छान्दोग्योपनिषत् तृतीयः प्रपाठकः

छान्दोग्योपनिषत्

तृतीयः प्रपाठकः

 

प्रथमः खण्डः

 

[आदित्ये मधुदृष्टिः]

 

अस वा आदित्यो देवमधु तस्य द्यौरेव तिरश्चीनक्शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ।। ।।

 

प्र.-मधुविद्या प्रस्तूयते – अस वा आदित्यो देवमधु । असौ आदित्यो वस्वादीनां देवानां ‘मोदहेतुत्वात्’ मधु । अत्र मधुत्वदृष्टिः कर्तव्या इत्यर्थः । मधुत्वोपयोगीनि सम्पादयति। तस्य द्यौरेव तिरश्चीनवंशः तस्य – आदित्याख्यमधुनः धुलोकः एव आधारभूतः तिर्यक्प्रसारितो वंशः इत्यर्थः । अन्तरिक्षमपूपः – अन्तरिक्षं मध्वपूपः । मध्वाश्रयः अपूपो हि तिरश्चीनवंशलग्नस्सन् लम्बते । एवम् अन्तरिक्षमपि द्युलोकलग्नं लम्बते इव भाति इति अत: मध्वपूपत्वम् । मरीचयः पुत्राः । मरीचिशब्देन मरीचिस्थाः सवित्राकृष्टाः भौम्य आप उच्यन्ते । ताः पुत्राः इव पुत्राः’भ्रमरबीजभूताः मध्वपूपच्छिद्रस्थाः सूक्ष्मकीटा इत्यर्थः ।।

तस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः एव मधुकृतःऋग्वेद एव पुष्पम्, ता अमृता: आपः ।। ।।

 

प्र. – तस्य ये प्राज्ञो रश्मयः तस्य -आदित्यस्य ये प्राञ्चो रश्मयः । ता एवास्य प्राच्यो मधुनाड्यः, ता एव प्राग्दिगवच्छिन्नाः मधुनाड्य: – मधुच्छिद्राणि । ऋच एव मधुकृतः । ऋङ्मन्त्राः एव भ्रमराः । ऋग्वेद एव पुष्पम् । ऋग्वेदविहितं कर्म पुष्पस्थानीयम् । अस्मिन् पुष्पस्थानीये ऋग्वेदविहिते कर्मणि मधुकरस्थानीयैः ऋङ्मन्त्रैः आकृष्य मधुत्वेन निर्वर्त्यमानो रसः कः? इत्यत्राहता अमृता आप: ता: – कर्मणि प्रयुक्तसोमाज्यपयोरूपाः आपः अग्नौ प्रक्षिप्ताः ‘पाकाभि’निर्वृत्ता: अमृताः अत्यन्तरसवत्यः भवन्ति इत्यर्थः ।।

ता वा एता ऋच एतमृग्वेदमभ्यतपन् तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ।। ।।

 

प्र. –ता वा एता ऋच एतमृग्वेदमभ्यतपन् ता वा एता ऋचः – ऋङ्मन्त्राः भ्रमरस्थानीयाः पुष्पेभ्य: रसम् आददानाः भ्रमराः इव एतत् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् । अभ्यतपन् – अभितापं कृतवत्य: इव । तस्य……अजायत । यशस्तेज इन्द्रियवीर्यान्नाद्यलक्षणो रसः अजायत इत्यर्थः । ऋग्भिर्मन्त्रैः स्तोत्रशस्त्राद्यङ्गभावम् उपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं सोमाज्यादिरसं मुञ्चति पुष्पमिव भ्रमरैः आचोष्यमाणं’ । तेन च यशस्तेज-इन्द्रियपाटववीर्यादिलक्षणं फलम् उत्पन्नं भवति इत्यर्थः ।।

तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतत् यदेतदादित्यस्य रोहितँ रूपम् ।। ।।

 

।। इति प्रथमः खण्डः ।।

 

प्र.-तद् व्यक्षरत् तत्यश आदिलक्षणं फलं व्यक्षरत् – विशेषेण अगमत् । तदादित्यमभितोऽश्रयत् । गत्वा आदित्यमभितः ‘आश्रितवदित्यर्थः । तद्…. रूपम् । आदित्ये प्रत्यक्षतः परिदृश्यमानं यद् रोहितरूपम्,  तत् कर्मनिवर्त्ययशस्तेजआदिलक्षणफलरूपम् इत्यर्थः । रोहितरूपे तद्बुद्धिः कर्तव्या इति यावत् ।।

।। इति प्रथमखण्डभाष्यम् ।।

 

द्वितीयः खण्डः

 

[दक्षिणदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]

 

अथ येऽस्य दक्षिणा रश्मयः, ता एवास्य दक्षिणा मधुनाड्यः यजूँष्येव मधुकृतः, यजुर्वेद एव पुष्पम् ता अमृता आपः ।। ।।

 

तानि वा एतानि यजूँषि एतं यजुर्वेदमभ्यतपत् ; तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ।। ।।

 

तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतत् यदेतदादित्यस्य शुक्ल रूपम् ।।।।

 

।। इति द्वितीयः खण्डः।।

 

प्र. अथ येऽस्य दक्षिणा रश्मयः इत्यादि । सर्वं पूर्ववत्रेयम् ।

इति द्वितीयखण्डभाष्यम् ।।

तृतीयः खण्डः

 

[पश्चिमदिक्स्थरश्म्यादी मधुनाड्यादिदृष्टिः]

 

अथ येऽस्य प्रत्यञ्चो रश्मयः, ता एवास्य प्रतीच्यो मधुनाड्यः ; सामान्येव मधुकृतः, सामवेद एव पुष्पम् ; ता अमृता आपः ।। ।।

 

तानि वा एतानि सामानि एतँ सामवेदमभ्यतपन्; तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ।। ।।

 

तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् ; तद्वा एतत्, यदेतदादित्यस्य कृष्णं रूपम् ।। ।।

 

इति तृतीयः खण्डः ।।

 

प्र. – अथ येऽस्य प्रत्यञ्चो रश्मयः इत्यादि । पूर्ववदेव ।।

 

।। इति तृतीयखण्डभाष्यम् ।।

 

चतुर्थः खण्डः

 

[उत्तरदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]

 

 

अथ येऽस्योदञ्चो रश्मयः, ता एवास्योदीच्यो मधुनाड्यः, अथर्वाङ्गिरस एव मधुकृतः, इतिहासपुराणं पुष्पम् ता अमृता आपः ।। ।।

 

ते वा एतेऽथर्वाङिगरस एतदितिहासपुराणमभ्यतपन्, तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्त्राद्यं रसोऽजायत ।। ।।

 

तद् व्यक्षरत्, तदादित्यमभितोऽश्रयत् ,तद्वा एतत्, यदेतदादित्यस्य परकृष्णं रूपम् ।। ।।

 

।। इति चतुर्थः खण्डः ।।

 

प्र. – अथ येऽस्योदञ्चो रश्मयः इत्यादि । अथर्वाङ्गिरस एव मधुकृतः । अथर्वणा अङ्गिरसा च दृष्टा मन्त्राः अथर्वाङ्गिरसः । इतिहासपुराणं पुष्पम् । इतिहासपुराणविहितकर्मसु अथर्वाङ्गिरसां मन्त्राणां विनियोगात् ऋग्वेदादिवत् पुष्पत्वोक्तिः इति द्रष्टव्यम् । तद् व्यक्षरत्…..पर:कृष्णं रूपम् पर:कृष्णं रूपम् – अतिशयितं कृष्णरूपम् इत्यर्थः। अन्यत्सर्वं पूर्ववत् नेयम् ।।

 

।। इति चतुर्थखण्डभाष्यम् ।।

 

पञ्चमः खण्डः

 

[ऊर्ध्वदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]

 

अथ येऽस्योर्ध्वा रश्मयः, ता एवास्योर्ध्वा मधुनाड्यः, गुह्या एवादेशा मधुकृतः ब्रह्मैव पुष्पं, ता अमृता आपः ।। ।।

 

ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपन् तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्त्राद्यं रसोऽजायत ।। ।।

 

तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य मध्ये क्षोभत ।। ।।

 

ते वा एते रसानां रसाः वेदा हि रसाः, तेषामेते रसाः, तानि वाएतान्यमृतानाममृतानि, वेदा ह्यमृताः, तेषामेतान्यमृतानि ।। ।।

 

।। इति पञ्चमः खण्डः ।।

 

प्र.अथ येऽस्योर्ध्वा रश्मय: इत्यादि । गुह्या एवादेशा मधुकृतः । ब्रह्मविषयकोपनिषद्रहस्योपदेशाः इत्यर्थः । तद्वा……क्षोभत इव । समाहितदृष्टिभिः वीक्ष्यमाणम् आदित्यमण्डलमध्ये चलतीव स्फुरति इत्यर्थः ।  ते वा एते रसानां रसाः इत्यादि । लोकसारभूत ऋग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वात् रोहितादिरूपाणाम् अतिरसत्वम् । तथा वेदेभ्योपि इष्टतत्साधनप्रतिपादकतया भोग्यभूततया अमृतेभ्यः रोहितादिरूपाणां तत्प्रतिपाद्यकर्मनिष्पाद्यानाम् अतिभोग्यत्वात् अमृतादपि अमृतत्वम् इत्यर्थः । अयमत्र निर्गलितार्थः । प्रागाधूर्ध्वदेशान्तरस्थितरश्मिनाडीत: तत्तद्वेदोक्तकर्मकुसुमेभ्यः तत्तद्वैदिकमन्त्रमधुकरैः आदित्यमण्डलम् आनीतानि सोमाज्यपयःप्रभृतिद्रव्यनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियम् इत्येवमात्मकानि रोहितं शुक्लं कृष्णं पर:कृष्णं मध्ये क्षोभते इव इत्युक्तानि रोहितादीनि पञ्चामृतानि आदित्यमध्वाश्रितानि इति ।।

।। इति पञ्चमखण्डभाष्यम् ।।

 

षष्ठः खण्डः

 

[प्रथमामृतस्य वसूनाम् उपजीव्यत्वम्]

 

तद् यत् प्रथमममृतम्, तद् वसव उपजीवन्त्यग्निना मुखेन, वै देवा अश्नन्ति, पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ।। ।।

 

प्र. – एषां पञ्चानाम् अमृतानां वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वं तदुपासीनानां वसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तिं च प्रतिपादयति – तद्यत्…..मुखेन । अग्रिमुखाः वसवः रोहितरूपलक्षणं प्रथमम् अमृतम् उपजीवन्ति इत्यर्थः । उपजीवनं भक्षणमिति शंकां प्रतिषेधति । वै देवा अश्नन्ति पिबन्ति इति । चन्द्रमिव इति भावः । पुनः कथम् उपजीवनम् इत्यत्राह – एतदेवामृतं दृष्ट्वा तृप्यन्ति । यशस्तेजआदिलक्षणं रोहितं रूपं सर्वैः ‘करणैः उपलभ्य तृप्यन्ति इत्यर्थः ।।

 

एतदेव रूपमभिसंविशन्ति एतस्माद्रूपादुद्यन्ति ।। ।।

 

प्र. – एतदेव रूपमभिसंविशन्ति एतदेव रूपमभिलक्ष्य – अनुभूय इति यावत् । संविशन्ति – भोगानन्तरम् उदासीनाः भवन्ति इत्यर्थः । एतस्माद्रूपादुद्यन्ति । प्राप्ते भोगकाले इति शेषः । एतस्माद्रूपात् इति ल्यब्लोपे पञ्चमी । एतद्रूपानुभवमुद्दिश्य उद्यन्ति – ‘सोत्साहाः भवन्ति इत्यर्थः ।।

[अमृतोपासकस्य फलम्]

एतदेवममृतं वेद, वसूनामेवैको भूत्वाऽग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यति, एतदेव रूपमभिसंविशन्ति, एतस्माद्रूपादुदेति ।। ।।

 

प्र. – एतदेवममृतं वेद एवम् – अनेन प्रकारेण वसुतृप्त्याधायकदर्शन- गोचरत्वलक्षणवसूपजीव्यत्वादिना रोहितामृतं यो वेद इत्यर्थः । वसूनामेव….मुखेन इत्यादि तत्क्रतुन्यायेन सः – तदुपासीनोऽपि वसुत्वं प्राप्य तथैव भवति इत्यर्थः ।

यावदादित्यः पुरस्तादुदेता पक्षादस्तमेता, वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ।। ।।

 

इति षष्ठ: खण्डः ।।

 

प्र. – कियन्तं कालमित्यत्राह – यावत्……अस्तमेता इत्यादि । आदित्यस्य प्राच्यां दिशि उदयः, प्रतीच्यां अस्तमयश्च यावन्तं कालम् अनुवर्तते, तावन्तं कालं वसूनां यदाधिपत्यं यदप्रतिहतसंकल्पत्वलक्षणं स्वाराज्यं तत् पर्येता – परितो गन्ता इत्यर्थः ।।

इति षष्ठखण्डभाष्यम्

 

सप्तमः खण्डः

 

[दितीयामृतस्य रुद्रस्य उपजीव्यत्वम् ]

 

अथ यद् द्वितीयममृतम् , तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन वै देवा अश्नन्ति, पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ।।।।

 

एतदेव रूपमभिसंविशन्ति; एतस्माद्रूपादुद्यन्ति ।। ।।

 

एतदेवममृतं वेद, रुद्राणामेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति, एतदेव रूपमभिसंविशति; एतस्माद्रूपादुदेति ।। ।।

 

यावदादित्यः पुरस्तादुदेता, पश्चादस्तमेता, द्विस्तावत् , दक्षिणत उदेतोत्तरतोऽस्तमेता, रुद्राणामेव तावदाधिपत्यँ, स्वाराज्यं पर्येता ।। ।।

 

।। इति सप्तमः खण्डः ।।

 

प्र. – अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्ति इत्यादि । सर्वं पूर्ववद्रष्टव्यम् ।  यावदादित्यः पुरस्तात् इत्यादि । पुरस्तादुदयपश्चादस्तमयापेक्षया द्विगुण कालं दक्षिणत: उदयम् उत्तरतः अस्तमयं च कल्पयित्वा श्रुतिः ‘ब्रवीति इति नात्र कथन्ता कार्या । शिष्टं स्पष्टम् ।।

 

इति सप्तमखण्डभाष्यम्॥

 

अष्टमः खण्डः

 

[तृतीयामृतोपासनेन आदित्यानां तृप्तिः]

 

अथ यत् तृतीयममृतम् , तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति, पिबन्ति एतदेवामृतं दृष्ट्वा तृप्यन्ति

 

एतदेव रूपमभिसंविशन्ति, एतस्मादूपादुद्यन्ति

 

एतदेवममृतं वेद, आदित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति, एतदेव रूपमभिसंविशति, एतस्मादूपादुदेति ।। ।।

 

यावदादित्यो दक्षिणत उदेता उत्तरतोऽस्तमेता द्विस्तावत् ,पश्चादुदेता पुरस्तादस्तमेता आदित्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।। ।।

 

प्र. – अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति इत्यादि । सर्वं स्पष्टम् ।।

।। इति अष्टमखण्डभाष्यम् ।।

 

नवमः खण्डः

 

[मरुदुपजीवनभूतचतुर्थामृतोपासने मरुत्वप्राप्तिपूर्वकब्रह्मप्राप्तिः]

 

अथ च्चतुर्थममृतम् , तन्मरुत उपजीवन्ति सोमेन मुखेन, वै देवा श्नन्ति, पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ।। ।।

 

एतदेव रूपमभिसंविशन्ति, एतस्माद्रूपादुद्यन्ति ।। ।।

 

एतदेवममृतं वेद, मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति एतदेव रूपमभिसंविशति, एतस्माद्रूपादुदेति ।। ।।

 

यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता, द्विस्तावत् , उत्तरत उदेता दक्षिणतोऽस्तमेता, मरुतामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।। ।।

 

।। इति नवमः खण्डः ।।

प्र. –अथ च्चतुर्थममृतम् इत्यादि । पूर्ववत् ।।

।।इति नवमखण्डभाष्यम्।।

 

दशमः खण्डः

 

(पञ्चमामृतं साध्योपजीवनभूतं यत्तदुपासनम्)

 

अथ यत् पञ्चमममृतम् , तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन, वै देवा अश्नन्ति, पिबन्ति ; एतदेवामृतं दृष्ट्वा तृप्यन्ति ।। ।।

 

एतदेव रूपमभिसंविशन्ति ; एतस्माद्रूपादुद्यन्ति ।। ।।

 

एतदेवममृतं वेद, साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृष्यति। एतदेव रूपमभिसंविशति एतस्माद्रूपादुदेति ।। ।।

 

यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता, द्विस्तावत्, ऊर्ध्वं उदेताऽर्वागस्तमेता, साध्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।। ।।

 

।। इति दशमः खण्डः।।

 

प्र. – अथ यत्पञ्चममृतम् इत्यादि । सबै समानम् ।।

।। इति दशमखण्डभाष्यम् ।।

 

एकादशः खण्डः

 

