गः इति चेत्, असत्कार्यवादिमतेऽपि उत्पत्तेः उत्पत्तिमत्वे अनवस्था स्यात् । उत्पत्तिराहित्ये सत्कार्यवादप्रसङ्गः । अस्माकं तु अवस्थायाः पृथकप्रतिपत्तिकार्ययोगानर्हत्वात् पृथगुत्पत्त्यादिकं न अपेक्षितम् । अस्मन्मते घटस्य उत्पत्तिर्नाम घटत्वावस्थासम्बन्धः एव, न तु असतः सत्त्वरूपम् । अत: उपादेयम् उपादानात् अनन्यदेव ।

‘भावे चोपलब्धेः’ (ब्र.सू.२-१-१६) । हिरण्यकुण्डलादिकार्यभावेऽपि तदेव इदं हिरण्यम् इति प्रत्यभिज्ञारूपोपलब्धेः सत्त्वात् अभेदः एव इत्यर्थः । ‘सत्त्वाच्चापरस्य’ (ब्र.सू.३-२-१०) । अपरस्य कार्यस्य कारणे तादात्म्येन सम्बन्धेन सत्त्वाच्च उपादानात् अनन्यत् उपादेयम् । ‘सदेव सोम्येदमग्र आसीत्’ इति कार्ये नष्टेऽपि कारणे कार्यतादात्म्यप्रतीतेः इत्यर्थः । ‘भावे चोपलब्धेः’ इति सूत्रे कार्यदशायां कार्ये कारणतादात्म्यप्रतीतिः प्रमाणतया उपन्यस्ता । उत्तरसूत्रे तु कार्यनाशानन्तरमपि कारणे कार्याभेदप्रतीतिः प्रमाणतया उपन्यस्ता इति विवेकः । ‘असयपदेशान्नेति चेन्न ; धर्मान्तरेण वाक्यशेषाद्युक्तेः शब्दान्तराच्च‘ (ब्र.सू.२-१-१८) । ‘असद्वा इदमग्र आसीत् (ते.उ.आन. ७) ‘इदं वा अग्रे नैव किञ्चनासीत्’ इति जगतः सृष्टेः प्राक् असत्त्वव्यपदेशात् सृष्टेः प्रागपि सता उपादानेन उपादेयस्य एक्यं नोपपद्यते इति चेन्न । नामरूपविभागलक्षणधर्मान्तराभावम् आदाय असत्त्वव्यपदेशोपपत्तेः । जगतः सत्त्वं नामरूपभाक्त्वम् । असत्त्वं नामरूपविरोधिसूक्ष्मावस्था । न तु सर्वात्मना असत्त्वम् । कुतः इदम् अवगम्यते इति चेत् – वाक्यशेषात् । ‘इदं या अग्रे नैव किञ्चनासीत्’ इत्यत्र, ‘तदसदेव सन्मनोऽकुरुत’ इति वाक्यशेष मनःकर्तृत्वप्रतिपादनात् । युक्तेश्च । घटस्य सत्त्वं हि नाम घटत्वावस्थासम्बन्धः । असत्त्वं नाम तद्विरोधि-कपालत्वाद्यवस्थासम्बन्धः एव । न हि तव्द्यातिरिक्तो घटाभावो नाम कश्चित् उपलभ्यते शब्दान्तराच्च । ‘कुतस्तु खलु सोम्यैवं स्यादिति होवाच’ इति तुच्छत्वं प्रतिक्षिप्य, ‘सत्त्वेव सोम्येदमग्र आसीत्’ इति स्थापितत्त्वात् ‘तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यां व्याक्रियते’ (बृ.उ.३-४-७) इति सुस्पष्टम् अभिधानाच्च

‘पटवच्च‘ (ब्र.सू.२-१-१९) यथा तन्तवः एव व्यतिषङ्गविशेषभाज: पटः इति नामरूपकार्यादिकं भजन्ते, तद्वत् ब्रह्माऽपि । ‘यथा च प्राणादिः’ (ब्र.सू.२.१.२०) । यथा वायुरेकः एव शरीरे वृत्तिविशेषं भजमानः प्राणापानादिनामरूपकार्यान्तराणि भजते, तद्वत् एकमेव ब्रह्म विचित्रस्थिरत्रसरूपं जगत् भवतीति परमकारणात् परस्मात् ब्रह्मणः अनन्यत्वं जगत: अभ्युपगन्तव्यम् इति स्थितम् ।

तथा प्रथमाऽध्याये प्रकृत्यधिकरणे – लोके घटकर्तुः कुलालस्य उपादानत्वादर्शनात् जगत्कर्तुः परमात्मनः जगदुपादानत्वं न सम्भवति । किञ्च निष्कलतया अपरिणामिनः परमात्मनः परिणामित्वलक्षणोपादानत्वासम्भवाच्च ब्रह्मणो न उपादानत्वम् । अपि तु . ‘अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ ।। (श्वे.उ.४.९) इति श्रुतिवशात् परिणामसमर्थप्रकृतिरेव उपादानम् । ईश्वरस्य तु तदधिष्ठातृत्वमात्रमेव इति प्राप्ते उच्यते- ‘प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्’ (ब्र.सू.१-४-२३) । प्रकृतिश्च उपादानश्च ब्रह्मैव । इतरथा एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाया मृत्पिण्डादिदृष्टान्तस्य च उपरोधप्रसङ्गात् । न हि उपादानभूतमृत्पिण्डज्ञाने इव निमित्तभूतदण्डादिज्ञाने तत्कार्यं घटशरावादिकं ज्ञातं भवति । अतः एकविज्ञानेन सर्वविज्ञानप्रतिज्ञया मृत्पिण्डादिदृष्टान्तस्वारस्येन च ब्रह्मजगतोः उपादानोपादेयभावः एव अवसीयते ।

न च, ‘अस्य ग्रामस्य प्रधानभूते चैत्रे दृष्टे सर्वे ग्रामस्थाः दृष्टाः’ इति व्यपदेशवत् ब्रह्मणः सर्वप्रधानतया, ‘तस्मिन् दृष्टे सर्वं विदितप्रायम्’ इत्युक्ति: उपपद्यते इति वाच्यम् । यदि ह्यत्र सर्वविज्ञानं प्राधान्याभिप्राय गौणं स्यात्, तदा प्रधानज्ञानेन सर्वम् अन्यदप्रधानम् अविदितमपि फलतो विदितप्रायं भवति इत्यस्य अर्थस्य लोकसिद्धत्वेन एकविज्ञानेन ‘सर्वविज्ञाना’नुपपत्तिं पश्यतः श्वेतकेतोः ‘कथं नु भगवः स आदेशः’ इति प्रश्नो न स्यात् । अभिप्रायानभिज्ञेन कृतेऽपि प्रश्ने, प्राधान्याद्वा सादृश्याद्वा सर्वं ज्ञातं स्यात् इत्येव प्रतिवक्तव्यं स्यात्, न तु, ‘यथा सोम्यैकेन मृत्पिण्डेन’ इति । अत: ब्रह्म उपादानमेव । ‘अभिध्योपदेशाच्च‘ (ब्र.सू.१-४-२४) । ‘तदैक्षत बहु स्यां प्रजायेय’ इति ब्रह्मणः एव बहु स्याम् इति सङ्कल्पपूर्विका सृष्टिः उपदिश्यते । न हि कुलालादेः ईदृशसङ्कल्पपूर्विका सृष्टिः सम्भवति । ‘साक्षाच्चोभयाम्नानात्’ (ब्र.सू.१-४-२५) । ‘ब्रह्म वनं ब्रह्म स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्माध्यतिष्ठद्भुवनानि धारयन्’ (यजु.आर.२-८-७-७६) इति हि श्रूयते। यतः उपादानात् द्यावापृथिवीशब्दोपलक्षितं कृत्स्नं जगत् ब्रह्म निष्टतक्षुः । निष्टतक्षुः निर्मितवान् इत्यर्थः । वचनव्यत्ययः छान्दसः । तादृशवृक्षस्थानीयं द्यावापृथिव्यादिजगदुपादानमपि ब्रह्मैव । तस्य उपादानभूतस्य वृक्षस्य आधारभूतं वनमपि ब्रहैव । भुवनानि धारयत् ईश्वरो ब्रह्मशब्दवाच्यं स्वात्मानम् एव अध्यतिष्ठत् इत्यर्थः । अतश्च अधिष्ठेयम् उपकरणादिकमपि ब्रह्मैव इत्यर्थः । ‘आत्मकृतेः’ (ब्र.सू.१-४-२६) ‘तदात्मानं स्वयमकुरुत’ इति आत्मनः एव बहुत्वकरणात् तस्यैव निमित्तत्त्वम् उपादानत्वञ्च । न हि ‘कुलालः आत्मानं स्वयमकुरु इति व्यपदेशः अस्ति ।

ननु, ‘निष्कलं निष्क्रियम्’ (श्वे.उ.६-१९) इति निरवयवस्य अपरिणामिनः कथं परिणामित्वलक्षणम् उपादानत्वं स्यात् । तत्राह ‘परिणामात्’ (ब्र.सू.१-४-२७)। निर्विकारत्वाद्यविरोधिपरिणामविशेषसम्भवात् इत्यर्थः । अयं भाव: – ‘निष्कलं निष्क्रियं शान्तम्’ इत्यादिभिः परमात्मनः निर्विकारत्वञ्च प्रतीयते ; पूर्वोक्तसूत्रोदाहृतश्रुतिभिः प्रपञ्चोपादानत्वञ्च प्रतीयते । उभयमपि यथा उपपद्यते, तथा उपपादनीयम् । परमात्मनश्च निर्विकारत्वं श्रूयते – ‘विकारजननीमज्ञामष्टरूपामजां ध्रुवाम्’ (मन्त्रि.उ.१-३), ‘अजामेकां लोहितशुक्लकृष्णाम्’ (श्वे.उ.४-५) ।

‘अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः’ । (श्वे.उ.४-९) ।

‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे.उ.३-४-१०) इत्यादिवाक्येषु प्रपञ्चोपादानतया परिणामिनी प्रकृतिः प्रतीयते । तत्र परिणममानप्रकृतिरूपोपादानावरुद्धे प्रपञ्चे साक्षात्कारणत्वासम्भवात् तद्द्वारा ब्रह्म कारणम् इत्यवसीयते। यथा ‘यदाग्नेयोऽष्टाकपालः’ इति पुरोडाशावरुद्धे यागे व्रीहीणां कारणत्वं साक्षात्कारणत्वासम्भवात् पुरोडाशद्वारा पर्यवस्यति, तद्वत् ।

ननु भवतु अन्यद्वारा कारणत्वनिर्वाहः, व्यापारव्यवधानेऽपि कारणत्वाक्षतै: उपादानत्वं तु न अन्यद्वारा सम्भवति । भाव्यवस्थावतः पूर्वावस्थायोगित्वं हि उपादानत्वम् । अवस्थाश्रयत्वशून्ये परमात्मनि कथम् उपादानत्वम् इति चेन्न । परमात्माश्रितायाः तच्छक्तिभूतायाः प्रकृतेः अवस्थाश्रयत्वेन परमात्मनोऽपि अवस्थाश्रयत्वोपपत्तेः । ततश्च ब्रह्मणि साक्षात् विकाराभावम् आदाय अपरिणामित्वनिर्विकारत्वश्रुतयश्च उपपन्नाः । शक्तिशरीरादिशब्दितायाः प्रकृतेः ब्रह्मणश्च अभेदोपचारेण वा, प्रकृतिगतावस्थायाः परंपरया ब्रह्माश्रितत्वेन वा ब्रह्मणः परिणामोपादानत्ववादाः ब्रह्मोपादानत्वावलम्बनाश्च, ‘न विलक्षणत्वादस्य तथात्वञ्च शब्दात्’ (ब्र.सू.२-१-४) ‘कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’ (ब्र.सू.२-१-२६) इत्यादि आक्षेपपरिहाराश्च उपपन्नाः ।

‘योनिश्च हि गीयते’ (ब्र.सू.१-४-२७) । ‘यद्भूतयोनिं परिपश्यान्ति धीराः’ (मुं.उ.१-१-६) इति योनिः उपादानम् इति हि ब्रह्म गीयते । योनिशब्दस्य उपादानवचनत्वम् ‘यथोर्णनाभिः सृजते गृहृते च’ (मुं.उ.१-१-७) इति वाक्यशेषात् अवगम्यते । अतश्च ब्रह्मैव निमित्तम् उपादानं च इति स्थितम् । प्रकृतमनुसरामः ।।

 

।। इति सप्तमखण्डभाष्यम् ।।

 

अष्टमः खण्डः

 

[सुषुप्तिकालस्थितिनिरूपणम्]

 

उद्दालको हाऽऽरुणि: श्वेतकेतुं पुत्रमुवाचस्वप्नान्तं मे सोम्य विजानीहीति । यत्रैतत्पुरुषः स्वपिति नाम, सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति । तस्मादेनँ स्वपितीत्याचक्षते, स्व ह्यपीतो भवति ।।।।

प्र. – एकविज्ञानेन सर्वविज्ञानसिद्धयर्थं ब्रह्मव्यतिरिक्तस्य तदुपादेयत्वं वक्तुं प्रवृत्तः तेजोऽबन्नात्मकसकलाचेतनवर्गस्य तदुपादेयत्वम् उक्त्वा चेतनवर्गस्यापि तदुपादेयतां प्रतिपादयितुं प्रस्तौति उद्दालको हारुणिः इति । स्वप्नान्तं – सुषुप्तिं प्रतिपादयतो मम वाक्यात् विजानीहीति पिता पुत्रमाह स्म इत्यर्थः । एवं शिष्यावधानार्थ प्रतिज्ञाया आह . यत्रैतत्पुरुषः इति । यत्र यदा, पुरुषः स्वपिति इत्येतत् नाम भवति । पुरुषः स्वपिति इति शब्दो यदा प्रयुज्यते इत्यर्थः । पुरुषस्वापो यदेति यावत् । नामशब्दः प्रसिद्ध्यर्थो वा । एतत्पुरुषः एषः पुरुषः इत्यर्थः । सता सोम्य इति । तदा तस्मिन् स्वापकाले, सदेव सोम्य इति प्रकृतेन सता सम्पन्नो भवति । पद्ऌ गतौ (धा.पा.११७०) सङ्गतो भवति इत्यर्थः । तस्याः एव सत्सम्पत्तेः सति लयरूपत्वं स्वपितिनामनिर्वचनानुगुणं विवृणोति – स्वमपीतो भवति । अत्र स्वशब्दः तावत् न जीवमात्रपरः । ‘सता सोम्य तदा सम्पन्नो भवति । स्वमपीतो भवति’ इति स्थानप्रमाणेन सच्छब्दस्वशब्दयोः एकविषयत्वावश्यंभावात् । सच्छब्दस्य च अस्मिन् प्रकरणे परमात्मविषयत्वात् स्वशब्दोऽपि तत्परः एव । ननु जीवभिन्नत्वात् परमात्मनः तस्य कथं जीवं प्रति स्वत्वमिति चेत् ; उच्यते – देवमनुष्यादिनामरूपाभिमान-राग-लोभाद्यनुगुणबहिर्दुःख- ज्ञानप्रसरवज्जागरितावस्थजीवविशिष्टः परमात्मा देवमनुष्यादिनाम-रूप-राग-द्वेष-लोभ- मोहाद्यौपाधिकबाह्याभ्यन्तराकाराभिमानकालुष्यरहितजीवशरीरकः सन् आत्मनि अन्तर्भूतः इत्यर्थः इति ‘स्वाप्ययात्’ (ब्र.सू.१-१-१०) इति सूत्रे व्यासार्यै: व्याख्यातत्वात्-न अनुपपत्तिः ।

