छान्दोग्योपनिषत् सप्तमः प्रपाठकः

छान्दोग्योपनिषत्

 सप्तमः प्रपाठक:

प्रथमः खण्डः

 

[भूमविद्या]

 

अधीहि भगव इति होपससाद सनत्कुमारं नारदः तँ होवाच यदवेत्थ, तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति ।। ।।

प्र. – भूमविद्या प्रस्तूयते – अधीहि भगव इति इति । सनत्कुमारं योगीन्द्रं नारदऋषिः अधीहि भगव इति मन्त्रोच्चारणपूर्वकं विधिवदुपसन्नः इत्यर्थः । अधीहि अधीष्व इत्यर्थः । तँ होवाचतम् – उपसन्नं नारदं सनत्कुमारः उवाच इत्यर्थः । तदेवाह – यदवेत्थ तेन मोपसीद यत् त्वम् ज्ञातवानसि ‘तत् इदमहं जाने’ इति तत्प्रख्यापनेन मामुपसीद । ततस्त ऊर्ध्वं वक्ष्यामीति तत ऊर्ध्वं ज्ञातांशातिरिक्तम् । ज्ञातांशस्य उपदेशो व्यर्थः इति भावः ।।

 

[नारदस्य प्रतिवचनम्]

 

होवाचऋग्वेदं भगवोऽध्येमि यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनम् , देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्याम् एतद्भगवोऽध्येमि ।। ।।

 

प्र. होवाच सः नारदः ऋग्वेदं भगवोऽध्येमि हे भगवः अध्येमि स्मरामि । वेद्मीति यावत् । ‘यद्वेत्य’ इति वेदनस्य उक्तत्वात् । यजुर्वेदं सामवेदं इत्यादि ।  ‘वेदानध्यापयामास महाभारतपञ्चमान्’ (महा.भा.आदि.५७-७४) ‘इतिवत्’ ऋगादिभिः इतिहासस्यात्र पञ्चमत्वोक्तिः। वेदानां वेदम् इति । वेदानाम् – ऋगादीनां वेदम् प्रकृति-प्रत्ययविभागावेदकम् । व्याकरणमित्यर्थः । पित्र्यम् – श्राद्धकल्पम् । राशिं – गणितम् । दैवं – उत्पातज्ञानम् । निधिं – निधिदर्शनोपायप्रदर्शक शास्रम् । वाकोवाक्यम् -तर्कशास्त्रम् । एकायनम् – एकायनशाखाम् । देवविद्यां ब्रह्मविद्याम् – इत्यादि । देवविद्या – देवतोपासनप्रकारविद्या । ब्रह्मविद्या – वेदाङ्गभूतशिक्षादिविद्या । भूतविद्या वशीकरणविद्या । क्षत्रविद्या – धनुर्वेदः । नक्षत्रविद्या – ज्योतिषम् । सर्पविद्या गारुडविद्या । देवविद्या – गान्धर्वशास्रम् । जनविद्या – आयुर्वेदः । एतद्भगवोऽध्येमि अहमेतत् सर्व जानामि इत्यर्थः ।।

 

सोऽहं भगवो मन्त्रविदेवाऽस्मि ; नाऽऽत्मवित् श्रुतं ह्येव मे भगवददृशेभ्यःतरति शोकमात्मविदिति सोऽहं भगवः शोचामि तं मा भगवाञ्छोकस्य पारं तारयत्विति होवाच यद्वै किञ्चैतदद्यगीष्ठाः, नामैवैतत् ।। ।।

प्र. – सोऽहं भगवो इत्यादि । हे भगवः ! पूजावन् ! अहमेतत् सर्वं जानन्नपि मन्त्रविदेवाऽस्मि – शब्दब्रह्मनिष्ठः एवास्मि । यद्वा मन्त्रप्रधानकर्मनिष्ठः इति वाऽर्थः । नात्मविदस्मि – न परब्रह्मवित् । आत्मशब्दस्य तस्मिन्नेव मुख्यत्वात्, जीवस्य अपेक्षिकात्मत्वेन निरङ्कुशात्मत्वाभावाच्च । मन्त्रवित्त्वात् आत्मवित्त्वे किमधिकं स्यादित्यत्राह भगवददृशेभ्यः – भवादृशेभ्यो महद्भ्य: ‘आत्मवित् शोकं संसारं तरति इति मे श्रुतमेव हि । मे इति सम्बन्धसामान्ये षष्ठी । मया श्रुतम् इत्यर्थः । सोऽहं भगवः इत्यादि । एतादृशविद्यासंपन्नोऽपि अहम् आत्मज्ञानराहित्यात् शोकार्णवे पतितोऽस्मि इत्यर्थः । तं तादृशं मां भगवान् आत्मज्ञानेन शोकार्णवस्य पारं तारयतु इत्युवाच इत्यर्थः । तँ होवाच । सनत्कुमारः इति शेषः । यद्वै किञ्च इति । अध्यगीष्ठाः – अधीतवानसि इत्यर्थः । अत्र तेषां नामैवात्मा इति प्रतिवचने दातव्ये नामैवैतत् इति अधीतऋग्वेदादिसामानाधिकरण्येन प्रतिवक्तु: सामानाधिकरण्यनिर्देशार्हत्वमेव आत्मत्वम् इति भावः ।।

 

[नामोपासनम्]

 

नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराण: पञ्चमो वेदानां वेदः पित्र्यो राशिरवो  निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या नामैवैतत् नामोपास्वेति ।। ।।

प्र.तदेव प्रपञ्चयति – नाम वा ऋग्वेदो इत्यादिना । स्पष्टोऽर्थः । उपसंहरति नामवैतत् इति । नामरूपमयत्वात् प्रपञ्चस्य, विशिष्य ऋग्वेदादिलक्षणशब्दराशेनामरूपत्वाच्च, सर्व नामैव इत्यर्थः । ततः किमित्यत्राह – नामोपास्वेति । अत्र ब्रह्म इति शेषः । नामब्रह्म इत्युपास्व इत्यर्थः ।।

[नामोपासनस्य फलम्]

 

यो नाम ब्रह्मेत्युपास्ते, यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति, यो नाम ब्रह्मेत्युपास्ते अस्ति भगवो नाम्नो भूय इति नामनो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।। ।।

 

।। इति प्रथमः खण्डः ।।

 

प्र. – तस्य फलमाह – यो नाम इत्यादि । नाम प्रवृत्तिः यावति देशे तावति देशे नामब्रह्मोपासकस्य यथेष्टं सञ्चरणं भवति इत्यर्थः । उक्तमेव पुनः उपसंहरति – यो नाम ब्रह्म इति । आत्मानं जिज्ञासमानं प्रति ब्रह्मत्वेन नामोपदर्शनस्य  आत्मत्वब्रह्मत्वे अन्यूनानतिरिक्तवृत्तिधर्मो इति भावः । ब्रह्मशब्दप्रवृत्तिनिमित्तं बृहत्त्वं नाम्नि न पुष्कलम् इति मत्वा नामोपदेशेन अपरितुष्टस्सन् नारदः पृच्छति – अस्ति भगवो नात्मो भूय इति । वैपुल्यार्थात् बहुशब्दात् आतिशायनिके ईयसुन् प्रत्यये भूयः इति रूपम् । किं नाम्रोऽपि विपुलतरं किञ्चिदस्ति इति प्रश्रार्थः । वैपुल्यं च गुणोत्कर्षकृतं ‘न’ तु परिमाणकृतम्। तथैव उत्तरत्र प्रपञ्चनात् इति द्रष्टव्यम् । अत्र नाम्नो बृहत्त्वलक्षणब्रह्मत्वे अधीते ततोऽपि किं बृहदस्ति इति प्रष्टव्ये ततोऽपि किं भूयोऽस्तीति प्रश्नात् भूयस्त्वं बृहत्वं च एकमिति ज्ञाप्यते । गुरुराह – नामनो वाव भूयोऽस्तीति । शिष्यः आह – तन्मे भगवान् ब्रवीत्विति । स्पष्टोऽर्थः ।।

 

।। इति प्रथमखण्डभाष्यम् ।।

 

द्वितीयः खण्डः

 

[नामापेक्षया वाचः श्रेष्ठत्वम् ]

 

वाग्वाव नाम्नो भूयसी वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदँ सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यँ राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्याम् , दिवञ्च पृथिवीञ्च वायुञ्चाऽऽकाशञ्चाऽऽपश्च तेजश्च देवांश्च मनुष्याँश्च शूँश्च वयाँसि  च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलिकं धर्मञ्चाधर्मञ्च सत्यञ्चानृतञ्च साधु चासाय  हृदयज्ञञ्चाहृदयज्ञञ्च यद्व वाङ्नाभविष्यत् धर्मो नाधर्माव्यज्ञापयिष्यत्‘ :  सत्यम्, नानृतम्, साधु, नासाधु, हृदयज्ञो, नाहृदयज्ञो वागेवैतत् सर्वं विज्ञापयति वाचमुपासस्वेति ।। ।।

 

यो वाचं ब्रह्मेत्युपास्ते, यावद्वाचो गतम्, तत्रास्य यथाकामचारो वति यो वाचं ब्रह्मेत्युपास्ते अस्ति भगवो वाचो भूय इति वाचो बाब भूयोऽस्तीति । तन्मे भगवान् ब्रवीत्विति ।। ।।

 

।। इति द्वितीयः खण्डः ।।।

 

प्र. –गुरुराह – वाग्वावनामनो भूयसी । वावशब्दः प्रसिद्धौ । तदेव प्रपञ्चयति वाग्वा ऋग्वेदं विज्ञापयति । वैशब्दो अवधारणे । यजुर्वेदम् इत्यादि। हृदयज्ञ: मनोज्ञः । हृदयप्रियः इत्यर्थः । शिष्टं स्पष्टम् । एतत् सर्वं वागेव विज्ञापयति इति पूर्वणान्वयः । वागभावे एतत् ज्ञानं नास्ति इत्यपि दर्शयति – यद्वै वाङ् नाभविष्यत् इत्यादि । वागिन्द्रियाभावे वेदाध्ययनाद्यभावात् धर्मादिकं विज्ञातञ्च नाभविष्यत् इत्यर्थः । न सत्यं नानृतम् इत्यादि । स्पष्टम् ।। १ ।।

यो वाचं ब्रह्म इत्यादि सर्वं पूर्ववत् ।। २ ।।

 

।। इति द्वितीयखण्डभाष्यम् ।।

 

तृतीयः खण्डः

 

[वागपेक्षया मनसः श्रेष्ठत्वम्]

 

मनो वाव वाचो भूयः यथा द्वे वाऽऽमलके द्वे वा कोले द्व वाऽक्ष मुष्टिरनुभवति, एवं वाचञ्च नाम मनोऽनुभवति यदा मनसा मनस्यतिमन्त्रानघीयेयेति, अथाधीते ; कर्माणि, कुर्वीयेति, अथ कुरुते ; पुत्रांश पशुँश्चेेच्छेयेतिअथेच्छते ; इमञ्च लोकममुञ्चेच्छेयेति, अथेच्छते मनो ह्यात्मा मनो हि लोको मनो हि ब्रह्म मन उपास्वेति ।। ।।

 

यो मनो ब्रह्मेत्युपास्ते, यावन्मनसो गतम्, तत्रास्य यथा कामचारो भवति, यो मनो ब्रह्मेत्युपास्ते । अस्ति भगवो मनसो भूय इति मनसो वाव भूयोऽस्तीति तन्मे भगवान ब्रवीत्विति ।। ।।

 

।। इति तृतीयः खण्डः ।।

 

प्रगुरुराह – मनो वाव इत्यादि । यथा द्वे वा इत्यादि । यथा आमलकफलद्वयं वा कोलफलद्वयं वा विभीतकफलद्वयं वा मुष्टावन्तर्गतं भवति, एवं वाङ्नामनी मनसि अन्तर्गते इत्यर्थः । तदेव उपपादयति – यदा मनसा मनस्यति इत्यादि । : – पुरुष: यदा मनसा ‘मन्त्रान् अधीयीय’, ‘मन्त्रान् उच्चारयेयम्’ इति मनस्यति मनुते, तदनन्तरमेव अधीते । कर्माणि करवाणि इति मननानन्तरमेव कर्माणि कुरुते । पुत्राश्च पयूँश्चेच्छेयम्, इमञ्च लोकं अमुं लोकं च इच्छेयम् इति मत्वा इच्छति । अतश्च मननलक्षणमनोव्यापाराधीनत्वात् वागादिप्रवृत्तेः मनसो भूयस्त्वम् इति भावः । मनोह्यात्मा इत्यादि । मनोऽधीनत्वात् आत्मधर्मभूतकर्तृत्वादेः मनः एव आत्मा । लोकस्यापि मनोव्यापाराधीनत्वात् मनः एव लोकः । वागाद्यपेक्षया बृहत्वात् मनो हि ब्रह्म । मन उपास्वेति । अतस्त्वं मनः उपास्व इत्यर्थः ।। १ ।।