[नामरूपकृत्यादिरहितकार्यावस्थादित्यजीवशरीरकब्रह्मोपासनम्]

 

अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेता, एकल एव मध्ये स्थाता । तदेष श्लोकः ।। ।।

 

प्र. – एवं वसुरुद्रादित्यमरुत्साध्यगणभोग्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रय-देवमधुत्वरूपितज्योतिर्मण्डलाख्यरूपयुक्तस्य उदयास्तमयादि कृत्य विशिष्टस्य आदित्य- नामकस्य आदित्यशरीरककार्यावस्थब्रह्मणः उपासनम् उपदिश्य, नामरूपकृत्यादि रहिताकार्यावस्थादित्यजीवशरीरकब्रह्मोपासनं दर्शयति । अथ तत ऊर्ध्व उदेत्य नेवोदेता नास्तमेता अथ – ब्रह्मदिवसरूपस्य कल्पस्य समाप्त्यनन्तरं तत ऊर्ध्वं उदेत्य उदयास्तमयाभ्यां प्राण्यनुग्रहात् ऊर्ध्वं उदेत्य, उदयास्तमयकृत्यप्रयुक्तप्राण्यनुग्रहरहितः इत्यर्थः । नैवोदेता नास्तमेता, एकल एव मध्ये स्थाता । उदयास्तमयशून्यः एकस्वभावः एव उदासीनतया वर्तते इत्यर्थः। अत्र हि भाष्ये, (भाष्ये, अत्र हि?) ‘कार्यकारणावस्थब्रह्मोपासनं विधीयते । ‘असौ वा आदित्यो देवमधु’ इत्यारभ्य, ‘अथ तत ऊर्ध्व उदेत्य’ इत्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं ब्रह्म उपास्यम् उपदिश्यते । ‘अथ तत ऊर्ध्व उदेत्य’ इत्यादिना आदित्यान्तरात्मतया अवस्थितं कारणावस्थमेव ब्रह्म उपदिश्यते’ इत्युक्तम् । तत्र ‘अथ तत ऊर्ध्वं उदेत्य’ इत्यस्य मुक्तावस्थादित्यान्तर्यामिब्रह्मोपासनपरत्वे अथशब्दादिस्वारस्यात् कारणावस्थम् इति भाष्यस्य अकार्यावस्थं – मुक्त्यवस्थम् इत्यर्थः एव उचितः । न तु आदित्यभावप्राप्तिपूर्वावस्था । व्यासार्यस्तु – भाष्यस्वारस्यं अवलम्ब्य आदित्यनामरूपभाक्त्वावस्थापूर्वभाव्यवस्थेव ‘अथ तत ऊर्ध्व उदेत्य’ इत्यादिसंदर्भेण प्रतिपाद्यते इति वर्णितम् । तेषाम् अयम् आशयः अथशब्दो न निर्दिष्टानन्तर्यार्थः। अपि तु ‘अर्थान्तर’ प्रस्तावार्थः । ‘अथ तत ऊर्ध्वं उदेत्य नैवोदे ता नास्तमेता एकल एव मध्ये स्थाता’ इत्यस्यापि उदयास्तमयतत्कार्यशून्यत्वमर्थः । तथा आदित्यभावपूर्वावस्थायां कल्पादौ सम्भवतीति । तदेष श्लोकः तत् – तस्मिन् विषये देवान् प्रति केनचित् योगिना गीत: श्लोकः । उच्यते इति शेषः ।।

 

वै तत्र निम्लोच: नोदियाय कदाचन । देवास्तेनाहँ सत्येन माविराधिषि ब्रह्मणा ।। इति ।। ।।

 

प्र.नवै……ब्रह्मणा इति । हे देवाः ! तत्र – तस्मिन् आदित्यभावमुक्तिकाले सः – मुक्तादित्यान्तर्यामी परमात्मा निम्लोच: – नास्तमितः । नोदियाय – नोदितश्च । तेनसत्येन ‘वचनेन’ ब्रह्मणा अहं मा विरोधिषि – विरोधं न *गच्छामीति यावत् ।।

 

वा अस्मा उदेति निम्लोचति सकृद्दिवा हैवास्म भवति य एतामेवं ब्रह्मोपनिषदं वेद ।। ।।

 

प्र. वा अस्मा उदेति निम्लोचति इत्यादि । यः एताम् । मधुविद्यारूपां ब्रह्मोपनिषदं – ब्रह्मविद्यां वेद – अनुतिष्ठति अस्मै – ब्रह्मविदे आदित्यो न उदेति, नास्तमेति, ‘आदित्योदयाप्रकाशाभ्यां न किञ्चित् तस्य प्रयोजनम् इत्यर्थः । कुत इत्यत आह – सकृद्दिवा है वास्मै भवति इति । अस्मै – ब्रह्मविदे सकृद्दिवैव भवति – सकृदुदितम् अहरेव भवति । सदैव अहः भवति इत्यर्थः । सन्ततं सर्वविषयकसाक्षात्कारः अस्य भवति इत्यर्थः ।।

[मधुविद्यासम्प्रदायः]

 

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः । स्तद्धैतदुद्दालकायाऽऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ।। ।।

प्रमधुविद्यासम्प्रदायमाह – तद्धैतद्ब्रह्मा……प्रजाभ्यःतद्धैतत् । मधुविज्ञानम् इत्यर्थः । ब्रह्मा – चतुर्मुखः प्रजापतये – दक्षाय मनवे – स्वायम्भुवाय । तद्धैतदुद्दालकाय……प्रोवाचतद्धैतत् ब्रह्म उद्दालकाय पिता प्रोक्तवान् इत्यर्थः ।।

 

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् , प्रणाय्याय वाऽन्तेवासिने ।। ।।

 

प्र. – इदं वाव…. प्रब्रूयात् इत्यादि । तस्माद्धेतोः इदं – ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय वा प्रब्रूयात् प्रणाय्याय – योग्याय शिष्याय वा प्रब्रूयात् इत्यर्थः । प्रणाय्योऽसंमतो’ (पा.सू.३-१-१२८) इति निष्कामार्थे प्रणाय्यशब्दस्य निपातितत्वात् ।।

 

नान्यस्मै कस्मैचन, यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णा दद्यात्एतदेव ततो भूय इति एतदेव ततो भूय इति ।। ।।

 

।। इति एकादशः खण्डः ।।

प्रनान्यस्मै कस्मैचन – उक्तपुत्रशिष्यव्यतिरिक्ताय कस्मैचिदपि न ब्रूयादिति अन्वयः। यद्यपि….इति । अद्भिः परिगृहीतां – समुद्रावृतां धनस्य पूर्णांभोगोपकरणैः पूर्णाम् इमां पृथिवीं यद्यपि अस्मै – आचार्याय दद्यात् । तदपेक्षयाऽपि एतद्विज्ञानमेव अधिकम् । नेतस्य अनुरूपो निष्क्रयोऽस्ति इत्यर्थः। एतदेव….. इति द्विरुक्तिः ‘विद्यासमाप्त्यर्था । एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते समन्वयाध्याये मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपादिपञ्चामृताश्रयादित्योपासनारूपतया अस्यां विद्यायां वस्वादीनां नाधिकारः सम्भवति, उपास्योपासकभावस्य एकस्मिन् असम्भवात् । न हि एकस्यैव प्रीणनीयत्वं प्रीणयितृत्वं च सम्भवति । वसूनामेव एको भूत्वा इत्यादिना वसुत्वादिप्राप्तेः एव मधुविद्याफलत्वेन वस्वादीनामेव सतां वस्वादित्यप्राप्तिकामनाया असम्भवाञ्च अर्थित्वाद्यसम्भवात् । ‘तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ इति परब्रह्मव्यतिरिक्तस्य देवोपास्यत्वनिषेधेन ज्योतिश्शब्दिते ब्रह्मण्येव उपासनसम्भवावगमाच्च मधुविद्यादिषु नाधिकार इति ‘मध्वादिष्वसम्भवादनधिकारं जैमिनिः,’ (ब्र.सू.१-३-३०) ‘ज्योतिषि भावाच्च‘ (ब्र.सू.१-३-३२) इति सूत्राभ्यां पूर्वपक्षं कृत्वा भावं तु बादरायणोऽस्ति हि’ (ब्र.सू.१-३-३२) इति सूत्रेण सिद्धान्तः कृतः। अस्यायमर्थः – अधिकारस्य सद्भावं बादरायण: आचार्यों मन्यते, अस्ति हि तेषामपि अर्थित्वादिसम्भवः इति । अयमाशयः न हि इयं विद्या वस्वादित्यादि- मात्रपर्यवसिता अपि तु तच्छरीरकपरमात्मपर्यन्ता । वस्वादीनामेव सतां स्वान्तर्यामि-परमात्मोपासनं ‘सम्भवत्येव। न चोपास्यप्रतिपादकवस्वादिशब्दानां ब्रह्मपर्यन्तत्वे प्रमाणाभावः, उपसंहारे, ‘ब्रह्मोपनिषदं वेद’ (छां.उ.३-१२-३) इति श्रवणात् । वस्वादीनामेव सतां कल्पान्तरे वसुत्वादिप्राप्ति पूर्वकब्रह्म प्राप्तेः उद्देश्यत्वसम्भवाच्च। लोके पुत्रिणामेव सतां जन्मान्तरेऽपि पुत्रित्वेप्साया:’ दर्शनात्। ननु वस्वादिपञ्चगणोपजीव्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रयादित्यमधूपासनत्वात् मधुविद्यायाः, तस्याञ्च विद्यायाम् आदित्यस्य एव उपास्यतया आदित्यस्य तद्विद्याधिकारासम्भवेऽपि वस्वादीनां कथमनधिकारशङ्का । न हि अस्यां विद्यायां वस्वादीनाम् उपास्यत्वम्, अपि तु तद्भोग्यादित्यस्यैव । भाष्यकृता मधुविद्यायाम् ऋग्वेदादिप्रतिपाद्य- कर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्य आश्रयतया ‘लब्ध’मधुव्यपदेशस्य आदित्यस्य अंशानां वस्वादिभिः भुज्यमानानाम् उपास्यत्वम्’ इति पूर्वपक्षे वस्वादिभोग्यभूतादित्यांशस्य विधीयमानम् उपासनं तदवस्थस्य एव ब्रह्मणः इत्यवगम्यते इति सिद्धान्ते चोक्तत्वात् । न हि स्वोपासनवत् स्वोपजीव्यत्वेन अन्यस्य उपासनं विरुद्धम् ; तथा सति उपासनमात्रोच्छेद- प्रसङ्गात् । सर्वेष्वपि उपासनेषु उपास्यगतस्वोपजीव्यत्वस्वसेव्यत्व ‘स्वाधारत्व:- स्वान्तर्यामित्वादीनाम् अनुसन्धेयत्वात् । ततश्च वसूनामेव सतां स्वोपजीव्य-पञ्चामृताश्रयादित्यविषयमधुविद्यानुष्ठानसम्भवात् कुतोऽनधिकारशङ्का इति चेत् -उच्यते ‘वसूनामेवैको भूत्वे’त्यादिना वसुत्वादिप्राप्तेः फलत्वादिकीर्तनेन मधुविद्यायां तत्क्रतुन्यायेन वस्वादीनाम् उपास्यत्वस्यापि अभ्युपगन्तव्यत्वात् । अथ तत ऊर्ध्वं उदेत्य इत्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं ब्रह्म उपास्यम् उपदिश्यते । अथ तत ऊर्ध्वं उदेत्य इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थं ब्रह्म उपास्यम् उपदिश्यत इति कार्यावस्थोपासनदशायाम् आदित्यवत् वस्वादीनां च तुल्यत्वस्य भाषितत्वाञ्च । मधुविद्याया आदित्योपासनत्वपञ्चामृतोपासनत्ववस्वाद्युपासनत्व- रूपाकारत्रयवत्वात् न पूर्वपक्षोत्थित्यनुपपत्तिरिति द्रष्टव्यम् । ननु वस्ववस्थस्य ब्रह्मण उपास्यत्वसम्भवेऽपि ‘तद्वसव उपजीवन्तीति निर्दिष्टम् उपजीवितृत्वलक्षणं भोक्तृत्वं न ब्रह्मणः सम्भवतीति चेन्न । उपजीवितृत्वस्यापि सद्वारकतया तत्र सम्भवात् । नन्वेवं, तद्वसव उपजीवन्ति इत्यत्र वसुशब्दस्य तदन्तर्यामिपरत्वे ‘वसूनामेव एको भत्वा इत्यत्रापि वसुशब्दस्य ब्रह्मपरत्वं स्यात् । न च तद्युक्तम् न ‘ह्युपासकस्य जीवस्य कल्पान्तरे वसुत्वप्राप्तिलक्षणसंसारदशायां वस्ववस्थब्रह्मभावोक्तिः सङ्गच्छते इति चेन्न ‘वसूनामेवैको भूत्वा’ इत्यत्र यथाश्रुते बाधकाभावेन, ब्रह्मपरत्वे बाधकसम्भवेन, यथाश्रुतार्थस्य एव उपपन्नत्वात् इत्यलम् अतिचर्चया । ननु ‘वसूनामेवैको भूत्वा सकृद्दिवा हैवास्मै भवति’ इति वाक्यद्वयानुसारेण अनया विद्यया कल्पान्तरे कञ्चित्कालं वसुभावं प्राप्य पश्चात् ब्रह्म प्राप्नोति इत्यभ्युपगमो न युक्तः । तथा सति इदानीं मधुविद्योपासकानां प्रायणानन्तरं फलप्राप्तिर्न स्यात् । कल्पान्तरभावित्वात् वसुत्वस्य । न च स विलम्बः सोढव्यः एवेति वाच्यम् । कल्पान्तरेऽपि वस्वादिभावप्रापकमधुविद्यानिष्ठानां तत्प्रापककर्मान्तरनिष्ठानां च अनन्तानां सम्भवेन सर्वेषां च युगपत् वस्वादिभावे वसुगताष्टत्वसङ्घयाविरोधप्रसंगेन वसुत्वप्रापककर्मनिष्ठानाम् अनन्तानां मध्ये विपाकानुसारेण केषाञ्चित् त्रिचतुरकल्पमध्ये वसुत्वादिप्राप्तिः भवति । केषाञ्चित् अनुष्ठितमधुविद्यानामपि सहस्रकल्पप्रतीक्षणमपि अस्ति इति अभ्युपगन्तव्यम् । न हीदृशः कश्चित् मुमुक्षुः भवति । सहस्रकल्पपर्यन्तविलम्बम् अभ्युपगच्छतः कथं मुमुक्षुता ? हैरण्यगर्भान्तसकलभोगविरक्तिपूर्वकब्रह्मानन्दप्रेप्सा- लक्षणमुमुक्षाशाली हि ब्रह्मविद्यायाम् अधिकरोति ततश्च वस्वादिपदाभिलाषिणः कथं मुमुक्षुता, कथं वा ब्रह्मविद्याधिकारः इति चेत् – सत्यम् – ब्रह्मानन्दैकप्रेप्सुरेव मुमुक्षुः । अथापि यथा देहावसानकाले ब्रह्मानन्देकप्रेप्सा मुमुक्षा, एवम्, वसुत्वावसाने ब्रह्मैव प्राप्नुवानि इति प्रेप्साऽपि ब्रह्मानन्दैकप्रेप्सा भवत्येव । शास्त्रबलाञ्च’ ईदृशविलम्बसहिष्णवोऽपि अधिकारिणः सन्तीति अभ्युपगन्तव्यम् । तन्न च प्रारब्धवैचित्र्यमेव नियामकम् ।

अत एव

“याथातथ्यं स्वपरनियतं यञ्च दिव्यं पदं तत् ।

काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ।।”

इत्युक्तरीत्या विवेकिनः कथं विलम्बसहिष्णुता इत्यपि अपास्तम् । प्रारब्धमहिम्ना सर्वस्यापि उपपत्तेः। वस्तुतस्तु भ्रातॄणां मध्ये त्वमेकः इति लौकिकोक्तेः भ्रातृभोगसाम्याभिप्रायत्ववत् । ‘वसूनामेव एको भूत्वा’ इत्यस्य च वाक्यस्य किञ्चित्कालम् आनुषङ्गिकवस्वादिभोगसाम्यम्

अनुभूय तेन ‘पथा’ परं ज्योतिरुपसम्पद्यत इत्यभिप्रायत्वात् तादृशभोगसाम्यस्य च देहवियोगानन्तरमेव सम्भवात् नानुपपत्तिः इत्यप्याहुः । ननु वस्वादिदेवतानां विग्रहाभावेन उपासनसामर्थ्यासम्भवात् कथम् उपासनाधिकारः? न हि देवादीनां शरीरवत्त्वे प्रमाणम् उपलभ्यते । न तावत् प्रत्यक्षानुमाने; तस्य तदगोचरत्वात् । नापि ‘वज्रहस्त: पुरन्दरः’, ‘तेनेन्द्रो वज्रमुद्यच्छत्’ इत्यादीनां प्रामाण्यम् ; मन्त्रार्थवादानाम् अनुष्ठेय स्मृतिस्तुति प्रयोजनकतया विग्रहादौ तात्पर्याभावेन तात्पर्याविषयशब्दस्य अप्रमाण्यात् । अन्यथा श्वेतवर्णरजककर्तृकवस्त्र-शोधनतात्पर्येण प्रयुक्तस्य श्वेतो धावति ‘इत्यस्य’  शुनकसमीपगमनप्रतीत्युत्पादकत्वसम्भवमात्रेण तत्रापि प्रामाण्यप्रसङ्गात् ।