अत्र तु अपिपूर्वस्य एतेः लयार्थस्य सकर्मकत्वात् स्वमपीतः इति द्वितीया । तस्मादेनं इति । हि – यस्मात् स्वस्मिन् लीनो भवति तस्मात् स्वपिति इति लौकिकाः आचक्षते इत्यर्थः । अत्र यद्यपि स्वपिधातोः निष्पन्नः स्वपितिशब्दः । न तु स्वशब्दोपपदात् अपीतेः – तथापि अशनायादिनिर्वचनवत् अर्थवादरूपत्वम् उपपद्यते इति द्रष्टव्यम् । अत्र जीवस्य परमात्मनि लयप्रतिपादनात् तेजोऽबन्नादिवत् जीवस्यापि तदुपादेयत्वात् तज्ज्ञानेन ज्ञातत्वम् उपपादितं भवति ।

ननु, ‘यत्रैतत्पुरुषः स्वपिति नाम’ इति पुरुषशब्दनिर्दिष्टस्यैव स्वशब्देन पराम्रष्टव्यतया पुरुषशब्दस्य जीवमात्रविश्रान्तत्वेन स्वशब्दस्यापि ‘तत्पर्यन्तत्वमेव उचितम् । न च पुरुषपदस्यापि ब्रह्मपर्यन्तत्वकल्पनं युक्तम् । ‘यत्रैतत्पुरुषः स्वपिति नाम’, ‘तस्मादेनं स्वपितीत्याचक्षते’ इत्युपक्रमोपसंहारयोः लौकिकप्रसिद्ध्यनुवादात् । लौकिकानां ब्रह्मणि तत्प्रसिद्धेः अभावात् । ‘सति सम्पद्य न विदुः’, ‘सत आगम्य न विदुः’ इत्युत्तरखण्डयो: प्रतिपाद्यमानस्य अज्ञानस्य ब्रह्मान्वयासम्भवाच्च, ‘पुरुषः स्वपिति नाम’ इति वाक्यस्थपुरुषशब्दस्य ब्रह्मपर्यन्तत्वाभावेन स्वशब्दस्यापि न ब्रह्मपर्यन्तत्वं सम्भवति ।

किञ्च, ‘सता सोम्य तदा सम्पन्नो भवति’ इति वाक्ये सच्छब्दिते ब्रह्मणि स्थूलावस्थजीव-विशिष्टपरमात्मलयप्रतिपादने तत्तुल्यार्थत्वेन अभ्युपेते ‘प्राज्ञेनाऽऽत्मना सम्परिष्वक्तः’ इति वाक्येऽपि परिष्वक्तत्वमपि जीवशरीरकस्य ब्रह्मणः एव स्यात् । न च इष्टापत्तिः । ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’ (ब्र.सू. १-३-४३) इति सूत्रे परिष्वञ्जकेन प्राज्ञेन परिष्वज्यमानस्य अज्ञस्य जीवस्य भेदप्रतिपादनं हि विरुध्यते इति चेत् -अत्र केचित् – शास्त्रानभिज्ञलौकिकप्रसिद्धेः देहाद्यतिरिक्ते जीवेऽपि अभावात् अभिज्ञप्रसिद्धिरेव, ‘स्वपिति’ इत्याचक्षते इत्यनुरुध्यते । अभिज्ञप्रसिद्धिश्च परमात्मविषयाऽपि सम्भवति । ‘सम्पद्य न विदुः’ इत्यग्रिमखण्डे प्रतिपाद्यमानम् अज्ञानमपि जीवंद्वारा ब्रह्मणि ‘सङ्गस्यते । ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ.उ.६-३-२१) इति प्रतिपाद्यमानस्य परिष्वङ्गस्य सत्सम्पत्तेश्च ऐक्यमपि नाभ्युपगन्तव्यम् । ‘सता सोम्य तदा सम्पन्नो भवति’, ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इत्यनयोः ऐकार्थ्योक्तिश्च उभयोरपि सुषुप्तिविषयत्वात् उपपद्यते, न तु सर्वात्मना एकार्थत्वम् । येन, ‘सुषुप्त्युत्क्रान्त्योर्भेदेन’ (ब्र.सू.१-३-४३) इति सूत्रं विरुध्येत । अतः ‘पुरुषः स्वपिति नाम’ इत्यत्रापि पुरुषशब्दो ब्रह्मपर्यन्तः एव । अतः स्वशब्दस्य ब्रह्मपर्यन्तत्वे नानुपपत्तिः इति व्यासार्योक्तिं समर्थयन्ते ।

“सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’, ‘ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो’ इति वाक्यविवरणप्रवृत्तेन भगवता भाष्यकृता महासिद्धान्ते, ‘तत्त्वमसि’ इत्यत्र उद्देश्योपादेयविभागः कथमिति चेत् – नात्र किञ्चिच् उद्दिश्य किमपि विधीयते । ‘ऐतदात्म्यमिदं सर्वम्’ इत्यनेनैव प्राप्तत्वात् । अप्राप्ते हि शास्त्रम् अर्थवत् । ‘इदं सर्वम्’ इति सजीवं जगत् निर्दिश्य, ऐतदात्म्यमिति तस्यैव आत्मा इति तत्रैव प्रतिपादितम् । तत्र च हेतुरुक्तः, ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतना: सत्प्रतिष्ठाः’ इति । ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ इतिवत् इति भाषितम् ।

अत्र व्यासार्यै: । ‘सन्मूलाः सोम्येमाः सर्वाः प्रजा: सदायतनाः सत्प्रतिष्ठाः’ इति वाक्ये सर्वशब्देन प्रजानां विशेषितत्वात् , प्रजाशब्दस्य च अचित्संसृष्टचेतनविशेषपरत्वात् , ‘इदं सर्वमसृजत’ (बृ.उ.३-२-५) इत्यादिवाक्यान्तरे विज्ञानाविज्ञानशब्दवाच्यचिदचिदात्मकस्य जगतः सर्वशब्देन निर्देशाच्च प्रजाशब्देन सजीवं जगत् निर्दिश्यते । ‘सन्मूलास्सत्प्रतिष्ठाः’ इत्यपि पदद्वयं सच्छब्दवाच्यब्रह्माधीनोत्पत्तिलयत्वपरम् । प्रतिष्ठा निष्ठापर्यवसानं लयः इति यावत् । ‘सदायतनाः’ इति सदाधारकत्वम् उच्यते । अनेन जगतः शरीरत्वं फलितम् । तत्कथमिति चेत् – इत्थम् । उत्पत्तिलयहेतुत्ववाचिपदद्वयमध्यगतेन स्थितिहेतुत्ववाचिना सदायतनाः इति पदेन स्थितिहेतुधारकत्वं सिद्ध्यति । ‘एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः’ (बृ.उ.५-८-८) इति तिष्ठतिधातूक्तस्थितेः प्रशासनेन धारणाधीनत्वावगमात्, तस्य च प्रशासनस्य, ‘अन्तःप्रविष्टश्शास्ता जनानाम्’ इत्यन्तः- प्रवेशपूर्वकत्वावगमात्, सर्वशाखाप्रत्ययन्यायेन अन्तःप्रवेशशासनधारणानाम् अन्यतमोक्तौ अपि इतरयोः फलितत्वात्, ‘सदायतना’ इत्यनेन धारकत्वोक्तौ अपि अन्तःप्रविश्य शासनेन धारकत्वलक्षणात्मत्वस्य फलितत्वात् जगतः शरीरकत्वं फलितम् । ‘सन्मूला: सोम्येमाः सर्वाः प्रजाः सत्प्रतिष्ठाः’ इति द्वाभ्यां सदुपादानकत्वम् । सदायतनाः इत्यनेन सदन्तर्यामिकत्वम् ।

 उपादानोपादेयभावस्य अभिन्ननिष्ठत्वात् प्रजाशब्देन अचित्संसृष्टजीवमात्रपरामर्शे तस्य सदुपादानकत्वासंभवात् प्रजाशब्देनापि प्रजाशरीरकं ब्रह्मैव उच्यते । सदायतनाः इत्यत्र सदन्तर्यामिकत्वस्य शरीरभूतचिदचिन्मात्रनिष्ठत्वेन चिदचिच्छरीरकब्रह्मनिष्ठत्वाभावात् सदायतनाः इति वाक्यानुषक्तप्रजाशब्देन, शरीरभूतचेतनाचेतनमात्रमेव अभिधीयते । तथा – ‘सन्मूला: सत्प्रतिष्ठाः’ इत्युपादानत्वप्रतिपादकवाक्ये विशिष्टस्यैव उपादानत्वात् सच्छब्देन सूक्ष्मचिदचिद्विशिष्टमेव उच्यते । सदायतनाः इत्यन्तर्यामित्वप्रतिपादकवाक्ये विशिष्टस्य अन्तर्यामित्वासंभवात् सच्छब्देन विशेष्यमात्रमेव अभिधीयते । ‘तज्जत्वात् तल्लत्वात् तदनत्वात् सर्वं खल्विदं ब्रह्म’ इत्यत्रापि तज्जात्वात् तल्लत्वात् इत्युपादानत्वप्रतिपादकांशे विशिष्टयोरेव उपादानोपादेयत्वात् सर्वशब्दोऽपि विशिष्टपरः । तच्छब्दोऽपि विशिष्टपरः । ‘सर्वमिदं तदनत्वात् ब्रह्म’ इति तदन्तर्यामित्वप्रतिपादकांशे तु विशिष्टयोः शरीरशरीरिभावा असम्भवात् सर्वमिदमिति शब्देन शरीरभूतं जगदेव परामृश्यते । तदितिशब्देन केवलविशेष्यभूतं ब्रह्मैव उच्यते । ‘ऐतदात्म्यमिदं सर्वम्’ इत्यत्र, एष आत्मा यस्य, तत् ऐतदात्म्यम् इत्यर्थस्य वर्णनीयतया विशिष्टस्य आत्मत्वाभावात् एतच्छब्देन विशेष्यमानं परामृश्यते – इति ।

व्यासार्यः उक्तमेतत् सर्व गत्यभावात् अङ्गीकार्यम् । ‘कृत्स्नस्य जगतो ब्रह्मकार्यत्वेन तदन्तर्यामिकतया च तदात्मकत्वेन ऐक्यात् प्रत्यनीकनानात्वं निषिध्यते’ इति महासिद्धान्तभाष्यव्याख्यानावसरे च व्यासार्यै: – यस्य ब्रह्मकार्यत्वं विशिष्टस्य, न तस्य तदन्तर्यामिकत्वं, यस्य ब्रह्मान्तर्यामिकत्वं विशेषणस्य, न तस्य ब्रह्मोपादेयत्वं ; ब्रह्मान्तर्यामिकत्वस्य विशेषणमात्रनिष्ठत्वादिति परिचोद्य, ‘जगतो ब्रह्मकार्यत्वात्’ इति श्रूयमाणो जगच्छब्दो विशिष्टपरः, तदन्तर्यामिकत्वेन इत्यत्र विशेषणमात्रवाची निष्कर्षक: जगतः इति शब्दोऽध्याहर्तव्यः इत्युक्त्वा, अस्मिन्पक्षे बहुवैरूप्याश्रयणक्लेशं पर्यालोच्य – ‘ब्रह्मकार्यत्वेन’ ‘ब्रह्मान्तर्यामिकत्वेन’ इत्युभयत्रापि ‘जगतः’ इति निष्कर्षकः एव शब्दः । न च निष्कृष्टस्य विशेषणमात्रस्य, जगतः तदन्तर्यामिकत्वोपपत्तावपि तदुपादानकत्वं न सम्भवति इति वाच्यम् । भाव्यवस्थाश्रयस्यैव उपादेयतया तच्छरीरभूतस्य जगतोऽपि भाव्यवस्थाश्रयत्वेन ब्रह्मोपादेयत्वं सम्भवति इति प्रतिपादितम् । अस्मिन् पक्षे वैरूप्यादिक्लेशाश्रयणाभावात् अयमपि पक्षो युक्तः इत्यस्माभिः मुण्डकोपनिषत्प्रकाशिकायां प्रतिपादितः ।

अस्मिन् पक्षे, ‘सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः’ इति सदुपादानकत्वसदात्मप्रतिपादकवाक्ये प्रजाशब्दः केवलचिदचिन्मात्रपरः, न तु ब्रह्मपरः । सच्छब्दोऽपि केवलब्रह्ममात्रपरः । ततश्च केवलस्य ब्रह्मणः केवलचिदचित्प्रपञ्चस्य च पूर्वोत्तरावस्थाश्रयहेतुहेतुमद्रूपतया उपादानोपादेयभावोऽप्यस्ति । तदपृथक्सिद्धकारणत्वस्यैव तदुपादानत्वरूपत्वात् । विशेष्यस्य ब्रह्मणः विशेषणापृथक्सिद्धकारणत्वेन उपादानत्वस्यैव युक्तत्वात् ।

‘ऐतदात्म्यमिदं सर्वम्’ इति वाक्येऽपि इदं सर्वमिति केवलचिदचिदात्मकः प्रपञ्चः परामृश्यते । एतच्छब्देनापि केवलं विशेष्यमिति न पूर्ववाक्यवैरूप्यम् । ननु, ‘ऐतदात्म्यमिदम्’ इत्यत्र आत्मशब्देन किं स्वरूपम् उच्यते उत नियन्तृत्वम् । नाद्यः ; चिदचित्प्रपञ्चस्य ब्रह्मस्वरूपत्वाभावात् । न द्वितीयः ; शरीरात्मभावे, ‘सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः इति पूर्ववाक्योक्तसदुपादानकत्व- सदन्तर्यामिकत्वयोः हेतूकरणं विरुद्धयेत । न चेष्टापत्तिः । तत्र च हेतुरुक्तः, ‘सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः’ इति भाष्यविरोधप्रसङ्गात् । ‘सर्वं खल्विदं ब्रह्म  तज्जलानिति’ इति श्रुतावेव च सदुपादानकत्वसदन्तर्यामिकत्वयोः सर्वस्य ब्रह्मात्मकत्वे हेतूकरणादिति चेन्न ; विशिष्टयोरेव उपादानोपादेयभावः इति पक्षेऽपि अस्य दोषस्य समानत्वात् ।