यो मनो ब्रह्म इत्यादि । स्पष्टोऽर्थः ।। २ ।।

 

।। इति तृतयखण्डभाष्यम् ।।

 

चतुथः खण्डः

 

[मनसः सङ्कल्पस्य श्रेष्ठत्वम् ]

सङ्कल्पो वाव मनसो भूयान् यदा वै सङ्कल्पयते, अथ मनस्यति, अथ वाचमीरयति, तामु नामनीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि ।। ।।

 

तानि वा एतानि सङ्कल्पकायनानि सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि । समकॢपतां द्यावापृथिवी, समकल्पेतां वायुश्चाऽऽकाशञ्च, समकल्पन्तामापश्च तेजश्च । तेषाँ सङ्कॢप्त्यै वर्ष सङ्ल्पते वर्षस्य सङ्कॢप्त्या अन्न सङ्कल्पते अन्नस्य सङ्कॢप्त्यै प्राणा: सङ्कल्पन्ते प्राणानाँ कॢप्त्यै मन्त्राः सङ्कल्पन्ते मन्त्राणां सङ्कॢप्त्यै कर्माणि सङ्कल्पन्ते कर्मणाँ सङ्कॢप्त्यै लोकः सङ्कल्पते लोकस्य सङ्कॢप्त्यै सर्वं सङ्कल्पते एष सङ्कल्पः सङ्कल्पमुपास्स्वेति ।। ।।

 

यः सङ्कल्पं ब्रह्मेत्युपास्ते, सङ्कॢप्तान्वै लोकान् ध्रुवान् ध्रुवः, प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानान् अव्यथमानोऽभिसिद्ध्यति यावत् सङ्कल्पस्य गतम्तत्रास्य यथा कामाचारो भवति, यः सङ्कल्पं ब्रह्मेत्युपास्ते अस्ति भगवः सङ्कल्पाद् भूय इति सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।। ।।

 

।। इति चतुर्थः खण्डः ।।

 

प्र. – गुरुराह – सङ्कल्पो वाव इत्यादि । यदा इत्यादि । यदा इदं कर्तुं युक्तमिति सङ्कल्पयति । अथ तदा मनस्यति इदं कर्तव्यमिति मन्यते । ततश्च वागिन्द्रियं प्रेरयति । तच्च वागिन्द्रियं नाम्नि ईरयति । शब्दोच्चारणविषये नियुङ्क्ते इत्यर्थः । शिष्टं स्पष्टम् ।। १ ।।

तानि वा इत्यादि । तान्येतानि नामादीनि सङ्कल्पः एकमयनं मार्गो येषां तानि सङ्कल्पैकायनानि, सङ्कल्पानुसारीणि इति यावत् । सङ्कल्पः आत्मा कर्ता येषाम् तानि सङ्कल्पात्मकानि सङ्कल्पकर्तृकाणि इत्यर्थः । यद्वा सङ्कल्पः ‘आत्मा व्यापको येषाम् तानि सङ्कल्पव्याप्तानि इति यावत् । सङ्कल्पे प्रतिष्ठितानि असति सङ्कल्पे एषां न सत्ता । अतः सङ्कल्पाधीनसत्ताकानि इति यावत् । समकॢपताम् इत्यादि । द्यौश्च पृथिवी च, निश्चलतया वर्तावहे इति सङ्कल्पं कृतवत्यौ इत्यर्थः । तथा वाय्वाकाशादयोऽपि स्वेन रूपेण वर्तामहे इति स्वस्वकार्यश्च करवामहे इति सङ्कल्पं कृतवन्तः इत्यर्थः । तथा सङ्कल्पाभावे तथा प्रवृत्त्यसंभवादिति भावः । तेषाम् इति । अप्तेजोऽधीनत्वात् वर्षणस्य, आपः तेजांसि च सम्यक् कल्पन्ताम् -स्वस्वकार्यसमर्थानि भवन्तु इत्येवं तत्सिद्धये वर्षं सङ्कल्पते इत्यर्थः । वर्षस्य इति । अन्नस्य वर्षाधीनत्वात् अन्नं वर्षसिद्ध्यै सङ्कल्पते इत्यर्थः । अन्नस्य इति । अन्नसमृद्धि प्राणाः सङ्कल्पन्ते इत्यर्थः । प्राणानाम् इति । मन्त्रोच्चारणस्य प्राणायत्तत्वात् मन्त्राः तत्सिद्धिम् आशंसन्ते । मन्त्राणाम् इति अग्निहोत्रादीनां कर्मणां मन्त्रजन्यस्मृत्यधीनानुष्ठानत्वात् इति भावः ।  स्वर्गादिलोकस्य कर्माधीनसिद्धिकत्वात् इति भावः । लोकस्य इति । सर्वप्यापि भूतजातस्य ‘लोककामत्वात् इति भावः । अत्र अचेतनेषु सङ्कल्पकथनं स्तुत्यर्थतया चेतनत्वारोपेण वा तदभिमानिदेवतापरतया वा उपपन्नमिति द्रष्टव्यम् । एष सङ्कल्यः एतादृशमहिमशाली सङ्कल्यः इत्यर्थः । सङ्कल्पमुपास्स्वेति । स्पष्टोऽर्थः ।। २ ।।

यः सङ्कल्पम् इति । सङ् कॢप्तान् इत्यादि । सङ् कॢप्तान् सङ्कल्पसिद्धान् ्रुवान् नित्यान् भोगोपकरणै: प्रतिष्ठितान् । अव्यथमानान् शत्रुपीडादिरहितान् । एतादृशान् लोकान् स्वयमपि ध्रुवत्वप्रतिष्टितत्वाव्यथमानत्वयुक्तस्सन् अभिसिद्ध्यति प्राप्नोति इत्यर्थः । यावत्सङ्कल्पस्य इत्यादि । स्पष्टोऽर्थः ।। ३ ।।

 

।। इति चतुर्थखण्डभाष्यम् ।।

 

पञ्चमः खण्डः

 

[चित्तस्य श्रेष्ठत्वम्]

 

चित्तं वाव सङ्कल्पात् भूयः यदा वै चेतयते, अथ सङ्कल्पयते अथ मनस्यति अथ वाचमीरयति तामु नामनीरयति, नामनि मन्त्रा एकं भवन्तिमन्त्रेषु कर्माणि ।। ।।

 

तानि वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि । तस्माद् यद्यपि बहुवित् अचित्तो भवति, नायमस्तीत्येवनमाहुः, यदयं वेद । यद्वा अयं विद्वान्, नेत्थमचित्त: स्यादिति अथ यद्यल्पविचचित्तवान् भवतितस्मा एवोत शुश्रूषन्ते चित्तँ ह्येवैषामेकायनम्, चित्तमात्मा, चित्तं प्रतिष्ठा । चित्तमुपास्वेति ।। ।।

 

यश्चित्तं ब्रह्मेत्युपास्ते, चित्तान् वै लोकान् ध्रुवान् ध्रुवः, प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानान् अव्यथमानोऽभिसिद्धयतियावच्चित्तस्य गतम्, तत्रास्य यथाकामचारो भवति, यश्चित्तं ब्रह्मेत्युपास्ते । अस्ति भगवश्चित्ताद्भू इति चित्ताद्वा भूयोऽस्तीति तन्मे वान ब्रवीत्विति ।। ।।

 

इति ञ्च: खण्डः ।।

प्र. –चित्तं वाव इत्यादि । ‘अध्यवसायाभिमानचिन्तावृत्तिभेदात् मनः एव बुद्ध्यहङ्कारचित्तशब्दैः व्यपदिश्यते’ इति ‘हस्तादयस्तु स्थितेऽतो नैवम्’ (ब्र.सू.२-४-५) इति सूत्रे भाषितत्वात् प्राप्तकालानुरूपातीतानागतविषयप्रयोजनचिन्तानुरूपप्रवृत्तिविशिष्टं मनश्चित्तम् इत्युच्यते । चेतयति धात्वर्थोऽपि स एव । शिष्टं स्पष्टम् ।। १ ।।

तानि वा एतानि इत्यादि । उक्तोऽर्थः । तस्माद्यद्यपि इत्यादि । बहुशास्रज्ञोऽपि पुमान् विषयप्रयोजननिरूपणलक्षणचित्तहीनो यदा भवेत् तदा लौकिकाः अयं नास्ति, अयं वेदेति यत् तदपि नास्ति इत्येवं ज्ञातारं तदीयं शास्त्रज्ञानञ्च अपलपन्ति इत्यर्थः । किञ्च तत्र युक्तिञ्च वदन्ति । का युक्तिः ? यद्वा अयं इत्यादि । यत् यदि अयं पुमान् विद्वान् वै विद्वानेव स्यात्, तर्हि इत्थमचित्तो न स्यात् । तस्मात् एतस्य शास्त्रज्ञानमेव नास्ति इत्याहुः इत्यर्थः । अथ यद्यल्पविचचित्तवान् इति । यदि अल्पशास्त्रविदपि चित्तवान् भवति तस्मै शुश्रूषन्ते । तद्वाक्यं श्रोतुम् इच्छन्ति जनाः इत्यर्थः । चित्तं होवैषाम् इत्यादि । पूर्ववदर्थः ।। २ ।।

यश्चित्तम् इत्यादि । चित्तान् उपचितान् इत्यर्थः । इतरत् पूर्ववत् ।। ३ ।।

 

।। इति पञ्चमखण्डभाष्यम् ।।

 

षष्ठः खण्डः

[चित्तात् ध्यानस्य श्रेष्ठत्वम् ]

 

ध्यानं वाव चित्तात् भूयः ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षम्, ध्यायतीव द्यौर्ध्यायन्तीवाऽऽपो ध्यायन्तीव पर्वता ध्यायन्तीव देवमनुष्याः

 

तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति, ध्यानापादाँशा इवैव ते भवन्ति अथ येऽल्पाः, कलहिनः पिशुना उपवादिनस्ते अथ ये प्रभवो ध्यानापादाँशा इव ते भवन्ति ध्यानमुपास्स्वेति ।। ।।

 

यो ध्यानं ब्रह्मेत्युपास्ते, यावत् ध्यानस्य गतम्, तत्रास्य यथाकाचार भवति, यो ध्यानं ब्रह्मेत्युपास्ते

 

अस्ति भगवो ध्यानात् भूय इति ध्यानाद्वाव भूयोऽस्तीति तन्मे भगवान ब्रवीत्विति ।। ।।

 

।। इति षष्ठः खण्डः ।।

 

 

प्र. – ध्यानं वाव इत्यादि । ‘ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितमेकचिन्तनम्’ इति ‘ध्यानाच्च‘ (ब्र.सू.-४-१-८) इति सूत्रे भाषितम् । यथा योगी ध्यायन् निश्चलो भवति, एवं पृथिव्यादयोऽपि ध्यानलक्षणस्वमाहात्म्यप्रख्यापनायेव निश्चलाः सन्तः ध्यानम् अभिनयन्ति । अत: ध्यानं माहात्म्यहेतुः इत्यर्थः । सूत्रितञ्च, ‘अचलत्वञ्चापेक्ष्य’ (ब्र.सू.४-१-९) इति । तत्र हि तिष्ठन् आसीनः शयानो वा ध्यानमनुतिष्ठेत् , विशेषाभावादिति प्राप्ते  अभिधीयते – ‘आसीनः सम्भवात्’ । (ब्र.सू. ४-१-७) आसीन: उपासनमनुतिष्ठेत् । कृतः ? सम्भवात् । आसीनस्यैव हि ‘एकाग्रचित्तता’ सम्भवति । स्थितिगत्योः प्रयत्नसापेक्षत्वात् शयने च निद्रासम्भवात् । ‘ध्यानाञ्च’ (ब्र.सू.४-१-८) विजातीयप्रत्ययान्तराव्यवहितचिन्ता- लक्षणध्यानलक्षणत्वात् उपासनस्य, तत्र च चित्तैकाग्र्यावश्यंभावेन, तत्सिद्धये आसीनत्वस्य आपेक्षितत्वाच्च । ‘अचलत्वञ्चापेक्ष्य’ (ब्र.सू.४-१-९) । निश्चलत्वरूपं सादृश्यमपेक्ष्य ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षम् इत्यादौ ध्यायति शब्दप्रयोगदर्शनात् ध्यातुः निश्चलत्वस्य अपेक्षितत्वात् , आसीनस्यैव च निश्चलत्वसम्भवात् आसीनस्यैव उपासनम् इत्यर्थः । ‘स्मरन्ति च’ (ब्र.सू.४-१-१०) ‘उपविश्याऽऽसने युञ्ज्याद्योगमात्मविशुद्धये’ (भ.गी.६-१२) इति ध्यानाङ्गतया आसीनता स्मर्यते । अतः ध्याने चित्तैकाग्र्यस्य अत्यावश्यकत्वात् तदर्थम् आसीनत्वम् अपेक्षितम् ।