ननु रेवत्याधारवारवन्तीयसामसाध्याग्निष्टोमस्तोत्रविशिष्टक्रतुविधायके ‘रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ इति वाक्ये’ रेवतीषु वारवन्तीयम् इत्यंशस्य रेवतीर्नः सधमाद’ इति ऋकत्रयाधारवारवन्तीयसामरूपे अग्निष्टोमस्तोत्रविशेषणे तात्पर्याभावेऽपि प्रामाण्यं दृष्टम् । न हि तद्विशेषणं ‘सोमेन यजेत’ इत्यादिविशिष्टविधिषु सोमलतादिविशेषणवत् लोकसिद्धम्, नापि विधिसिद्धम्: ‘रेवतीषु रथन्तरं गायेत्’ इतिवत् रेवतीषु वारवन्तीयं गायेत् इति विध्यदर्शनात् । न चास्यैव विशिष्टगोचरस्य विधेः विशेषणविधौ अपि तात्पर्यं वक्तुं शक्यम् । विध्यावृत्तिप्रसङ्गात् । न च आक्षेपात् विशेषणप्रसिद्धिः, अन्योन्याश्रयात् विशेषणप्रसिद्धौ सत्यां विशिष्टविधिः, विशिष्टविधिनैव विशेषणस्य आक्षेपः इति परस्पराश्रयापत्तेः । तस्मात् विशिष्टविधेः विशेषणस्वरूपे तात्पर्याभावेऽपि, ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारस्यैव प्रामाण्यम् अभ्युपगन्तव्यम् इति चेत् –

मैवं – ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारलभ्यां’ रेवत्याधारवार-वन्तीयप्रतीतिम् उपजीव्य प्रवृत्तेन विशिष्टविधिना आक्षिप्तस्य ‘रेवतीषु वारवन्तीयं कुर्यात्’ इति विशेषणविधेः एव तत्र प्रमाणत्वेन रेवतीषु वारवन्तीयम् इति पदद्वयसमभिव्याहारस्य अप्रमाणत्वात् । इयांस्तु विशेषः – ‘सोमलतादि विशेषणं मानान्तरसिद्धं सोमपदात् प्रतीयते । इह तु मानान्तरासिद्धमेव पदसमभिव्याहारात् प्रतीयते’ इति । प्रतीयमानेऽपि विशेषणे विशिष्टविधेः प्रामाण्याभावः उभयत्रापि अविशिष्टः । ततश्च यथा सोमप्रत्यायकं सोमपदं न सोमस्वरूपे प्रमाणम् , एवं ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारो रेवतीवारवन्तीयरूपविशेषणरूपार्थप्रत्यायकोऽपि न तत्र प्रमाणम् । अयं च अपरो विशेषः सोमलताद्रव्यस्य लोकसिद्धत्वात् तत्र यागसम्बन्धित्वेनैव विधिः कल्प्यः । इह तु विशेषणस्वरूपस्यापि मानान्तरासिद्धत्वात् । प्रतीयमानेऽपि तस्मिन् विशिष्टविधे: प्राणाण्याभावाञ्च तत्सिद्ध्यर्थं स्वरूपे स्तोत्रविशेषसम्बन्धित्वे च विधिद्वयं कल्प्यमिति । तस्मात् मन्त्रार्थवादानां स्वार्थे तात्पर्याभावात् न तेभ्यो देवताविग्रहसिद्धिः । ननु मन्त्रार्थवादानां विध्येकवाक्यतापन्नानां स्वार्थेऽपि अवान्तरतात्पर्यं सम्भवत्येव; दर्शपूर्णमासादिप्रधानविध्येकतापन्नप्रयाजादिविधिवत् इति चेत् सत्यम् । मानान्तराविरोधे प्रतीयमानार्थे तात्पर्य सम्भवति । न तु तद्विरुद्धे । अन्यथा ‘यजमानः प्रस्तरः’ इत्यत्रापि प्रतीयामानभेदे तात्पर्यप्रसङ्गात् । अस्ति च मन्त्रार्थवादवशेन देवताविग्रहाभ्युपगमे मानान्तरविरोधः । देवताविग्रहाभ्युपगमे हि न्यायतौल्येन नानायाग’देशे युगपदाहूतानाम् आगमनस्य, अग्निप्रक्षिप्तभस्मी-भूतहविःस्वीकारादेः अपि अभ्युपगमात् प्रत्यक्षोपपत्तिविरोधः । अतो न देवताविग्रहे तात्पर्यं सम्भवति । अतो विग्रहाभावात् उपासनासु अनधिकारः इति पूर्वपक्षे प्राप्ते, .

उच्यते

‘तदुपर्यपि बादरायणस्सम्भवात्’ (ब्र.सू.१-३-२४) तत् – ब्रह्मोपासनम् उपरि मनुष्याणाम् उपरि देवादिषु अपि सम्भवतीति भगवान् बादरायणो मन्यते । तेषामति अर्थित्वसामर्थ्ययोः सम्भवात् । अर्थित्वं तावत् आध्यात्मिकादिदुर्विषहदुःखाभितापात् परस्मिन् ब्रह्मणि च निरस्तनिखिलदोषगन्धे अनवधिकातिशयासंख्येयकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाञ्च सम्भवति । सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तया सम्भवति । देहेन्द्रियादिमत्त्वं च सर्वेषु सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधसृष्ट्याम्नानात् सिद्धम् । देवादिभेदंश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दश लोकस्थभोगयोग्यदेहेन्द्रियादि योगायत्तः । तथा, ‘देवत्वं गच्छन्ति य एता उपयन्ति’ इति विध्यन्यथानुपपत्त्या देशान्तरदेहान्तरभोग्य-ऐहिकसुखलक्षणस्वर्गशब्दोक्तसुखरूपतत्फलभोक्तृ कर्मदेवसिद्धेः अभ्युपगतत्वात् , देवतासायुज्यसालोक्यादिफलकर्मविध्यन्यथानुपपत्त्या देवताविग्रहाणां तद्भोग्यभोगोपकरणानाम् अभ्युपगन्तव्यत्वाञ्च । ‘विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्’ (ब्र.सू.१-३-२६) ननु एवं मन्त्रार्थवादादिभिः देवतायाः विग्रहाभ्युपगमे कर्मणि विरोधः प्रसज्यते । बहुषु यागेषु युगपत् एकस्य इन्द्रस्य विग्रहवतः, ‘अग्निमग्न आवह, इन्द्र ‘आगच्छ” इत्यादिना आहूतस्य सन्निधानानुपपत्तेः विरोधः प्रसज्यते इति चेत् , तन्न – अनेकप्रतिपत्तेः दर्शनात् । दृश्यते हि सौभरिप्रभृतीनां शक्तिमतां युगपत् अनेकशरीरप्रतिपत्तिः । ‘शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्’ (ब्र.सू.१-३-२७) मा भूत् कर्मणि विरोधः । वैदिके तु शब्दे विरोधः प्रसज्यते । देवताविग्रहाभ्युपगमे हि विग्रहस्य सावयवत्वेन अनित्यत्वात्, इन्द्रादेः अर्थस्य विनाशात् ऊर्ध्वं प्राक् उत्पत्तेश्च तदर्थवाचिवैदिकशब्दानां सत्त्वे, शब्दस्य अर्थेन औत्पत्तिकः सम्बन्धो न स्यात्। शब्दस्वरूपस्यापि नाशे अनित्यत्वं स्यात् । ततश्च औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ (पू.मी.सू.१-१-५) इति सूत्रप्रतिपादितं शब्दार्थसम्बन्धानां नित्यत्वं विरुध्येत इति चेत् न । ‘वेदेन नामरूपे व्यकरोत् सतासती प्रजापतिः’ (तै.बा.२-६-२८) – “नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः” ।। (वि.पु.१-५-६३) इति प्रत्यक्षानुमानशब्दाभ्यां श्रुतिस्मृतिभ्याम् इन्द्राद्यर्थानां वेदप्रभवत्वावेदनात् यथा शिल्पिना शिल्पशास्रोदितनामरूपाद्यनुसन्धानपूर्वकं निर्मितं देवताप्रतिमादिकं पूर्वपूर्वसमानरूपम् एवम् इन्द्राद्यर्थोऽपि वेदोक्तनामरूपानुसन्धानशालिना प्रजापतिना निर्मीयमाणः पूर्वपूर्वसमानरूपः एव भवति । ततः समानरूपाभिव्यङ्ग्याकृतिवाचित्वात् इन्द्रादिशब्दानां व्यक्तीनाम् अनित्यत्वेऽपि जातिवाचिगवादिशब्दवत् इन्द्रादिशब्दानामपि जातिवाचितया न अनित्यार्थसंयोगकृतो विरोध: इत्यर्थः । ननु ‘मन्त्रकृतो वृणीते’ संहिताकारपदकारसूत्रकार ब्राह्मणकाराणां, ‘विश्वामित्रस्य सूक्तं भवति’ इति मन्त्रादीनां कार्यत्वश्रवणात् न वेदनित्यत्वम् इत्यत्राह – ‘अत एव च नित्यत्वम्’ (ब्र.सू.१-३-२८) “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतयः” ।। (म.भा.शां.२२२-५५) इति मन्त्रकृत्वेन प्रसिद्धानामपि वसिष्ठविश्वामित्रादीनां वेदजन्यत्वाम्नानात् मन्त्रकृत्वं मन्त्रद्रष्ट्त्वमेव, न तु ‘मन्त्रकरत्वम्’ इति अवसीयते। अत: वेदनित्यत्वस्य न अनुपपत्तिः । ननु एवमपि प्राकृतप्रलये शब्दस्य तदुपादानभूताहङ्कारादेश्च नष्टत्वात् कथं वेदनित्यत्वम् ? कथं वा सर्वेषां वेदशब्दप्रभवत्वं ? तत्राह – ‘समाननामरूपत्वाञ्चा- वृत्तावपि अविरोधो दर्शनात् स्मृतेश्च’ (ब्र.सू.१-३-२९) कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तौ अपि पूर्वोक्तसमाननामरूपत्वस्य तदवस्थत्वादेव न शब्दानित्यत्वम् । ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ (ऋ.सं.१०-१९०-३), “यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु” ।। (महा.भा.शां.८५-५०) इति श्रुतिस्मृतिभ्यां तथैव प्रतिपादनात् एतस्य नित्यत्वम् अपौरुषेयत्वं च । इदमेव हि वेदस्य अपौरुषेयत्वं यत्पूर्वपूर्वोच्चारणक्रमानुसन्धानसापेक्षोच्चारणक्रमत्त्वं तत् इदानीन्तनवेदे सर्गाद्यवेदेऽपि समानम् । इयांस्तु विशेषः – भगवद्व्यतिरिक्ताः सर्वेऽपि पूर्वपूर्ववेदानुपूर्व्यनुभव- जनितसंस्कारवशेन पूर्वानुपूर्वीं स्मृत्वा तयैव आनुपूर्व्या वेदम् उच्चारयन्ति । भगवांस्तु संस्कारनिरपेक्षमेव पूर्वानुपूर्वीम् अनुसन्धाय तयैव आनुपूर्व्या वेदम् उच्चारयति इति । इदमेव हि पौरुषेयप्रबन्धापेक्षया वेदस्य वैलक्षण्यं नित्यत्वं च । ननु चतुर्मुखकर्तृक अवान्तरकल्पसृष्टिविषयतयाऽपि ‘धाता यथा पूर्वमकल्पयत्’ इत्यादि प्रमाणानाम् उपपत्तौ स्वतन्त्रपरमात्मकर्तृकब्रह्मकल्पाद्यसमयप्रवृत्तवेदचतुर्मुखादिसृष्टेः समानानुपूर्वीकत्वसमाननामरूपकृत्यत्वादौ किं प्रमाणम् इति चेत् उच्यते – चतुर्मुखादेः नामरूपकृत्यादीनि इतिहासपुराणादिभ्यो अवगत्य एतादृशनामरूपकृत्य-विशिष्टचतुर्मुखो भवानि’ इत्येवं संकल्पपूर्वकं भगवन्तम् आराध्य तत्तत्पदं प्राप्नुवन्ति इति हि शास्त्रप्रसिद्धिः । यदि हि कल्पान्तरे उत्पद्यमानः चतुर्मुखो विलक्षणनामरूपकृत्यः स्यात् , – तदा तस्य भगवदाराधकस्य वाञ्छितार्थसिद्ध्यभावात्  तदिष्टसाधनत्वावेदकशास्त्रस्य अप्रामाण्यमेव स्यात् । तत्तत्पदाभिलाषिणः प्रवृत्तिश्च कस्यापि न स्यात् । अतः प्राकृतसृष्ट्या वृत्तावपि यथापूर्वमेव सृष्टिः इति देवताधिकरणे स्थितम् इति । ननु अग्निलोकात् ऊर्ध्वलोकवर्तिनाम् अचिराधनतिवाह्यानाम् अचिराद्यातिवाहिक-चिन्तनरूपाङ्गासम्भवात् , तदङ्गत्वस्य, ‘तच्छेषगत्यनुस्मृतियोगाच्च, (ब्र.सू.४-२-१७) ‘योगिनः  प्रतिस्मर्येते स्मार्ते चैते’ (ब्र.सू.४-२-२१) इत्यादिषु आविष्कृतत्वात् , तदङ्गहीनानां ‘देवानां’ कथम् अङ्गिभूतब्रह्मविद्यायाम् अधिकारः इति चेन्न । आतिवाहिकचिन्तनस्य दृष्टार्थतया तत्तल्लोकवर्तिनां तदूर्ध्वलोकवर्त्यातिवाहिकचिन्तनेन एव साद्गुण्योपपत्तेः । मृतयजमानेष्टिकर्मणि सूक्तवाके यजमानस्य आयुराशासनाद्यभावात् , अनपेक्षितम् , ‘आयुराशास्ते’ इत्यादिकम् अंशं विहाय अपेक्षितांशपाठस्य अङ्गीकृतत्वात् । तद्वत्  इहापि अनपेक्षितातिवाहिकांशत्यागेन अपेक्षित-स्वस्वलोकोर्ध्ववर्त्यातिवाहिकानामेव चिन्तनीयत्वोपपत्तेः । ननु ‘तदुपर्यपि बादरायणः सम्भवात्’, (ब्र.सू.१-३-२५) ‘मध्वादिष्वसम्भवात्’ (ब्र.सू.१-३-३०) इति अधिकरणद्वयेन किं प्रयोजनम् ? देवतानां देवताविशेषाणां च अर्थित्वसामर्थ्यनिर्णयस्य मनुष्याणां प्रवृत्तिविशेषानौपयिकत्वात् । न च देवानाम् अनेन अधिकरणद्वयेन किञ्चिदस्ति प्रयोजनम्। तेषां स्वकीयपटुतरदेहादिमत्त्वे अर्थित्वसम्भव-निर्णये च अधिकरणन्यायानपेक्षणात् इति चेत्, उच्यते – परं बह्म देवानां वस्वादिदेवताविशेषाणां च उपास्यं फलप्रदं च इति ईदृशमहिमविशिष्टतया उपासनकाले अनुसन्धेयत्वसिद्धि -लक्षणप्रयोजनसद्भावात् । देवताविग्रहासिद्धौ मधुविद्यायाः देवतापदप्राप्तिः फलम् इत्यपि न भवेत् । गत्यनुस्मृतौ अचेतनानाम् अर्चिरादीनाम् एव मार्गपर्वत्वेन चिन्तनीयता स्यात्, न आतिवाहिकदेवतानाम् । तथा ‘भाक्तं वाऽनात्मवित्त्वात्’ (ब्र.सू.३-१-७) इति सूत्रोक्तन्यायेन ज्योतिष्टोमादिकर्मफलं भुञ्जानानां, ‘तं देवाः भक्षयन्ति’ इति निरन्तराजानदेवकर्मकरभावावगत्या वैराग्यं न सिध्द्येत् । प्राप्तिविरोधयोः असतो: मन्त्रार्थवादानां प्रतीयमानार्थे प्रामाण्यम् अस्तीति न्यायव्युत्पादनेन, ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ (मु.उ.१-२-७) ‘एतत् तृतीयं स्थानम्’ इत्यादिमन्त्रार्थवादैः वैराग्यसंसिद्धिः इत्यादीनि प्रयोजनानि द्रष्टव्यानि । प्रकृतमनुसरामः ।।

 

।। इति तृतीयप्रपाठके एकादशः खण्डः ।।

 

द्वादशः खण्डः

 

[ब्रह्मणि गायत्रीसादृश्यानुसन्धानम्]

 