कथं तर्ह्यस्य दोषस्य निस्तारः ? इति चेत् – उच्यते । आत्म्यशब्दो व्याप्यवचनः ‘अदृश्येऽनात्म्येऽनिरुक्ते’ इत्यत्र आत्म्यशब्दस्य व्याप्यार्थकत्वाश्रयणात् । ऐतदात्म्यम् – उपादानभूतेन अन्तर्यामिभूतेन च ब्रह्मणा व्याप्यम् इत्यर्थः । ‘मृदा कुम्भादिकं यथा’ इत्युपादानस्यापि व्यापकत्वप्रसिद्धे: ‘एतदात्म्यमेव ऐतदात्म्यम् । ‘स्वार्थे ष्यञ् । एषः आत्मा यस्येति पक्षेऽपि स्वार्थे ष्यञ् । आश्रयणीयत्वात् । अस्मिंश्च पक्षे, ‘ऐतदात्म्यमिदं सर्वम्’, ‘स आत्मा’ इत्यनयो: न पौनरुक्त्यशङ्का । अत एव, ‘रामानुजं लक्ष्मणपूर्वजातम्’ (रा.सु.२८.१०) इतिवत् आदरातिशयात् उपपद्यते इति परिहाराश्रयणक्लेशोऽपि नाश्रयणीयः । तत्सत्यम् । एतदात्मकत्वमेव सत्यं प्रपञ्चस्य प्रामाणिकम् इत्यर्थः। “ऐतदात्म्यमिदं सर्वं तत्सत्यम्’ इति वाक्यस्यैवं वाऽर्थः सत्यं प्रमाणप्रतिपन्नं तदिदं सर्वं जगत् ऐतदात्म्यम् अनेन ब्रह्मणा व्याप्तम् इत्यर्थः । अत्र असत्यस्य शशशृङ्गादेः तुच्छस्य व्याप्तत्वाभावेऽपि प्रमाणप्रतिपन्नस्य सर्वस्यापि ब्रह्मव्याप्तत्वम् अस्तीति भावः । स आत्मा नियन्ता इत्यर्थः ।

विशेष्यस्य विशेषणांशं प्रति उपादानत्वमस्ति इत्यस्मिन् पक्षे, ‘सदेव सोम्येदमग्र आसीत्’ इत्यत्र इदंशब्दस्य कथम् अश्रुतवेदान्तं श्वेतकेतुं प्रति ब्रह्मपर्यन्तप्रतीतिजनकत्वम् इति शङ्कायाः अपि नावकाशः । ननु उक्तरीत्या भिन्नयोः उपादानोपादेयभावसमर्थनेऽपि, ‘सदेव सोम्येदमग्र आसीत्’, ‘सर्वं खल्विदं ब्रह्म’ इति परस्परभिन्नविशेषणविशेष्यवाचिनोः जगद्ब्रह्मवाचिशब्दयोः कथं सामानाधिकरण्यम् ? इति चेन्न ; अपृथक्सिद्धवाचित्वस्यैव सामानाधिकरण्यप्रयोजकतया लोकवेदयोः दृष्टत्वात् । चिदचित्प्रपञ्चस्य तच्छक्तित्वेन तच्छरीरकत्वेन च तयोः अभेदोपचारेण अभेदनिर्देशानां सदेवेदम् इत्यादिरूपाणाम् उपपत्तेः । शक्तिशक्तिमतोः दण्डघटादिवत् अत्यन्तभेदाभावात् । विशेषणभूतप्रपञ्चांशे ब्रह्मणः उपादानत्वाभावे, ‘न विलक्षणत्वात्’ (ब्र.सू.२-१-४) इत्यधिकरणस्य वा, ‘कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपो वा’ (ब्र.सू.२-१-२६) इत्यधिकरणस्य वा निरालम्बनत्वप्रसङ्गात् । ब्रह्मणो ब्रह्म प्रत्युपादानत्वे विलक्षणत्वशङ्कायाः वा, ब्रह्मणो जगद्रूपेण परिणामाभावे कृत्स्नप्रसक्तिनिरवयवत्वशब्दकोपाशङ्कयोर्वा अप्रसक्तेः ।

नन्वेवम्, ‘तदनन्यत्वमारम्भणशब्दादिभ्यः’ (ब्र.सू.२-१-१५) इत्यधिकरणे प्रपञ्चस्य उपादानभूतब्रह्मणा अभेदासंभवात् उपादानोपादेयाभेदसमर्थनं विरुद्ध्येत इति चेत् – ‘भवन्मतेऽपि ब्रह्मणो ब्रह्माभेदस्य सिद्धतया अधिकरणवैयर्थ्यप्रसङ्गात् । तर्हि जगतोऽनन्यत्वं कथम् उपपादनीयम् ? इति चेत् – न हि तस्मिन् अधिकरणे उपादानोपादेयस्वरूपाभेदः समर्थ्यते । तयोः अभेदे कारकव्यापारवैयर्थ्यप्रसङ्गात् । अपितु तदभिन्नसत्ताकत्वम् । तत्सत्तातिरिक्तसत्तानपेक्षित्वमिति यावत् । न च तत्सत्तातिरिक्तसत्ताशून्यत्वमात्रेण प्रपञ्चस्य मिथ्यात्वं शक्यशङ्कम् । गुणगतजात्यनभ्युपगन्तृमते रूपादिगतसत्ताजात्यनभ्युपगमेऽपि द्रव्यगतसत्तया एव रूपादिषु सदिति व्यवहाराभ्युपगमेऽपि तन्मिथ्यात्वाप्रसक्तिवत् उपादानसत्तया एव उपादेये सदिति प्रतीत्युपपत्तौ सत्तान्तरकल्पने मानाभावादिति युक्त्या सत्तान्तरानभ्युपगममात्रेण मिथ्यात्वशङ्कायाः बुद्धिदौर्बल्यकारितत्वात् । ‘नैकस्मिन्नसम्भवात्’ (ब्र.सू.२-२-३१) इति सूत्रे, “कालस्य पदार्थविशेषणतयैव प्रतीतिः । तस्य पृथगस्तित्वनास्तित्वादयो न वक्तव्याः । कालोऽस्ति इति व्यवहारो जात्याद्यस्तित्वव्यवहारतुल्यः” इति स्पष्टमेव भगवता भाष्यकृता भाषितत्वात् । व्यासार्यैरपि, ‘पृथक्प्रतिपत्तिकार्याणामेव पृथगुत्पत्त्यादिकमपेक्षितम् । अवस्थायास्तु पृथस्थितिप्रतिपत्तिकार्यानर्हत्वात् न पृथगुत्पत्त्यादिकम् अपेक्षितम्’ इति निर्णीतम् । अतः अपृथक्सिद्धानां पृथक्सत्ताऽनपेक्षिता इति सिद्धम् । अपृथक्सिद्धत्वे च पृथगुत्पत्त्याद्यनपेक्षा तज्ज्ञाततया एव ज्ञातत्वम् उपपद्यते इति एकविज्ञानेन सर्वविज्ञान-प्रतिज्ञाऽपि सिद्ध्यति । ततश्च आरम्भणशब्दादिभ्यः उप(?) साध्यमानम् अनन्यत्वम्, ‘अनन्या राघवेणाहं भास्करेण प्रभा यथा’ (रा.सु.२१-१५) इतिवत् अपृथक्सिद्धत्वलक्षणमेव ; न तु स्वरूपाभेदः । अपृथक्सिद्धकारणत्वमेव च उपादानत्वम् । अयं चार्थो विस्तरेण मुण्डकोपनिषत्प्रकाशिकायां प्रपञ्चितः । पक्षान्तरञ्च उपन्यस्तम् । तयोर्मध्ये यत् उक्तम् (युक्तम्?), तत् विद्वद्भिः स्वीक्रियताम् ।

‘अनन्या राघवेणाहं भास्करेण प्रभा यथा’ (रा.सु.२१-१५) इतिवत् अपृथक्सिद्धत्व-लक्षणाभेदस्यैव समर्थितत्वात् । तावतैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा उपपत्तेश्च । अपृथक्सिद्धकारणत्वस्यैव उपादानशब्दार्थत्वात् । न तस्मिन्नधिकरणे उपादानोपादेययोः स्वरूपाभेदः समर्थ्यते । तयोः अभेदे कारकव्यापारवैयर्थ्यप्रसङ्गात् । ‘अपि तु तदपृथक्सिद्धत्वम् । तच्च तत्सत्ताधीनसत्ताकत्वम् । एतादृशस्य अपृथक्सिद्धत्वस्य अभेदव्यवहारप्रयोजकत्वं, ‘यदधीना यस्य सत्ता तत् तदित्येव भण्यते’ इति प्रमाणसिद्धम् । अतः न तदधिकरणविरोधः । यद्वा अस्मन्मते स्थूलचिदचिदात्मकप्रपञ्चस्येव तद्विशिष्टस्यापि ब्रह्मणः उपादेयत्वात् । उपादानभूतसूक्ष्मचिदचिच्छरीरकस्य ब्रह्मणः उपादेयभूतस्थूलचिदचिद्विशिष्टब्रह्माभेद-समर्थनपरतया आरम्भणाधिकरणस्य उपपत्तेः न चोद्यावकाशः । वस्तुतस्तु यथा को भवानिति सौवीरराजप्रश्नस्य प्रकृतिसंसृष्टात्मविषयत्वेऽपि वस्तुगत्या भवच्छब्दमुख्यार्थत्वं परिशुद्धात्मस्वरूपस्यैव उचितम् इति मत्वा तस्यैव भवच्छब्दमुख्यार्थत्वं प्रदर्शयन् आदिभरतः – ‘यदा समस्तभूतेषु पुमानेको व्यवस्थितः’ (वि.पु.२-१३-९१) इति प्रत्यवोचत् । यथा वा अथर्वशिरसि रुद्रं प्रति देवैः प्रयुक्तस्य, ‘को भवान्’ इति प्रश्नस्य पुरोवर्तिरुद्रमात्रपरत्वेऽपि भवच्छब्दस्य परमात्मपर्यन्तत्वशिक्षणाय, अहमेकः प्रथममासम्’ (अथर्व शि.२) इत्यादिप्रतिवचनप्रवृत्तिः। एवमेव, ‘इदमग्र आसीत्’ इति इदंशब्दस्य विशेषणमात्रपरत्वे प्राप्ते विशेष्यपर्यन्तत्वशिक्षणाय स्थूलचिदचिच्छरीरं ब्रह्म प्रति सूक्ष्मचिदचिच्छरीरकं ब्रह्मोपादानम् इत्येतदर्थप्रतिपादकस्य उत्तरसन्दर्भस्य प्रवृत्तौ दोषाभावात् इति द्रष्टव्यम् । अयं चार्थः, ‘तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियते’ (बृ.उ.३-४-७) इति श्रुतिव्याख्यानावसरे बृहदारण्यकप्रकाशिकायां प्रतिपादितः तत्र अनुसन्धेयः ।

अतश्च आरम्भणाधिकरणे तदनन्यत्वम् इत्यनेन, ‘अनन्या राघवेणाहं भास्करण प्रभा यथा’ (रा.सु.२१-१५) इतिवत् अपृथक्सिद्धत्वलक्षणाभेदस्यैव समर्थितत्वात् । तावतैव एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्तेश्च । अपृथक्सिद्धकारणत्वस्यैव उपादानशब्दार्थत्वात् । इह च ‘यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति’ इत्यत्र पुरुषशब्दितस्य कार्यावस्थजीवस्य कारणावस्थस्वशब्दितजीवविशिष्टतया स्वशब्दवाच्येन परंपरया स्वावस्थाश्रयतया उपादानभूतेन सता संपत्तेरपि सूपपादतया ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ इति श्रुत्यैकार्थ्यमपि स्वरसतः एव सिद्ध्यति इत्यलम् अतिचर्चया । प्रकृतमनुसरामः ।।

 

[परमात्मा जीवस्य आश्रयः]

 

यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वाऽन्यत्राऽऽयतनमलब्ध्वा बन्धनमेवोपश्रयते, एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्राऽऽयतनमलब्ध्वा प्राणमेवोपश्रयते प्राणबन्धनँ हि सोम्य मन इति ।। ।।

प्र.- यथा शकुनिस्सूत्रेण इत्यादि । यथा पक्षी शकुनिघातकस्य हस्तगतेन सूत्रेण बद्धः प्रतिदिशं पतित्वा आश्रयान्तरम् अलब्ध्वा बन्धनं हस्तमेव आश्रयते, एवमेव हे सोम्य ! सुषुप्तिकाले तत्, ‘अन्नमयं हि सोम्य मनः’ (छां.उ.६-५-४) इति प्राङ्निर्दिष्टं मनः दिशं दिशं पतित्वा जाग्रत्स्वप्नयोः नानाविधविषयग्रहणव्यापृतं भूत्वाऽपि तत्र तत्र आयतनं विश्रमम् अलब्ध्वा विश्रमाय मुख्यप्राणेन संश्लेषविशेषम् आपद्यते इत्यर्थः ।

अत्र हेतुमाह – प्राणबन्धनं हि सोम्य मन इति । यतः ‘प्राणे हि मनो निबद्ध्यते इत्यर्थः । अत एव हि प्राणे उत्क्रान्ते मनआदीनामपि उत्क्रामः । अतः सुषुप्तिदशायां वागादीन्द्रियसहितं मनः, ‘वाङ्मनसि सम्पद्यते मनः प्राणे’ (छां.उ.६-८-६) इति प्रयाणकालोक्तन्यायेन प्राणे संश्लेषविशेषमापन्नं सदुपरतव्यापारं भवति । सुषुप्तिदशायां प्राणमात्रम् अनुपरतव्यापारम् आस्ते । ‘स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः, प्राणं श्रोत्रं, प्राणं मनः’ (छां.उ.४-३-३) इति श्रुतेः ।।

 

अशनायापिपासे मे सोम्य विजानीहीति यत्रतत्पुरुषोऽशिशिषति नामआप एव तदशितं नयन्ते तत् यथा गोनायोऽश्वनायः पुरुषनाय इति, एवं तदप आचक्षतेऽशनायेति तत्रैतच्छुङ्गमुत्पतितँ सोम्य विजानीहि, नेदममूलं भविष्यतीति ।। ।।

 

तस्य क्व मूल स्यादन्यत्रान्नात् एवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छअद्भि: सोम्य शुङ्गेन तेजो मूलमन्विच्छ, तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ । सन्मूला: सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ।। ।।