‘यत्रैकाग्रता तत्राविशेषात्’ । (ब्र.सू.४-१-११) यत एव चित्तैकाग्र्यं प्रधानहेतुः, अत एव यस्मिन् देशे चित्तैकाग्र्यं भवति, स एव देशोऽपेक्षितः । ‘समे शुचौ शर्क रावह्निवालु काविवर्जिते’ (श्वे.उ.२-१०) इत्यादिदेशविशेषनियमस्यापि चित्तैकाग्र्यसिद्ध्यर्थत्वात् चित्तैकाग्र्यविरोधे सोऽपि नादर्तव्यः इत्यर्थः इति स्थितम् । प्रकृतमनुसरामः ।

तस्माद्य इह इत्यादि । ध्यानमापन्नाः ध्यानापादाः । ये मनुष्याणां मध्ये धनादिभिः महान्तः ते, ध्यानापादानां ध्यातॄणाम् अंशा इव सदृशा इव भवन्ति । यथा ध्यातारोऽवचनाः, एवं महान्तोऽपि अवचनतया ध्यातृसादृश्यं प्रतिपद्यन्ते इत्यर्थः । तन्न्यूनत्वे सति तत्सदृशत्वं तदंशत्वम् । महान्तोऽपि मनुष्याः यतः ध्यातॄणाम् अंशाः अतः ध्यानं श्रेष्ठम् इत्यर्थः । अथ येऽल्पाः इति । ये अल्पाः – क्षुद्राः, ते कलहिन: – कलहशीलाः । पिशुनाः परदोषोद्भावकाः, उपवादिनः परेषां समीपे तद्दोषवदनशीलाः । वाचाटा: भवन्ति, न तु ध्यातृसादृश्यलेशमपि प्रतिपद्यन्ते इत्यर्थः । अथ ये प्रभवो इत्यादि । ये तु प्रभवः महान्तः ते अजल्पकाः सन्तः ध्यातृसदृशाः भवन्ति । अतो ध्यानम् उपास्स्व इत्यर्थः ।। १ ।।

यो ध्यानम् इत्यादि । सर्वं पूर्ववत् ।। २ ।।

 

।। इति षष्ठखण्डभाष्यम् ।।

 

सप्तमः खण्डः

 

[ध्यानात् विज्ञानस्य श्रेष्ठत्वम्]

 

विज्ञानं वाव ध्यानात् भूयः विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेर्दै  सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्य राशिं देवं निधिँ वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षुत्रविद्यां नक्षत्रविद्याँ सर्पदेवजनविद्याम् दिवञ्च पृथिवीञ्च वायुञ्चाकाशञ्चापश्च तेजश्च देवाश्च मनुष्याँश्च वयाँसि तृणवनस्पतीन् श्वापदानि आकीटपतङ्गपिपीलिकं धर्मञ्चाधर्मञ्च सत्यञ्चानृतञ्च साधु चासाधु हृदयज्ञञ्चाहृदयज्ञञ्चान्नञ्च रसञ्चेमञ्च लोकममुञ्च विज्ञानेनैव विजानाति विज्ञानमुपास्स्वेति ।। ।।

 

यो विज्ञानं ब्रह्मेत्युपास्ते, विज्ञानवतो लोकान् ज्ञानवतोऽभिसिद्ध्यति यावद्विज्ञानस्य गतम्, तत्रास्य यथाकामचारो भवति, यो विज्ञानं ब्रह्मेत्युपास्ते । अस्ति भगवो विज्ञानाद्भूय इति विज्ञानाद्वाव भूयोऽस्तीति तन्में भगवान् ब्रवीत्विति ।। ।।

 

।। इति सप्तमः खण्डः ।।

प्र. – विज्ञानं वाव इत्यादि । प्रमाणजन्यज्ञानरूपस्य विज्ञानस्य स्मृतिसन्ततिलक्षणं ध्यानं प्रति हेतुत्वात् ततो भूयस्त्वं द्रष्टव्यम् । शिष्टं पूर्ववत् ।। १ ।।

यो विज्ञानम् इत्यादि । ज्ञानविज्ञानशब्दयोः सामान्यविशेषरूपत्वात् विज्ञानवतो ज्ञानवतो लोकान् इत्युपपत्तिः । शिष्टं स्पष्टम् ।। २ ।।

 

।। इति सप्तमखण्डभाष्यम् ।।

 

अष्टमः खण्डः

[विज्ञानात् बलस्य श्रेष्ठत्वम्]

 

बलं वाव विज्ञानाद्भूयः अपि शतं विज्ञानवतामेको बलवानाकम्पयते स यदा बली भवति, अथोत्थाता भवति, उत्तिष्ठन् परिचरिता भवति ; परिचरन्नुपसत्ता भवति ; उपसीदन् द्रष्टा भवति, श्रोता भवति, मन्ता भवति बोद्धा भवति, कर्ता भवति, विज्ञाता भवति बलेन वै पृथिवी तिष्ठति, बलेनान्तरिक्षम्, बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयाँसि तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकं बलेन लोकस्तिष्ठति बलमुपास्स्वेति ।। ।।

 

यो बलं ब्रह्मेत्युपास्ते, यावद्वलस्य गतम् तत्रास्य यथाकामचारो भवतियो बलं ब्रह्मेत्युपास्ते । अस्ति भगवो बलाद्भूय इति बलाद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।।

 

।। इति अष्टमः खण्डः ।।

प्र.बलं वाव विज्ञानात् इत्यादि । एको हि बलवान् हस्ती विज्ञानवतां मनुष्याणां शतमपि आकम्पयते । किञ्च सति बले गुर्वादिषु दृष्टेषु अभ्युत्थानम् ‘उपचर्या’, उपसदन, श्रवण-मनन-निदिध्यासनसाक्षात्काराः कर्मविषयकतृत्वं कृतविषयकज्ञानम् इत्येतत् सर्वं बले सत्येव भवति । अत: विज्ञानापेक्षया बलमेव भूयः इत्यर्थः । बलेन इत्यादि । स्पष्टम् ॥१॥

यो बलम् इत्यादि । स्पष्टोऽर्थः ॥२॥

 

।। इति अष्टमखण्डभाष्यम् ।।

 

नवमः खण्डः

[बलात् अन्नस्य श्रेष्ठत्वम्]

 

अन्नं वाव बलाद्भूयः तस्माद् यद्यपि दशरात्रीर्नाश्नीयात्, यद्युह जीवेत् अथवा, अद्रष्टाऽश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता भवति अथान्नस्याऽऽये द्रष्टा भवति, श्रोता भवति, मन्ता भवति, बोद्धा भवति, कर्ता भवति, विज्ञाता भवति अन्नमुपास्स्वेति ।। ।।

 

योऽन्नं ब्रह्मेत्युपास्ते, अन्नवतो वै लोकान् पानवतोऽभिसिद्ध्यतियावदन्नस्य गतम् तत्रास्य यथाकामचारो भवति, योऽन्नं ब्रह्मेत्युपास्ते । अस्ति भगवोऽन्नाद् भूय इति अन्नाद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।। ।।

 

।। इति नवमः खण्डः ।।

 

्रअन्नं वाव इत्यादि । बलसंपादकत्वात्  अन्नमेव बलात् यः । अत एव यदि कश्चित्  पुमान्  दशरात्रीर्नाश्रीयात् तर्हि बलहान्या म्रियते एव । अथवा यदि कश्चित् ‘जीवेत् तर्हि दृष्टत्वश्रोतृत्वादिरहि: एवं भवेत् । द्रष्टा अश्रोता इति छेद: । अथान्नस्य इत्यादि। अन्नस्य आये लाभे सति । अन्नस्याये इति पाठे छान्दस: एकारस्य ऐकार:। । अन्नस्यायीति पाठेऽपि आय: लाभ:। अन्नस्यायी लब्धवान्  इत्यर्थः । अतश्च अन्वयव्यतिरेकाभ्यां अन्नस्यैव बलादिहेतुत्वदर्शनात् इति भावः । शिष्टं स्पष्टम्  ।। १।।

योऽन्नं ब्र्मेत्युपास्ते इत्यादि । पानवत: पेयप्रचुरान् इत्यर्थः । शिष्टं स्पष्टम् ।। २ ।।

।। इति नवमखण्डभाष्यम् ।।

 

दशमः खण्डः

 

[अपां श्रेष्ठत्वम् ]

 

आपो वा अन्नाद् भूयस्यः तस्माद् यदा सुवृष्टिर्न भवति, व्याधीयन्ते प्राणाः, अन्नं कनीयो भविष्यतीति अथ यदा सुवृष्टिर्भवति, आनन्दिनः प्राणा भवन्ति, अन्नं बहु भविष्यतीति आप एवेमा मूर्ताः येयं पृथिवी, यदन्तरिक्षम्यद् द्यौः, यत् पर्वताः, यद्देवमनुष्याः, यत् पशवश्च वयाँसि : तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलिकमाप एवेमा मूर्ताः अप उपास्स्वेति ।। ।।

 

योऽपो ब्रह्मेत्युपास्ते, आप्नोति सर्वान् कामास्तृप्तिमान् भवति, यावदपां गतम्, तत्रास्य यथाकामचारो भवति, योऽपो ब्रह्मेत्युपास्ते । अस्ति भगवोऽद्भ्यो भुय इति द्भ्यो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।।।।

 

इति दशमः खण्डः ।।

प्र. आपो वा अन्नात् इत्यादि । यस्मिन् काले शोभना वृष्टिः न भवति तदा अन्नं कनीयः अल्पं भविष्यति इति प्राणाः प्राणिनः व्याधीयन्ते दुःखिनः भवन्ति । यदा शोभना वृष्टिः भवति, तदा अन्नं बहु भविष्यति इति आनन्दिन: हृष्टा: भवन्ति । आप एवेमा मूर्ताःइमा: वक्ष्यमाणाः, मूर्ताः – भूतिभेदाकारपरिणता: पृथिवी अन्तरिक्षादि कीटपतङ्गापिपीलिकान्ता: आप एव इत्यर्थः । शिष्टं स्पष्टम् ॥ १॥

योऽपो इत्यादि । अपाम् उपासकस्य कामानाम् अप्तिः युक्ता एवेति भावः । शिष्टं पूर्ववत् ।।२।।

 

।। इति दशमखण्डभाष्यम् ।।

 

एकादशः खण्डः

[अभ्द्यः तेजसः श्रेष्ठत्वम् ]

 

तेजो वा अभ्द्यो भूयः तद्वा एतद्वायुमागृह्याऽऽकाशम् अभितपति तदाहुःनिशोचति, नितपति, वर्षिष्यति वा इति तेज एव तत् पूर्वं दर्शयित्वाऽथापसृजते तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिर्हादाश्चरन्ति तस्मादाहुःविद्योततेस्तनयति, वर्षिष्यति वा इति तेज एव तत् पूर्वं दर्शयित्वाऽथापः सृजते तेज उपास्स्वेति ।।।।

 

यस्तेजो ब्रह्मेत्युपास्ते ; तेजस्वी वै तेजस्वतो लोकान् भास्वतोऽपहततमस्कान् अभिसिद्ध्यति, यावत् तेजसो गतम्, तत्रास्य यथाकामचारो भवति, यस्तेजो ब्रह्मेत्युपास्ते

 

अस्ति भगवस्तेजसो भूय इति तेजसो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।। ।।

 

।। इति एकादशः खण्डः ।।

प्र. – तेजो वा अभ्द्यो इत्यादि । तेजसोऽष्कारणत्वात् तेज एवाभ्द्यो भूयः । तत् तस्मात् अप्कारणत्वादेव हेतोः एतत् तेजः यदा वायुं स्वात्मना आगृह्य निश्चलीकृत्य आकाशम् अभिव्याप्य तपति तदा लौकिकाः तेजः कर्तृ, जगत् निशोचतिनितरां शोचति । नितपति – नितरां तपति च । तस्मात् अवश्यं वर्षिष्यति इत्याहुः । तेजसः अप्कारणत्वादेव तत् तेजः प्रथमतः स्वात्मानं दर्शयित्वा पश्चादपः सृजते इत्यर्थः तदेतदूर्वाभिक्ष इत्यादि । तत् – तस्मादेव । तेजसः अप्कारणत्वात् एतत् एतस्मिन्नपि काले ऊर्ध्वगताभिः तिर्यग्गताभिक्ष विद्युद्भि: ह्रादाः स्तनयित्नुशब्दाः चरन्ति । तद्दर्शनादेव लौकिकाः विद्योतते, स्तनयति, वर्षिष्यति, वा इति वदन्ति इत्यर्थः । अत एव कारणभूतं तत्तेजः स्वात्मानं प्रथमतो दर्शयित्वाऽथापः सृजते । अतः पूर्वोक्तानां भूयसीनाम् अपामपि कारणं तेज उपास्स्व इत्यर्थः ।। १ ।।