गायत्री वा दँ सर्वं भूतं यदिदं किञ्च वाग्वै गायत्री वाग्वा दँ सर्वं भूतं गायति त्रायते ।। ।।

 

प्र. –चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणः गायत्रीसादृश्यानुसन्धानरूपा विद्या प्रस्तूयते – गायत्री वा इत्यादिना । ‘इन्द्रश्शचीपतिः वलेन पीडितः । दुश्च्यवनो वृषा समित्सु सासहिः ।। ‘इति’ गायत्री चतुष्पदा, एकैकस्य पादस्य षडक्षरात्मकतया षडक्षरपादवत्त्वेन षड्विधा च । एवं ब्रह्मणोऽपि सर्वभूत शब्दितात्मवर्ग: एकः पादः। कर्मार्जितभोगस्थानरूप: पृथिवीलोकः एकः पादः । भोगोपकरणं शरीरम् एकः पादः । आत्मस्थित्यनुगुणप्रदेशविशेषरूपं हृदयम् एकः पादः इति भूतपृथिवीशरीरहृदयानि चत्वारः पादाः । तत्र सर्वभूतलक्षणपादस्य ब्रह्मात्मकवाक्कर्तृकगानकर्मत्वत्राणकर्मत्वलक्षणं विधाद्वयम् । पृथिवीलक्षणस्य पादस्य सर्वभूतप्रतिष्ठात्वसर्वभूतानतिवर्त्यलक्षणं विधाद्वयम् । शरीरहदयलक्षणयोः पादयोः प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वलक्षणं विधाद्वयमेव । द्वयोः अपि विधाद्वययोः अपि भेदाभावात् । ततश्च ‘परब्रह्मरूपा गायत्री भूतपृथिवीशरीरहृदयरूपपादचतुष्टयवत्तया चतुष्पादा । गानकर्मत्व-त्राणकर्मत्व-सर्वभूतप्रतिष्ठात्व-सर्वभूतानतिवर्त्यत्व सर्वप्राणिप्राणप्रतिष्ठात्व-सर्वप्राणानतिवर्त्यत्व-लक्षणविधाषट्कयुक्ततया षड्विधा च । अतः चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणि गायत्रीसादृश्यानुसन्धानं कर्तव्यम् इति प्रतिपादयति – गायत्री वा इदं सर्वं भूतं यदिदं किञ्च। अत्र गायत्रीशब्देन न प्रसिद्धा गायत्री अभिधीयते । तस्याः भूतादिपादचतुष्टयसम्बन्धाभावात् । एतावानस्य महिमा’ इति पुंसूक्तमन्त्रप्रतिपाद्यत्वाभावाञ्च।  अपि तु परमात्मा। यथा कुण्डपायिनाम् अयने ‘मासमग्निहोत्रं जुहोति’ इत्यग्निहोत्रशब्दः प्रयुज्यमानः तत्सादृश्य विशिष्टानुष्ठानार्थः । तथा गायत्रीशब्दः ब्रह्मणि प्रयुज्यमानः तत्सादृश्यानुसन्धानार्थः। ततश्च गायत्रीशब्देन ब्रह्मैव अभिधीयते । वैशब्दो अवधारणार्थः । ब्रह्मैव परिदृश्यमानसर्वभूतात्मकम् इत्यर्थः। ततश्च ब्रह्मणि भूतलक्षणपादवत्त्वम् उक्तम् । अथ गायत्रीशब्दप्रवृत्तिनिमित्तमपि ब्रह्मणि उपपादयन् विधाद्वयमाह – वाग्व गायत्री गायत्रीशब्दितं गायत्रीसदृशं ब्रह्मैव वाग्रूपविशिष्टं भवति इत्यर्थः। “शब्दमूर्तिधरस्यैतद्रूपं विष्णोर्महात्मनः’ । (वि.पु.१-२२-८५) इति पराशरस्मृत्याद्यनुरोधेन ब्रह्मणः एव शब्दरूपत्वमिति भावः । ततश्च किम् ? इत्यत्राह वाग्वा इदँ सर्वं भूतं गायति त्रायते । वाग्रूपमेव ब्रह्म सर्वाणि भूतानि अभिधत्ते। हिताहितविधिनिषेधमुखेन त्रायते च। अतश्च ब्रह्मणो वाग्रूपस्य सर्वभूतगानत्राणकर्तृत्वाभ्यां गायत्रीशब्दवाच्यत्वम्। भूतात्मकपादवतः ब्रह्मणः वाक्कर्तृ’कगानत्राणकर्मत्वाभ्यां द्वैविध्यं च उक्तं भवति ।।

 

[पृथिव्यात्मिका गायत्री]

 

या वै सा गायत्री इयं वाव सा येयं पृथिवी अस्याँ ही सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ।। ।।

 

प्र.उक्तार्थानुवादपूर्वकं द्वितीयं पादं सामानाधिकरण्येन आह या वै सा गायत्री इयं वाव सा येयं पृथीवी । उक्तरूपविशिष्ट प्रकृतधर्मिपरो यच्छब्दः । या – सर्वभूतरूपा एकपादयुता गायत्री – गायत्र्याख्यं ब्रह्म, तदेव प्रसिद्धा पृथिवी इत्यर्थः । कथं पृथिव्याः ब्रह्मात्मकत्वम् ? इत्यत्राह अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् । ब्रह्मात्मकत्वादेव हि सर्वभूतप्रतिष्ठात्वम् । नहि केवलपृथिव्याः सर्वभूतधारणशक्तिः अस्ति इत्यर्थः । प्रतिष्ठात्वं च नियतम् इत्याह – एतामेव नातिशीयते । पृथिवीं ‘भूतानि’ नातिवर्तन्ते । कर्मवश्यात्मनां हि प्रतिष्ठात्वादेव पृथिवी नियमेन अशक्यातिक्रमणा इत्यर्थः । पृथिवीमयब्रह्माण्डोदरे हि भोक्तृवर्ग: परिवर्तते, न ततोऽन्यत्रेति भावः । एवं द्वितीयः पादः, भूत-प्रतिष्ठात्वतदनतिवर्त्यत्वरूपं विधाद्वयं च उक्तम् ।।

 

[गायत्री ब्रह्मशरीरात्मकम्]

 

या वै सा पृथिवी इयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते ।।।।

 

प्र.अथ तृतीयं पादमाह या वै सा……..शरीरम् । अत्र पुरुषशब्दः शरीर विशिष्टजीवपरः। पृथिवी – पृथिवीरूपपादविशिष्टा या गायत्री, गायत्र्याख्यं ब्रह्म सा शरीरं – शरीराख्यपादविशिष्टा इत्यर्थः । भूतपृथिव्यो : गायत्रीसामानाधिकरण्येन निर्दिष्टतया ‘भूतपृथिवीशब्दयोः’ ब्रह्मपर्यन्तत्वेन तदुपस्थापनक्षमत्वात् अग्र्यप्रायन्यायेन अत्र शरीरलक्षणपादान्तरनिर्देशकस्य’ शरीरशब्दस्य निष्कर्षकशब्दत्वेऽपि सामानाधिकरण्येन निर्देशो युक्तः । शरीरस्य ब्रह्मात्मकत्वं प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वाभ्याम् उपपादयति । अस्मिन् हि इमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । नातिशीयन्ते – नातिवर्तन्ते इत्यर्थः ।।

[हृदयात्मकं गायत्रीब्रह्म]

 

यद्वै तत् पुरुषे शरीरमिदं वाव तद् यदिदमस्मिन्नन्तः पुरुषे हृदयम् । अस्मिन् हीमे प्राणा: प्रतिष्ठिताः एतदेव नातिशीयन्ते ।। ।।

 

प्र. – चतुर्थं पादमाह – यद्वै तत्…..हृदयम्पुरुषे शरीरं – पुरुषशब्दित शरीरविशिष्टजीवनिष्ठशरीराख्यपादविशिष्टं यत् गायत्र्याख्यं ब्रह्म, तदेव हृदयं हृदयशरीरकम् हृदयलक्षणपादकमित्यर्थः । हृदयस्य ब्रह्मात्मकत्वमुपपादयति अस्मिन्……नातिशीयन्ते। प्राणशब्देन प्राणापानादयः इन्द्रियाणि वा कथ्यन्ते । तेषां हृदयसम्बन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वम् । एवं तृतीयचतुर्थपादौ प्राणप्रतिष्ठात्व-तदनतिवर्त्यत्वरूपं विधाद्वयं च उक्तम् ।।

[गायत्री चतुष्पदा षड्विधा ]

सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाऽभ्यनूक्तम् ।।।।

 

प्र. – एवमुक्तं चतुष्पात्त्वं षाड्विध्यं च निगमयति – सैषा चतुष्पदा षड्विधा गायत्री इति । नन्वेवं चतुष्पात्त्वे ब्रह्मणः परिच्छिन्नत्वं स्यादिति शङ्कायाम् उक्तस्य महिम्नः एतावत्त्वप्रतिषेधिकाम् ऋचम् उदाहरति तदेतदृचाऽभ्यनूक्तम् तदेतत् – गायत्र्याख्यं ब्रह्म अभिमुखीकृत्य ऋचापि उक्तम् इत्यर्थः ।।

 

[गायत्रीब्रह्मणः महिमा]

 

तावानस्य महिमा ततो ज्यायाँश्च पुरुषः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति ।। ।।

.

प्र. – तामृचं पठति तावानस्य महिमा । पूर्वोक्तः सर्वोऽपि एतस्य महिमा नियाम्यवर्गः । ततो ज्यायांश्च पुरुषः । पूर्वोक्तमहिमापेक्षया पुरुषो ज्यायान् परमात्मा ज्यायान् । ततो अधिकमहिमाशालीत्यर्थः । पादोऽस्य सर्वा भूतानि । अत्र सर्वा भूतानि इति कार्यजगदन्तर्गता अचित्संसृष्टाः चेतना: उच्यन्ते । ते सर्वे पाद: अंशमात्रम् इत्यर्थः । सर्वशब्दात्परस्य शेः ‘सुपां सुलुक्’ (पा.सू.७-१-३९) इति लुङि नलोपे रूपम् । त्रिपादस्यामृतं दिवि । अत्र घुशब्दः समष्टिव्यष्टितत्त्वबहिर्भूताप्राकृतस्थानविशेषपरः इति ।। पुरुषसूक्ते श्रूयते -“एतावानस्य महिमा अतो ज्यायाँश्च पुरुषः । पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि “।। इति । अप्राकृते स्थानविशेषे अस्य – परमात्मनः अमृतं पादत्रयमित्यर्थः । त्रिपात्त्वं च अप्राकृतेः भोग्यभोगस्थानभोगोपकरणविशेषैः वा ‘भूषणास्त्रादि’रूपेण जगदन्तर्गतवस्त्वभिमानिभिः नित्यैः भगवदनुभवमात्रपरैः नित्यसिद्धैश्च मुक्तैश्च आत्मभिः वा सम्भवति ।।

[हृदये गायत्र्याख्यं ब्रह्म उपासनम्]

 

यद्वै तद् ब्रह्मेति इदं वाव तत् योऽयं बहिर्धा पुरुषादाकाशः यो वै स बहिर्धा पुरुषादाकाशः ।। ।।

 

अयं वाव योऽयमन्तः पुरुष आकाशः यो वै सोऽन्तः पुरुष आकाशः ।।।।

 

अयं वाव योऽयमन्तर्हृदय आकाशः यो वै सोऽन्तर्हृदय आकाशः । तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनी श्रियं लभते, एवं वेद ।। ।।

 

।। इति द्वादशः खण्डः ।।

 

प्र.अथ चतुर्थपादत्वेन उक्तस्य उपास्यतया वक्ष्यमाणस्य हृदयस्य स्तुत्यर्थं हृदयाकाशस्य बाह्याकाशाभेदेन महत्वं वक्तुं बाह्याकाशस्य ब्रह्यतुल्यत्वं सामानाधिकरण्येनाह – यद्वै तत् ब्रह्मेति इदं वाव तत् योऽयं बहिर्धा पुरुषादाकाशः यो वै बहिर्धा पुरुषादाकाश: – स्वकार्यव्याप्तत्वामूर्तत्वाचलत्वादिभिः ब्रह्मतुल्यो बाह्याकाशो यो वर्तते इत्यर्थः ।। ७ ।।

अयं वाव योऽयमन्तः पुरुष आकाश इति । तादृशबाह्याकाशाभिन्नः पुरुषशब्दिते शरीरे अन्त: वर्तमानः आकाशः इत्यर्थः । बाह्यान्तराकाशयोः भेदसत्त्वेऽपि धर्म्यैक्याभिप्रायेण अभेदनिर्देशः । यो वै सोऽन्तः पुरुष आकाश इति । एवं ब्रह्म तुल्यबाह्याकाशाभिन्नः शरीरान्तराकाशो य: इत्यर्थः ।। ८ ।।

अयं वाव योऽयमन्तर्हृदय आकाशः । तादृशशरीरान्तःस्थाकाशाभिन्नः हृदयावच्छिन्नाकाशः इत्यर्थः । पूर्ववत् धर्म्यैक्यात् इति भावः । एवं ब्रह्मतुल्यबाह्याकाशा – भिन्नपुरुषान्तर्गताकाशाभेदं हृदयाकाशस्य उक्त्वा एतादृशमहिमशाली हृदयाकाशः इति स्तौति। यो सोऽन्तर्हृदय आकाशः । अन्तर्हृदये वर्तमान: य: आकाशः अयं सः तादृशमहिमशालीत्यर्थः । अनया च हृदयाकाशस्तुत्या चतुर्थपादत्वेन उक्तं हृदयं स्तुतं भवति । एवं चतुष्पादषड्विधस्य ब्रह्मणः प्रपञ्चान्तर्भावेन परिच्छिन्नत्वास्थिरत्वशङ्काव्यावृत्यर्थं पूर्णत्वाप्रवर्तित्वगुणकतया उपासनं मोक्षफलं विदधाति । तदेतत्पूर्णमप्रवर्ति । पूर्णत्वं – अपरिच्छिन्नत्वं अप्रवर्तित्वं – अचलत्वं, स्थिरत्वम् । पूर्णामप्रवर्तिनीं श्रियं लभते, एवं वेद । अनन्तस्थिरा श्रीः मुक्तैश्वर्यमेव । तदुपासीन: मुक्तिं भजते इत्यर्थः ।।

 

।। इति द्वादशखण्डभाष्यम् ।।

छान्दोग्योपनिषत्

त्रयोदशः खण्डः

 

[द्वारपुरुषोपासनम्]

 

तस्य वा एतस्य हृदयस्य पञ्च देवसुषयः योऽस्य प्राङ्सुषिः, स प्राणः, च्चक्षुः, आदित्यः तदेतत् तेजोऽन्नाद्यमित्युपासीत तेजस्व्यन्नादो भवति, एवं वेद ।। ।।

 

प्र.अथ उक्तब्रह्मोपासनाङ्गत्वेन द्वारपोपासनं विधीयते – तस्य हवा एतस्य हृदयस्य पञ्च देवसुषयः तस्यैतस्य – चतुर्थपादत्वेन निर्दिष्टस्य प्रकृतस्य हृदयस्य देवताधिष्ठानभूतानि पञ्च द्वारच्छिद्राणि इत्यर्थः । योऽस्य प्राङ्सुषिः, प्राणस्तच्चक्षुः आदित्य इत्यादि । प्राणवृत्तिविशेषाप्यायितचक्षुरनुग्राहकादित्यस्य हृदयप्राक्सुषिरद्वारपालस्य तेजोऽन्नाद्यतया उपासने उपासकः स्वयमपि तेजस्वी अन्नादो भवति इत्यर्थः । तदेतत् इति आदित्यस्य तेजोऽन्नाद्यपेक्षया नपुंसकलिङ्गनिर्देशः । तेजस्वित्वं – लावण्यम् । एवमुत्तरत्रापि ।।

 

[दक्षिणद्वारपालोपासनम् तस्य फलञ्च]

 

अथ योऽस्य दक्षिण: सुषिः, व्यानः, तच्छ्रोत्रँ, सः चन्द्रमाः तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान् यशस्वी भवति, एवं वेद ।। ।।

 

प्र.अथ योऽस्य दक्षिण: सुषिः सः व्यान: तच्छ्रोत्रं : चन्द्रमा: इत्यादि । श्रीमान् – सम्पत्तिमान् ।।

 

[पश्चिमद्वारपालोपासनम्, तत्फलञ्च]

 

अथ योऽस्य प्रत्यङ्सुषिः, सोऽपानः, सा वाक्, सोऽग्निः तदेतत् ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्व्यन्नादो भवति, एवं वेद ।। ।।

 

प्र. – अथ योऽस्य प्रत्यङ्सुषिः, सोऽपानः, सा वाक्, सोऽग्निः इत्यादि । ब्रह्मवर्चसं – वृत्ताध्ययनजं तेजः ।।

 

[उत्तरद्वारपालस्य उपासनम् तत्फलञ्च]

 

अथ योऽस्योदङ् सुषिः, समानः, तन्मनः, पर्जन्यः तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत। कीर्तिमान् व्युष्टिमान् भवति एवं वेद ।। ।।