प्र. – एवं जीवस्य परमात्मोपादेयत्वसिद्ध्यर्थं सुषुप्तिकाले परमात्मसम्पत्तिं, तत्प्रसङ्गात् वागादीन्द्रियाणां प्राणे संश्लेषविशेषं च प्रतिपाद्य अशनायादिनाम् अनिर्वचनमुखेनापि परमात्मनः जगन्मूलताम् उपपादयति – अशनायापिपासे मे सोम्य विजानीहीति । स्पष्टोऽर्थः । यत्रैतत्पुरुषोऽशिशिषति इति । यत्र यदा पुरुषो अशिशिषति इत्येतत् नाम । पुरुषोऽशिशिषति इति शब्दं यदा लोकाः प्रयुञ्जते इत्यर्थः । यदा पुरुषस्य अशिशिषा भवतीति यावत् । नामशब्दः प्रसिद्ध्यर्थो वा । तदा आपः तदशितं नयन्ते । जीर्णतां प्रापय्य रसरूपेण शरीरं नयन्ते । तेन अशिते जीणे पुनः अशिशिषा जायते इत्यर्थः । तद्यथा गोनाय इत्यादि । गां नयतीति गोनायः । यथा गोनेतारं गोनायः इत्याचक्षते, यथा वा अश्वनेतारं पुरुषनेतारंच अश्वनायः पुरुषनायः इत्याचक्षते लौकिकाः, एवम् अशितनेत्रीः अपः अशनाय इत्याचक्षते इत्यर्थः । तत्रैतच्छुङ्गम् इति । अद्भिः रसभावं नीतेऽन्ने उत्पन्नम् एतच्छरीराख्यं शुङ्गसदृशं कार्यं विजानीहि इत्यर्थः । ननु अमूलमेव इदं भवतु इत्यत्राह – नेदममूलं भविष्यतीति । कार्यमात्रस्य सकारणकत्वात् इत्यर्थः ।। ३ ।।

तर्हि तस्य अन्नातिरिक्तं मूलान्तरं कल्प्यताम् इत्यत्राह तस्य क्व मूलम् इति । कार्यशरीरस्य समूलकत्वात्, मूलान्तरस्य च अनुपलम्भात्, उपलब्धम् अन्नमेव मूलम् इत्यर्थः । एवमेव खलु इत्यादि । यथा शरीरेण कार्यभूतेन उपचीयमानेन तत्कारणमन्नम् अनुमीयते, एवमेव अन्नेन कार्येण अप: कारणम् अनुमिनुहीति यावत् । एवमुत्तरत्रापि सत्पर्यन्तां कारणपरंपराम् अनुमिनुहि इत्यर्थः । ततः किमित्यत्राह – सन्मूलास्सोम्य इत्यादि । एतस्य वाक्यस्य अर्थः पूर्वम् उक्तः एव ।। ४ ।।

 

अथ यत्रैतत्पुरुषः पिपासति नाम, तेज एव तत् पीतं नयते तत् यथा गोनायोऽश्वनायः पुरुषनाय इति, एवं एतत् तेज आचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतितँ सोम्य विजानीहि नेदममूलं भविष्यतीति ।। ।।

प्र. – अथ यत्रतत्पुरुषः इत्यादि । उदकनेतृत्वात् तेजः उदन्या इत्युच्यते इत्यर्थः । तत्रैतदेव शुङ्गमुत्पतितँ सोम्य विजानीहि इति । तत्र तेजसा शोष्यमाणासु अप्सु उत्पन्नं देहाख्यं शुङ्गम् इत्यर्थः । शिष्टं पूर्ववत् ।।

 

तस्य क्व मूलँ स्यादन्यप्रायः अद्भि: सौम्य शुङ्गेन तेजो मूलमन्विच्छतेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ । सन्मूला: सोम्येमाः सर्वा प्रजाः सदायतनाः सत्प्रतिष्ठाः । यथा तु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत् त्रिवृदेकैका भवतितदुक्तं पुरस्तादेव भवति

 

अस्य सोम्य पुरुषस्य प्रयतो वाङ् मनसि सम्पद्यते, मनः प्राणे, प्राणस्तेजसितेजः परस्यां देवतायाम् एषोऽणिमा ।। ।।

प्र. – तस्य क्व मूलं स्यात् इत्यादि । पूर्ववदर्थः । ननु तेजोऽबन्नमूलकत्वे शरीरस्य लोहितमांसादिरूपेण परिणामः कथं स्यात् ? इत्याशङ्क्य पूर्वोक्तं स्मारयति-यथा तु खलु इत्यादि तदुक्तं पुरस्तादेव भवति ‘अन्नमशितं त्रेधा विधीयत’ (छां.उ.६-५-१) इत्यादिना पूर्वमुक्तं भवति इत्यर्थः । एवं सुषुप्तौ सत्संपत्तिं जीवस्य प्रदर्श्य प्रयाणकालेऽपि सत्सम्पत्तिं प्रदशर्यति – अस्य सोम्य पुरुषस्य इत्यादि । प्रयत: म्रियमाणस्य इत्यर्थः । अत्र वाचो मनःप्रकृतिकत्वासम्भवात्  व्यापारोपरमहेतुभूतसंश्लेषविशेषः एव । वाचो मनसि लयः । मनसः प्राणे लयोऽपि तादृशः एव ।

“मनसि करणग्रामं प्राणे मनः पुरुषे च तं झडिति घटयन् भूतेष्वेनं परे च तमात्मनि” । इत्युक्तरीत्या प्राणो जीवे सम्पन्नस्सन् जीवेन सह तेजश्शब्दोपलक्षितेषु सर्वेषु भूतेषु सम्पन्नो भवति । ततः परं सुखदुःखोपभोगायासविश्रमाय तेजश्शब्दितानां सजीवानां भूतसूक्ष्माणां परस्यां देवतायां परमात्मनि सम्पत्तिः भवति इत्यर्थः । एषोऽणिमा । एतादृशः सच्छब्दितः स एषः अणिमा अणुवत् दुर्विज्ञेयः । मानान्तरागोचरः इत्यर्थः ।।

 

[ऐतदात्म्यम् इत्येतदर्थविशेषः]

 

ऐतदात्म्यमिदँ सर्वम् तत्सत्यम् आत्मा तत् त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।। ।।

 

।। इति अष्टमः खण्डः ।।

 

प्र.-ऐतदात्म्यमिदँ इति । अस्यार्थः पूर्वमेव उक्तः । एवं सर्वत्र सिद्धं सदात्मकत्वं श्वेतकेतौ उपसंहरति – तत्त्वमसि श्वेतकेतो इति । ननु, ‘तत्त्वमसि’ इत्यत्र मानान्तरसिद्धत्वेन उद्देश्योपादेयविभागाभावस्य भाष्यकृता उक्तत्वात् तच्छब्दानुरोधेन प्रथमपुरुषो वा किं न स्यादिति चेत् – उच्यते । मानान्तरसिद्धत्वेऽपि त्वंशब्दार्थस्य तच्छब्दार्थापेक्षया प्रकृतित्वस्य विवक्षितत्वात् । प्रकृतेरेव अस्तिक्रियाकर्तृत्वात्, मध्यमपुरुषो भवति । अत एव, ‘यदग्ने स्यामहं त्वम्, त्वं वा अहम्’ इत्यत्र ‘अहं त्व स्याम्, अहं वा त्वं स्या’ इति प्रकृत्याश्रयः पुरुषो भवति इति, ‘युष्मधुपपदे’ (पा.सू.१-४-२०५) इति सूत्रे प्रतिपादितम् । ततश्च त्वंशब्दार्थस्य प्रकृतित्वस्य विवक्षितत्वात्, मानान्तरसदसद्भावयोः अप्रयोजकत्वात्, त्वंशब्दार्थप्रकृतित्वाश्रयः असि इति मध्यमपुरुषः एव भवति । अत एव व्यासार्यै: – ‘आत्मेति तूपगच्छन्ति’ (ब्र.सू.४-१-३) इत्यधिकरणे तथैव उपपादितम् । न्यायपरिशुद्धौ – ‘सुवर्ण खदिराङ्गारसदृशे कुण्डले भवतः’ इति महाभाष्यवाक्यमुदाहृत्य पुरुषस्य उद्देश्यानुसारित्वनियमाभावः समर्थितः ननु तत्त्वमसि श्वेतकेतो इति सम्बोध्यस्य सम्बुद्धिस्तावत् आत्मविद्योपदेशेन श्वेतकेतुमात्रपर्यवसितेति ‘नासंबोध्यबोधनम्’ इति न्यायपरिशुद्ध्युक्तरीत्या श्वेतकेतो इति सम्बोध्यत्वस्य परमात्मनि असम्भवेन त्वंशब्दनिर्दिष्टत्वमपि परमात्मनो न सम्भवति त्वं शब्दस्य संबोध्यातिरिक्तविषयत्वस्य क्वापि अदर्शनादिति चेत् । अत्रोच्यते – ‘ऐतदात्म्यमिदं सर्वम्’ इत्युक्तस्य तत्त्वमसि इति विशेष उपसंहार इति भाष्ये भाषितत्वात् तत्त्वमसि इत्यत्रापि सर्वशब्दस्थानापन्नस्य त्वंशब्दस्य संबोध्य विशेषभूतजीवमात्रपरत्वमेव । ऐतदात्म्यपदस्थानापन्नस्य तत् इत्यस्य तदात्मकत्वमेव अर्थः । ततश्च सर्वं तदात्मकम् इतिवत् त्वं तदात्मकः इत्यर्थः । न चैवं सति तच्छब्दस्य तदात्मकत्वे लक्षणा स्यादिति वाच्यम् । अपर्यवसानवृत्त्या त्वंशब्दस्य तदन्तर्यामिपरत्वपक्षस्यापि लक्षणापेक्षया जघन्यत्वात् । ‘साक्षादप्यविरोधं जैमिनिः’ (ब्र.सू.१-२-२९) इत्यत्र व्यासार्यै: अपर्यवसानलब्धार्थस्य यौगिकार्थतुल्यत्वाश्रयणात्, यौगिकार्थस्य च रूढिपूर्वकलक्षणापेक्षया जघन्यत्वस्य प्रोद्गात्रधिकरणे मीमांसकैः आश्रितत्वात् त्वंशब्दस्य सम्बोध्यातिरिक्तविषयत्वस्य क्वापि अदर्शनात्, श्वेतकेतो तत्त्वमसि इति त्रयाणां पदानां प्रतीयमानसामानाधिकरण्यभङ्गप्रसङ्गाच्च, अपर्यवसानलब्धार्थस्य आश्रयणासम्भवात् । अपृथक्सिद्धवाचिनां सामानाधिकरण्यस्य लोकवेदयोः बहुशो दृष्टचरत्वेन अपृथक्सिद्धजीवपरवाचिनोः त्वं तच्छब्दयोः सामानाधिकरण्येन प्रयोगस्यापि उपपत्तेः न त्वंशब्दस्य परमात्मपर्यन्तत्वम् आश्रयणीयम् । वस्तुतस्तु – ‘ऐतदात्म्यम्’ इति शब्दनिर्दिष्टं तदात्मकत्वमेव बुद्धिस्थत्वात् तच्छब्देन परामृश्यते । न तु सच्छब्दितं ब्रह्म, येन तदात्मकत्वलक्षणादोषः स्यात् । ततश्च त्वं तदसि ऐतदात्म्यमसि इत्यर्थः ।

अस्मिंश्च पक्षे न कस्यापि पदस्य लक्षणा । सांप्रदायिकास्तु, ‘स आत्मा’ इति पूर्वनिर्दिष्टस्यैव तत्त्वमसि’ इत्यत्र तच्छब्देन परामर्शस्य उचितत्वात् तच्छब्देन सच्छब्दितात्मैव अभिधीयते । गधन्यं त्वंपदं तु अपर्यवसानवृत्त्या अन्तर्यामिपर्यन्तम् अभिदधाति । न च श्वेतकेतो इति सम्बोध्यस्य जीवस्येव त्वंपदेन परामर्शो युक्तः इति वाच्यम् । हे देवदत्त इति देवदत्तं संबोध्य तत्पुत्राभिप्रायेण त्वमेवं कृतवानसि इति प्रयोगदर्शनात् । इयांस्तु विशेषः । तत्र मुख्यानुपपत्तया त्वंपदस्य पुत्रे लक्षणा । इह तु तदनुपपत्त्या अन्तर्यामिणि अपर्यवसानवृत्तिः आश्रीयते । ननु ‘साक्षादप्यविरोधं जैमिनिः’ (अ.सू.१-२-२९) इति सूत्रे व्यासार्यै: अपर्यवसानवृत्तेः। योगतुल्यत्वसमर्थनात्, योगस्य च रूढिपूर्वकलक्षणापेक्षया दौर्बल्यस्य प्रोद्गात्रधिकरणे मीमांसकै:  समर्थितत्वात्, लक्षणापेक्षया जघन्या एव ‘अपर्यवसानवृत्तिः इति चेत् उच्यते । सत्यम् उक्तं व्यासार्यै: अपर्यवसानवृत्ते; योगतौल्यम् । तथाऽपि न तस्याः लक्षणापेक्षयाऽपि दौर्बल्यम्, प्रमाणाभावात् । प्रोद्गात्रधिकरणे प्रोद्गातृशब्दरूढ्यर्थस्य बहुत्वासंभवात् पाशमन्त्रे इव बहुवचनम् अविवक्षितार्थम् इति पूर्वपक्षे . ‘अदितिः पाशान् प्रमुमोक्तुः’ इति पाशमन्त्रे बन्धनसाधनस्य पाशशब्दरूढ्यर्थस्य यौगिकार्थस्य वा लक्ष्यार्थस्य वा असम्भवात् पाशान् इति बहुवचनस्य अविवक्षितत्वेऽपि प्रोद्गातृपदयोगार्थस्य वा लक्ष्यार्थस्य वा बहुत्वसम्भवात् न बहुवचनस्य अविवक्षा युक्ता इत्येतावन्मात्रमेव प्रोद्गातृनयसिद्धम् । न तु योगार्थस्य लक्षणापेक्षया दौर्बल्यमपि । ततश्च योगस्य लक्षणापेक्षया दौर्बल्याभावात् तत्तुल्यायाः अपर्यवसानवृत्तेः न लक्षणापेक्षया दौर्बल्यम् । ततश्च योगार्थप्रतिबन्धिकायाः रूढेः अपगमे योगार्थोन्मज्जनस्य अनिवार्यतया लक्षणापेक्षया योगस्य प्राबल्यमेव युक्तम् ।

अत एव अजामन्त्रे भगवता भाष्यकृता न जायते इति अजा इति योगः एव आश्रितः, न तु पररीत्या छागत्वकल्पनम् । अत एव ‘जगद्वाचित्वात्’ (ब्र.सू.१-४-१६) इत्यत्र ‘यो वै बालाके एतेषां पुरुषाणां कर्ता यस्य चैतत्कर्म’ (कौ.ब्रा.४-१९) इत्यत्र कर्मशब्दस्य चलनादृष्टयोः रूढस्य ‘रूढ्योः कलहायमानयोः योगो लब्धात्मा’ इति न्यायम् अनुसृत्य कर्मशब्दस्य क्रियते इति कर्म इति जगद्वाचित्वमेव आश्रितम् । तथा अपशूद्राधिकरणेऽपि रूढ्यानुपपत्तौ शूद्रशब्दस्य योगः एव आश्रितः । ततश्च लक्षणापेक्षया योगस्य बलवत्त्वात् तत्तुल्यायाः अपि अपर्यवसानवृत्तेः लक्षणापेक्षया च बलवत्त्वमेव । ननु ‘साक्षादप्यविरोधं जैमिनिः’ (ब्र.सू.१-२-२९) इत्यत्रैव व्यासार्यै: तात्पर्यलिङ्गै: परमात्मपरतया निर्णीते प्रकरणे, तत्र चिदचिच्छब्दानां ब्रह्मपरत्वे च अवश्यंभाविनि योगार्थः एव उचितः । यथा आकाशप्राणशब्दादौ । यत्र तु चिदचिल्लिङ्गान्यपि सन्ति, तत्र अपर्यवसानवृत्त्या तच्छरीरकपरत्वमिति व्यवस्थायाः कृतत्वात् चिदचिल्लिङ्गाभावस्थले योगाश्रयणस्य उक्ततया अपर्यवसानवृत्त्यपेक्षया योगप्राबल्यमेव आविष्कृतमिति चेत्, अस्तु योगापेक्षया दौर्बल्यम् अपर्यवसानवृत्तेः । तथाऽपि लक्षणापेक्षया अपर्यवसानवृत्तिः प्रबलैव।