यस्तेजो ब्रह्मेति इत्यादि । तेजस्वित्वादेव लोकानां तत्कार्य प्रकाशवत्त्वलक्षणं भास्वत्त्वम्, बाह्याभ्यन्तरान्धकारशून्यत्वरूपं अपहततमस्कत्वं च तादृशो लोकान् स्वयमपि तेजस्वी सन् आप्नोति इत्यर्थः । शिष्टं स्पष्टम् ।। २ ।।

 

इति एकादशखण्डभाष्यम् ।।

 

द्वादशः खण्डः

 

[तेजसः आकाशस्य श्रेष्ठत्वम्]

 

आकाशो वाव तेजसो भूयान् आकाशे सूर्याचन्द्रमसावुभ विद्युन्नक्षत्राण्यग्नि: आकाशेनाऽऽहवयति, आकाशेन शृणोति, आकाशेन प्रतिशृणोतिआकाशे रमते, आकाशे रमते, आकाशे जायते, आकाशमभिजायते । आकाशमुपास्स्वेति

 

आकाशं ब्रह्मेत्युपास्ते, आकाशवतो वै लोकान् प्रकाशवतोऽसम्बाधान् उरुगायवतोऽभिसिद्धयति यावदाकाशस्य गतम् तत्रास्य यथाकामचारो भवति आकाशं ब्रह्मेत्युपास्ते।

 

अस्ति भगव आकाशद्भू इति आकाशाद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति

 

इति द्वादशः खण्डः

प्र.-आकाशो वाव इत्यादि । पूर्वखण्डोक्तयोः तेजोवाय्वोः हि आकाशः कारणम् । अतः आकाशस्य तेजोवाय्वपेक्षया भूयस्त्वम् । अत एव आदित्यादि-ज्योतिर्मण्डलम् आकाशाश्रितम् आकाशान्तर्वर्ति । आह्वानश्रवणप्रतिश्रवणानि अपि आकाशसाध्यानि । रममाणोऽपि जनः अकाशे । शोचन्नपि जन आकाशे । जायमानोऽपि अङ्कुरादिः आकाशादिलक्षणम् अवकाशम् अभिलक्ष्य प्रतीक्ष्यैव जायते । अत: आकाशम् उपास्स्व इत्यर्थः ।। १ ।।

आकाशम् इत्यादि । आकाशवतः विस्तारयुक्तान् । अत एव असंबाधान् अन्योन्यपीडालक्षणसम्बाधशून्यान् । प्रकाशवत: तेजस्विनः । उरुगायवत: – कीर्तिमतः लोकान् प्राप्नोति इत्यर्थः । शिष्टं पूर्ववत् ।। २ ।।

 

इति द्वादशखण्डभाष्यम् ।।

 

त्रयोदशः खण्डः

 

[आकाशात् स्मृतेः श्रेष्ठत्वम्]

 

स्मरो वा आकाशाद् भूयः तस्माद् यद्यपि बहव आसीरन् अस्मरन्तःनैव ते ञ्च शृणुयुः, मन्वीरन्, विजानीरन्, यदा वाव ते स्मरेयुः, अथ शृणुयुः, अथ मन्चीरन्, अथ विजानीरन् स्मरेण वै पुत्रान् विजानातिस्मरेण पशून् स्मरमुपास्स्वेति ।।।।

 

यः स्मरं ब्रह्मेत्युपास्ते, यावत् स्मरस्य गतम् तत्रास्य यथाकामचारां भवति, यः स्मरं ब्रह्मेत्युपास्ते

 

अस्ति भगवः स्मराद् भूय इति स्मराद्वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति ।। ।।

 

।। इति त्रयोदशः खण्डः ।।

 

प्र. – स्मरो वा आकाशाद्भूय इति । भूयः इति लिङ्गव्यत्ययः छान्दसः । तस्माद्यद्यपि इत्यादि । स्मरणशून्या एकत्र बहवः आसीनाः अपि न श्रवणादिकार्यसमर्थाः । सति तु ‘शक्त्यादि स्मरणे श्रवणादिकार्यसमर्थाः भवन्ति । अतः आकाशकार्यस्य श्रवणादे: स्मरणाधीनत्वात् तस्य आकाशात् भूयस्त्वम् इति भावः । किञ्च स्मरेण वै इत्यादि । स्मरणशून्यस्य न पुत्रपश्वादिज्ञानम् इत्यतः स्मरणम् उपास्स्व इत्यर्थः ।। १ ।।

यः स्मरं ब्रह्म इत्यादि । सर्वं पूर्ववत् ।। २ ।।

 

।। इति प्रयोदशखण्डभाष्यम् ।।

 

चतुर्दशः खण्डः

 

[स्मृतेः आशायाः श्रेष्ठत्वम्]

 

आशा वाव स्मराद् भूयसी आशयेद्वो वै स्मरो मन्त्रानधीते, कर्माणि कुरुते, पुत्रौंश पशूँश्चेच्छते, इमञ्च लोकममुञ्चेच्छते आशामुपास्वेति ।।।।

 

आशां ब्रह्मेत्युपास्ते, आशयाऽस्य सर्वे कामाः समृद्ध्यन्ति ; अमोघा ह्यस्याशिषोभवन्ति, यावदाशाया गतम् तत्रास्य यथाकामचारो भवति, य आशां ब्रह्मेत्युपास्ते । अस्ति भगव आशाया भूय इति आशाया वा भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति

प्र. – आशा वाव स्मरात् इत्यादि । आशया फलेच्छया इत्यर्थः । तया इद्धदीपितः उत्पादितः स्मरः इष्टसाधनत्वादिविषयकं स्मरणं अध्ययनकर्मानुष्ठानादिहेतुः भवति इत्यर्थः । किञ्च फलाशायत्ता एव पुत्रपश्वादि-इहलोकपरलोकवाञ्छा । अतः आशायाः भूयस्त्वम् इत्यर्थः ॥ १ ॥

आशाम् इत्यादि । आशया उपासितया सर्वे कामाः समृद्धाः भवन्ति आशाश्च अस्य सर्वाः अमोघाः सफलाः भवन्ति इत्यर्थः । यावदाशाया इत्यादि स्पष्टोऽर्थः ॥ २ ॥

 

।। इति चतुर्दशखण्डभाष्यम् ।।

 

पञ्चदशः खण्डः

 

[आशाया जीवात्मनः श्रेष्ठत्वम् ]

 

प्राणो वावआशाया भूयान् यथा वा अरा नाभ समर्पिताः, एवम् अस्मिन् प्राणे सर्व समर्पितम् प्राणः, प्राणेन याति प्राणः प्राणं ददातिप्राणाय ददाति प्राणो पिता, प्राणो माता, प्राणो भ्राता, प्राणः स्वसा, प्राण आचार्यः, प्राणो ब्राह्मणः ।। ।।

 

यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाऽऽचार्यं वा ब्राह्मणं वा किञ्चित् भृशमिव प्रत्याह, धिक् त्वाऽस्त्वित्येवैनमाहुः, पितृहा वै त्वमसि, मातृहा वै त्वमसि, भ्रातृहा वै त्वमसि, स्वसृहा वै त्वमसि, आचार्यहा वै त्वमसि, ब्राह्मणहा  त्वमसीति ।। ।।

 

अथ यद्यप्येनान् उत्क्रान्तप्राणान् शूलेन समासं व्यतिसन्दहेत्, नैवैनं ब्रूयुः पितृहाऽसीति, मातृहाऽसीति, भ्रातृहाऽसीति, स्वसृहाऽसीतिनाचार्यहाऽसीति, ब्राह्मणहाऽसीति ।। ।।

 

प्राणो ्यैवैतानि सर्वाणि भवति वा एष एवं पश्यन् एवं मन्वान एवं विजानन् अतिवादी भवति तञ्चेत् ब्रूयुः अतिवाद्यसीति, अतिवाद्यस्मीति ब्रूयात् ; नापह्नुवीत ।। ।।

 

।। इति पञ्चदशः खण्डः ।।

प्र.प्राणो वाव आशाया भूयान् । अत्र प्राणशब्देन प्राणसहचरितो जीवो लक्ष्यते । तत्र च हेतुः उत्तरत्र वक्ष्यते । यथा वा अरा नाभ इत्यादि । यथा रथचक्रस्य अराः ‘नाभ्याश्रिताः’, एवं समस्तम् अचेतनं भूतजातम् एतच्चेतनाश्रितम् इत्यर्थः । ‘भूतमात्राः प्रज्ञामात्रास्वर्पिताः’ (कौ.उ.३-८) इति श्रुत्यन्तरात् । प्राणाप्राणेन इत्यादि । गन्ता देवदत्तादिरपि जीवः एव । गमनकरण मश्वादिरपि जीवः एव । दाताऽपि जीवः एव । देयो गवादिरपि जीवः एव । सम्प्रदानभूतब्राह्मणादिरपि जीव: एव इत्यर्थः । प्राणो पिता इत्यादि । पित्रादिरपि जीवः इति प्रसिद्धः एव इत्यर्थः ।। १ ।।

ननु परिदृश्यमानमांसपिण्डविशेषाः एव पित्रादिशब्दवाच्याः, न तु जीवाः इति मन्वानं प्रत्याह- यदि पितरम् इत्यादि । सजीवेषु पित्रादिशरीरेषु धिक्त्वाम् इत्येव किञचित् भृशम् अधिक्षिपति पुरुषे पितृहा इत्यादिशब्दान् प्रयुञ्जते इत्यर्थः ।। २ ।।

अथ यद्यपि इत्यादि । अथ तेष्वेव शरीरेषु उत्क्रान्तजीवेषु सत्सु तान् शूलेन समासं – संपूर्वात् क्षेपार्थात् अस्यतेः णमुलन्तोऽयं शब्दः । शूलेन सम्यक् ‘प्रक्षिप्य’ व्यत्यस्य सम्यक् दहत्यपि पुरुषे पितृहा इत्यादिशब्दाः न प्रयुज्यन्ते इत्यर्थः ।। ३ ।।

प्राणो ह्येवैतानि इति । अतः सजीवेषु पित्रादिषु हिंसितेषु पितृहा इत्यादिशब्दप्रयोगात् निर्जीवेषु अप्रयोगाच्च निर्जीवस्य शरीरस्य पित्रादित्वाभावस्य सिद्धत्वात् जीवः एव पित्रादिः भवति इत्यर्थः । भगवता भाष्यकृता – ‘प्राणशब्दनिर्दिष्टः प्राणसहचारी प्रत्यगात्मा न वायुविशेषमात्रम्’ । ‘प्राणो ह पिता प्राणो माता’ इत्यादयः प्राणस्य चेतनताम् अवगमयन्ति । पितृहा मातृहा इत्यादिना सः प्राणेषु पितृप्रभृतिषु उपमर्दकारिणि हिंसकत्वादिनिमित्तोपक्रोशवचनात्, तेष्वेव विगतप्राणेषु अत्यन्तोपमर्दकारिणि उपक्रोशाभावाच्च, हिंसायोग्य: चेतनः एव प्राणशब्दनिर्दिष्टः । अप्राणेषु स्थावरेष्वपि चेतनेषु उपमर्दभावाभावयोः हिंसातदभावदर्शनात् हिंसायोग्यतया निर्दिष्टः प्राणः प्रत्यगात्मा एव इति निश्चीयते । अत एव च अरनाभिदृष्टान्ताद्युपन्यासेन प्राणशब्दनिर्दिष्टः परः इति न भ्रमितव्यम् । परस्य हिंसाप्रसङ्गाभावात् , जीवादितरस्य भोग्यभोगोपकरणस्य कृत्स्नस्य अचिद्वस्तुनः जीवायत्तस्थितित्वेन प्रत्यगात्मनि एव अरनाभिदृष्टान्तोपपत्तेश्च’ इति भाषितम् ।

यद्यपि, ‘नायं हन्ति न हन्यते’ (भ.गी.२-१९) इति निर्दिष्टस्य जीवस्य स्वतः हिंसायोग्यत्वाभावेऽपि देहादिसाहित्यप्रयुक्तहिंस्यत्ववत् मुख्यस्य प्राणस्यापि हिंस्यत्वं सुवचम् । स्थावरहिंसास्थलेऽपि ‘भेदश्रुतेर्वलक्षण्यच्च‘ (ब्र.सू.२-४-१६) इति सूत्रभाष्योक्तरीत्या स्थावरेषु प्राणस्य पञ्चधाऽवस्थाय शरीरधारणाभावेऽपि प्राणसद्भाव: अस्ति इति ‘न तु दृष्टान्तभावात्’ (ब्र.सू.२-१-९) इति सूत्रे भाषितत्वेन प्राणस्य सद्भावात् हिंसादिवचनम् उपपद्यते एव । तथाऽपि, प्राणो पिता इत्यादिवाक्यनिर्दिष्टानां जीववाचितया लोके प्रसिद्धानां बहूनां पित्रादिशब्दानां गौणत्वकल्पनापेक्षया एकस्य प्राणशब्दस्यैव जीवत्व माश्रयणीयम् इति भाष्यकाराभिप्राय: । अत एव वृत्तिकृता भगवता बोधायनेनापि, ‘भूमा सम्प्रसादादध्युपदेशात्’ (ब्र.सू.१-३-७) इति सूत्रव्याख्याने ‘प्रत्यगात्मनः ऊर्ध्वमुपदेशात्’ इत्येवोक्तम्, न तु मुख्यप्राणादूर्ध्वम् इति । वेदनाजनक-व्यापारलक्षणहिंसाया: वेदनाशून्ये अचेतने असम्भवाच्च