 

प्र.अथ योऽस्योदङ्सुषिः, समानः तन्मनः पर्जन्यः इत्यादि । पर्जन्यः – देवतावेशेषः, व्युष्टिः – देहकान्तिः ।।

 

[ऊर्ध्वद्वारपालस्योपासनं, तत्फलञ्च]

 

अथ योऽस्योर्ध्वः सुषिः, उदानः, वायुः, आकाशः तदेतदोजश्च महश्चेत्युपासीत ओजस्वी महस्वान् भवति, एवं वेद ।। ।।

 

प्र.अथ योऽस्योर्ध्वस्सुषिः उदानः, वायुः, आकाशः इत्यादि । ओजः – बलम्, महत्त्वं महः आकाशश्च । देवताविशेषः ।।

 

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ; अस्य कुले वीरो जायते प्रतिपद्यते स्वर्ग लोकम् , एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ।। ।।

 

प्र.ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः ते एते – उक्तगुणविशिष्टाः आदित्यचन्द्रमाऽग्निपर्जन्याकाशाख्याः ब्रह्मपुरुषाःब्रह्मसम्बन्धिनः पुरुषाः स्वर्गस्य लोकस्य – भगवल्लोकस्य हृदयाकाशाख्यस्य द्वारपालकाः । यद्वा भगवल्लोकस्य द्वारपाःआतिवाहिका: । एतानेवं पञ्च ब्रह्मपुरुषान् इत्यादि । अस्य कुले वीरो जायते । वीरः पुत्रो जायते । विद्यावीर्यसम्पन्नो जायते इत्यर्थः । आनुषङ्गिकं फलम् उक्त्वा प्रधानफलमाह – प्रतिपद्यते स्वर्गं लोकं एतानेवम् इत्यादि । भगवल्लोकद्वारपालकोपासनया अनिवारितस्सन् भगवल्लोकं प्रतिपद्यते इत्यर्थः । शिष्टं स्पष्टम् ।।

 

[ज्योतिर्ब्रह्मोपासनम्]

 

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु, इदं वाव तद् यदिदमस्मिन् अन्तःपुरुषे ज्योतिः तस्यैषा दृष्टिः ।। ।।

 

प्र.-एवं गायत्रीविद्याप्रकृतस्य द्युसम्बन्धिनः सकलफलप्रदस्य परस्य ब्रह्मणः आभिरूप्यकीर्तिमत्त्वरूपफलविशेषार्थं कौक्षेयज्योतीरूपत्वेन उपासनाविधानाय आह अथ यदतः……लोकेषु । ‘तथाक्षरात् सम्भवतीह विश्वम्’ (मुं.उ.१-१-७) इत्यत्र जगदन्तर्वर्तिव्यष्टिजाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः । सर्वशब्दः परिशेषात् समष्टितत्त्वपरः । ततश्च अतः परो दिवः अप्राकृतस्थानविशेषस्य उपरिष्टात् समष्टिव्यष्टिबहिर्भूतेषु अनुत्तमेषु स्वावधिकोत्तमरहितेषु, उत्तमस्थानविशेषेषु ‘तस्य भासा सर्वमिदं विभाति’ (मुं.उ.२-२-१०) इत्यवभासकतया ज्योतिश्शब्दित: परमात्मा यो दीप्यते इत्यर्थः । अत्र यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शितया प्रकृतं त्रिपाद् ब्रह्म परामृश्यते । इदं वाव तद् यदिदमस्मिन् अन्तःपुरुषे ज्योतिः, तत् दिव: परस्तात् दीप्यमानं त्रिपाद्ब्रह्म, यदिदमस्मिन्नन्तःपुरुषे – शरीरस्यान्त: ज्योतिः । इदं वाव कौक्षेयज्योतिरेव कौक्षेयज्योतिःशरीरकमेव इत्यर्थः ।।

“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्” ।। (भ.गी.१५-२४)

इति स्मरणात् । ततश्च तदात्मकत्वानुसन्धानं कर्तव्यम् इत्यर्थः । तस्यैषा दृष्टिः तस्य – परमात्मशरीरभूतस्य जाठराग्नेः एषा दृष्टिः – इदं दर्शनम् इत्यर्थः ।।

यत्रैतदस्मिन् शरीरे सँस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिःयत्रैतत् कर्णावपिगृह्य, निनदमिव नदथुरिव, अग्नेरिव ज्वलत उपशृणोति तदेतत् दृष्टश्च श्रुतञ्चेत्युपासीत चक्षुष्यः श्रुतो भवति एवं वेद एवं वेद ।। ।।

 

।। इति त्रयोदशः खण्डः ।।

प्र.यत्र यदा अस्मिन् शरीरे हस्तस्पर्शेन – उष्णिमानं विजानाति इति यत् – यदौष्ण्योपलम्भनम् इत्यर्थः । उपलभ्यमानस्य उष्णस्पर्शस्य जाठराग्निसम्बन्धित्वात् तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कार इत्यर्थः । तस्यैषा……उपशृणोति यत्र यदा पुरुषः स्वकर्णी अङ्गुलीभ्याम् अपिधाय निनदमिव – रथघोषमिव, नदथुरिव – नदथुमिव ऋषभकूजितमिव । बहिर्ज्वलतः अग्ने: शब्दमिव च शृणोति । इति यत् , ‘तदेव’ जाठराग्निश्रवणम् । आन्तरस्य शब्दस्य जाठराग्निसम्बन्धित्वात् तच्छब्दश्रवणमेव तच्छ्रवणमित्यर्थः ।

तदेतद् दृष्टं श्रुतं चेत्युपासीत तदेतत् – परमात्मशरीरभूतं कौक्षेयज्योतिः उक्तरीत्या दृष्टत्वश्रुतत्वाभ्यां गुणाभ्याम् उपासीत इत्यर्थः । तस्य फलमाह – चक्षुष्यः श्रुतो भवति एवं वेद एवं वेद । चक्षुष्यत्वम् आभिरूप्यम् । चक्षुषे हितम् इत्यर्थे ‘शरीरावयवाञ्च’ (पा.सू.४-३-५५) इति यत् । श्रुतत्वं – कीर्तिमत्त्वम् । द्विरुक्तिर्विद्यासमाप्त्यर्था । उक्तः श्रुत्यर्थः सर्वोऽपि ज्योतिरधिकरणे श्रुतप्रकाशिकायां स्पष्टः । एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् उपन्यस्यते अथ ‘यदतः परो दिवो ज्योति’रिति ज्योतिः शब्दितं प्रसिद्धम् अग्नयादिज्योतिरेव कौक्षेयज्योतिषा ऐक्याध्यासस्य भौतिकज्योतिषि एव उपपत्तेः। दीप्तेः रूपवद्विषयत्वेन नीरूपे परमात्मनि दीप्तेरसम्भवात् । ‘दिवः परः’ इति द्युमर्यादत्वस्यापि निर्मयदि परमात्मनि असम्भावात् । लेकेषु इति आधारबहुत्वस्यापि निराधारेऽसम्भवात् । चक्षुष्यत्व श्रुतत्वरूपाल्पफलश्रवणाञ्च । रूपवद्विषयदीप्तिद्युमर्यादत्व-आधारबहुत्व कौक्षेयज्योतिरध्यास-चक्षुष्यत्व-श्रुतत्व-रूपाल्पफलोपासनोपास्यत्वरूपवाक्यशेष-श्रुतलिङ्गानु-गृहीतज्योतिश्श्रुत्या प्रसिद्धम् अग्नयादिज्योतिरेव इह उपदिश्यते इति पूर्वपक्षे प्राप्ते उच्यते -‘ज्योतिश्चरणाभिधानात्’ (ब्र.सू.१-१-२४) । धुसम्बन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योति: परमपुरुष: एव । ‘पादोऽस्य सर्वाभूतानि’ इति मन्त्रे धुसम्बन्धिनः सर्वभूतचरणत्वाभिधानात् । तस्यैव धुसम्बन्धिनः इहापि धुसम्बन्धित्वेन प्रत्यभिज्ञानात् , यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शित्वस्य एव युक्ततया धुसम्बन्धित्वेन प्रकृतत्रिपाद्ब्रह्मपरामर्शस्य एव युक्तत्वात् । फलार्थतया परमात्मनि एव कौक्षेयज्योतिश्शरीरकत्वानुसन्धानस्य उपपत्तेः, रूपवद्विषयदीप्तिधु -मर्यादत्वलोकाधारत्वादीनाम् अन्तरादित्यविद्यान्यायेन विग्रहविशिष्टस्य एवोपपत्तेः, भासकत्व -प्रवृत्तिनिमित्तकज्योतिश्शब्दस्यापि तत्र वृत्तिसम्भवात् ज्योतिश्शब्दित: परमपुरुष एव । ‘छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगमात्तथा हि दर्शनम्’ (ब्र.सू.१-१-२५)। पूर्वत्र, ‘गायत्री वा इदं सर्वम्’ इति गायत्र्याख्यच्छन्दसः एव प्रकृतत्वात् तस्यैव, ‘पादोऽस्य सर्वा भूतानि’ इति सर्वभूतचरणत्वाभिधानात् परब्रह्मणः प्रकृतत्वं, येन यच्छब्दश्रुत्या तत्परामर्श: स्यादिति चेत् न । तत्र गायत्रीशब्देन न छन्दः परामृश्यते । अपि तु ब्रह्मण एव गायत्रीचेतोऽर्पणम् इह निगम्यते । ब्रह्मणि गायत्रीसादृश्यानुसन्धानं फलाय उपदिश्यते इत्यर्थः । चतुष्पदश्च ब्रह्मणः चतुष्पदया गायत्र्या सादृश्यसम्भवात् । तथा अन्यत्रापि सादृश्यात् छन्दोभिधायी शब्दः अर्थान्तरे प्रयुज्यमानो दृश्यते – ‘यथा संवर्गविद्यायाम् अग्निसूर्यजलचन्द्रवायु-वाक्चक्षुश्श्रोत्रमनःप्राणरूपेषु दशसु दशत्वसंख्यासाम्यात् , ‘सैषा विराडन्नादि’ इति छन्दोवाचिनो विराट्छब्दस्य प्रयोगो दृष्टः । ‘भूतादिपादव्यपदेशोप -पत्तेश्चैवम्'(ब्र.सू.१-१-२७) । भूतपृथिवीशरीरहृदयलक्षणपाद’चतुष्टयस्य’, ‘सैषा चतुष्पदा इति प्रतिपादितस्य छन्दोरूपायां गायत्र्याम् असम्भवात् गायत्रीशब्देन ब्रह्मैव अभिधीयते । अत: गायत्री शब्दित त्रिपाद्ब्रह्मैव ज्योतिर्वाक्येऽपि यच्छब्दश्रुत्या पूर्वप्रत्यभिज्ञापकद्युसम्बन्धित्व- लिङ्गानुगृहीतया प्रतिपाद्यते । ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्’ । (ब्र.सू.१-१-२८) पूर्ववाक्ये त्रिपादस्यामृतं दिवि’ इति दिवोऽधिकरणत्वेन निर्देशात्, ज्योतिर्वाक्ये, दिवः परः इति अवधित्वेन निर्देशात् न प्रत्यभिज्ञासम्भवः इति चेत् न – वृक्षाग्रे वर्तमाने श्येने, ‘वृक्षाग्रात् श्येनः’, ‘वृक्षाग्रे श्येनः’ इति पञ्चमीसप्तम्योः प्रयोगदर्शनवत् इहापि उपपत्तेः इति भावः इति स्थितम् । प्रकृतमनुसरामः ।।

 

।। इति त्रयोदशखण्डभाष्यम् ।।

 

चतुर्दशः खण्डः

 

शाण्डिल्यविद्या

 

[मनोमयत्वादिगुणकब्रह्मोपासनम् ]

 

सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत अथ खलु क्रतुमयः पुरुषः । यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति क्रतुं कुर्वीत ।। ।।

 

प्र.शाण्डिल्यविद्या प्रस्तूयते – सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । जायते इति जम् । लीयते इति लम् । जलशब्दो डप्रत्ययान्तौ । अनिति इति अन् । अनिति – जीवति इत्यर्थः । क्विबन्तो विजन्तो वाऽयं शब्दः । तस्य जलान् तज्जलान् इति: हेत्वर्थः । सर्वशब्दः सर्वशरीरकपरः। इदम् इत्येतत् ब्रह्मणः,सर्वस्य वा विशेषणम् अतश्च तज्जत्वात् तल्लत्वात्, तदनत्वात् सर्वात्मकं ब्रह्म इति शान्तस्सन् उपासीत इत्यर्थः । अत्र तज्जत्वतल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते तदनुरूपे । तन्नियाम्यत्वं तु न ब्रह्मगतम् । ब्रह्मणः तदसम्भवात् । अपितु चिदचिन्मात्रगतम् इति द्रष्टव्यम् । भगवता भाष्यकृता, “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इति सर्वोत्पत्तिस्थितिप्रलयकारणत्वेन सर्वस्य आत्मतया, अनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्म उपासीत इति उपासनं विधाय” इति भाषितम् । व्यासार्यैश्च, “ब्रह्मात्मकत्वं सर्वस्य शास्त्रात् अवगम्य, “सर्वभूतात्मके तात! जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः” ।। (वि.पु.१-१९-३७) इत्युक्तरीत्या रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्म उपासीत इत्यर्थः” इत्युक्तम् । ‘वक्ष्यमाणगुणकं ब्रह्म’ इति वदतां व्यासार्याणाम् अयम् आशयः । सर्वं खलु इति वाक्योक्तं सार्वात्म्यं तु न उपास्यगुणः । उत्पत्तिशिष्ट सार्वात्म्यगुणावरुद्धे मनोमयत्वादिवक्ष्यमाणगुणविधानानुपपत्तिप्रसङ्गात् । न च उपासनोत्पत्तिवाक्यश्रुतस्य सार्वात्म्यस्य अविवक्षा कथम् अभ्युपगन्तव्या इति वाच्यम् । ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्यन्तस्य वाक्यस्य खलुशब्दकृतेन प्रसिद्धवन्निर्देशेन एकवाक्यत्वस्य निवारितत्वात् । न हि उपासीत खलु इति वचनव्यक्ति: घटते । अत: सार्वात्म्यस्य उपासनोत्पत्तिवाक्यश्रुतत्वाभावेन शान्तः उपासीत इति वाक्ये उपास्याकाङ्क्षायां पूर्ववाक्यप्रतिपन्नस्य ब्रह्मरूपमिमात्रस्य एव उपास्यतया अन्वयः, न तु सार्वात्म्यविशिष्टस्य । ततश्च उत्पत्तिशिष्टसार्वात्म्यानवरोधात् न वक्ष्यमाणमनोमयत्वादिगुणानन्वयशङ्का । ‘सर्वात्मकं ब्रह्म उपासीत’ इति तदर्थनिर्देशकभाष्येऽपि सर्वात्मकत्वं न उपास्यगुणतया निर्दिष्टम् । अपितु उपास्यब्रह्मणः स्वरूपकथनमात्रपरम् इति । एतच्च सर्वमपि तैः कण्ठतः एव वर्णितं च ।

ननु ‘ब्रह्मात्मकत्वं सर्वस्य शास्त्रादवगम्य रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्म उपासीत इत्यर्थः’ इति व्यासार्यै:‘ एव उक्तत्वात् , तदेकवाक्यत्वसम्भवे, ‘तज्जलानिति’ इत्यन्तस्य पृथग्वाक्यत्वकल्पनायोगात्, सार्वात्म्यस्य उत्पत्तिवाक्यविहितत्वेऽपि मनोमयत्वादीनाम् उत्पत्तिशिष्टगुणाविरोधिनाम् अन्वये दोषाभावाच्च वाक्यभेदकल्पनं वा, शाण्डिल्यविद्यायां सार्वात्म्यस्य अनुपास्यत्वकल्पनं, वा व्यर्थम् इति चेत् न उपासीत इत्यनेन वाक्यैकवाक्यत्वाभ्युपगमेऽपि पदैक्यवाक्यत्वनिराकरणे दोषाभावात् । शान्तिहेतुतया अन्वितस्य सार्वात्म्यस्य उपास्यत्वे प्रमाणाभावात् इति व्यासायभिप्रायात् । ननु ब्रह्मणः सर्वात्मकत्वात् यत्र क्वचित् क्रियमाणस्यापि द्वेषादेः आत्मद्वेषपर्यवसन्नत्वेन अयुक्तत्वात् शान्तस्सन् उपासीत इत्युक्ते ब्रह्म उपासीत इति कथम् अवगम्यते ? सर्वं खल्विदं ब्रह्म इत्यस्य शमविध्यर्थवादभूतस्य उपास्यसमर्पकत्वाभावात् इति चेत् – सत्यम् – शमविध्यर्थतया निर्दिष्टस्यापि ब्रह्मणः उपास्याकाङ्क्षापूरकत्वस्यपि सम्भवात् , अन्यार्थतया अपि स्ववाक्यनिर्दिष्टं ब्रह्म विहाय उपास्यान्तरकल्पनस्य अनुचितत्वात् । ‘मूलत: शाखां परिवास्य उपवेषं करोति’ इत्यत्र मूलतः इत्यस्य शाखापरिवासने अपादानतया अन्वितस्यापि आकाङ्क्षावशेन, ‘उपवेषं करोति’ इत्यनेनापि अन्वयाभ्युपगमात् इति द्रष्टव्यम् । विहितम् उपासनं स्तौति-अथ खलु क्रतुमयः पुरुषः यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति इति । ‘तं यथा यथोपासते तथैव भवति’ (मुद्ग.उ.३) इति श्रुत्यन्तरात् इह लोके पुरुषः, यथाक्रतुः – यथोपासनः, तथैव इतः प्रेत्य अमुष्मिन् लोके भवति । ततोः हेतोः पुरुषः क्रतुमयः – क्रतुप्रधानः, उपासनप्रधान: इत्यर्थः । ततश्च उपासनस्य एव हिततमत्वात् सर्वथा अनुष्ठेयम् इत्यर्थः ।