ननु ‘छन्दोभिधानात्’ (ब्र.सू.१-१-२६) इति सूत्रे गायत्रीशब्दस्य भूतादिपादव्यप-देशादिब्रह्मलिङ्गैः ब्रह्मपरत्वे अवश्यंभाविनि सति मासाग्निहोत्रे सादृश्यविधित्सया अग्निहोत्रशब्दस्येव चतुष्पात्त्वलक्षणगायत्रीसादृश्यविधित्सया ब्रह्मणि गायत्रीशब्दप्रयोगः । न च वैदिकशब्दस्य एतादृशगौणवृत्त्याश्रयणम् अयुक्तमिति शङ्क्यम् । संवर्गविद्यायां; ते वा एते पञ्चान्ये पञ्चान्ये (छां.उ.४-३-८) इति निर्दिष्टेषु वाय्वग्निसूर्यचन्द्रसलिलप्राणवाक्चक्षुश्श्रोत्रमनस्सु दशसु दशत्वसंख्यासाम्यात् ‘सैषा विराडन्नादी’ (छां.उ.४-३-८) इति छन्दोवाचिविराट्छब्दो गौण्या प्रयुज्यमानो दृष्टः । एवं छन्दोऽभिधायिगायत्रीशब्दस्य चतुष्पात्त्वसादृश्यात् ब्रह्मणि प्रयोग: उपपन्नः इत्युक्तत्वात् गौणीरूपलक्षितलक्षणापेक्षया अपर्यवसानवृत्तेः दौर्बल्यमेव सूत्रभाष्यकृदभिमतम् इति प्रतीयते । यदि च अपर्यवसानवृत्तिः गौणीतः प्रबला, तर्हि तया गायत्र्यवस्थब्रह्मपरत्वस्य वक्तुं सुशकतया गौणीवृत्तिः न आदर्तव्या स्यादिति चेन्न । अपर्यवसानवृत्त्या गायत्रीशब्दस्य गायत्र्यवस्थब्रह्मपरत्वे तस्य सर्वभूतात्मत्वासंभवेन केवलब्रह्मणि गौण्याश्रयणस्य युक्तत्वात् ।

न च गायत्र्यवस्थत्ववेषेण सर्वभूतात्मत्वाद्यसम्भवेऽपि ब्रह्मस्वरूपे सर्वभूतात्मत्वं सम्भवत्येव । अत एव दहरविद्यायां हृदयावच्छिन्नस्य ब्रह्मणः ताद्रूप्येण बाह्याकाशवैपुल्यासम्भवेऽपि स्वरूपेण बाह्याकाशवैपुल्यं, ‘यावान् वा अयमाकाशः तावानेषोऽन्तर्हृदय आकाशः’ (छां.उ.८-१-३) इति सन्दर्भे प्रतिपादितं सम्भवति इति अभ्युपेतम् । तथा शाण्डिल्यविद्यायां एष म आत्मा अन्तर्हृदयेऽणीयान्’ (छां.उ.३-१४-३) इति अल्पत्वेन निर्दिष्टस्य ब्रह्मणः स्वरूपाभिप्रायेण, ‘एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायान् अन्तरिक्षात्’ इति पृथिव्यादिभ्योऽपि ज्यायस्त्वमुक्तम् । किं बहुना? सर्वासु अल्पायतनविद्यासु । आनन्दादयः प्रधानस्य’ (ब्र.सू.३-३-११) इत्यधिकरणन्यायेन सत्यत्वज्ञानत्वानन्तत्वादीनाम् उपसंहर्तव्यत्वात्, तत्र च अल्पायतनस्यापि ब्रह्मणः स्वरूपेण आनन्त्यमपि संभवति इत्यानन्त्योपासनस्य आश्रितत्वाञ्च, तन्यायेन गायत्र्यवच्छिन्नत्ववेषेण सर्वभूतात्मत्वासम्भवेऽपि स्वरूपेण सर्वभूतात्मत्वसम्भवाञ्च, अपर्यवसानवृत्तौ अनुपपत्त्यभावात् गायत्रीशब्दस्य अपर्यवसान-वृत्त्याश्रयणं तद्दौर्बल्यकारितमेव इति वाच्यम् ।

गायत्र्यवच्छिन्नस्य ब्रह्मणः स्वरूपेण सर्वभूतात्मत्वोपपादनं क्लेशसाध्यम् इत्यभिप्रायेण अपर्यवसानवृत्त्यनाश्रयणसम्भवात् । अत एव ‘आकाशाद्ध्येव खल्विमानि भूतानि जायन्ते’ इत्यादौ आकाशशब्दे अपर्यवसानवृत्त्यनाश्रयणस्य इदमेव बीजम् । यदि हि आकाशशब्दः तच्छरीरकब्रह्मपरः तदा तच्छरीरकस्य जगत्कारणत्वासम्भवात् स्वरूपाभिप्रायेण जगत्कारणत्ववादोऽभ्युपेयः । स च क्लिष्टः इत्येव अपर्यवसानवृत्त्यनाश्रयणम् । न तु योगप्राबल्यादित्येव रहस्यम् । किञ्च गायत्रीशब्देन चतुष्पात्त्वादिधर्मकीर्तनस्य सादृश्यानुसन्धानार्थत्वाभावे वैयर्थ्यप्रसङ्गाच्च तत्र गौण्याश्रयणं गायत्रीशब्दे न तु गौण्या: प्राबल्यात् । अतो न गोण्यपेक्षया दौर्बल्यम् अपर्यवसानवृत्तेः । ननु अपर्यवसानवृत्तेः लक्षणापेक्षया प्राबल्ये ‘क्षेत्रज्ञञ्चापि मां विद्धि’ (भ.गी.१३-२) इत्यत्र मां मदात्मकं विद्धीत्यर्थः इति, तथा ‘ब्रह्मजज्ञं देवमीड्यं विदित्वा’ (क.उ.१-१७) इत्यत्र, देवं देवात्मकमित्यर्थः इत्येवं बहुषु स्थलेषु क्षेत्रज्ञादिशब्दानाम् अपर्यवसानवृत्तिम् अनाश्रित्य, मां देवम् इत्यादिशब्दानां लक्षणाश्रयणं नोपपद्यते । अतोऽवसीयते लक्षणाऽपर्यवसानवृत्त्योः वैषम्याभावो भाष्यकृदभिमतः इति, इति चेत् – तस्य अन्वारुह्योक्तिरूपतयाऽपि उपपत्तेः । ननु मुख्यार्थसम्बन्धेन तदपृथक्सिद्धविशेष्यस्य लक्षणया प्रतीत्युपपत्तौ न शक्तिः कल्प्या ; अनन्यलभ्यस्यैव शब्दार्थत्वात् इति चेत् -मैवम् । कल्पनायां परमुपालम्भः, न तु कॢप्तस्थले । प्रकृते च जातिगुणवाचिगोनीलादिशब्देषु अपृथक्सिद्धविशेषणवाचित्वावच्छेदेन विशेष्यवाचित्वस्य कॢप्तत्वात्, सर्वशब्दप्रवृत्तिनिमित्ताश्रये ब्रह्मणि सर्वशब्दवाच्यत्वस्य प्रत्याख्यातुम् अशक्यतया, ‘वचसां वाच्यमुत्तमम्’ (जितं.स्तो.११७), ‘नताः स्म सर्ववचसां प्रतिष्ठा यत्र शाश्वती’, ‘तन्नामरूपाभ्यां व्याक्रियत’ (बृ.उ.३-४-७) ‘चराचरव्यपाश्रयस्तु स्यात् तव्द्यपदेशो भाक्तस्तद्भावभावित्वात्’ (ब्र.सू.२-३-१७) ‘इत्यादिभिः ब्रह्मणः सर्वशब्दवाच्यत्वस्य सिद्धतया च, ‘तत्त्वमसि’ इत्यस्य न अनुपपत्तिः इति वदन्ति ।

अत्र तत् त्वमसि इति तत्त्वंपदाभ्यां सर्वज्ञत्वकिञ्चिज्ज्ञत्वोपलक्षितं चिन्मात्रं लक्ष्यते । अतः चिन्मात्रे एवास्य श्रुतिसन्दर्भस्य तात्पर्यम् इति वदन्तः परे प्रत्युक्ताः । “सर्वज्ञं सर्वकर्तारं नारायणमनामयम् । सर्वोत्तमं ज्ञापयन्ति महातात्पर्यमत्र हि” ।। “सर्वेषामपि वेदानामितिहासपुराणयोः । प्रमाणानाञ्च सर्वेषां तदर्थञ्चान्यदुच्यते” ।। इति ‘नारदीय वचनविरोधात् । तन्मते श्रुतेः प्रत्यक्षविरोधमयाभावेन तत्त्वं पदमुख्यार्थयोरेव। अभेदबोधनसम्भवे तत्त्वंपदलक्ष्यचिन्मात्राभेदप्रतिपादकत्वाश्रयणस्य निर्मूलत्वात् । व्याधकुलसंवर्धितराजकुमारस्य व्याधभावभ्रान्त्यपनयनाय प्रवृत्ते, ‘त्वं राजकुमारोऽसि । इति वाक्ये राजकुमारपदे लक्षणाश्रयणाभावेन इहापि जगत्कर्तृत्वसर्वज्ञत्वादिविशिष्टवाचके तत्पदे लक्षणाश्रयणस्य अन्याय्यत्वात् । त्वं राजकुमारोऽसि’ इति वाक्येऽपि विधेयराजकुमारत्यं तात्पर्याभावे व्याधभावानुपमर्दवत् विधेयभूततच्छब्दार्थभूतजगत्कर्तृत्वसर्वज्ञत्वादितात्पर्याभावे तद्विरोधिजीवभावोपमर्दासंभवाञ्च इत्यास्तां तावत् । प्रकृतमनुसरामः । एवमुक्तः श्वेतकेतुः, सुषुप्तिकाले प्रजानां सत्सम्पत्तौ सत्याम्, ‘एवं सति सम्पतन्ना:’ इति प्रतीति: स्यात् । समुद्रे तरङ्गादीनामिव परमात्मनि सुषुप्तौ लीनानां पुनरुत्थितिश्च न स्यात् । अत: सुषुप्तौ प्रजानां सत्सम्पत्ति: न श्रद्धेया इति मन्वानः आह – भूय एव मा इत्यादि । विशिष्य ज्ञापयतु इति पिता श्वेतकेतुना प्रार्थितः तथा इति अङ्गीकृतवान् इत्यर्थः ।

एतत्खण्डविषयाणि अधिकरणानि लिख्यन्ते । उत्क्रान्तिपादे –

(१) ‘वाङ्मनसि सम्पद्यते’ (छां.उ.६-८-६) इति श्रूयमाणा वाचो मनस्सम्पत्तिः, वाग्वृत्तिविषया, न तु वाग्विषया । वाचो मनःप्रकृतिकत्वाभावेन अप्रकृतिभूते मनसि वाचः साक्षाल्लयासम्भवात् । न च वाग्वृत्तेरपि अप्रकृतिभूते मनसि सम्पत्तिशब्दितो लयो न सम्भवति इति वाच्यम् । मनसि स्थितेऽपि वाग्व्यापाराभावमात्रेण सम्पद्यते इत्युपपत्तेः । विद्यमानायास्तु वाचः तादात्विकाभावस्यापि अभावेन संपत्तिश्रुतेः अत्यन्तासम्भवादिति पूर्वपक्षे प्राप्ते उच्यते – ‘वाङ्मनसि दर्शनाच्छब्दाच्च’ (ब्र.सू.४-२-१) । वाक्स्वरूपमेव मनसि सम्पद्यते । वागिन्द्रिये उपरतेऽपि मनःप्रवृत्तिदर्शनात् । ‘वाङ्मनसि सम्पद्यते’ इति शब्दाच्च वागेव मनसि सम्पद्यते । यद्यपि मनसो वाक्प्रकृतित्वं नास्ति । तथाऽप्यनुपरतव्यापारेऽपि मनसि वाचः उपरतव्यापारत्वदर्शनात् वाङ्मनसि सम्पद्यते इव इत्युच्यते । वृत्तिपक्षेऽपि सम्पद्यते इत्यस्य गौणत्वावश्यंभावात् । ततश्च वाचो निर्व्यापारताहेतुभूतः मनसा संयोगविशेषः सम्पत्तिशब्दार्थः इति द्रष्टव्यम् । ‘अत एव सर्वाण्यनु’ (ब्र.सू.४.२-२) यतो याचो मनसा संयोगमात्रं सम्पत्तिः, अत एव, ‘तस्मात् उपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानः’ (प्र.3,३-९) इति वाचमनु सर्वेषामिन्द्रियाणां सम्पत्तिश्रुतिरपि तदर्थिकैवा इत्यर्थः इति स्थितम् ।

(२) तथा – ‘मनः प्राणे’ इत्यत्र मनोवृत्तेरेव प्रमाणे अप्ययः उच्यते । मनश्शब्दस्य मनोवृत्तिष्यपि प्रचुरप्रयोगसत्त्वात् । न तु पूर्वोक्तरीत्या संयोगविशेषः सम्पत्तिशब्दार्थः इति प्राप्ते उच्यते – ‘तन्मनः प्राण उत्तरात्’ (ब्र.सू.४-२-३) । मनसो निर्व्यापारताहेतुभूतः प्राणेन संयोगविशेष एव इहापि सम्पत्तिशब्दार्थः । ततश्च मन एव प्राणे सम्पद्यते ‘मनः प्राणे’ इत्युत्तरवाक्यात् इत्यर्थः । मनश्शब्दस्य मनोवृत्तिपरत्वेऽपि सम्पत्तिश्रुतेः गौणत्यावश्यंभावेन मनश्शब्दस्य गौणत्वाश्रयणस्य अन्याय्यत्वात् इति ‘सिद्धान्तितम् ।