वा एष एवम् इत्यादि । पूर्ववाक्ये प्राणशब्दनिर्दिष्टः स वा एषः जीवः स्वात्मानम् उक्तेन प्रकारेण मननविषयीकुर्वन् विजानन् – उपासीनश्च सन्, तेन प्रकारेण पश्यन् – साक्षात्कुर्वन् अतिवादी भवतिअतिक्रान्तस्वोपास्यवस्तुवादी भवति । स्वोपास्यवस्तुनः सर्वोत्कृष्टत्ववादी भवति इत्यर्थः । बृहस्पतिसमप्रत्यर्थिजनाप्रतिभाधायकस्वोपास्यदेवतापारम्यवादशीलत्वं अतिवादित्वम् । तच्चोपास्यदेवतातिशये पर्यवस्यति । ‘एवं पश्यन्नेवं मन्वानः’ इत्यादौ, ‘लक्षणहेत्वोः क्रियायाः’ (पा.सू.३-२-१२६) इति हेत्वर्थे शतृप्रत्ययः । ततश्च स्वोपास्यदेवतासाक्षात्कारः अतिवादित्वे हेतुः इत्यर्थः साक्षात्कारप्रीतस्वोपास्यदेवतानुग्रहात् ईदृशमतिवादित्वं भवति इति भावः । अत्र ‘स वा एष एवं पश्यन्नेवं मन्वान’ इति वाक्येन पूर्वसन्दर्भनिर्दिष्टप्राणस्य द्रष्टत्व-मन्तृत्वादिकथनादपि प्राणशब्दनिर्दिष्टो जीवः इति अवसीयते, प्राणशब्दनिर्दिष्टस्य जीवत्वज्ञापनायैव स वा एष इति पदयोः प्रवृत्तेरिति द्रष्टव्यम् । तं चेत् ब्रूयुः इत्यादि प्राणशब्दितस्य जीवस्य पूर्वोक्तनामाद्याशान्तसर्वातिशायित्वादेव अतिवादित्वं नापह्नोतव्यम् इति भावः ।। ४ ।।

 

इति ञ्चदशखण्डभाष्यम् ।।

 

षोडशः खण्डः

 

[जीवात्याला परमात्मनः श्रेष्ठत्वम्]

 

एष तु वा अतिवदति, यः सत्येनातिवदति सोऽहं भगवः सत्येनातिवदानीति । सत्य त्वे विजिज्ञासितव्यमिति सत्यं भगवो विजिज्ञास इति ।। ।।

प्र-अत्र पूर्वपर्यायेषु अनुक्तस्य अतिवादित्वस्य कथनात् प्रक्रान्तात्मोपदेश: प्राणशब्दिते प्रत्यगात्मनि पर्यवसन्नः इति प्राणाद्वाय भूयोऽस्तीति पुनः अपृच्छत्येव नारदे सनत्कुमारः स्वयमेव ततोऽप्यतिशयितं परमात्मानम् उपक्षिपति – एष तु वा इत्यादि । तुशब्दो विशेषादर्शकः । तस्य ह वा एतस्य ब्रह्मणोनाम सत्यमिति’ (छां.उ. ८.३.४) इति दहरविद्यायां वक्ष्यमाणत्वात् ‘सत्यशब्दस्य’ ब्रह्मणि प्रसिद्धेः सत्यशब्दो ब्रह्मपरः ।

तस्य सततैकरूपत्वेन निर्विकारत्वात् सत्यत्वम् । तेन ब्रह्मणा निमित्तेन यः अतिवदति एषोऽतिवादी पूर्वस्मात् प्राणातिवादिनो विशिष्टः इत्यर्थः । अत्र भाष्यकृता, सत्येनेति इत्थंभूतलक्षणे तृतीया । सत्येन परेण ब्रह्मणा उपास्येन उपलक्षितो योऽतिवदति इत्यर्थः’ इति इत्थंभूतलक्षणे तृतीया कण्ठतः प्रतिपादिता । ‘अतिवाद्यन्तरत्वनिमित्त सत्यशब्दाभिधेयञ्च पर ब्रह्म प्रतीयते’ इति भाष्यवाक्यात् निमित्तार्थकत्वमपि तृतीयायाः सूचितम् । ततश्च निमित्तस्य करणत्वविवक्षया कारकविभक्तित्वमपि भाष्यकृदभिमतमेव इति द्रष्टव्यम् । सत्यातिवादिनः प्राणातिवाद्यपेक्षया अतिशयकथनात् सत्यशब्दनिर्दिष्टस्य परस्य ब्रह्मणः प्राणशब्दनिर्दिष्टजीवापेक्षया भूयस्त्वम् उक्तं भवति । न च पूर्वप्रस्तुतप्राणातिवादिनः ‘एव एष तु वा अग्निहोत्रीयः सत्यं वदति’ इत्यादाविव सत्यवदनम् अङ्गतया विधीयताम् इति वाच्यम् । ‘एष तु वा अग्निहोत्री’ इति वाक्ये द्रव्यदेवतान्तराभावेन अग्निहोत्रान्तराप्रतीतेः ‘तुशब्दस्वारस्यभङ्गः । इह तु प्रकृतातिवादनिमित्तप्राणव्यतिरिक्तस्य सत्यशब्दितस्य ब्रह्मणो निमित्तान्तरस्य प्रतीतेः न तत् स्वारस्यभङ्गो युक्तः । किञ्च सत्यवदनस्य अङ्गतया विधाने सत्यं वदति इति निर्देशस्य युक्ततया सत्येन इति तृतीयायाः अति इत्युपसर्गस्य च अयोगादिति द्रष्टव्यम् । सोऽहं भगवः इत्यादि । ब्रह्मणा अतिवदानि इति शिष्यः प्रार्थयामास इत्यर्थः । इतरः आह सत्यं त्वेव इति । यदि सत्यशब्दितब्रह्मनिमित्तकातिवादिताम् अभिलषसि तर्हि ब्रह्म उपास्यम् इत्यर्थः । ब्रह्मोपासनम् अतिवादित्वहेतुरिति यावत् । शिष्यः तदभ्युपगच्छति सत्यं भगवो विजिज्ञासे इति । विजिज्ञासे उपासनां करोमि इत्यर्थः ।।

 

।। इति षोडशखण्डभाष्यम् ।।

 

सप्तदशः खण्डः

[विज्ञानस्यावश्यकता]

 

यदा वै विजानाति, अथ सत्यं वदति नाविजानन् सत्यं वदति । विजानननेव सत्यं वदति विज्ञानं त्वेव विजिज्ञासितव्यमिति विज्ञानं भगवो विजिज्ञास इति ।। ।।

 

।। इति सप्तदशः खण्डः ।।

प्र.ब्रह्मोपासनस्य अतिवादहेतुत्वं ब्रह्मसाक्षात्कारद्वारा इत्याह-यदा वै विजानात्यथ इति । अत्र विजानातिशब्दः साक्षात्कारपरः । यदा साक्षात्करोति तदा सत्यं वदति – सत्येन अतिवदति इत्यर्थः । पूर्वत्र ‘सत्येनातिवदानि’ इति निर्दिष्टत्वात्, सत्यशब्दितस्य ब्रह्मणोऽतिवदनं प्रति निमित्तत्वेन करणत्वविवक्षया ‘तृतीयाया’ वदनं प्रति कर्मतया द्वितीयायाः अभ्युपपत्तेः । स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति’ इति साक्षात्कारमननोपासनानाम् अतिवादित्वनिमित्ततया पूर्वोक्तत्वात् , ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इति उपासनस्योक्तत्वात् , ‘मतिस्त्वेव विजिज्ञासितव्या’ (छां.उ.७-१८-१) इति मननस्य वक्ष्यमाणत्वात्, अत्र विजानाति इत्यनेन साक्षात्कारः एव उच्यते । उक्तञ्च व्यासार्यै: – ‘विजानातिशब्दः साक्षात्कारपरः, न तु शास्त्रजन्यज्ञानपरः । ‘यदा वै मनुतेऽथ विजानाति’ (छां.उ.७-१८-१) इति विजानात्यर्थस्य मननसाध्यत्वावगमात् । सत्यं वदति सत्यम् अतिवदति इत्यर्थः’ इति । नाविजानन् सत्यं वदति इत्यादि । साक्षात्काराभावेन अतिवादित्वम् । अत: साक्षात्काररूपं विज्ञानं विजिज्ञासितव्यम् संपाद्यम् इत्यर्थः ।

पाकं पचति इतिवत् विज्ञानं विजिज्ञासितव्यम् इति निर्देशः । उत्तरत्रापि विजिज्ञासितव्यपदस्य सम्पाद्यत्वमेवार्थः । उक्तञ्च व्यासार्यै: – ‘सत्यव्यतिरिक्तविषयाणि विजिज्ञासितव्यपदानि सम्पाद्यवाचीनि’ इति । शिष्यः तदभ्युपगच्छति – विज्ञानं भगवो विजिज्ञासे इति । हे भगवन् ! अतिवादित्वनिमित्तं साक्षात्कारं संपादयामि इत्यर्थः । पूर्वखण्डे – ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इति ब्रह्मोपासनस्य अतिवादित्वहेतुत्वकथनात्, अत्र च वाक्ये साक्षात्कारस्य अतिवदनहेतुत्वकथनात्, ब्रह्मोपासनतत्साक्षात्कारयोः द्वारद्वारिभावापन्नयोः एव अतिवादहेतुत्वं सिद्ध्यति । एतत्सर्वमभिप्रेत्य भगवता भाष्यकृता ‘-

‘ब्रह्मसाक्षात्कारनिमित्तातिवादित्वसिद्धये परब्रह्मसाक्षात्कारोपायभूतं ब्रह्मोपासनं, ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इत्युपदिश्येति’ भाषितम् ।

केचित्तु ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इति विहितं साक्षात्कारहेतुभूतं विज्ञानमेव ‘यदा वै विजानात्यथ सत्यं वदति’ इति खण्डेनाऽपि निर्दिश्यते, न तु साक्षात्कारः ।

एवञ्च सति, ‘सत्यं त्वेव विजिज्ञासितव्यम् इति ब्रह्मोपासनम् उपदिश्य, तदुपायभूतं ब्रह्ममननं, ‘मतिस्त्वेव विजिज्ञासितव्येत्युपदिश्य’ इति भाष्यमपि स्वरसम् इति वदन्ति ।।

 

।। इति सप्तदशखण्डभाष्यम् ।।

 

अष्टादशः खण्डः

 

[मननस्यावश्यकता]

 

यदा वै मनुतेऽथ विजानाति नामत्वा विजानाति मत्वैव विजानाति मतिस्त्वेव विजिज्ञासितव्येति मतिं भगवो विजिज्ञास इति ।। ।।

 

।। इति अष्टादशः खण्डः ।।

प्र.यदा वै मनुतेऽथ इत्यादि । ब्रह्मोपासनोपायभूतं मननं सम्पाद्यम् इत्यर्थः । शिष्यः आह – मतिं भगवो विजिज्ञास इति ।।

 

।। इति अष्टादशखण्डभाष्यम् ।।

 

एकोनविंशः खण्डः

 

[श्रद्धायाः आवश्यकता]

 

यदा वै श्रद्दधाति, अथ मनुते नाश्रद्दधन्मनुते श्रद्दधदेव मनुते श्रद्धा त्वेव विजिज्ञासितव्येति श्रद्धां भगवो विजिज्ञास इति ।। ।।

 

।। इति एकोनविंशः खण्डः ।।

प्र यदा वै श्रदधाति इत्यादि । अत्र भाष्यकृता श्रवणप्रतिष्ठार्थत्वात् मननस्य मननोपदेशेन श्रवणमपि अर्थसिद्धं मत्वा श्रवणोपायभूतां ब्रह्मणि श्रद्धां श्रद्धा त्वेव विजिज्ञासितव्या इत्युपविश्य’ इति भाषितम् । अत्र श्रवणोपायभूतां ब्रह्मणि श्रद्धामित्यनेन ब्रह्माश्रवणविषयिणी श्रद्धा विवक्षिता । श्रद्धा च त्वरा इति व्यासार्यै: व्याख्यातम् । शिष्टं स्पष्टम् ।।

 

।। इति एकोनविंशखण्डभाष्यम् ।।

 

विंशः खण्डः

 

[व्यवसायस्य श्रेष्ठता]