एवं विहितं ब्रह्मोपासनं मनोमयत्वादिगुणान्तरविधानाय अनुवदति- ्रतुं कुर्वीत सः उपासकः क्रतुं – ब्रह्मणः उपासनं कुर्वीत इत्यर्थः ।।

[ब्रह्मण: मनोमयत्वादिगुणाः]

 

मनोमयः प्राणशरीरो भारूप: सत्यसङ्गल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ।। ।।

 

प्र. – गुणानेवाह – मनोमय: – परिशुद्धमनोमात्रग्राह्यः । विवेकादिसाधनसप्तकानु – गृहीतपरमात्मोपासननिर्मलीकृतमनोमात्रग्राह्यः इत्यर्थः । प्राणशरीरः – जगति सर्वेषां प्राणानां धारकः । प्राणो यस्य शरीरम् – आधेयं विधेयं शेषभूतं च स प्राणशरीर: आधेयत्व-विधेयत्व-शेषत्वानामेव शरीरशब्दप्रवृत्तिनिमित्तत्वात् । भारूप:-भास्वररूपः ‘आदित्यवर्णं तमसः परस्तात्’, (श्वे.उ.३-८) ‘पश्यते रुक्मवर्णम्’ (मुं.उ.३-१-३) इत्यादि वाक्यप्रतिपन्नाप्राकृतस्वासाधारणनिरतिशयकल्याणगुणगणनिरतिशयदीप्तियुक्तविग्रहशाली इत्यर्थः ।

सत्यसङ्कल्पः – अप्रतिहतसङ्कल्पः । आकाशात्माआकाशवत् सूक्ष्मस्वच्छस्वरूपः । सकलेतरकारणभूतस्य अव्याकृताकाशस्य आत्मभूतः इति वा आकाशात्मा । स्वयं च प्रकाशते, अन्यांश्च प्रकाशयति इति वा आकाशात्मा । सर्वकर्मा – क्रियते इति कर्म । सर्वं जगत् यस्य कर्म असौ सर्वकर्मा । सर्वा वा क्रिया यस्य आराधनम् असौ सर्वकर्मा ।

सर्वकामः – काम्यन्ते इति कामाः । भोग्यभोगोपकरणादयः। ते परिशुद्धाः तस्य सन्ति इत्यर्थः । सर्वगन्धस्सर्वरसः ‘अशब्दमस्पर्शम्’ इत्यादिना (क.उ.३-२५) प्राकृतगन्धरसादिनिषेधात् अप्राकृताः स्वासाधारणाः निरवद्याः निरतिशया: कल्याणाः स्वभोग्यभूताः सर्वविधाः गन्धरसाः तस्य सन्ति इत्यर्थः । सर्वमिदमभ्यात्तः उक्तं सर्वमिदं कल्याणगुणजातं अभ्यात्तः – स्वीकृतवान् । ‘भुक्ताः ब्राह्मणाः’ इतिवत् कर्तरि क्तप्रत्ययः । अर्श आद्यजन्तो वा । अवाकी – वाकः उक्तिः, सोऽस्य नास्तीति अवाकी । कुतः इत्यत्राह अनादरः अवाप्तसमस्तकामत्वेन आदर्तव्याभावात् , आदररहितः। अत एव अवाकी । परिपूर्णैश्वर्यत्वात् ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत् तृणीकृत्य जोषम् आसीन: इत्यर्थः ।।

 

[ब्रह्मोपासनारीतिः]

 

एष आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा एष आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ।। ।।

 

प्र.एष आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा इत्यादि । मदीये हृदये व्रीह्याद्यपेक्षया अणुत्वेन’ एषः – परमात्मा उपासनार्थम् अवस्थितः इत्यर्थः । तथा अनुसन्धानं कर्तव्यम् इति भावः । अन्तर्हृदये अवस्थितस्य उपास्यमानस्य प्राप्याकारम् अनुसन्धेयं निर्दिशति । एष आत्माऽन्तर्हृदये ज्यायान् पृथिव्या इत्यादि । अन्तर्हृदये विद्यमानोऽपि स्वरूपतो निरतिशयपरिमाणः इत्यर्थः ।।

 

[सगुणोपासनम्]

 

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष  आत्मान्तर्हृदय एतद् ब्रह्म ।। ।।

 

एतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा विचिकित्साऽस्तीति  स्माह शाण्डिल्यः शाण्डिल्यः ।। ।।

 

।। इति चतुर्दशः खण्डः ।।

प्र. – सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः इत्यादि । उक्तोऽर्थः । एवम्भूतं परं ब्रह्म परमकारुण्येन अस्मदुज्जिजीवयिषया अस्मद्हृदये सन्निहितम् इति अनुसन्धातव्यम् इत्याह – एष आत्मान्तर्हृदय एतद्ब्रह्मेति । यथोपासनम् ईदृशं परमात्मानं ‘अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते (छां.उ.८-३-४) इत्युक्तरीया देशविशेषविशिष्ट प्राप्तः अस्मीति निश्चयरूपम् अनुसन्धानं कर्तव्यम् इत्याह – एतमितः प्रेत्याभिसम्भवितास्मीति । अत्र ‘इति’ इत्यस्य ‘स क्रतुं कुर्वीत’ इत्यनेन अन्वयः ।

‘मनोमयः प्राणशरीरः’ इत्यारभ्य ‘एतमितः प्रेत्याभिसम्भवितास्मीति’ एतत्पर्यन्तो अनुसन्धानप्रकारः । अत्र च इतिशब्दनिर्दिष्टो मनोमयत्वादिगुणगतः क्रमविशेषः एकः एव विधीयते । मनोमयत्वाद्युपास्यगुणानां तु आक्षेपतो विधानम्, पृष्ठगतसर्वताविधानादिव पृष्ठानाम् । ततश्च प्राप्तानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेदः इति शङ्का प्रत्युक्ता । यद्वा विधेयानां बहुत्वेऽपि क्रतुरूपविधेयतावच्छेदकैक्यात् न वाक्यभेदः । ‘यदग्नये च प्रजापतये’ च इति वाक्ये देवतात्वरूपविधेयतावच्छेदकैक्येन वाक्यभेदस्य तान्त्रिकैः परिहतत्वात् । केचित्तु प्राप्तोपासनानुवादेन अभ्युदयेष्टिवाक्यवत् प्रयोगविधित्वसम्भवात् न वाक्यभेदः इति वदन्ति ।

एवंविधप्राप्यप्राप्तिनिश्चयोपेतस्य उपासकस्य प्राप्तौ न संशयः अस्तीति उपसंहरति यस्य स्यादद्धा विचिकित्साऽस्ति । अत्र इतिशब्द: अध्याहर्तव्यः । अभिसम्भवितास्मीति इतीतिशब्दस्य काकाक्षिन्यायेन वा अन्वयः । इति – उक्तप्रकारेण यस्य उपासकस्य अद्धा – निश्चयोऽस्ति, तस्य प्राप्तौ विचिकित्सा – संशयो नास्ति इत्यर्थः । उक्तस्य श्रद्धेयत्वसिद्ध्यै वक्तुराप्तिं दर्शयति – इति स्माह शाण्डिल्यशाण्डिल्य: इति । द्विरुक्ति: विद्यासमाप्त्यर्था । अयमर्थः सर्वोऽपि भाष्यश्रुतप्रकाशिकयोः स्पष्टः । एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् ‘उपन्यस्यते’ इयञ्च विद्या समन्वयाध्याये द्वितीयपादे चिन्तिता । तत्र हि – ‘सर्वं खल्विदं ब्रह्म’ इत्यत्र ब्रह्मशब्देन प्रत्यगात्मा एव निर्दिश्यते । तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः । सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् । ब्रह्मादिस्तम्बपर्यन्तभावश्च प्रत्यगात्मनः एव अनाद्यविद्यामूलकर्मविशेषोपाधिकः उपपद्यते । परमात्मनः निरस्तसमस्तावद्यस्य समस्तहेयाकरसर्वभावो न उपपद्यते । प्रत्यगात्मनि अपि ब्रह्मशब्दः क्वचित् क्वचित् प्रयुज्यते, ‘इदं ब्रह्मायाति’ इत्यादौ । अत एव परमात्मा, ‘परं ब्रह्म’ इति परमेश्वरस्य क्वचित् सविशेषणो निर्देशः। प्रत्यगात्मनश्च निर्मुक्तोपाधेः ब्रह्मत्वं च विद्यते । ‘स चानन्त्याय कल्पते’ (श्वे.उ.५-९) इति श्रुतेः । अविदुषः तस्यैव कर्मनिमित्तत्वात् जगज्जन्मस्थितिलयानां एव अत्र सन्दर्भे प्रतिपाद्यते इति पूर्वपक्षे उच्यते – ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) ।

सर्वत्र सर्वस्मिन् जगति ‘सर्वं खल्विदं ब्रह्म’ इति तदात्मतया विधीयमानं परं ब्रह्मैव । कुतः ? प्रसिद्धोपदेशात् । तज्जत्वतल्लत्वादिना ‘सर्वं खल्विदं ब्रह्म’ इति प्रसिद्धवत् उपदेशात् यस्मात् जगज्जन्मस्थितिलया: वेदान्तेषु प्रसिद्धाः । तदेव अत्र ब्रह्मेति प्रतीयते । वेदान्तप्रसिद्धत्वं च परब्रह्मणः एव । ‘यतो वा इमानि भूतानि जायन्ते’ (तै.आन.१) इत्यादि वेदान्तेषु परब्रह्मणः एव प्रसिद्धेः । तस्य ब्रह्मादिस्तम्बभावेऽपि प्रकारभूतशरीरगतानां दोषाणां ‘प्रकारिणि आत्मनि असंस्पर्शात् निरस्तसमस्तावद्यत्वस्य न अनुपपत्तिः । जीवानां च प्रतिशरीरं

भिन्नानां अन्योन्यतादात्म्यासम्भवेन सार्वात्म्यस्य असम्भावितत्वात् । अतः सर्वजगत्कारणत्व प्रयुक्तसर्वात्मकत्वस्य परब्रह्मण्येव सम्भवात् परमेव ब्रह्म इह वाक्ये प्रतिपाद्यते । ‘विवक्षितगुणोपपत्तेश्चे (ब्र.सू.१-२-२) । विवक्षितानां मनोमयत्वसत्यसङ्कल्पत्वादीनां गुणानां परमात्मन्येव उपपत्तेश्च । विवक्षितत्वं – तात्पर्यविषयत्वम् । मनोमयत्वादीनां च ‘यथा क्रतुरस्मिंल्लोके पुरुषो भवति’ इति वाक्येन मनोमयत्वादिगुणकोपासनेन तद्गुणकब्रह्मप्राप्तेः फलत्वावेदनेन फलरूपतात्पर्यालिङ्ग सम्भवात् मनोमयत्वादीनां तात्पर्यविषयत्वलक्षणं विवक्षितत्वम् अवसीयते । ‘अनुपपत्तेस्तु न शरीर:’ (ब्र.सू.१-२-३) विवक्षितानां गुणानां शारीरेऽनुपपन्नत्वात् न शारीरपरग्रहशङ्का कार्या इत्यर्थः । ‘कर्मकर्तृव्यपदेशाञ्च’ (ब्र.सू.१-२-४) । एतम् इतः प्रत्यभिसम्भवितास्मि’ इति प्राप्यतया परं ब्रह्म व्यपदिश्यते प्राप्तृतया च जीवः । अतः प्राप्ता जीवोपासकः । प्राप्यं परं ब्रह्म उपास्यम् इति । ‘शब्दविशेषात्’ (ब्र.सू.१-२-५) । ‘एष म आत्माऽन्तर्हृदयः’ इति शारीरः षष्ठ्या निर्दिष्टः, उपास्यस्तु प्रथमया । अतो न उपासकस्य जीवस्य उपास्यत्वम् । ‘स्मृतेश्च’ (ब्र.सू.१-२-६) । “सर्वस्य चाहं हृदि सन्निविष्टः मत्तः स्मृतिर्ज्ञानमपोहनं च” (भ.गी.१५-५) इति स्मृतिश्च उपास्यं हृदयगतम् उपासकात् भिन्नं परमात्मानं दर्शयति ।

‘अर्भकौकस्त्वात्तव्द्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च‘ (ब्र.सू.१-२-७) । अल्पायतनत्वं, – अर्भकौकस्त्वं, तव्द्यपदेशः – अल्पत्वव्यपदेशः । एष म आत्मान्तर्हृदयः इति अणीयसि हृदयायतने स्थितत्वात् ‘अणीयान् व्रीहेर्वा यवाद्वा’ इत्यादिना स्वरूपेण अणीयस्त्वव्यपदेशाच्च नायं परमात्मा, अपि तु जीवः एव । परमात्मनः अल्पायतनत्वाल्पत्वयोः सम्भवात् इति चेत् न – एवं निचाय्यत्वात् अल्पायतनत्वाल्पत्वाभ्यां तस्यैव उपास्यत्वसम्भवात् । व्योमवञ्च इदं ब्रह्म व्यपदिश्यते ‘ज्यायान् पृथिव्या’ इत्यादिना । अतश्च ज्यायस्त्वे उपाध्यश्रवणात् जायस्त्वं स्वाभाविकम् , अणीयस्त्वे उपाधिश्रवणात् अणीयस्त्वम् औपाधिकम् इत्यवसीयते । ‘सम्भोगप्राप्तिरिति चेन वैशेष्यात्’ (ब्र.सू.१-२-८) । परब्रह्मणः शरीरान्तर्वर्तित्वे तन्निमित्तसुखदुःखोपभोगप्रसक्ति: जीववत् स्यादिति चेत् न – तयोः अपहतपाप्मत्वानपहतपाप्मत्व-कृतविशेषसंभवात् , न जीववत् भोगप्रसक्तिः इति स्थितम् । प्रकृतमनुसरामः ।।

।। इति चतुर्दशखण्डभाष्यम् ।।

 

पञ्चदशः खण्डः

 

[वीरपुत्रस्य दीर्घायुष्ट्वसिद्ध्यै कोशविज्ञानम् ]

 

अन्तरिक्षोदर: कोशो भूमिबुध्नो जीर्यति

दिशो ह्यस्य ्रक्तयो द्यौरस्योत्तरं बिलम् ।।

एष कोशो वसुधानस्तस्मिन् विश्वमिदँ श्रितम् ।। ।।

 

प्र. – पुत्रदीर्घायुष्यफलकं त्रैलोक्यात्मककोशविज्ञानमारभ्यते’ अन्तरिक्षोदरः कोशो भूमिबुध्नो जीर्यति । अन्तरिक्षम् उदरं यस्य सः तथोक्त: । मध्यवर्तित्वात् अन्तरिक्षस्य उदरत्वम् । कोश: इव कोशः । कोशसादृश्यात् कोशः । भूमि: बुध्न: मूलं यस्य सः भूमिबुघ्नः जीर्यति न विनश्यति । ‘स्थिरकालत्वादिति भावः । दिशो ह्यस्य स्रक्तय: स्रक्तयः कोणा: इत्यर्थः । द्यौरस्योत्तरं बिलम् उत्तरं बिलं – ऊर्ध्वं मुखम् उत्यर्थः । स एष कोशो वसुधान: – कर्मफलाख्यं वसु धीयते अस्मिन् इति वसुधानः । तस्मिन् विश्वमिदं श्रितम् । कर्मकर्तृफलात्मकं परिदृश्यमानं कृत्स्रम् अस्मिन् कोशे श्रितम् इत्यर्थः ।।

 

[कोशदिग्वत्सविज्ञानं, तस्य फलञ्च]

 

तस्य प्राची दिग् जुहूर्नाम, सहमाना नाम दक्षिणा, राज्ञी नाम प्रतीचीसुभूता नामोदीची तासां वायुर्वत्सः एतमेवं वायुं दिशां वत्सं वेद, न पुत्ररोदँ, रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद ; मा पुत्ररोदँ, रुदम् ।। ।।

 