(३) तथा – ‘प्राणस्तेजसि’ इति श्रुतेः प्राणः तेजसि सम्पद्यते इति प्राप्ते – उच्यते ‘सोऽध्यक्षे तदुपगमादिभ्यः’ (ब्र.सू.४-२-४) । सः इन्द्रियसहितः प्राणः अध्यक्ष जीवे सम्पद्यते । एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायान्ति’ (बृ.उ.६-३-३८) इति अन्तकाले प्राणानां जीवोपगमस्य, तेन सह उत्क्रान्तेश्च श्रवणात् जीवे एव सम्पद्यते । गङ्गया संयुज्य सागरं गच्छन्त्यां यमुनायाम्, यमुना सागरं गच्छति इति प्रयोगवत् जीवद्वारा प्राणस्य तेजस्सम्पत्तावपि ‘प्राणस्तेजसि’ इत्युक्ति: उपपद्यते । न च प्राणस्य तेजोद्वारेणैव जीवोपगमोऽस्तु इति वाच्यम् । निरध्यक्षस्य प्राणस्य तेजसि स्थितेः असम्भवात् इति स्थितम् ।

(४) तथा ‘प्राणस्तेजसि’ इति जीवयुक्तस्य प्राणस्य तेजोमाने एव सम्पत्तिश्रवणात् न सर्वभूतसम्पत्तिः इति प्राप्ते, उच्यते – ‘भूतेषु तच्छ्रुतेः’ (ब्र.सू.४-२-५) । सजीवः प्राणः संहतेषु सर्वेषु भूतेषु सम्पद्यते । ‘पृथीवीमय अपोमयस्तेजोमयः’ (बृ.उ.६-४-५) इति सञ्चरतो जीवस्य सर्वभूतमयत्वश्रवणेन सर्वभूतसम्पत्तेः वक्तव्यत्वात् । ‘नैकस्मिन् दर्शयतो हि’ (ब्र.सू.४-२-६) एकस्मिन् तेजोमात्रे न सम्पद्यते । ‘एकैकस्य भूतस्य कार्याक्षमत्वम्’, ‘अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणीति, तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ इति (छां.उ.६-३-२३) । “नानावीर्याः पृथग्भूतास्ततस्ते संहति विना । नाशक्नुवन् प्रजाः स्रष्टुमसमागम्य कृत्स्नशः ।। समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः । महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते” ।। (वि.पु.१-२-५२,५३) इति श्रुतिस्मृती दर्शयतः इत्यर्थः इति स्थितम् ।

(५) तथा – ‘तेजः परस्यां देवतायाम्’ (छां.उ.६-८-६) इत्यत्र जीवपरिष्वक्त तेजश्शब्दित-भूतसूक्ष्माणां परदेवतासम्पत्तौ प्रयोजनाभावात् ‘तेजः परस्यां देवतायाम्’ इति श्रुतिस्तुतिमात्रपरा इति पूर्वपक्षे प्राप्ते, उच्यते – ‘तानि परे तथा ह्याह’ (ब्र.सू.४-२-१४) । तानि . जीवसंसृष्टानि भूतसूक्ष्माणि परे-परमात्मनि सम्पद्यन्ते । कुतः ? तथा ह्याह श्रुतिः – ‘तेज: परस्यां देवतायाम्’ इति । श्रुतिवशाच्च सुषुप्तिप्रलययोः इव परमात्मसम्पत्तेः सुखदुःखोप-भोगायासविश्रमः प्रयोजनत्वेन परिकल्प्यते इति स्थितम् । (६) तथा सेयं परमात्मनि जीवस्य सम्पत्तिः प्राकृतलयवत् कारणापत्तिरूपैव । सर्वात्मनः सर्वोपादानत्वात् । न तु वागादेः मन आदिषु इव अविभागमात्रमिति पूर्वपक्षे प्राप्ते, उच्यते – ‘अविभागो वचनात्’ (ब्र.सू.४-२-१५) । अत्रापि पृथग्भावानर्हसंसर्गविशेष-लक्षणाविभागः एव सम्पत्तिशब्दार्थः । ‘वाङ्मनसि सम्पद्यत’ इत्यत्र सतस्सम्पद्यते इति शब्दस्यैव इहापि अनुषज्यमानतया अभिधानवैरूप्याश्रयणस्य अन्याय्यत्वात् इति स्थितम् । प्रकृतमनुसरामः ।।

 

।। इति अष्टमखण्डभाष्यम् ।।

 

नवमः खण्डः

 

[मधुरसन्यायेन सत्सम्पत्तावविवेकवचनम् ]

 

यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणाँ रसान् समवहारमेकताँ रसं गमयन्ति ।। ।।

 

ते यथा तत्र विवेकं लभन्ते, अमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोस्मीति एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य विदु: सति सम्पद्यामह इति ।। ।।

प्र.-यथा सोम्य इत्यादि । यथा लोके मधुकृतः मधुमक्षिका: मधु निस्तिष्ठन्ति निष्पादयन्ति । नानात्ययानां नानागतीनां वृक्षाणां रसान् समाहृत्य मधुत्वेन ऐक्यं गमयन्ति इत्यर्थः ।। १ ।।

ते यथा तत्र इत्यादि । ते च रसाः मधुत्वेन एकतां गताः अमुष्य वृक्षस्य वकुलस्य वा कुटजस्य वा रसोऽस्मीति यथा विवेकं लभन्ते एवमेव इमाः सर्वाः प्रजाः सति सम्पन्नास्सत्यः अहं देवदत्तः, अहम् अमुष्य पुत्रः, अधुना सति सम्पन्नाः इति वा सम्पत्स्यामह इति वा न जानन्ति इत्यर्थः ।। २ ।।

 

इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ।। ।।

प्र.- इह व्याघ्रो इत्यादि । अथ सुषुप्तेः उत्थिताश्च प्रजाः स्वापात्पूर्व यद्यद्भवन्ति ये ये अभवन् , ते ते आभवन्ति आगत्य भवन्ति । सुषुप्तेः प्राक् व्याघ्राभिमानी स्थित: सुषुप्त्यनन्तरमपि व्याघ्रोऽहम् इति अभिमन्यमान: एव भवति इत्यर्थ:। पूर्ववासनावासित: एव उत्तिष्ठति इति यावत्। ततश्च दर्शनानुसारात् सुषुप्तौ लयो न पुनरुत्थितिविरोधीति भाव:।।

 

एषोऽणिमा ऐतदात्म्यमिदँ सर्वम् तत् सत्यम् आत्मा तत् त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सौम्येति होवाच ।। ।।

 

।। इति नवमः खण्डः ।।

प्र.- एषोऽणिमा सः परमात्मा, अणिमा – अणुः । सूक्ष्मः इत्यर्थः ऐतदात्म्यमिदम् इत्यादि । स्पष्टोऽर्थः । एवमुक्त; श्वेतकेतुः, ‘सुषुप्तिदशायां परमात्मनि सम्पन्नः’ स्वापानन्तरं ततः उत्थाय आगतश्चेत्, प्रातः गृहादुत्थाय आगतस्य, ‘गृहात् आगतोऽस्मि इति प्रतिसन्धानवत्’, सत; आगतोऽस्मीति प्रतिसन्धानप्रसङ्गात् नैतत् विस्रंभणीयम् इति मन्यमानः आह –भूय एव इति । तथा सोम्येति होवाच स्पष्टोऽर्थः ।।

 

।। इति नवमखण्डभाष्यम् ।।

 

दशमः खण्डः

 

इमाः सोम्य नद्यः पुरस्तात् प्राच्यः स्यन्दन्ते पश्चात् प्रतीच्यः तासमुद्रात् समुद्रमेवापियन्ति समुद्र एव भवन्ति ता यथा तत्र विदुः, इयमहमस्मिइयमहमस्मीति ।। ।।

 

प्र.-इमा: सोम्य नद्यः इत्यादि । यथा गङ्गाद्याः नद्यः प्राच्यः पूर्वदिक्प्रस्थिताः प्राङ्मुखतया समुद्रं यान्ति । प्रतीच्यः – पश्चाद्देशप्रवृत्ताः सिन्ध्वाद्याः नद्यः ‘पश्चान्मुखतया समुद्रं यान्ति । पुनश्च ताः समुद्रात् समुद्रं गच्छन्ति । समुद्रपर्यन्तदेशात् समुद्रमध्यं गत्वा समुद्रेण एकीभूताः सत्यः ‘इयं गङ्गाऽहमस्मि’, ‘इयं यमुनाऽहमस्मि’ इत्येवं प्रत्यभिज्ञातुम् असमर्थाः भवन्ति इत्यर्थः ।।

 

एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य विदुः सत आगच्छामह इति इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दँशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ।। ।।

प्र. – एवमेव खलु इत्यादि । तथा सुप्तोत्थिताः अपि सतः उत्थिताः आगताः इति न प्रत्यभिज्ञातुं समर्थाः भवन्ति इत्यर्थः । शिष्टं स्पष्टम् ।।

 

एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् तत्सत्यम् आत्मा तत् त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।।।।

 

।। इति दशमः खण्डः ।।

प्र. – अपि तु व्याघ्रादिभावमात्रम् अनुसन्दधते इत्येवं बोधितेन श्वेतकेतुना, ननु सुप्तोत्थितस्य, सोऽहमिति अनुसन्धानबलात् नाशाभावस्य अभ्युपगन्तव्यत्वे मरणानन्तरं कदाऽपि पूर्वजन्मस्मरणाभावात् जीवस्य देहवियोगसमये नाशः कस्मात् न स्यादिति मन्यमानेन भूयो विज्ञापयत्विति प्रार्थितः तथाऽस्तु इत्यवोचत् इत्यर्थः । एतत्खण्डाधिकरणं लिख्यते-सुप्तस्य मुक्ताविशिष्टतया ब्रह्मणि लीनस्य पुनर्देहसम्बन्धासंभवात् अन्यः एव उत्तिष्ठति । सुप्तिरहितपुरुषेषु वैदिककर्मणां साफल्यञ्च भविष्यति इति प्राप्ते उच्यते – ‘स एव तु कर्मानुस्मृतिशब्दविधिभ्यः’ (ब्र.सू.२-२-९) । स एव सुप्तः एव तु उत्तिष्ठति । कुतः ? कर्मानुस्मृतिशब्दविधिभ्यः । सुप्तेः प्राकृतं कर्म तेनैव भोक्तव्यं अन्यथा कृतहानादिप्रसङ्गात् । योऽहं सुप्तः सोऽहं जागर्मि इति अनुस्मृतेः । इह व्याघ्रो वा सिंहो वा इत्यादिशब्दात् मोक्षार्थविधिवैयर्थ्यप्रसङ्गाञ्च न सुषुप्तिः मुक्तितुल्या । अत एव प्रजापतिविद्यायाम् – ‘नाहं खल्वयमेवं संप्रत्यात्मानं जानाति’ इति अज्ञत्वेन सुषुप्तिः निन्द्यते । ‘मनसैतान् कामान् पश्यन् रमते’ इति मुक्तिः तद्विलक्षणतया प्रतिपाद्यते । अतः न सुषुप्तिः मुक्तिरिति स एव उत्तिष्ठति इति स्थितम् ।।

 

।। इति दशमखण्डभाष्यम् ।।

 

एकादशः खण्डः

 

[वृक्षस्य शाखादिमात्रशोषणनिदर्शनेन जीवस्यामरत्वनिरूपणम् ]

 

अस्य सोम्य ! महतो वृक्षस्य यो मूलेऽभ्याहन्यात् जीवन् स्रवेत्, यो मध्येऽभ्याहन्यात्, जीवन् स्रवेत् ; योऽग्रेऽभ्याहन्यात्, जीवन् स्रवेत् एष जीवेनाऽऽत्मनाऽनुप्रभूत: पेपीयमानो मोदमानस्तिष्ठति ।। ।।

 

प्र.-अस्य सोम्य ! इत्यादि । अनेकशाखायुक्ते वृक्षे यदि कश्चित् मूले मध्ये अग्रे वा परश्वादिना अभ्याहन्यात् तदा जीवयुक्त: एव वृक्षः रसं स्रवति । अतः रससृतिरूपकार्यात् जीवात्मा आमूलाग्रं व्याप्य मूलैः उदकं पिबन् तत्प्रयुक्तसुखादिकं च अनुभवन् आस्ते इत्यर्थः ।।

 

तस्य यदेकाँ शाखां जीवो जहाति, अथ सा शुष्यति; द्वितीयां जहाति, अथ सा शुष्यति ; तृतीयां जहाति, अथ सा शुष्यति; सर्व जहाति, सर्वः शुष्यतिएवमेव खलु सोम्य विद्धीति होवाच ।। ।।

प्र.-तस्य यदेकां शाखाम् इत्यादि । एवम् आमूलाग्रं व्याप्य वर्तमानो जीवः यदि ‘कालकर्म’वशात् यं यं प्रदेशं त्यजति स स प्रदेशः शुष्यति । एवमेव सर्वं जहाति यदि तत्सर्वं शुष्यति । ततश्च यथा एकैकशाखाशोषो न जीवनाशकृतः, अपि तु जीवसङ्कोचकृतः, प्रदेशान्तरे जीवस्य सत्त्वेन नाशासम्भवात् । एवमेव सर्वशोषोऽपि तत्त्यागकृतः एव । न तु जीवनाशकृतः इत्यर्थः ।।

 

[देहस्य मरणं तु जीवस्य]

 

जीवापेतं वाव किलेदं म्रियते ; जीवो म्रियते इति एषोऽणिमाऐतदात्म्यमिदँ सर्वम् तत् सत्यम् आत्मा तत्त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।। ।।

 

।। इति एकादशः खण्डः ।।

प्र.-जीवापेतं वाव इत्यादि । अतः मनुष्यादिषु अपि जीवत्यागकृतं देहस्य मरणम् । न जीवस्य मरणम् । तथासति कृतहानाकृताभ्यागमप्रसङ्गात् । अतः सुषुप्तिमरणदशायां सत्संपत्तावपि न जीवविनाशः इति सिद्धमिति भावः । शिष्टं स्पष्टम् । एवं बोधितेन श्वेतकेतुना ‘अणिम्नः सच्छब्दितस्य रूपस्पर्शादिहीनस्य विविधस्थावरजङ्गमादियुतानेकब्रह्माण्डहेतुत्त्वं न श्रद्धेयम्’ इति मन्यमानेन भूय एव मा भगवान्विज्ञापयतु इति प्रार्थित: ‘तथास्तु’ इत्युवाच इत्यर्थः । व्यासार्यस्तु ‘ज्ञोऽत एव’ (ब्र.सू.२-३-१९) इत्यधिकरणे ‘अस्य सोम्य महता वृक्षस्य’ इति वृक्षशब्देन शरीरं निर्दिश्यते इत्युक्तम् ।।

।। इति एकादशखण्डभाष्यम् ।।

 

द्वादशः खण्डः

 

[न्यग्रोधबीजदृष्टान्तेन सूक्ष्मस्य स्थूलारम्भकत्वनिरूपणम् ]

 

न्यग्रोधफलमद आहरेति इदं भगव इति भिन्धीति भिन्नं भगव इति । किमत्र पश्यसीति अण्व्य इवेमा धाना भगव इति आसामङ्गैकां भिन्धीति भिन्ना भगव इति किमत्र पश्यसीति किञ्चन भगव इति ।। ।।