 

यदा वै निस्तिष्ठति, अथ श्रद्दधाति नानिस्तिष्ठन् श्रदधाति निस्तिष्ठन्नेव श्रदधाति निष्ठा त्वेव विजिज्ञासितव्येति निष्ठां भगवो विजिज्ञास इति ।। ।।

 

।। इति विंशः खण्डः ।।

प्र.-यदा वै निस्तिष्ठति इत्यादि । ब्रह्मैव श्रोतव्यम् नान्यत् इति व्यवसायरूपा निष्ठा श्रोतुः त्वरालक्षणश्रद्धा उपायतया सम्पाद्या इत्यर्थः । शिष्टं पूर्ववत् ।।

।। इति विंशखण्डभाष्यम् ।।

 

एकविंशः खण्डः

 

[प्रयत्नस्यावश्यकता]

 

यदा वै करोति, अथ निस्तिष्ठति नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति । कृतिस्त्वेव विजिज्ञासितव्येति कृतिं भगवो विजिज्ञास इति ।।।।

 

।। इति एकविंशः खण्डः ।।

 

प्र. – यदा वै करोति इत्यादि । उद्योगप्रयत्नापरपर्याया श्रोतव्यान्तरेषु हेयत्वानुसन्धाने मनसो नियमनरूपा कृतिः ब्रह्मैव श्रोतव्यम् इति व्यवसायलक्षणनिष्ठाहेतुत्वात् सम्पाद्या इत्यर्थः । अन्यत् पूर्ववत् ।।

 

।। इति एकविंशखण्डभाष्यम् ।।

 

द्वाविंशः खण्डः

 

[सुखमेव प्रवृत्तिहेतुः]

 

यदा वै सुखं लभते, अथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोति सुखं त्वेव विजिज्ञासितव्यमिति सुखं भगवो विजिज्ञास इति ।।।।

 

।। इति द्वाविंशः खण्डः ।।

 

प्रयदा वे सुखं लभते इत्यादि । उक्तलक्षणायाः कृतेः ब्रह्मणि निरतिशयानुकूलत्वावगमनम् अन्तरेण असंभवात् श्रोतव्यान्तरेषु हेयत्वानुसन्धाना-हितमनोनियमनरूपकृतिहेतुतया अत्यन्तानुकूलत्वलक्षणं सुखत्वं ब्रह्मणि ज्ञातव्यम् इत्यर्थः ।

अत्र च श्रवणमननश्रद्धादेः प्रागेव सुखप्राप्त्यसंभवात् प्राप्त्यर्थस्यापि लभतेः ज्ञानमेवार्थः । ज्ञानस्यापि प्राप्तिरूपत्वात् । श्रोतव्ये अत्यन्तानुकूलज्ञानाभावे श्रोतव्यान्तरेषु हेयत्वानुसन्धानाऽऽहितमनोनियमनरूपकृतेः असम्भवात् अत्यन्तानुकूलत्वं श्रोतव्ये ब्रह्मणि ज्ञातव्यम् इति भावः । अत्रत्यविजिज्ञासितव्यशब्दस्य ज्ञातव्यत्वमर्थः । न उपासितव्यत्वं सम्पादनीयत्वं वा इति द्रष्टव्यम् ।।

।। इति द्वाविंशखण्डभाष्यम् ।।

 

त्रयोविंशः खण्डः

 

[भूम्रस्सुखरूपत्वम् ]

 

यो भूमा तत् सुखम् नाल्पे सुखमस्ति भूमैव सुखम् भूमा त्वेव विजिज्ञासितव्य इति भूमानं भगवो विजिज्ञास इति ।। ।।

 

।। इति त्रयोविंशः खण्डः ।।

 

प्र. – यो भूमा इत्यादि । भूमशब्दो हि बहुत्ववाची । बहुशब्दात् पृथ्वादित्वात् इमनिचि ‘बहोर्लोपो भू च बहोः’ (पा.सू.६-४-१५८) इति प्रकृति – प्रत्यययोः विकारे च सति तन्निष्पत्तेः । बहुत्वञ्च अत्र वैपुल्यम् । न सङ्याविशेषः । बहुशब्दस्य ‘बहुषु बहुवचनम्’ (पा.सू.१-४-२१) इत्यादी संख्यायामिव ‘अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः’ इत्यादौ अल्पत्वप्रतियोगिनि वैपुल्येऽपि प्रयोगदर्शनात् इहापि नाल्पे सुखमस्ति इति अल्पत्वप्रतिद्वन्द्वितया  एव भूमशब्दप्रयोगाच्च वैपुल्यमेवार्थः । वैपुल्यञ्च गुणोत्कर्षरूपम् । न तु परिमाणरूपम् । सुखशब्दसामानाधिकरण्यात् । न हि सुखे उत्कर्षवत् परिमाणं प्रसिद्धं स्यात् । अत: उत्कर्षकृतवेपुल्यमेव भूमशब्देन विवक्षितम् । अत एव न वैपुल्यरूपधर्मपरो भूमशब्दः, सुखस्य वैपुल्यरूपत्वाभावात्, अल्पप्रतियोगितया निर्देशाञ्च । न हि अत्र वा उत्तरत्र वा अल्पत्वं भूमप्रतियोगितया निर्दिश्यते, अपि तु अल्पमेव । अतः अल्पशब्दप्रतियोगितया प्रयुज्यमानो भूमशब्दो वैपुल्याश्रयधर्मिपरः एव । ततश्च अपमार्थ:- यदुत्कृक्ष्टं विपुलम्, तदेव सुखम् । अत्यन्तानुकूलम् इत्यर्थ: नाल्ये सुखमस्ति सुखं सुखत्वम् । अत्यन्तानुकूलत्वम् इत्यर्थः । ‘अपशवो वा अन्ये गोअश्वेभ्य: इत्यत्र गवाश्वव्यतिरिक्ते अजादौ पशुत्वनिषेधस्य प्रशस्तपशुत्वनिषेधपरत्वात् अल्पे प्रत्यगात्मसुखे सुखत्वनिषेधस्य प्रशस्तसुखत्वनिषेधपरत्वात् , पूर्वखण्डे एव सुखशब्दस्य अत्यन्तानयकूलार्थत्या व्याख्यातत्त्वात् । ततश्च भूमभिन्नस्य सुखत्वाभावात् सुखत्वादेव हेतोभूपत्वमप्यस्ति इति ज्ञातव्यम् इत्यर्थः । एतत् सर्वं भाष्येऽपि द्रष्टव्यम् । शिष्टं स्पष्टम् ।

 

इति त्रयोविंशवण्डभाष्यम् ।।

 

चतुर्विंशः खण्डः

 

[भूतः सुखरूपत्वे कारणम्]

 

यत्र नान्यत् पश्यति, नान्यच्छृणोति, नान्यत् विजानाति, भूमा अथ यत्रान्यत् पश्यति, अन्यच्छृणोति, अन्यत् विजानाति, तदल्पम् यो भूमातदमृतम् अथ यदल्पम्, तन्मय॑म् भगवः कस्मिन् प्रतिष्ठित इति स्वे महिमनि, यदि वा महिमनीति ।। ।।

 

गोअश्वमिह महिमेत्याचक्षते, हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति । नाहमेवं ब्रवीमीति होवाच, अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ।। ।।

 

।। इति चतुर्विशः खण्डः ।।

प्र. – एतद्वाक्यप्रस्तुतयोः भूमाल्पशब्दयोः अर्थजिज्ञासुं प्रत्याह – यत्र नान्यत्पश्यति इत्यादि । यत्रेति ‘अनुभूयमाने’ इत्यध्याहारः । यत्र वस्तुनि अनुभूयमाने ततोऽन्यत् न दृश्यते, न श्रूयते, न विज्ञायते च, स भूमा इत्यर्थः । यस्मिन् दृश्यमाने ततोऽन्यत् न दृश्यते, यस्मिन् श्रूयमाणे ततोऽन्यत् न श्रूयते, यस्मिन् विज्ञायमाने ततोऽन्यत् न विज्ञायते, स भूमा इत्यर्थः । यद्वा समस्या विषयत्वमर्थ: । पश्यन्  इत्यध्याहार: ततोऽन्यत् न पश्यति इत्यर्थः । अत्र तदितरस्य दर्शनाद्यभावो विषयाभावकृतः । ततश्च यतोऽन्यत् नास्ति स भूमा इत्यर्थः पर्यवसितः ।

ननु चेतनाचैतनवर्गस्य तद्भन्नत्वात् कथं भूम्नोऽन्यत् नास्तीत्युच्यते? न च चिवचिद्विशिष्टस्यैव भूमब्रह्मशब्दार्थत्वात्  चिदचितोरपि तत्रान्तर्भावात् तदन्यत् इति निषेधः शक्यते कर्तुम् इति वाच्यम् । विशेषणभूतयोः चिदचितो: भूपब्रह्मरशब्दार्थभूतात् विशिष्ठात् अन्यत्वेन ततोऽन्यत् नास्तीति निषेधस्य अयुक्तत्वात् । किञ्च अथात आत्मादेशः’ (छां.उ.७-२५-२) इति भूम्न: एव आत्मत्वस्य उपदेश्यमाणत्वात् , तरति शोकमात्मवित्’ (छां.उ, ७-१-३) इति प्रस्तुतस्य आत्मोपदेशस्य भूम्नि पर्यवसानाच्च, भूम्नः आत्मत्वम् अवर्जनीयम् । नहि चिदचिद्विशिष्टस्य आत्मत्वमस्ति । विशेष्यस्यैव अन्त:प्रविश्य नियन्तृत्वेन आत्मत्वात् । ततश्च तस्यैव भूमत्वं वक्तव्यम् । न चेदं लक्षणं तस्य सम्भवति तव्द्यतिरिक्तस्य वस्तुनः सत्त्वादिति चेत् • उच्यते । ब्रह्मशब्दवत्  भूमशब्दस्याऽपि वस्तुपरिच्छेद-शून्यत्वमेवार्थः । वस्तुपरिच्छेदी नाम इदमिदं न इति निर्देशार्हत्वम् । तद्राहित्यं स्वरूपाभेदाद्वा भवेत् , तदपृथक्सिद्धत्वाद्वा भवेत् । तत्र जीवजडयो: ईश्वराभेदाभावात् तदपृथक्सिद्धसत्ताकत्वम् इति फलति । तच्च द्वैधा घटते । तत्सत्ताव्यतिरिक्तसत्ताशून्यत्वाद्वा ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति स्मृत्यनुसारेण तदधीनसत्ताकत्वाद्वा भवेत् । तत्र तत्सत्ताव्यतिरिक्त-सत्ताशून्यत्वमपि सत्तारूपविशेष्याभावेन मिथ्यात्वाद्वा भवेत् । तत्सत्ताभिन्नसत्ताकत्वेन सत्ताव्यतिरिक्तत्वरूपविशेषणाभावाद्वा भवेत् । तत्र सत्ताशून्यत्वं सकलप्रमाणविरुद्धम् अनभ्युपगमार्हम् । तथैव तत्सत्ताभिन्नसत्ताकत्वमपि न अभ्युपगमार्हम् ।

अपि तु तत्सत्ताधीनसत्ताकत्वमेव । एवंविधस्य अपृथक्सिद्धत्वस्य सिद्धान्ते अभ्युपगतत्वात् न अनुपपत्तिः । ततश्च यत्र नान्यत् इत्यस्यापि यत्सत्तानधीनसत्ताकं नास्ति यदनात्मकं नास्ति इत्यर्थपर्यवसानात् न अनुपपत्तिः । यद्वा’समानेषु पूर्वत्वात्’ (पू.मी.७-१-२) इति साप्तमिकाधिकरणे इतरादि सर्वनामशब्दानां पूर्वनिर्दिष्टसदृशवाचित्वस्य व्यवस्थापिततया ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिवाक्येष्विव ‘यत्र नान्यत्पश्यति’ इति वाक्येऽपि समानान्यनिषेधपरत्वाश्रयणात् न अनुपपत्तिः ।

पत्रान्यत्  इत्यादि । उत्तलक्षणकभूमविपरीतलक्षणम् अल्पम् इत्यर्थः । यो वै भूमा इति । उत्तलक्षणो भूगा एव अमृतं जमनमरणाविशून्यम् । नित्याविर्भूतानन्याधी-नापहतपाप्मत्वादिगुणाष्टकमिति यावत् । इतरतु अनीदृशम । नित्यमुक्तादीनामपि अनन्याधीनतादृक्त्वाभावात् न वाक्यार्थानुपपत्तिः इति द्रष्टव्यम् ।

सर्ववस्तूनाम्  आधारसापेक्षत्वं दृष्ट्वा शिष्य: पृच्छति । भगव: इति । उत्तरमाह – स्वे महिम्नीति । सा स्वीयमहिमाधारक: इत्यर्थः । स्वयं दासस्तपस्विनः’ इतिवत् अनाधार:, इत्यभिप्रायः । उक्ताभिप्रायेण आचार्य:। स्वयमुक्त्वा   स्वशव्यस्य आत्मात्मीयवचनत्वात्