प्र. – तस्य……नाम दक्षिणा इत्यादि । तस्य – उक्तत्रैलोक्यकोशस्य या प्राची दिक् सा जुहूनाम्ना ध्यातव्या इत्यर्थः । एवमेव अवशिष्टस्य स्पष्टोऽर्थः । तासां वायुर्वत्सः वायोः दिक्प्रसूतत्वात् वत्सत्वम् । एतमेवं वायुं दिशां वत्सं वेद पुत्ररोदं रोदिति । दिग्वत्सत्वेन वायूपासकः पुत्रनाशननिमित्तं रोदं – रोदनं न करोति । पाकं पचति इतिवत् अयं पुत्ररोदनं रोदिति इति निर्देशः । रोदमिति णमुलन्तो वा । सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् सः – एतदुपदेष्टा अहमेवम् एतदुपासनम् अनुष्ठाय पुत्ररोदनाभावं फलं प्राप्तवान् अस्मि इत्यर्थः ।।

 

अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना ; प्राणं प्रपद्येऽमुनाऽमुनाऽमुनाभूः प्रपद्येऽमुनाऽमुनाऽमुना ; भूवः प्रपद्येऽमुनाऽमुनाऽमुना ; स्वाप्रपद्येऽमुनाऽमुनाऽमुना ।। ।।

 

प्र.अथ कोशविज्ञानाङ्गभूतान् प्रपदनमन्त्रानाह-अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुनाअरिष्टंअविनाशं कोशं प्रपद्ये । अमुनाऽमुनाऽमुना इति त्रिः पुत्रस्य नाम गृह्णाति । अमुना पुत्रेण हेतुना अरिष्टं कोशं प्रपद्ये इत्यर्थः । एवम् उत्तरत्रापि प्राणं प्रपद्येऽमुनाऽमुनाऽमुना इत्यादि ।।  यदवोचम्प्राणं प्रपद्य इति, प्राणो वा इदं सर्वं भूतम् , यदिदं किञ्चतमेव तत् प्रापत्सि ।। ।।

 

अथ यदवोचम्भूः प्रपद्य इति, पृथिवीं प्रपद्ये, अन्तरिक्षं प्रपद्ये, दिवं प्रपद्ये इत्येव तदवोचम् ।। ।।

 

अथ यदवोचम्भुवः प्रपद्य इति, अग्निं प्रपद्ये, वायुं प्रपद्ये, आदित्यं प्रपद्ये, इत्येव तदवोचम् ।। ।।

 

अथ यदवोचम्स्वः प्रपद्य इति, ऋग्वेदं प्रपद्ये, यजुर्वेदं प्रपद्ये, सामवेदं प्रपद्ये इत्येव तदवोचम् , तदवोचम् ।। ।।

 

।। इति पञ्चदशः खण्डः ।।

 

प्र. – प्राणं प्रपद्ये इत्यादि स्वोक्तमन्त्रान् स्वयमेव व्याचष्टे । तत्र प्रथममन्त्रस्य कोशविषयस्य पूर्वमेव व्याख्यातत्वात् द्वितीयादीन् व्याचष्टे – यदवोचं प्राणं प्रपद्ये इति प्राणो वा इदं सर्वं भूतं यदिदं किञ्च इत्यादि । सोऽहं प्राणं प्रपद्ये इति यद्वचनम् अवोचम् – तेन वचनेन प्राणात्मकं सर्वं जगत् प्रापत्सि – प्रपन्नो अभवम् इत्यर्थः । अथ यदवोचम्भूः प्रपद्ये इति पृथीवीं प्रपद्ये इत्यादि । भूः प्रपद्ये इत्यस्य मन्त्रस्य त्रीन् लोकान् प्रपद्ये इत्यर्थः ।

अथ यदवोचं भुवः प्रपद्ये इति अग्निं प्रपद्ये इत्यादि । स्पष्टम् । तदवोचं तदवोचम् इति । द्विरुक्ति: विद्यासमाप्त्यर्था ।।

।। इति पञ्चदशखण्डभाष्यम् ।।

 

षोडशः खण्डः

 

[दीर्घायुष्ट्वफलकपुरुषविद्या]

 

पुरुषो वाव यज्ञः तस्य यानि चतुर्विंशतिवर्षाणि, तत् प्रातस्सवनम्

चतुर्विंशत्यक्षरा गायत्री ; ‘गायत्रं प्रातस्सवनम् तदस्य वसवोऽन्वायत्ताः

प्राणा वाव वसवः एते हीद सर्वं वासयन्ति ।। ।।

 

प्र. – दीर्घायुष्ट्वफलकपुरुषविद्या प्रस्तूयते – पुरुषो वाव यज्ञः इति । पुरुषः स्वस्मिन् यज्ञदृष्टिं कुर्यात् इत्यर्थः । पुरुषस्य यज्ञसादृश्यमेव आह-तस्य यानि चतुर्विंशति वर्षाणि, तत्प्रातस्सवनं – षोडशोत्तरवर्षशतमिते पुरुषायुषि आद्यानि चतुर्विंशतिवर्षाणि प्रातस्सवनम् इत्यर्थः । तत्र तदृष्टिः कर्तव्या इति यावत् । तत्र हेतुमाह – चतुर्विंशत्यक्षरा गायत्री, गायत्रं प्रातस्सवनं – प्रातस्सवनस्य गायत्रीछन्दस्कत्वात् गायत्रीछन्दसः चतुर्विंशत्यक्षरात्मकत्वात्, चतुर्विंशतिवर्षे प्रातस्सवनत्वाध्यासो युज्यते इति भावः ।

तदस्य वसवोऽन्वायत्ताः अस्य – उपासकस्य तत् – प्रातस्सवनं वसवः – स्वामित्वेन अनुगताः । प्रसिद्धयज्ञे प्रातस्सवनस्य वसुस्वामिकत्वात् इति ‘भावः । प्रसिद्धान् वसून व्यावर्तयति – प्राणा वाव वसवःवाव शब्दो अवधारणे । प्राणानां वसुत्वे युक्तिमाह – एते हीदं सर्व वासयन्ति । शरीराणाम् अशैथिल्यलक्षणवासस्य प्राणाधीनत्वात् इति भावः ।।

 

तं चेदेतस्मिन् वयसि किश्चिदुपतपेत् , ब्रूयात् प्राणा वसवः इदं मे प्रातस्सवनं माध्यन्दिनँ सवनमनु सन्तनुतेति माऽहं प्राणानां वसूनां मध्ये यज्ञो विलिप्सीयेति उद्धैव तत एति, अगदो भवति ।। ।।

प्र. –तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् तं – पुरुषविद्यानिष्ठम् एतस्मिन् वयसि – चतुर्विंशतिवर्षात्मके वयसि किञ्चित् – रोगादिकम् उपतपेत् । बाधेत चेत् इत्यर्थः । ब्रूयात् प्राणा: वसवः इदं मे प्रातस्सवनं माध्यन्दिनँ सवनमनु सन्तनुतेति इत्यादि । तदा इमं मन्त्रं सः – उपासकः ब्रूयात् – जपेत् । हे प्राणा वसवः ! यज्ञरूपस्य मम अधुना प्रातस्सवनं प्रवर्तते । इदं – प्रवर्तमानं प्रातस्सवनं माध्यन्दिनसवनेन अविच्छिन्नं कुरुत । प्रातस्सवनेशानां प्राणानां वसूनां मध्ये यज्ञोऽहं – यज्ञरूपोऽहं मा विलोप्सीय – लुप्तो मा भूवम् । छान्दसो माङि लुङभावः । मा शब्दो वा । इति मन्त्रं जपेत् इत्यर्थः । उद्धैव तत एति अगदो ह भवति ततः -उपतापात् उदेति – उद्गच्छति । अगदो भवति – अरोगो भवति इत्यर्थः । एवम् उत्तरत्रापि ।।

 

[माध्यन्दिनसवनम् ]

 

अथ यानि चतुश्चत्वारिंशद्वर्षाणि, तन्माध्यन्दिनँ सवनम् चतुश्चत्वारिंशदक्षरा त्रिष्टुप् त्रैष्टुभं माध्यन्दिनँ सवनम् तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्राः । एते हीदँ सर्वं रोदयन्ति ।। ।।

 

प्र. – अथ यानि चतुश्चत्वारिंशद्वर्षाणि इत्यादि । प्राणा वाव रुद्राः एते हीदं सर्वं रोदयन्ति । यौवने इन्द्रियाणाम् अत्यन्त विषयप्रावण्यजनकतया पुरुषान् रोदयन्ति इति रुद्रत्वम् उपपन्नम् इत्यर्थः ।।

 

तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत्, ब्रूयात् प्राणाः रुद्राः इदं मे माध्यन्दिनँ सवनं तृतीयसवनमनु सन्तनुतेति माऽहं प्राणानाँ रुद्राणां मध्ये यज्ञो विलोप्सीयेति उद्धैव तत एति ; अगदो भवति ।। ।।

 

प्र. – तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् एतस्मिन् वयसि – चतुर्विंशतिवर्षात् ऊर्ध्वम् अष्टषष्टिवर्षमध्ये इत्यर्थः । प्राणानां रुद्राणां मध्ये – माध्यन्दिनसवनेशानां भवतां मध्ये इत्यर्थः ।।

 

अथ यान्यष्टाचत्वारिँशद्वर्षाणि, तत् तृतीयसवनम् अष्टाचत्वारिँशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वाव आदित्याः । एते हीदं सर्वमाददते ।। ।।

 

प्र. – अथ यान्यष्टाचत्वारिंशद्वर्षाणि इत्यादि । प्राणा वाव आदित्या एते हीदं सर्वमाददते । सर्वस्य विषयजातस्य आदानात् प्राणानाम् आदित्यत्वम् इत्यर्थः ।।

 

[तृतीयसवनम्]

 

तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत्, ब्रूयात्, ‘प्राणा आदित्याइदं मे तृतीयसवनम् आयुरनु सन्तनुतेति माऽहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेति उद्धैव तत एति ; अगदो हैव भवति ।। ।।

प्र.तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत् इत्यादि । एतस्मिन् वयसि अष्टषष्टिवर्षात् ऊर्ध्वं षोडशोत्तरशतवर्षमध्ये इत्यर्थः । तृतीयसवनम् आयुरनुसन्तनुतेति । तृतीयसवनात्मकम् आयुः आसमाप्ति अविच्छिन्नं कुरुत इत्यर्थः । प्राणानामादित्यानां मध्ये । तृतीयसवनस्वामिनां भवतां मध्ये इत्यर्थः ।।

 

[पुरुषविद्यायाः फलम्]

 

एतद्ध स्म वैतद् विद्वानाह महिदास ऐतरेयः, ‘ किं एतदुपतपसियोऽहमनेन प्रैष्यामीति षोडशं वर्षशतमजीवत् प्रह षोडशं वर्षशतं जीवति, एवं वेद ।। ।।

 

।। इति षोडशः खण्डः ।।

 

प्र. – एतद्ध स्म वै तत् विद्वानाह महिदास ऐतरेयः इत्यादि । हे रोग ! सः त्वं मे मां किं – कस्मात् एतत् – एवं प्रकारेण उपतपसि, योऽहं पुरुषविद्यानिष्ठः त्वत्कृतेन अनेन उपतापेन प्रैष्यामि – न मरिष्यामि । अतः तव श्रमः वृथा एव इति, एतत् – पुरुषविज्ञानस्वरूपं विद्वान् इतरपुत्रो महिदासनामा, आह स्म इत्यर्थः । ऐतरेयः । शुभ्रादित्वात् इतरशब्दात् अपत्यार्थे ठक् । षोडशं वर्षशतमजीवत् सः महीदासः षोडशं वर्षशतं – षोडशाधिकं वर्षशतम् अजीवत् इत्यर्थः । तदस्मिन्नधिकमिति दशान्ताड्ड:‘ (पा.सू.५-२-४५) इति षोडशशब्दात् डप्रत्ययः ।अतो विद्यायां फलप्रापकत्वनिश्चयवतोऽवश्यं फलप्राप्तिः भवति इति भावः । अन्योऽपि एवंवित् षोडशं वर्षशतं जीवति इत्याह – प्र षोडशं वर्षशतं जीवति, एवं वेद । स्पष्टोऽर्थः ।।

 

।। इति षोडशखण्डभाष्यम् ।।

 

सप्तदशः खण्डः

 

[पुरुषस्य यज्ञसादृश्यनिरूपणम्]

 

यदशिशिषति, यत्पिपासति, यन्न रमते, ता अस्य दीक्षाः ।। ।।

 

प्र. –तथा पुरुषस्य यज्ञसादृश्यमेव निरूपयति । ……दीक्षाः । अशनाया-पिपासा-रत्यभावानां दुःखात्मकत्वेन दीक्षात्वं कल्प्यम् इत्यर्थः ।।

 

यदश्नाति, यत्पिबति, यद्रमते तदुपसदैरेति ।। ।।

 

प्र. – अथ यदश्नाति, यत्पिबति, यद्रमते तदुपसदैरेति । अशनपानरतीनां पयोव्रतादियुक्तोपसद्वत् सुखरूपत्वात् उपसद्रूपत्वम् । तदुपसदैरेति – उपसद्भि:  साम्यम् एति । उपसदृष्टिः तासु कर्तव्या इत्यर्थः ।।

 

[ज्ञस्य स्तुतशस्त्राणि]

 

अथ यद्धसति, यज्जक्षति, यन्मैथुनं चरति, स्तुतशस्रैरेव तदेति ।। ।।

 

प्र. –यद्धसति, यज्जक्षति, यन्मैथुनं चरति, स्तुतशस्रैरेव तदेति । हास-भक्षण-मैथुनादीनां शब्दवत्वसाम्यात् स्तुतशस्त्रैः साम्यम् एति इत्यर्थः ।।

 

अथ यत् तपो दानमार्जवहिँसा सत्यवचनमिति, ता अस्य दक्षिणाः ।। ।।

 

प्र. – अथ यत्तपोदानमार्जवहिँसा सत्यवचनमिति ता अस्य दक्षिणाःदक्षिणादृष्टिः तेषु कर्तव्या इत्यर्थः। ‘धर्मपुष्टि करत्वसाम्यात् इति भावः ।।

 

[पुरुषयज्ञस्य वनावभृथौ]

 

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ।। ।।

 

प्र. – तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य। यतो हेतोः पुरुषस्य एव यज्ञरूपत्वं अत एव यथा यज्ञं करिष्यमाणे पुरुषे देवदत्तः सोमं सोष्यति इति प्रयुञ्जते तथा यदा माता तं पुरुष जनयिष्यति – तदा पुरुषस्य उत्पादनं प्रतीक्ष्य – पुरुषं सोष्यति इति प्रयुञ्जते लोकाः । यागानन्तरम् असोष्ट सोमं यज्ञदत्त इतिवत् असोष्ट माता पुरुषमिति उत्पत्तेः पश्चात् प्रयुञ्जते । ततश्च पुरुषस्य उत्पादनमेव सोष्यति असोष्टेति शब्दसम्बन्धित्वसामान्यात् यज्ञानुष्ठानलक्षणम् उत्पादनम् इत्यर्थः । तन्मरणमेवावभृथः । समाप्तित्वसाम्यात् मरणे अवभृथत्वं पश्येत् इति भावः ।।

 

[विद्यास्तुतिः]

 

तद्धैतत् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच, अपिपास एव  बभूव, सोऽन्तवेलायामेतत् त्रयँ प्रतिपद्येत, ‘अक्षितमसि‘, ‘अच्युतमसि‘, प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः ।। ।।

 

प्र. – तद्धैतत् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच,। घोरनामा अङ्गिरोगोत्रः कश्चित् ऋषिः तदेतत् – पुरुषयज्ञदर्शनं देवकीपुत्राय, कृष्णाय – इति शब्द: अध्याहर्तव्यः । कृष्णशेषभूतम् , तत्प्रीत्यर्थम् इति उक्त्वा – इति अनुसन्धाय उवाच अनुष्ठितवान् इत्यर्थः । वचे: लक्षणया अनुष्ठानार्थत्वम् । अपिपास एव बभूव । सः घोरनामा भगवच्छेषत्वानुसन्धानपूर्वकपुरुषयज्ञोपासनानुष्ठानेन ब्रह्मविद्यां प्राप्य अपिपास: इदम् उपलक्षणम् अपहतपाप्मत्वादिगुणाष्टकस्य ; मुक्तः बभूव इत्यर्थः। ततश्च षोडशाधिकवर्षशतजीवनफलकस्यापि पुरुषयज्ञदर्शनस्य भगवच्छेषत्वानुसन्धानपूर्वकम् अनुष्ठितस्य ब्रह्मविद्योपयोगित्वमपि अस्ति इति भावः । सोऽन्तवेलायामेतत् त्रयँ प्रतिपद्येत सःभगवच्छेषत्वानुसन्धानपूर्वकपुरुषविद्यासाधितचिरायुष्ट्वानु-गृहीतब्रह्मविद्यानिष्ठः पुरुषः अक्षितमसि, अच्युतमसि, प्राणसंशितमसि इत्येतत् मन्त्रत्रयं मरणकाले जपेत् इत्यर्थः । अक्षितमसि क्षयशून्यमसि । अच्युतमसि स्वरूपस्वभावप्रच्युतिशून्यमसि । प्राणसंशितमसि – जगत्प्राणयितृत्वे सति संशितं -सूक्ष्मतत्त्वमसि इति ब्रह्मसम्बोधनं । ‘शो – तनूकरणे’ (धा.पा.११४५) इति हि धातुः । तत्रैते द्वे ऋचौ भवतः तत्र – परब्रह्मविषये एते ऋचौ – ‘मन्त्रौ’ भवतः इत्यर्थः ।।