 

प्र.-न्यग्रोधफलम् इति । न्यग्रोधफलमिदमाहर इत्याचार्येण उक्तः श्वेतकेतुः इदं भगवः ! इति आनीतवान् इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । किमत्र फले पश्यसीति पित्रोक्तः पुत्रः अण्व्य इवेमा धाना भगवः इत्याह । इमानि बीजानि अणून्येव पश्यामि इत्यर्थः । इवशब्दः एवार्थः । शिष्टः स्पष्टार्थः ।।

 

तँ होवाच यं वै सोम्यैतमणिमानं निभालयसे, एतस्य वै किल सोम्यैषोऽणिम्न एवं महान् न्यग्रोधस्तिष्ठति ।। ।।

 

प्र.-तँ होवाच । एवमुक्तवन्तं पुत्रं पिता उवाच इत्यर्थः । उक्तमेवाह – यं वै सोम्य इति । हे सोम्य ! यमेतं वटबीजाणिमानं निभालयसे न पश्यसि किम् इत्यर्थः । एतस्य वै किल इति । एष महान् न्यग्रोधः एतस्यैव किल अणिम्नः कार्यतया तिष्ठति इत्यर्थः ।।

 

श्रद्धत्स्व सोम्येति एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् तत्सत्यम् ।  आत्मा तत् त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येति होवाच ।। ।।

 

।। इति द्वादशः खण्डः ।।

 

प्र.-श्रद्धत्स्व सोम्य इत्यादि । अत: अणोरपि सच्छब्दितात् परिदृश्यमानस्य स्थूलस्य प्रपञ्चस्य उत्पत्तिः उपपद्यते इत्यस्मिन्नर्थे श्रद्धा कर्तव्या इत्यर्थः । शिष्टं स्पष्टम् । भूय एव मा भगवान् इत्यादि । अनुपलम्भात् न सच्छब्दितं श्रद्धेयम् इति मन्यमानेन भूयोऽपि विज्ञापयतु इति प्रार्थितः तथेति उक्तवान् इत्यर्थः ।।

 

।। इति द्वादशखण्डभाष्यम् ।।

 

त्रयोदशः खण्डः

 

[उदकलीनलवणन्यायेन अन्तरात्मनोऽदृश्यत्वम् ]

 

लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति तथा चकार । तँ होवाच यद्दोषा लवणमुदकेऽवाधाः, अङ्ग ! तदाहरेति तद्धावमृश्य विवेद । यथा विलीनमेवाङ्ग ।। ।।

 

प्र.-लवणमेतदुदके इत्यादि । रात्रौ लवणं जले अवधाय प्रक्षिप्य प्रातः मत्समीपम् आगच्छेति गुरुणा उक्तः श्वेतकेतुः तथा चकार इत्यर्थः । तँ होवाच इत्यादि । दोषा रात्रौ यल्लवणमुदके अवाधाः प्रक्षिप्तवानसि । तत् अङ्ग ! अधुना आहरेति पिता उवाच । इत्युक्तः पुत्रः विमृश्य न ज्ञातवान् इत्यर्थः । अथ पिता उवाच – यथा इति । यथा लवणमपि विलीनं सत् चक्षुषा त्वचा या नोपलभ्यते एवं सर्वात्मस्वरूपमपि इति भावः ।।

 

अथास्याऽऽदावाचामेति ; कथमिति लवणमिति मध्यादाचामेतिकथमिति लवणमिति अन्तादाचामेति ; कथमिति लवणमिति अभिप्रास्यैतत् अथ मोपसीदथा इति तद्ध तथा चकार तच्छश्वत् संवर्तते तँ होवाचअत्र वाव किल सत् सोम्य निभालयसे अत्रैव किलेति ।। ।।

स य एषोऽणिमा ऐतदात्म्यमिदँ सर्वम् । तत् सत्यम् । स आत्मा । तत् त्वमसि श्वेतकेतो इति । भूय एव मा भगवान् विज्ञापयत्विति । तथा सोम्येति होवाच ।। ३ ।।

।। इति त्रयोदशः खण्डः ।।

.

प्र. एवं चक्षुषा त्वचाऽपि अग्राह्यस्य लवणस्य उपायान्तरेण अवगतिप्रकारं दर्शयतिअथास्यादावाचामेति इति । अस्य जलस्य आदौ – मूलप्रदेशे उद्धृत्य आचामेति । अत्र पित्रा उक्तः पुत्रः आचम्य अनन्तरं कथमिति पृष्ठो लवणम् इत्युक्तवान् इत्यर्थः । मध्यादाचामेति इत्यादि । उक्तोऽर्थः । अभिप्रास्यैतत् अथ मोपसीदथा इति तद्ध तथा चकार एतदभिप्रास्य – परित्यज्य मत्समीपम् आगच्छ इत्युक्तः पुत्रः तथा चकार इत्यर्थः । तच्छश्वत् इत्यादि । तत् लवणं जले शश्वत् सर्वदा सम्यग्वर्तते इत्युक्तवन्तं शिष्यं प्रति पिता उवाच । किमिति ? रसनेन्द्रियेण उपलभ्यमानतया वस्तुतः सदेव लवणं यथा चक्षुषा त्वचा वा नोपलभसे, एवमेव अत्रैव जगति अन्तरात्मतया आगमाचार्योपदेशादिनाऽवगन्तुं योग्यमेव सच्छब्दितं ब्रह्म अत्रैव किल वर्तते इति न निभालयसे द्रष्टुं न शक्तोऽसि न पश्यसि इत्यर्थः ।। २ ।।

एषो इत्यादि । उक्तोऽर्थः । भूय एव मा भगवान् इति । तर्हि सर्वव्यापिन: सच्छब्दितस्य अवगत्युपायं दृष्टान्तेन प्रदर्शय इति प्रार्थितः आचार्यः तथाऽस्तु इत्युक्तवान् इत्यर्थः ।। ३ ।।

 

।। इति त्रयोदशखण्डभाष्यम् ।।

 

चतुर्दशः खण्डः

 

[आचार्योपदेशेनैव ज्ञानस्य प्राप्तिः इति दृष्टान्तपूर्वकनिरूपणम् ]

 

यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् ।  यथा तत्र प्राङ्वोदङ्वाऽधराङ्वा प्रत्यङ् वा प्रध्मायीत अभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ।। ।।

प्र. यथा सोभ्य पुरुषम् इत्यादि । हे सोम्य ! यथा लोके गन्धारेभ्यः .जनपदेभ्यः अभिनद्धाक्षं – पिनद्धचक्षुषं कञ्चित्पुरुषं चोरो गृहीत्वा अतिजनेविजने विसृजेत् यदि, सः दिग्भ्रमोपेतः प्राङ्मुखः उदङ्मुखो वा अधोमुखो बा, ‘अभिनद्धाक्षएव ‘चोरैः’ आनीत: अभिनद्धाक्षः एव विसृष्टोऽहम्’ इति प्रध्मायीत विक्रोशेत इत्यर्थः ।।

 

तस्य यथाऽभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं ब्रजेति ; स ग्रामात् ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसम्पद्येत एवमेवेहाऽऽचार्यवान् पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्य इति ।। ।।

प्र.-तस्य यथाऽभिनहनम् इत्यादि । यथा कश्चित् कारुणिकः तस्य अभिनहनं बन्धनं मुक्त्वा, उत्तरतो गन्धारा: सन्ति । अत: एताम् दिशं उत्तरां व्रजे इति प्रब्रूयात् यदि, सः तेन एवमुक्तः ग्रामात् ग्रामान्तरं पृच्छन् ‘तैः उपदिष्टमार्ग: मेधावी उक्तार्थाविस्मरणशील: पण्डित: – ऊहापोहक्षमधीयुक्तो यथा गन्धारानेव पुनः अभिसम्पद्येत प्राप्य निर्दुःखो भवेत् इत्यर्थः ।

एवमेव इत्यादि । एवम् आचार्योपदेशेन ‘ब्रह्मात्मकः त्वमसि । अतः तदात्मकतया स्वात्मानम् अनुसन्धत्स्व’ इति उपदिष्टः तदात्मकत्वम् अनुसन्धत्ते । तस्य एतादृशानुसन्धाननिष्ठस्य तावदेव चिरम् – तावानेव विलम्बः, यावत् प्रारब्धकर्मारब्धशरीरात् न विमोक्ष्यते । अथ तदनन्तरं तु सद्रूपं ब्रह्म सम्पत्स्यते इत्यर्थः । विमोक्ष्ये, सम्पत्स्ये इति पुरुषव्यत्ययश्छान्दसः ।

केचित्तु – तस्य तावदेव चिरम् इत्यत्र मे इत्यध्याहारः । तस्य मे तावानेव विलम्बः, यावत्कर्मभिः न विमोक्ष्ये । अतः परब्रह्म सम्पत्स्ये’ इति उपासकस्य अनुसन्धानप्रकार: अनेन वाक्येन उच्यते इति वदन्ति । ननु यावन्न विमोक्ष्ये इत्युक्ते कथं शरीरात् मोक्षसिद्धिः ? उच्यते – मोक्षः इत्युक्ते कस्मात् मोक्षः इत्याकाङ्क्षायाम्, अस्यामेव विद्यायां ‘अथ यदाऽस्य वाङ्मनसि सम्पद्यते’ (छां.उ.६-१५-२) इत्यादिना देहादुत्क्रमणश्रवणात्, अन्यत्र च ‘शरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य’, (छां.उ.८-३-४) ‘धूत्वा शरीरम्’, (छा.उ.८-१३-१) ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’ (छां.उ.८-१२-१) इति श्रवणात्, ‘त्यक्त्वा देहं पुनर्जन्म नैति’ (भ.गी.४-९) इत्यादिस्मरणाञ्च, शरीरात् मोक्षः इत्येव अवगम्यते । अथ सम्पत्स्ये इत्यत्रापि सम्पत्तेः कर्मापेक्षायां ‘सता सोम्य तदा सम्पन्नो भवति’ (छां.उ.६-८-१) इति वाक्यान्तरप्रतिपन्नं ब्रह्मैव कर्मतया सम्बध्यते इत्यवगम्यते । उत्तरखण्डिकायाम् ‘एतद्विवरण प्रवृत्तायां देहमोक्ष – ब्रह्मसम्पत्त्योः कथनाच्च एवमेवार्थः । एवमेव व्यासार्यै:, ‘तन्निष्ठस्य मोक्षोपदेशात्’ (ब्र.सू.१-१-७) इत्यत्रोक्तम् ।

न च, ‘आचार्यवान् पुरुषो वेद’ इत्यत्र वेद इत्यस्य न शाब्दज्ञानमात्रार्थकत्वं शङ्क्यं वेदान्तेषु विद्युपास्योः व्यतिकरेण प्रयोगात् । शाब्दज्ञानमात्रेण मोक्षस्य, ‘बुद्धे क्षेमप्रापणं तच्छास्रैर्विप्रतिषिद्धम्’ इत्यादिप्रमाणप्रतिषिद्धत्वाच्च विदिधातुः उपासनावाची एव । एवमस्यामपि विद्यायाम्, ‘येनाश्रुतं श्रुतं भवति अमतं मतमविज्ञातं विज्ञातम्’

(छां.उ.६-१-३) इति विज्ञानशब्दश्रवणात्, तस्य च ‘श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ.उ.४-४-५) इत्यनेन एकार्थ्याच्च उपासनापरत्वमेव आश्रयणीयम् । व्यासार्यैस्तु, ‘आचार्यवान् पुरुषो वेद’ इति आचार्यवत्ताफलत्वेन प्रतिपादितार्थविशेषवेदनवचनं तदर्थस्य अनुसंधेयत्वे लिङ्गम् इति वाक्यार्थज्ञानवाचिन एव वेद इत्यस्य अनुसन्धानाक्षेपकत्वम् उक्तम् । चतुर्थाध्याये – ‘सर्वे पाप्मानः प्रदूयन्ते’ (छां.उ.५-२४-३) इति सर्वकर्मप्रदाहश्रवणात् ब्रह्मविद्योत्पत्त्यनन्तरमेव सर्वकर्मणां नाशः । देहस्थितिस्तु चक्रभ्रमणादिवत् संस्कारवशादपि उपपद्यते इति प्राप्ते उच्यते – ‘अनारब्धकार्ये एव तु पूर्वे तदवधेः’ (ब्र.सू.४-१-१५) । विद्योत्पत्तेः प्राचीने अनारब्धकार्ये एव सुकृतदुष्कृते नश्यतः, न तु आरब्धकार्ये ; ‘तस्य तावदेव

चिरं यावन्नविमोक्ष्ये’ इति शरीरपातविलम्बावधिश्रवणात् यावच्छरीरधारणं प्रारब्धकर्मानुवृत्तेः अवश्यंभावात्, कर्मव्यतिरिक्तस्य देहधारकसंस्कारस्य सद्भावे प्रमाणाभावात् इत्युक्तम् । तथा, ‘भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते’ (ब्र.सू.४-१-१९) इत्यत्र ‘तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ इति विद्यायोनिशरीरपातमात्रस्यैव अन्तरायत्व श्रवणात् प्रारब्धयोः पुण्यपापकर्मणोः सत्त्वेऽपि विद्यायोनिशरीरावसाने भवत्येव मोक्षः इति प्राप्ते – उच्यते – ‘भोगेन त्वितरे क्षपयित्वाऽथ सम्पद्यते’ (ब्र.सू.४-१-१९) । तु शब्दः पक्षव्यावृत्त्यर्थः । इतरे आरब्धकार्ये पुण्यपापे फलभोगेन क्षपयित्वैव ब्रह्म सम्पद्यते । ते च प्रारब्धपुण्यपापे विद्यायोनिशरीरमात्रोपभोग्यफले चेत् – विद्यायोनिशरीरावसाने ब्रह्म सम्पद्यते । अनेकशरीरभोग्यफले चेत् तदवसाने सम्पद्यते । भोगेनैव क्षपयितव्यत्वात् प्रारब्धकर्मणोः । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ इति न तद्देहविमोक्षः इत्युच्यते । अपि तु देहारम्भककर्मविमोक्षः एवेति प्रतिपादितम् । प्रकृतमनुसरामः ।।

 

एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् तत्सत्यम् आत्मा तत् त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोप्यति होवाच ।। ।।

 

।। इति चतुर्दशः खण्डः ।।

 

प्र.- एषोऽणिमा इत्यादि । उक्तोऽर्थः । भूय एव इत्यादि । ननु देहविमोक्षानन्तरं ब्रह्मसम्पत्तिः इत्ययुक्तम् । ‘देवोऽहं मनुष्योऽहं’ इत्यभिमानस्य कदापि अनुपरततया यावदात्मभावित्वेन देवादिशरीरसम्बन्धस्यापि यावदात्मभावित्त्वात् । अतो देहराहित्योपजीविनी ब्रह्मसम्पत्तिरपि न श्रद्धेया इति मन्वानेन श्वेतकेतुना भूय एव मा भगवान् विज्ञापयतु इति प्रार्थितः तथा इत्युवाच इत्यर्थः ।।