आत्मीये नियाम्यतया महिमभूते गवाश्च हस्तिहिरण्य-दासभार्यादिलक्षणे प्रतिष्ठितः इति अभिप्रायं शिष्य: गृह्णीयात् । अथवा स्वशब्दस्य स्वात्मपरतया आत्माधारः इत्यभिप्राय: इति वा वाक्याभिप्रायं बुद्ध्येत । न च सयुभयमपि सम्भवति । परमात्मनः  उभयविभूतिलक्षणात्मीय महिमसद्भावेऽपि अनाधारस्य परमात्मनः तत्प्रतिष्ठितत्वासम्भवात् ।

‘न हि अतिशिक्षितोऽपि नटवटुः स्वस्कन्धम् आरुह्य नरीनर्ति’ इति न्यायेन स्वस्य स्वाश्रितत्वासम्भवाञ्च । अतो न द्वयमपि युज्यते । अतः शिष्यस्य सा बुद्धि: निवर्तनीया इति मत्वा पुनराह यदि वा महिम्नीति । यदि वा स्वविवक्षितानाधारत्वाभिप्रायातिरिक्ते पूर्वोक्तपक्षद्वये त्वया आशङ्किते न वे महिम्नि प्रतिष्ठितः इति ब्रूमः इत्यर्थः ।। १ ।।

तत् विवृणोति – गो अश्वमिह इत्यादि । गो अश्वम् इत्यादौ द्वन्द्वैकवद्भावः । आयतनानीति इतिशव्यः प्रकारवचनः । एवं जातीयकानि इत्यर्थः । नाहमेवं ब्रवीमि इति । तत्र प्रतिष्ठितत्वं न ब्रवीमि इत्यर्थः । उक्तञ्च व्यासार्यै: ‘अस्य महिमानमिति वीतशोकः, (मु.उ.३-१-२) ‘एतां विभूतिं योगञ्च’ (भ.गी.१०.७) इत्यादि श्रुतिस्मृतिषु परमात्मनो महिमवत्त्वावगमात् । ‘यदि वा न महिम्नि’ इति न महिमनिषेधः । अपि तु विभूतिरूपमहिमप्रतिष्ठितत्वनिषेधोऽवगम्यते’ इति । अथ स्वरूपमहिमप्रतिष्ठितत्त्वं निषेधति – अन्यो हि अन्यस्मिन् इति । न स्वस्य स्वप्रतिष्ठितत्वं सम्भवति इति भावः ।। २ ।।

 

।। इति चतुर्विशखण्डभाष्यम् ।।

 

पञ्चविंशः खण्डः

 

[भूम्: सर्वात्मकत्वम्]

 

एवाधस्तात् , उपरिष्टात् , पश्चात् , पुरस्तात् , दक्षिणतः, स उत्तरतः, एवेदँ सर्वमिति । अथातोऽहङ्कारादेश एवअहमेवाधस्तात् , अहमुपरिष्टात्, अहं पश्चात्अहं पुरस्तात्, अहं दक्षिणतः, अहमुत्तरतः, अहमेवेदँ सर्वमिति ।। ।।

 

अथात आत्मादेश एवआत्मैवाधस्तात्, आत्मोपरिष्टात्, आत्मा पश्चात्आत्मा पुरस्तात्, आत्मा दक्षिणतः, आत्मोत्तरतः, आत्मैवेदँ सर्वमिति ।  वा एष एवं पश्यन्नेवं मन्वान एवं विजानन् आत्मरति: आत्मक्रीड आत्ममिथुन आत्माऽऽनन्दः, स्वराड् भवति तस्य सर्वेषु लोकेषु कामचारो भवति अथ येऽन्यथाऽतो विदुरन्यराजानः ते क्षय्यलोका भवन्ति तेषाँ सर्वेषु लोकेष्वकामचारो भवति ।। ।।

 

।। इति पञ्चविंशः खण्डः ।।

प्र. – ननु ‘यत्र नान्यत् पश्यति’ इत्यनुपपन्नम् । नानादिग्वर्तिनां चेतनाचेतनपदार्थानां भिन्नानाम् उपलम्भात् इत्यत्राह एवाधस्तात् इति । अत्र एवेदं सर्वम् इति सामानाधिकरण्यात् स इति निर्षिटस्य भूम्न: इदं सर्वमिति निर्दिष्टस्य चिदचिद्वर्गस्य च शरीरात्मभाव: फलितो भवति । ततश्च यत्र नान्यत् पश्यति इति तदनात्मकान्यनिषेधे न अनुपपत्तिरिति भावः । एवं सर्वात्मभूतस्य भूम्न: उपासने स्वशरीरकतया उपासनं कर्तव्यम् उपदिशति अथातोऽहङ्कारादेशः – क्रियते इति शेषः । अथशब्दः प्रकृतविषयद्योतनार्थः । अहङ्कारः अहंबुद्धि: अहंग्रहेण भूम्न: उपासनप्रकारः अतः परमुपदिश्यते इत्यर्थः । न तु जीवस्वरूपोपदेशः इति मन्तव्यम् । तथा सति अहमादेशः इति निर्देशस्यैव युक्ततया कारपदवैयर्थ्यात् । परमात्मनः अहंग्रहेण उपासनप्रकारमेव दर्शयति – अहमेवाधस्तात्

इत्यादि । सर्वदिग्वर्ती सर्वात्मा भूमाऽहमेव इति ज्ञातव्यम् इत्यर्थः । न तु जीवस्य सर्वात्मकत्वमुपदिश्यते इति भ्रमितव्यम् । जीवस्य असर्वाधारत्वेन ‘असर्वात्मकत्वात्’, तथात्वे कारशब्दवैयर्थ्यस्य उक्तत्वाच्च । उक्तञ्च भगवता भाष्यकृता – ‘यत्तू अहमेवाधस्तात् इत्यादिना सर्वात्मत्वम् उपदिष्टं तद्भूमविशिष्टस्य ब्रह्मणो अहंग्रहेण उपासनम् उपदिश्यते ‘अथातोऽहङ्कारादेशः’ इति अहंग्रहणोपदेशोपक्रमात्’ इति, परमात्मनः ‘प्रत्यगात्मशरीरकत्वज्ञान’ प्रतिष्ठार्थम् अहंग्रहेण उपासनं कर्तव्यम् इति च ।। १ ।।

ननु अहंबुद्धिशब्दयोः जीवात्मविषययोः कथं भूमपर्यन्तत्वम् ? अनहमर्थे च परमात्मनि अहंग्रहोपासनस्य अयथार्थत्वमेव स्यात् इत्याशंक्य भूम्न: प्रत्यगात्मानं प्रति आत्मत्वेन तद्विषयबुद्धिशब्दानां परमात्मपर्यन्तत्वम् उपपद्यते इति दर्शयन्, ‘तरति शोकमात्मवित्’ (छां.उ.७-१-३) इति प्रक्रान्तम् आत्मत्वोपदेशं भूम्नि समापयति अथात आत्मादेशः । अत्रापि क्रियते इति शेषः । अथशब्दः प्रकृतविषयत्वद्योतनार्थः आत्मादेशः – आत्मत्वोपदेशः क्रियते इत्यर्थः । आत्मैव अधस्तात् इत्यादि – सर्वात्मतया उपदिश्यमानो भूमा स्वोपासकस्य आत्मैव इत्यर्थः । ततश्च तत्र अहंबुद्धिशब्दयोः याथार्थ्यमेव इति भावः ।

ननु ‘अथात आत्मादेशः’ इत्यात्मत्वोपदेशः प्रकृतभूमविषयः इति कथमवसीयते ? इति चेन्न – भिन्नयोर्द्वयोः सार्वात्म्यायोगेन एकविषयत्वस्यैव सिद्धत्वात् । ननु च स एवाधस्तात् इत्यनेनैव सार्वात्म्यस्य सिद्धतया उपासकात्मत्वमपि सिद्धमेव इति ‘अथात आत्मादेशः’ इत्युपदेशो व्यर्थः इति चेत्, सत्यम् । एवेदँ सर्वम् इति सामानाधिकरण्येन आत्मत्वं फलति । अथाऽपि कण्ठोक्त्या उपासकात्मत्वसिद्ध्यर्थं विशिष्य कण्ठोक्त्या उपदेशः।

न च ‘अथात आत्मादेश’ इति सामान्योक्तिः उपासकं प्रति आत्मत्वोपदेशः इति विशेषे किं नियामकम् ? इति वाच्यम् । ‘एवं विजानतः आत्मवत: प्राणः’ इति विद्वदात्मनः प्राणाधुपादानत्वेन सार्वात्म्यस्य उत्तरत्र प्रतिपादयिष्यमाणत्वात् ।

यत्तु – अत्र परैः, अहङ्कारस्य आत्मैकत्वेन प्रत्यक्षसिद्धस्य, ‘अथातोऽहङ्कारादेशः ‘अथात ‘आत्मादेशः” इति पृथगुपदेशो भेदार्थः । भूमात्मनोः भिन्नत्वेन प्रत्यक्षसिद्धयोः पृथगुपदेशः ऐक्यार्थः । द्वयोः सार्वात्म्यायोगादिति-तदसारम् । अहमर्थादन्यस्य आत्मनो भूमाख्यब्रह्माभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोः पृथगुपदेशो भेदार्थः । अहमर्थस्य तु ब्रह्मभिन्नत्वेन प्रत्यक्षसिद्धत्वात् तयोरुपदेशः ऐक्यार्थः इति वैपरीत्यस्यापि सुवचत्वात् इत्यास्तां विस्तर:।  वा एष इति । रतिः स्रक्चन्दनादिजन्या प्रीतिः । क्रीडा – उद्यानादिजन्या । स्त्रीसम्भवा प्रीतिः मैथुनम् । विभूतिजन्या प्रीतिः आनन्दः । आत्मैव रतिः यस्य स तथोक्तः । एवमुत्तरत्रापि । श्रवण-मनन-निदिध्यासनैः उक्तभूमात्मसाक्षात्कारनिष्ठस्य सर्वविधसुखानुभवोऽपि आत्मसुखानुभवान्तर्गतः इत्यर्थः । स्वराड् भवति । स्वराट् -स्वयमेव राजा । अकर्मवश्यो विधिनिषेधकिङ्करो न भवतीति यावत् । ‘अत एव च अनन्याधिपतिः’ (ब्र.सू. ४-४-९) इति सूत्रे ‘अत एव – सत्यसङ्कल्पत्वादेव अनन्याधिपतित्वं विधिनिषेधायोग्यत्वम् । विधिनिषेधयोग्यत्वे हि प्रतिहतसङ्कल्पत्वं भवेत् । अतः सत्यसङ्कल्पत्वश्रुत्यैव अनन्याधिपतित्वञ्च सिद्धम् । अत एव स स्वराड्भवति इत्युच्यते’ इति भाषितम् । तस्य सर्वेषु लोकेषु कामचारो भवति । ‘प्रत्यक्षोपदेशान्नेति चेत्’ (ब्र.सू.४-४-१८) इति सूत्रे, अकर्मप्रतिहतज्ञानो मुक्तो विकारलोकान् ब्रह्मविभूतिभूतान् अनुभूय यथाकामं तृप्यतीति, सर्वेषु लोकेषु कामचारो भवति इत्यस्य वाक्यस्यार्थः इति भाषितम् । अथ येऽन्यथा इति । ये – उक्तप्रकारात् अन्येन प्रकारेण उपासते ते अन्यराजानो भवन्ति विधिनिषेधकिङ्कराः भवन्ति । कर्मवश्याः भवन्ति इत्यर्थः । स्वराडित्यस्य प्रतिद्वन्द्वित्वात् ।

किञ्च ते क्षय्यलोकाश्च भवन्ति इत्यर्थः । अत्र क्षय्यलोकाः भवन्ति इत्यनेन यथोक्तप्रकारेण परमात्मोपासकानाम् अक्षय्यभगवल्लोकत्वम् अस्ति इत्युक्तं भवति ।। २ ।।

 

।। इति पञ्चविंशखण्डभाष्यम् ।।

 

षड्विंशः खण्डः

 

[भूम्न: आत्मवत्वम्]

 

तस्य वा एतस्यवं पश्यत एवं मन्वानस्यवं विजानत आत्मतः प्राण आत्मत आशाऽऽत्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽननमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मत: संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मत: कर्माण्यात्मत एवेदँ सर्वमिति ।। ।।

 

तदेष श्लोकः

पश्यो मृत्युं पश्यति रोगं नोत दुःखताम् । सर्वँ पश्यः पश्यति सर्वमाप्नोति सर्वशः ।। इति ।  एकधा भवति त्रिधा भवति पञ्चधा । सप्तधा नवधा चैव पुनश्चैकादश स्मृतः ।। शतञ्च दश चैकश्च सहस्राणि विंशतिः । आहारशुद्ध सत्त्वशुद्धिः सत्त्वशुद्ध ध्रुवा स्मृतिः ।। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः । तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः तँ स्कन्द इत्याचक्षते तँ स्कन्द इत्याचक्षते ।।