 

आदित् प्रत्नस्य रेतसः। उद्वयं तमसस्परि ज्योति: पश्यन्त उत्तरम् स्वः पश्यन्त उत्तरम् देवं देवत्रा सूर्यमगन्मज्योतिरुत्तमम् इति, ज्योतिरुत्तममिति ।। ।।

।। इति सप्तदशः खण्डः ।।

प्र. –आदित्प्रत्नस्य रेतसः इति । तयोः ऋचोः अयम् आद्यो मन्त्रः प्रतीकेन गृहीतः । सोऽयं मन्त्रः ‘आदित्प्रत्नस्य रेतसः ज्योति: पश्यन्ति वासरम् । परो यदिध्यते दिवि” (ऋ.सं.८-२-६-३०) इति । अयमर्थः – प्रत्नस्य – पुरातनस्य रेतसः – जगद्बीजभूतस्य अव्यक्तस्य आदित् – आदिभूतम्, संसारसन्तमसनिवारकतया ज्योतिश्शब्दितं परं ब्रह्म ‘सदा पश्यन्ति सूरयः’ इत्युक्तरीत्या नित्यसूरय: वासरं नित्यप्रकाशरूपं सर्वकालं पश्यन्ति इत्यर्थः । यत् – ज्योति: ‘अथ यदत: परो दिवो ज्योतिर्दीप्यते’ इत्युक्तरीत्या दिवि भगवल्लोके परत्वेन इध्यते – निरतिशयदीप्तियुक्तविग्रहयुक्तम् इत्यर्थः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः पश्यन्त उत्तरम् इत्यादि । तमसःप्रकृतेः परस्तात् उत्तरं ज्योति: परब्रह्म परिपश्यन्तः, उत्तरं – सर्वलोकोर्ध्वं स्व: भगवल्लोकं परिपश्यन्तः अत्र परिपश्यन्तः इति उभयत्र हेत्वर्थे शतृप्रत्ययः । भगवल्लोकस्य तद्गतपरमात्मनश्च दर्शनाय इति यावत् देवत्रा देवेषु ‘देवमनुष्य’……(पा.सू.५-४-५६) इत्यादिना ‘सप्तम्याः त्राप्रत्ययः । देवं – द्योतमानं उत्तमम् – अर्चिरादिपर्वभूतम् सूर्यरूपं ज्योतिः वयम् – उदगन्म उद्गत्य प्राप्ताः स्म इत्यर्थः । द्विरभ्यासो यज्ञकल्पनासमाप्त्यर्थः ।

एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणं लिख्यते – गुणोपसंहारपादे -तैत्तिरीयके – ‘तस्येवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी” (ते.आर.६-६४) इति श्रुतायाः पुरुषविद्यायाः, पुरुषो वाव यज्ञः’ इति छान्दोग्याम्नाता पुरुषविद्या न भिन्ना । पुरुषविद्या इति समाख्येक्यात् । पुरुषसम्बन्धिषु यज्ञावयवत्वकल्पनासाम्यात् । मरणावभृथत्वसाम्याच्च इति पूर्वपक्षे प्राप्ते उच्यते – ‘पुरुषविद्यायामपि चेतरेषामनाम्नानात्’ (ब्र.सू.३-३-२४) उभयत्र आम्नातयोः पुरुषविद्यात्वेऽपि विद्याभेदः अस्त्येव । कुतः ? इतरेषाम् अनाम्नानात् । ‘यत् सायं प्रातर्मध्यन्दिनञ्च तानि सवनानि’ (ते.आर.६-६४) इत्यादीनां तैत्तिरीयकाम्नातानां छान्दोग्येऽनाम्नानात् । त्रेधा विभक्तपुरुषायुषस्य एव छान्दोग्ये सवनत्वाम्नानात् ।’ छान्दोग्यश्रुताशिशिषादिदीक्षादित्वपरिकल्पनस्य तैत्तिरीयके अदर्शनात् । यजमानपत्न्यादिपरिकल्पनानां च भिन्नभिन्नत्वात् ।

छान्दोग्ये – ‘पुरुषो वाव यज्ञः’ इति श्रुतस्य पुरुषे यज्ञत्व’कल्पनस्य’ तैत्तिरीयके अदर्शनाच्च विद्याभेदः एव । न च ‘तस्यैवं विदुषो यज्ञस्य’ इत्यत्र षष्ठ्यन्तयोः सामानाधिकरण्याश्रयणेन पुरुषे यज्ञत्वकल्पनं तैत्तिरीयकेऽपि अस्तीति वाच्यम् । पुरुषस्यैव, यज्ञत्वे तस्यैव यजमानत्वं विरुद्धम् । यज्ञत्वयजमानत्वयोः एकस्मिन् विरोधात् । किञ्च पुरुषे यज्ञत्वकल्पने हि, विद्वान् यज्ञ: आत्मा यजमान इत्येव वक्तव्यं स्यात् । न तु एकवाक्यतया, ‘विदुषो यज्ञस्यात्मा यजमानः’ इति । अतो विदुषो यज्ञस्य इति व्यधिकरणे षष्ठ्यौ । विद्वत्संबन्धि यज्ञस्य इत्यर्थः । ततश्च ‘प्रणवे एव विस्वरः’ इति न्यायेन पुरुषस्य यज्ञत्वकल्पनैकरूप्याभावात् विद्याभेदःएव । किञ्च छान्दोग्याम्नातायाः, पुरुषविद्यायाः ‘प्र ह षोडशं वर्षशतं जीवति’ इति षोडशाधिकवर्षशतजीवनं फलत्वेन आम्नातम् । तैत्तिरीयके तु श्रुतायाः पुरुषविद्यायाः ‘ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत’ (तै.आर.६-६३) इति पूर्वानुवाकविहितायाः ब्रह्मविद्यायाः ‘ब्रह्मणो महिमानमाप्नोति’ (तै.आर.६-६३) इति ब्रह्मप्राप्तिफलिकायाः सन्निधौ पठितत्वात् ब्रह्मविद्याङ्गतया ब्रह्मप्राप्तिफलकत्वमेव । अत: फलसंयोगभेदाच्च पुरुषविद्ययोः भेदः इति सिद्धान्तितम् । प्रकृतमनुसरामः ।।

 

1 इति सप्तदशखण्डभाष्यम् ।।

 

अष्टादशः खण्डः

 

[अध्यात्म मनसि अधिदेवतमाकाशे ब्रह्मदृष्टिः]

 

मनो ब्रह्मेत्युपासीतेत्यध्यात्मम् अथाधिदेवतम् आकाशो ब्रह्मेति । उभयमादिष्टं भवति अध्यात्मञ्चाधिदैवतञ्च ।। ।।

प्र.अध्यात्मं मनसि, अधिदैवतम् आकाशे च ब्रह्मदृष्टिः उपदिश्यते . मनो ब्रह्मेत्युपासीत इत्यादिना । आदिष्टं भवति – उपदिष्टं भवति इत्यर्थः । शिष्टं

स्पष्टम् ।।

 

[ब्रह्मणः चतुष्पात्त्वम्]

 

तदेतञ्चतुष्पाद् ब्रह्म वाक् पादः, प्राणः पादः, चक्षुः पादः,्रोत्रं पाद इत्यध्यात्मम् अथाधिदैवतम्अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इति उभयमेवादिष्टं भवति अध्यात्मञ्चैवाधिदैवतञ्च ।। ।।

प्र. – तदेतञ्चतुष्पाद् ब्रह्म तदेतत् – मन आख्यं ब्रह्म चतुष्पात् इत्यर्थः । कथं मनोरूपस्य ब्रह्मणः चतुष्पात्त्वम् इत्यत्राह । वाक्पादः प्राणः पादः चक्षुः पादः श्रोत्रं पाद इत्यध्यात्मम् । वागादीनां चतुर्णां मनोनियाम्यत्वात् मनःपादत्वाध्यासो युक्तः इति भावः । इति अध्यात्मम् उक्तमिति शेषः । अथाधिदेवतम् । उच्यते इति शेषः । अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इति । अग्न्यादयः चत्वारो ब्रह्मरूपाकाशस्य उदरलग्नाः पादाः इव भवन्ति इत्यर्थः । इत्युभयमेवादिष्टं भवति अध्यात्मञ्चैवाधिदैवतञ्च इति । स्पष्टोऽर्थः ।।

 

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति तपति । भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन, एवं वेद ।। ।।

प्र.वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा भाति तपत्ति  । अध्यात्मं ब्रह्मरूपस्य मनसो वागेव चतुर्थः पादः । सोऽधिदैवतं ब्रह्मरूपाकाशपादतया तत्सम्बन्धिना अग्निना ज्योतिषा – प्रकाशकेन भाति – प्रकाशते । तपति – स्वकार्योत्साही भवति इत्यर्थः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ.उ.२-४) इति अग्निदेवतायाः एव वागधिष्ठातृत्वेन तदधीनप्रकाशप्रवृत्तिकत्वात् इति भावः । एवम् उत्तरत्रापि द्रष्टव्यम् । भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन, एवं वेद । वितरणविक्रमरूपहेतुभेदात् कीर्तियशसोः भेदः । ब्रह्मवर्चसं वृत्ताध्ययनसमृद्धिः । शिष्टं स्पष्टम् ।।

 

प्राण एव ब्रह्मणश्चतुर्थः पादः वायुना ज्योतिषा भाति तपति । भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन, एवं वेद ।। ।।

 

प्र.प्राण एव इत्यादि । प्राण एव ब्रह्मणश्चतुर्थः पादः वायुना इत्यादि । वायुप्राणयोः ‘एकतत्त्वत्वादिति भावः ।।

 

चक्षुरेव ब्रह्मणश्चतुर्थः पादः आदित्येन ज्योतिषा भाति तपति । भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन, एवं वेद ।। ।।

 

प्र. – चक्षुरेव ब्रह्मणश्चतुर्थः पादः आदित्येन इत्यादि । ‘आदित्यस्य चक्षुरधिष्ठातृत्वात् इति भावः ।।

 

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः दिग्भिर्ज्योतिषा भाति तपति । भाति तपति कीर्त्या यशसा ब्रह्मवर्चसेन, एवं वेद ।। ।।

 

।। इति अष्टादशः खण्डः ।।

प्र.श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः दिग्भिः इत्यादि । दिशश्श्रोत्रं भूत्वा कर्णां प्राविशन्’ (ऐ.उ.२-४) इति दिग्देवतानां श्रोत्राधिष्ठातृत्वात् इति भावः । अवशिष्टस्य उक्तोऽर्थः । एवं वेद एवं वेद इति । द्विरुक्तिः विद्यासमाप्त्यर्था ।।

 

।। इति अष्टादशखण्डभाष्यम् ।।

 

एकोनविंशः खण्डः

 

[आदित्ये ब्रह्मदृष्टिः]

 

आदित्यो ब्रह्मेत्यादेशः तस्योपव्याख्यानम्असदेवेदमग्र आसीत् । तत् सदासीत् तत् समभवत् तदाण्डं निरवर्तत तत् संवत्सरस्य मात्रामशयत । तन्निरभिद्यत ते आण्डकपाले रजतञ्च सुवर्णञ्चाभवताम् ।।।।

प्रपूर्व आदित्यः ब्रह्मणः पादः उक्तः । अथ तस्मिन् सकलब्रह्मदृष्ट्यर्थम् इदम् आरभ्यते आदित्यो ब्रह्मेत्यादेशः । आदित्यः ब्रह्म इत्युपदेशः क्रियते इत्यर्थः । तस्योपव्याख्यानम् । क्रियते इति शेषः । असदेवेदमग्र आसीत् इदं – जगत् अग्रे असत् – अव्याकृतनामरूपम् आसीत् । तत् सदासीत् तत् – अव्याकृतनामरूपं जगत् सदासीत् – ईषन्नामरूपकार्याभिमुखम् आसीत् । तत् समभवत् । अल्पतरनामरूपव्याकरणेन, अङ्कुरीभूतमिव बीजं क्रमेण स्थूलम् अभवत् इत्यर्थः । तदाण्डं निरवर्तत । अण्डं संवृत्तम् इत्यर्थः । आण्डमिति छान्दसः दीर्घः । तत्संवत्सरस्य मात्रामशयतसंवत्सरस्य – कालस्य मात्रां परिमाणम् एकरूपतया अशयत – स्थितं बभूव इत्यर्थः । तन्निरभिद्यत । संवत्सरकालात् ऊर्ध्वं तदण्डं निर्भिन्नम् अभवत् । ते आण्डकपाले इत्यादि । ते आण्डकपाले – अण्डकपाले रजतञ्च सुवर्णश्च एकैकम् अभवताम् इत्यर्थः ।।

 

तद् यद्रजतँ सेयं पृथिवी यत् सुवर्णं सा द्यौः यज्जरायु ते पर्वताः यदुल्बँ

मेघो नीहारः या धमनयस्ता नद्यः यद्वास्तेयमुदक समुद्रः ।। ।।

 

प्र. –तद्यद्रजतं सेयं पृथिवी । यद्रजतमयं कपालं, तत्पृथिव्याधुपलक्षितम् अधोऽण्डकपालम् इत्यर्थः । यत्सुवर्णं सा द्यौः । सुवर्णमयं कपालं धुलोकोपलक्षितम् ऊर्ध्व’कपालम् । यज्जरायु ते पर्वताः जरायु – गर्भपरिवेष्टनम्, अण्डस्य शकलीभावदशायां याः स्थूलगर्भपरिवेष्टनसिराः – ते पर्वता बभूवुः इत्यर्थः । यदुल्बं स  मेघो नीहारः यदुल्बम् – सूक्ष्मं गर्भपरिवेष्टनं । तत् मेघसहितं हिमम् । या धमनयस्ता नद्यः धमनयः सिराः इत्यर्थः । यद्वास्तेयमुदकं समुद्रः । वस्तौ भवं वास्तेयम् ।।

 

 

अथ यत्तदजायत, सोऽसावादित्यः तं जायमानं घोषा उलुलवोऽनू दतिष्ठन् ; सर्वाणि भूतानिः, सर्वे कामाः तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनुत्तिष्ठन्ति, सर्वाणि भूतानि, ‘सर्वे चैवकामाः

 

प्र.-अथ यत्तदजायत, सोऽसावादित्यः । तस्मिन् अण्डे गर्भरूपं यदजायत स आदित्यः इत्यर्थः । तं जायमानं घोषा उलूलवोऽनूदतिष्ठन् सर्वाणि भूतानि सर्वे कामाः तं – आदित्यं जायमानम् अनु उलूलव:‘ – उरूरवः उरूरवा: विस्तीर्णरवाः महाध्वनियुक्ताः । उलूलव इति छान्दसंं रूपम् । घोषाः-शब्दा: स्थावरजङ्गमानि भूतानि , तेषां कामा: काम्यमानाः स्त्रीवस्त्रादयश्च उदतिष्ठन् – उत्थितवन्तः इत्यर्थः । सर्वस्य आदित्योदयानन्तरभावित्वात् इति भावः । तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति इत्यादि । तस्मात् अद्यत्वेऽपि आदित्यस्य उदयं प्रति प्रत्यायनम् -अस्तमयञ्च प्रति, उरूरवाः शब्दाश्च, भूतानि च, कामाश्च उत्पद्यन्ते इत्यर्थ: ‘उदयास्तमयवेलायां पक्षिघोषादीनां दर्शनात् इति भावः ।।

 

[आदित्यब्रह्मोपासनस्य फलम् ]

 

एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते, अभ्याशो यदेनँ साधवो घोषा  गच्छेयुः, उप निम्रेडेरन्, निम्रेडेरन् ।। ।।

 

।। इति एकोनविंशः खण्डः ।।

 

।। इति तृतीयः प्रपाठकः समाप्तः ।।

 

प्र. – एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते इत्यादि । हशब्दः प्रसिद्धौ । एतम् – आदित्यब्रह्मोपासकम्, अभ्याश: क्षिप्रम् । यत् ये इत्यर्थः । ये साधवः शोभनाः घोषाः ते उप – समीपे आगच्छेयुश्च । निम्रेडेरन् – सुखं च कुर्युः इत्यर्थः । ‘मृड सुखे च’ (धा.पा.१५-१७) इति हि धातुः; अन्तर्भावितण्यर्थः । निम्रेडेरन् निम्रेडेरन् इति द्विरुक्तिः अध्यायपरिसमाप्त्यर्था ।।

 

।। इति तृतीयप्रपाठकप्रकाशिका ।।

 

।। इति तृतीयप्रपाठकभाष्यम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.