।। इति चतुर्दशखण्डभाष्यम् ।।

 

पञ्चदशः खण्डः

 

पुरुषँ सोम्योपतापिनं ज्ञातयः पर्युपासते, जानासि मां जानासि मामिति तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्तावज्जानाति ।। ।।

 

अथ यदाऽस्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम्, अथ जानाति ।। ।।

 

प्र. – पुरुषं सोम्य इत्यादि । हे सोम्य ! उपतापिनम् – मरणवेदनाक्रान्तं पुरुषं बन्धवो मां जानासि किम् ? मां जानासि किम् ? इति असकृत् वदन्तः परितः तिष्ठन्ति । स तु मुमूर्षुः पूर्वोक्तसत्संपत्तिपर्यन्तं तान् जानाति इत्यर्थः ।। १ ।।

अथ यदाऽस्य इत्यादि । सत्सम्पत्त्यनन्तरं तु तान् न जानाति इत्यर्थः । ततश्च सर्वेषां मरणदशायां सत्सम्पत्तौ देहाभिमानाननुवृत्तेः तत्प्रयुक्तदेहसम्बन्ध नित्यताशङ्कायाः असम्भवात् , ‘तस्य तावदेव चिर यावन्न विमोक्ष्ये’ इति देहसम्बन्धात्यन्तनिवृत्तिप्रतिपादकश्रुतेः न अनुपपत्तिः इति भावः ।। २ ।।

 

एषोऽणिमा, ऐतदात्म्यमिदँ सर्वम् तत् सत्यम् आत्मा तत् त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।। ।।

 

।। इति पञ्चदशः खण्डः ।।

 

प्र.- एषोऽणिमा – प्रारब्धविमोक्षानन्तरभाविसम्पत्तिकर्मत्वेन पूर्वखण्डिका-निर्दिष्टः सच्छब्दितः स एषोऽणुः इत्यर्थः । शिष्टं स्पष्टम् । भूय एव मा भगवान् इत्यादि । ननु देवमनुष्यादिप्रकृत्यात्मकत्वाभिसन्धौ अनर्थो भवति, सदात्मकत्वाभिसन्धौ तु न अनर्थप्राप्तिः इति न श्रद्धेयम् । न हि अभिसन्धिभेदमात्रेण महापुरुषार्थापुरुषार्थौ दृष्टचरौ इति मन्यमानेन श्वेतकेतुना भूय एव मा भगवान् विज्ञापयत्विति प्रार्थिततथाऽस्तु इत्युवाच इत्यर्थः ।।

 

।। इति पञ्चदशखण्डभाष्यम् ।।

 

षोडशः खण्डः

 

[अचोरस्यादाह्यता]

 

पुरुषँ सोम्योत हस्तगृहीतमानयन्ति, अपहार्षीत् स्तेयमकार्षीत् परशुमस्मै तपतेति यदि तस्य कर्ता भवति, तत एवानृतमात्मानं कुरुते । सोऽनृताभिसन्धोऽनृतेनाऽऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति दह्यते । अथ हन्यते ।। ।।

 

अथ यदि तस्याकर्ता भवति, तत एव सत्यमात्मानं कुरुते सत्याभिसन्धः सत्येनाऽऽत्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति, दह्यते; अथ मुच्यते ।। ।।

प्र. -ऐतदात्म्यमिदं सर्व तत्सत्यम्’ इति सत्यभूतं सदात्मत्वम् अनुसन्धानस्यैव अनर्थनिवृत्तिः । न तु प्रकृत्यात्मत्वलक्षणासत्यानुसन्धाननिष्ठस्य अनर्थपरिहारः इत्याह – पुरुषं सोम्य इत्यादि । हे सोम्य ! लोके राजपुरुषाः हस्ते पुरुषं गृहीत्वा आनयन्ति । कोऽपराधः अनेन कृतः इति परैः पृष्टास्सन्तः अपहारं कृतवान्, चौर्यरूपेण अपहारं कृतवान् । अपहृत्य च अपनिह्रुते । अतः एतस्य शोधनार्थं परशुं अयःपिण्डम् अस्मै तपत इति वदन्तः आनयन्ति इत्यर्थः । यदि तस्य इत्यादि । सः हस्तगृहीतः पुरुषः न मया द्रव्यम् अपहृतम् इति द्रव्यापहारम् अपह्नुवान: यदि अपहारस्य कर्ता स्यात् तदा असत्यप्रतिज्ञत्वात् स्वात्मानम् अनृतं करोति । अनृताभिसन्ध्यन्तर्हितः सः ततः तप्तं परशुं राजपुरुषार्पितं हस्तेन प्रतिगृह्णाति । ततः दह्यते राजपुरुषैः हन्यते च इत्यर्थः ।। १ ।।

अथ यदि इत्यादि । स यदि तस्य चौर्यस्य अकर्ता एव सन् नाहमपाहार्षमिति प्रतिजानीयात्, तदा सत्याभिसन्धिवशेनैव आत्मानं सत्यं कृत्वा सत्येन आत्मानम् अन्तर्धाय परशुं तप्तं गृह्णाति । सत्याभिसन्धिवशादेव प्रतिबद्धदाहो राजपुरुषैः मुच्यते ।।

यथा तत्र दाह्येत ऐतदात्म्यमिदँ सर्वम् तत् सत्यम् आत्मा तत् त्वमसि श्वेतकेतो इति तद्धास्य विजज्ञाविति विजज्ञाविति ।। ।।

 

।। इति षोडशः खण्डः ।।

 

।। षष्ठः प्रपाठकः समाप्तः ।।

प्र. – यथा तत्र दाह्येत सः – सत्याभिसन्धः पुमान् तत्र परशुग्रहणे यथा  दाह्येत, न दह्यते इत्यर्थः । एवं सदात्मकत्वलक्षणसत्याभिसन्धिः पुमान् सांसारिकैः अनर्थः न स्पृश्यते इत्यर्थः । ऐतदात्म्यमिदँ इति । अतः सर्वस्य सदात्मकत्वानुसन्धानमेव सत्याभिसन्धिः इति सर्वान्तर्गतः त्वमपि सदात्मकः इति सदात्मकत्वरूपसत्याभिसन्धिमान् भव । तेन संसारदाहानभिभूतो मुच्यसे इत्यर्थः । तद्धास्य विजज्ञाविति विजज्ञाविति । सच्छब्दितं तत् परंब्रह्म अस्य गुरोः वचनात् विजज्ञौ ज्ञातवान् श्वेतकेतुः इत्यर्थः । द्विरुक्तिः अध्यायसमाप्त्यर्था ।

अत्र व्यासार्यै:, ‘तद्धास्य विजज्ञौ’ इत्यत्र विजज्ञौ इति पदं ‘अविज्ञातं विज्ञातम्’ इति प्रक्रमश्रुतविज्ञानशब्दसमानार्थकम् । ‘अत:’ उपासनवचनमित्युक्तम् । तत्तु सम्भवाभिप्रायेण, पूर्वत्र अष्टकृत्वोऽभ्यस्तेन ‘भूय एव मा भगवान् विज्ञापयतु’ इति वाक्येन ‘तन्मे विजानीहि’ इति वाक्येन च प्रस्तुतविज्ञानविषयत्वात्। अस्य विजज्ञाविति पदस्य, तत्र च वाक्ये उपासनप्रसक्तेः अभावात् । न हि ‘विज्ञापयतु’ इत्यत्र उपासनं कारयतु इत्यर्थो युक्तः । ‘त्रिवृत् त्रिवृदेकैका भवति, तन्मे विजानीहि’ (छ.६-४-७) इति वाक्ये ‘भूय एव मा भगवान् विज्ञापयतु’ इति वाक्ये, ‘तद्धास्य विनज्ञाविति विनज्ञाविति वाक्ये च, पूर्वत्र ‘त्रिवृत्करणे’ श्रुतस्य विजानातेः उपासनार्थत्वाभावेन इहापि तथात्वस्यैव युक्तत्वादिति द्रष्टव्यम् । केचित्तु त्रिवृत्करणप्रकरणे च अत्र च श्रुतानां विज्ञानशब्दानाम् उपासनार्थत्वे दोषाभावत् एतेषां विज्ञानशब्दानाम् उपासनार्थत्वमेव । अथ वा मध्ये विज्ञानशब्दानाम् अतथात्वेऽपि उपक्रमोपसंहारैकरूप्यार्थम् उपक्रमस्थविज्ञानशब्दवत् उपसंहारस्थं ‘विजज्ञौ’ इति पदम् उपासनार्थमेव इति वदन्ति ।

एतद्विषयमधिकरणं लिख्यते – समन्वयाध्याये प्रथमपादे – सर्व हि जगत् सुखदुःखमोहात्मकं दृष्टम् । लोके हि एकस्यैव रूपयौवनशालिनो योषित्पिण्डस्य भर्तारं प्रति सुखरूपत्वम्, सपत्नीजनं प्रति दुःखरूपत्वम्, कामुकपुरुषान्तरं प्रति मोहरूपत्वञ्च दृष्टम् । अतः सुख-दुःख-मोहात्मकतया सत्त्वरजस्तमौमयस्य जगतः तदनुरूपमेव कारणं वक्तव्यम् इति युक्तिसिद्धं त्रिगुणात्मकं प्रधानं सर्वज्ञकपिलस्मृतिसिद्धम् सद्विद्याप्रतिपाद्यमिति पूर्वपक्षे प्राप्ते उच्यते ।

‘ईक्षते शब्दम्’ (ब्र.सू.१-१-५) । शब्दः प्रमाणमेव न भवति यस्य तदशब्दम् आनुमानिकमिति यावत् । आनुमानिकं प्रधानं न, ‘सदेव सोम्येदमग्र आसीत्’ (छां.उ.६-२-१) इति सच्छब्दितम् । अपि तु परंब्रह्मैव । कुतः? ईक्षते: ईक्षणात् इत्यर्थः । यद्यपि इक्शितपौ धातुनिर्देशे वक्तव्यौ इति ईक्षतिशब्दो धातुवाची । तथाऽपि इह धातुवाचिना ईक्षतिशब्देन अर्थो लक्ष्यते । तदैक्षत बहुस्यां प्रजायेयेति’ (छां.उ.६-२-३) इति सच्छब्दितस्य ईक्षणकथनात्, अचेतने ईक्षणासम्भवात् । न च एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय मृत्पिण्डादिदृष्टान्तस्य च उपन्यासेन अनुमानवेषत्वप्रतीतेः आनुमानिकमेव प्रधानमिह प्रतिपाद्यते इति शङ्क्यम् । प्रतिज्ञादृष्टान्तोपन्यासेऽपि प्रधानभूतहेत्ववयवानुपदेशेन अनुमानोपन्यासरूपत्वाभावात् । न च, तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छी.उ.६-८-६) इति कार्यलिङ्गोपन्यासात् अनुमानविवक्षाप्रतीयते एवेति वाच्यम् । उपक्रमोप-संहारद्यन्तर्गतोपपत्तिरूपतात्पर्यलिङ्गतया कार्यलिङ्गोपन्यासेऽपि सांख्याभिमतसुख-दुःखमोहान्वितत्वरूपहेतूपन्यासादर्शनात् । ‘गौणश्चेन्नात्मशब्दात्’ (ब्र.सू.१-१-६) । ननु ‘तत्तेज ऐक्षत’ (छां.उ.६-२-३) इति अचेतने तेज आदौ श्रुतस्य ईक्षणस्य मुख्यस्य असम्भवेन कार्योन्मुख्यलक्षणार्थस्यैव समाश्रयणीयतया सच्छब्दितेऽपि श्रूयमाणम् ईक्षणं गौणमेव अस्तु इति चेन्न ; ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा’ (छां.उ.६-८-७) इति सत: आत्मत्वप्रतिपादक’श्रुतिकोप’ प्रसङ्गेन गौणेक्षणप्राय पाठस्य अनादर्तव्यत्वात्, तेज:प्रभृतिशब्दानामपि परमात्मपरतया तत्रापि ईक्षणस्य मुख्यत्वसम्भवाच्च । ‘तन्निष्ठस्य मोक्षोपदेशात्’ (ब्र.सू.१-१-७) । ‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये’ (छां.उ.६-१४-२) इति सदात्मकत्वविद्यानिष्ठस्य शरीरपातमात्रान्तरायब्रह्मसम्पत्ति-लक्षणमोक्षश्रवणात् । न हि प्रकृत्यात्मत्वानुसन्धाननिष्ठस्य मोक्षः सांख्यमतेऽपि संप्रतिपन्न: । ‘हेयत्वावचनाञ्च’ (ब्र.सू.१-१-८) । यदि सच्छब्दितं प्रधानं स्यात् तर्हि सदात्मकत्वं मुमुक्षोः हेयतया उपदेश्यं स्यात् न तु अनुसन्धेयत्वेन इत्यर्थः । ‘प्रतिज्ञाविरोधात्’ (ब्र.सू.१-१-९) । प्रधानविज्ञाने तत्कार्याचेतनमात्रविज्ञानेऽपि चिदचिदात्मकसर्वप्रपञ्चविज्ञानाभावेन एकविज्ञानेन सर्वविज्ञानप्रतिज्ञा पीड्येत । ‘स्वाप्ययात्’ (ब्र.सू.१-१-१०) । ‘सता सोम्य तदा सम्पन्नो भवति’ (छां.उ.६-८-१) इति श्रुतिः, सत्सम्पत्ति ‘स्वमपीतो भवति’ (छां.उ.६-८-१) इति स्वाप्ययत्वेन बोधयति । सच्छब्दितस्य प्रधानत्वे स्वशब्दार्थभूतमात्मत्वं नोपपद्यते । ब्रह्मत्वे तु स्वशब्दार्थभूतमात्मत्वम् उपपद्यते । तथा अचेतने अकारणे जीवस्य आप्ययशब्दितो लयश्च नोपपद्यते । ‘गतिसामान्यात्’ (ब्र.सू.१-१-११) । सर्वेषु वेदान्तेषु, ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ.उ.१-१-१) ‘एको ह वै नारायण आसीत्’ (महो.१-१) ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (तै.उ.आन.२-१) इत्यादिषु चेतनकारणत्वावगतेः तत्साम्यमेव इहापि वक्तव्यम् । अत: तदैकार्थ्याय इहापि सच्छब्दितं ब्रह्मैव कारणत्वेन निर्दिश्यते । ‘श्रुतत्वाञ्च’ (ब्र.सू.१-१-१२) । अस्यामेव उपनिषदि सच्छब्दवाच्यस्य अद्वितीयत्व-नामरूपव्याकर्तृत्व-सर्वज्ञत्व-सर्वशक्तित्व-सर्वाधारत्व-अपहतपाप्मत्वादीनां श्रवणात् न अचेतनं प्रधानं सच्छब्दितमिति स्थितम् ।।

।। इति षोडशखण्डभाष्यम् ।।

।। इति षष्ठप्रपाठकभाष्यम् समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.