 

।। इति षड्विंशः खण्डः ।।

 

।। इति सप्तमः प्रपाठकः समाप्तः ।।

प्र. – अथात आत्मादेशः इत्यनेनोक्तम् उपासकान्तर्यामिणः चेतनाचेतनसकल-प्रपञ्चोपादानत्वलक्षणसर्वात्मकत्वं स्पष्टयति – तस्य वा एतस्यैवं इत्यादि । उपासकस्य अन्तर्यामी एव प्राङ्निर्दिष्टप्राणशब्दितजीवपर्यन्तसकलप्रपञ्चोपादानम् । अतः ‘अहमेवेदं सर्वम्’ इति विहितः अहंग्रहः तात्त्विकविषयः एवेति भावः ।।

तदेषश्लोकः तत् – तस्मिन् विषये एषः वक्ष्यमाणः, श्लोकः – प्रवृत्तः इत्यर्थः । पश्यों मृत्यु पश्यति इत्यादि । पश्य:ब्रह्मदर्शी मृत्युं – मरणम्, रोगम् -दुःखसाधनं, दुःखतां – जगति प्रतिकूलताञ्च, न पश्यति । सर्वसाक्षात्कर्ता सन् सङ्कल्पमात्रेण सङ्कल्पितान् अर्थान् सर्वस्मिन् काले प्राप्नोति इत्यर्थः । अपहतपाप्मत्वादिगुणाष्टकाविर्भावो भवति इत्यर्थः । अत्र जगति दुःखतां न पश्यति इत्युक्त्या जगतो मुक्तं प्रति प्रतिकूलत्वं नास्ति । पित्तोपहतस्य पयःप्रतिकूलत्ववत् जगतः प्रतिकूलत्वं ‘कर्म’निबन्धनम् इत्युक्तं भवति ।

एकधा भवति इत्यादि । आत्मनः निरवयवस्य त्रेधा ञ्चधा सप्तधा इत्यादिविभागायोगात् सङ्कल्पपरिगृहीतानेकविधशरीरः भवति इत्यर्थः । एवं मोक्षसाधनभूतोपासनप्रकारम् उपदिश्य, तादृशोपासननिष्पत्तौ अन्तःकरणस्य उपासनोत्पत्ति-प्रतिबन्धकपापरहित्यम् अपेक्षितम् । तच्च राजस-तामसाहारसेविनां न सम्भवति । अपि तु तद्विविक्तसात्विकाहारसेविनां भवेत् इत्युपासकः सात्विकाहारसेवी भवेत् इत्युपदिशति –आहारशुद्ध इत्यादि । आहारशुद्धौ सात्विकाहारसेवने सति सत्त्वस्य अन्तःकरणस्य शुद्धिः नैर्मल्यं भवति । तन्नैर्मल्ये सति ध्रुवा स्मृतिः अविच्छिन्नस्मृतिसन्तानरूपात्मध्यानं सिद्धयति ध्रुवस्मृतिलम्भे तल्लाभे सति दुर्मोचतया ग्रन्थिशब्दवाच्यानाम् अविद्यारागादीनां मोक्षो भवति इत्यर्थः । अत्र स्मृतिलम्भे एव सर्वग्रन्थीनां विप्रमोक्षः इत्युक्त्या स्मृत्यनन्तरभाविना स्मृतिविलक्षणेन दर्शनेन न मोक्षः, अपि तु दर्शनसमानाकारस्मृतिसन्तानेनैव । ततश्च, ‘स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्’ (छां.उ.७-१५-४) इत्यत्र पश्यन् इत्यादिशब्दाः दर्शनसमानाकारोपासनपराः। प्रकरणान्तरस्थाः, ‘आत्मा वा अरे द्रष्टव्यः’ (बृ.उ.६-५-६) (बृ.उ.४-४-५) इत्यादिशब्दाश्च दर्शनसमनाकारध्यानपराः इति सूचितं भवति ।

शास्त्रार्थमशेषतः उक्त्वा आख्यायिकाम् उपसंहरति श्रुतिः – तस्मै मृदितकषायाय इति । एवं शुद्धान्त:करणाय नारदाय भगवान् सनत्कुमारः संसारसन्तमसचण्डभानु-मृतोपासनगोचरं परमात्मानं स्पष्टमुपादिक्षत् इत्यर्थः । अत्र नामादिषु ब्रह्मत्वेन उपदिष्टेष्वपि तत्र ब्रह्मत्वस्य अनभ्युपगमात् तस्य मृदितकषायत्वम् । शिष्यस्य परिशुद्धान्तःकरणतया उपदेशयोग्यतां परीक्ष्यैव उपदिष्टवान् इत्यर्थः । तं स्कन्द इत्याचक्षते इति स्पष्टोऽर्थः । द्विरुक्तिः अध्यायसमाप्त्यर्था । एतद्विषयमधिकरणम् उपन्यस्यते -अत्र  मुक्तस्य देहेन्द्रियाणि सन्ति, न सन्तीति विचारे – ‘अभावं बादरिराह ह्येवम् (ब्र.सू. ४-४-१०) शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यते । न ह वै सशरीरस्य सतः प्रियाप्रिययोः अपहतिरस्ति’ (छां.उ.८-१२-१) इत्येवं श्रुतिराह इत्यर्थः । ‘भावं जैमिनिर्विकल्पामननात्’ (ब्र.सू.४-४-२२) । मुक्तस्य देहेन्द्रियादि सद्भावं जैमिनिराचार्यो मन्यते । कुतः ? विकल्पामननात् विविधः कल्पः विकल्पः । वैवध्यमित्यर्थः । ‘स एकधा भवति, त्रिधा भवति, पञ्चधा साप्तधा’ इत्यादि श्रुतेः । आत्मनः एकस्य अच्छेद्यस्य अनेकधाभावासंभवात् त्रिधाभावादयः शरीरनिबन्धनाः इत्यवगम्यते । अशरीरत्ववचनं तु कर्मकृतशरीराभावपरम् । ‘द्वादशाहवदुभयविधं बादरायणोऽतः’ (ब्र.सू.४-४-१२) ‘सङ्कल्पादेव’ इति पूर्वनिर्दिष्टः संकल्पः अतश्शब्देन परामृश्यते । अतः ‘सङ्कल्पादेव’ मुक्तस्य सशरीरत्वाशरीरत्व- लक्षणविधाद्वयमप्यस्ति । सङ्कल्पवशात् सशरीरोऽशरीरश्च भवति इति भगवान् बादरायणो मन्यते इत्यर्थः । द्वादशाहवत् यथा, ‘द्वादशाहमृद्धिकामा उपेयुः’ (पू.मी.सू.८-२-५) ‘द्वादशाहेन प्रजाकामं याजयेत्’ (पू.मी.सू.१०-६-१६) इति उपैति यजति चोदनाभ्यां द्वादशाहस्य सत्रत्वाहीनत्वरूपविधाद्वयवत्त्वम्, एवमित्यर्थः । ‘तन्वभावे सन्ध्यवदुपपत्तेः’ (ब्र.सू.४-४-१३) । मुक्तस्य स्वतनुप्रभृतिभोगोपकरणसृष्टिसङ्कल्पाभावे, स्वप्ने परमात्मसृष्टः भोगोपकरणैः यथा भोगान् भुङ्कते, एवं मुक्तः सत्यसङ्कल्पोऽपि परमात्मसृष्टैः भोगोपकरणै: भोगान् अनुभवति ।

‘भावे जाग्रदूत’ (ब्र.सू.४-४-१४) । मुक्तस्य स्वभोगोपकरणतनुभवनादि-सृष्टिसङ्कल्पसत्त्वे, यथा जाग्रत्पुरुषः स्वार्जितैः भोगोपकरणै: भोगान् अनुभवति, एवं मुक्तोऽपि स्वसङ्कल्पसृष्टैः भोगोपकरणः भोगान् अनुभवति ।

ननु अणुपरिमाणस्य जीवस्य कथम् अनेकशरीरेषु आत्माभिमानसम्भवः ? तत्राऽऽह, -‘प्रदीपवदावेशस्तथा हि दर्शयति’ (ब्र.सू.४-४-१५) । यथा प्रदीपस्य एकदेशस्थितस्य स्वप्रभया देशान्तरव्याप्तिः, एवमेकदेशस्थितस्य आत्मनः धर्मभूतज्ञानात् अहमित्यात्माभिमानानुगुणा सर्वदेशेषु व्याप्तिः उपपद्यते । तथा हि दर्शयति श्रुतिः ‘वालाग्रशतभागस्य शतधा कल्पितस्य च ।

भागो जीवस्सविज्ञेयः स चानन्त्याय कल्पते’ ।। (श्वे.उ.५-९) इति । आनन्त्याय-धर्मभूतज्ञानकृतानन्त्याय इत्यर्थः । इयांस्तु विशेषः – बद्धस्य कर्माधीनः शरीरपरिग्रहः मुक्तस्य स्वेच्छायत्तः इति । ननु ‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद, नान्तरम्’ (बृ.उ.६-३-२१) इति मुक्तस्य ज्ञानाभावप्रतिपादनात् कथमनेकशरीरेषु आत्माभिमानानुगुणज्ञानव्याप्तिः ? तत्राह ‘स्वाप्ययसम्पत्त्योः अन्यतरापेक्षमाविष्कृतं हि’ (ब्र.सू.४-४-१६) ‘न बाह्यं किञ्चन वेद’ (बृ.उ.६-३-२१) इति ज्ञानाभावश्रुतेः सुषुप्तिमरणान्यतरविषयत्वात् सुषुप्तिमरणयोः निस्सम्बोधत्वस्य, ‘नाहं खल्वयमेवँ संप्रत्यात्मानं जानाति’ (छा.उ.८-११-१) ‘विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति’ (बृ.उ.४-४-१२) इति श्रुतिभ्याम् आविष्कृतत्वात् । अनुविनश्यति – न पश्यति इत्यर्थः । मुक्तस्य ‘मनसैतान् कामान् पश्यन् रमते’ (छां.उ.८-१२-५) इति सार्वज्यस्य आविष्कृतत्वाच्च इति स्थितम् ।

तथा समन्वयाध्याये – ‘यत्र नान्यत् पश्यति, नान्यच्छृणोति, नान्यद्विजानाति स भूमा’ (छां.उ.७-२४-१) इति निर्दिश्यमानो भूमा प्राणशब्दनिर्दिष्टः जीवः एव । प्राणादूर्ध्वमस्ति भगवः प्राणाद्भूय इति प्रश्नस्य, ‘अदो’ वाव प्राणाद्भूयः इति प्रतिवचनस्य वा अदर्शनेन प्रक्रान्तात्मोपदेशस्य तत्रैव पर्यवसानात् । अतश्च सन्त्यपि ब्रह्मलिङ्गानि तत्रैव यथाकथञ्चित् योजयितव्यानि इति पूर्वपक्षे प्राप्ते, उच्यते –

‘भूमा संप्रसादादध्युपदेशात्’ (ब्र.सू.१-३-७) । भूमा परमात्मा । संप्रसादात् जीवात् अधिकत्वेन तस्य उपदेशात् । एष संप्रसादोऽस्माच्छरीरात् समुत्थाय परञ्ज्योतिरुपसंपद्य’ (छां.उ.८-३-४) इत्यत्र संप्रसादशब्दस्य जीवे प्रयुक्तत्वात् संप्रसादो जीवः । एष तु वा अतिवदति यस्सत्येनातिवदति’ (छां.उ.७-१६-१) इति सत्यातिवादिनः प्राणशब्दनिर्दिष्ट-जीवातिवाद्यपेक्षया तुशब्देन अधिकत्वेन उपदिश्यमानतया अतिवदननिमित्तस्य सत्यशब्दनिर्दिष्टस्य प्राणशब्दितात् जीवात् अधिकत्वप्रतीतेः न प्राणशब्दनिर्दिष्टो जीवो भूमा ।

‘धर्मोपपत्तेश्च’ (ब्र.सू.१-३-८) । ‘स्वे महिम्नि प्रतिष्ठितः, ‘स एवेदं सर्वम्’ इत्यादिभिः प्रतिपादितस्वमहिमप्रतिष्ठत्व-सर्वात्मकत्वादिधर्माणाम् ‘आत्मतः प्राण: आत्मतः आशा’ इत्यादिवाक्यसन्दर्भप्रतिपादितप्राणशब्दितजीवप्रभृतिसकलप्रपञ्चोपादानत्वस्य प्राणशब्दिते जीवे असंभवाच्च भूमा परमात्मा इति स्थितम् ।। २ ।।

 

इति षड्विंशखण्डभाष्यम् ।।

 

इति सप्तमप्रपाठकभाष्यम् समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.