छान्दोग्योपनिषत् प्रथमः प्रपाठकः

छान्दोग्योपनिषत्

[सामवेदीयोपनिषत्]

शान्तिपाठः

ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि,

सर्वं ब्रह्मोपनिषदम्, माऽहं ब्रह्म निराकुर्यां, मा मा ब्रह्म निराकरोत् अनिराकरणमस्तु,

अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु, ते मयि सन्तु ।।

।। ओं शान्तिः शान्तिः शान्तिः ।।

**

प्रथमः प्रपाठकः

प्रथमः खण्डः

[प्रणवोपासनस्य रसतमत्वकामाप्तिसमृद्धिगुणकत्वादिप्रकारवैशिष्ट्यम् |

हरिः ओम्ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति

तस्योपव्याख्यानम् ।। ।।

प्रकाशिका

[श्रीरङ्गरामानुजमुनिविरचिता]

[मङ्गलाचरणम्]

अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया ।

अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। १ ।।

[आचार्यवन्दनम्]

श्रीशैलपूर्णवंशाब्धि कौस्तुभस्य जगद्गुरोः ।

श्रीमतस्तातयार्यस्य चरणौ शरणं वृणे ।। २ ।।

श्रीतातगुरुसेवाप्तवेदान्तयुगलाशयः ।

वात्स्यानन्तगुरुः श्रीमान् श्रेयसे मेऽस्तु भूयसे ।। ३ ।।

यत्सेवावैभवाल्लब्धा मया परमहंसता ।

तमहं शिरसा वन्दे परकालमुनीश्वरम् ।। ४ ।।

व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।

छन्दोगोपनिषद्व्याख्यां करवाणि यथामति ।। ५ ।।

ब्रह्मविद्यौपयिकं कर्माङ्गविषयम् आदौ उपासनम् उपदिश्यते । ओमित्येतदक्षर मुद्गीथमुपासीत इति उद्गीथं‘ – उद्गीथभक्त्यवयवभूतम्’ ‘ओम्’ इत्येतदक्षरम् उपासीत इत्यर्थः ।  ‘ओम’ इत्यक्षरस्य’ उद्गीथत्वासम्भवेन, सामानाधिकरण्यार्थम् उद्गीथपदस्य वा अक्षरपदस्य वा मुख्यार्थत्यागेन लक्षणायां समाश्रयणीयायाम् , ‘एतस्यैवाक्षरस्य उपव्याख्यानम्’ इत्युपसंहारानुगुण्यात्, उद्गीथशब्दस्य जघन्यतया च, तस्यैव उद्गीथावयवलक्षकत्वं युक्तम् , न तु मुख्यस्य ‘ओम्’ इत्येतदक्षरम् इत्यस्य ओङ्कारावयवयुक्तोद्गीथलक्षकत्वं युक्तमिति द्रष्टव्यम् । स्वयमेव श्रुतिः ओङ्कारस्य उद्गीथशब्दप्रतिपाद्यत्वे हेतुमाह – ओमिति ह्युगायति इति । लोके ‘ओम्’ इति हि आरभ्यैव उद्गायति । अतः उद्गीथावयवत्वात् उद्गीथशब्दप्रतिपाद्यत्वं युक्तमित्यर्थः । तस्योपव्याख्यानं तस्य – ओमित्यक्षरस्य उपव्याख्यानं – इदमुपासनं एवं ‘विभूतिः’ एवं फलमित्यादिकथनम् क्रियते इति शेषः ।

एषां भूतानां पृथिवी रसः, पृथिव्या आपो रसः, अपामोषधयो रसः,

ओषधीनां पुरुषो रस: पुरुषस्य वाक् रसः, वाच: ऋक् रसः, ऋचः साम रसः,साम्नः उद्गीथो रसः ।। ।।

प्र. – एषां एषां – स्थावरजङ्गमात्मक भूतानां पृथिवीरसः – परायणम् । भूतानां पृथिव्याधारकत्वात् इति भावः । पृथिव्या आपो रसः । तस्या: ‘जलप्रकृतिकत्वात् इति भावः । अपामोषधयो रसः । तत्परिणामत्वात् इति भावः । ओषधीनां पुरुषो रसः । अन्नपरिणामत्वात् शरीरस्य इति भावः । पुरुषस्य वाग्रसः । वाचोऽत्युपकारकत्वात् इति भावः । वाच ऋग्रसः । ऋचां गम्भीरार्थकत्वात् इति भावः । ऋचः साम रसः । गीतिसारत्वात् साम्नाम् इति भावः । साम्न उद्गीथो रसः । श्राव्यत्वात् सारः इत्यर्थः । अत्र उद्गीथशब्देन उद्गीथावयवः ओङ्कारः उच्यते ।।

[‘ओङ्कारःरसतमः]

एष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ।। ।।

प्र.- : एषः……परमः । स एषः ‘ओङ्कारः’ रसतमः परमः – भूतादीनाम् उत्तरोत्तररसानाम् अतिशयितो रसः । इतोऽधिको रसो नास्तीत्यर्थः । परार्ध्यः – परस्य ब्रह्मणः अर्धं – स्थानम् अर्हति इति परार्ध्यः । ‘छन्दसि च’ (पा.सू. ५-१- ६७) इति यत् । ब्रह्मवत् ओङ्कारस्यापि उपास्यत्वात् इति भावः । अष्टम: अयम् उद्गीथः ‘पृथिवी रसः पृथिव्या आपो रस’ इति परिगणनायाम् अष्टमः इत्यर्थः। यदुद्गीथः । यः उद्गीथ इत्यर्थः ।।

[सर्वकामाप्तिगुणक: ओङ्कारः‘]

कतमा कतमर्क् , कतमत् कतमत् साम, कतमः कतम उद्गीथ इति विमृष्टं भवति ।। ।।

प्र. -‘वाच ऋग्रसः, ऋच: सामरस: साम्न उद्गीथोरसः’ इति ऋक्सामोद्गीथानां प्रस्तुतत्वात् ‘तानि’ विमृशति कतमा इति । कतमा कतमा इति वीप्सा आदरार्था । का ऋग् इत्यर्थः । एवमुत्तरत्रापि कतमत् कतमत् साम इत्यादौ द्रष्टव्यम् । इति विमृष्टं भवति । विमर्शः कृतो भवतीत्यर्थः ।।

[ओङ्कारः ऋक्सामभ्यां मिथुनरूपः]

वागेवर्क् प्राण: साम, ओमित्येतदक्षरमुद्गीथः तद्वा एतन्मिथुनम्यद्वाक् प्राणश्च, ऋक् साम ।। ।।

प्र. – विमर्शनिष्पन्नम् अर्थम् आह वागेवउद्गीथः इति । ऋचो वागिन्द्रियोच्चारणसाध्यत्वात् वागेव ऋक् सामगानस्य प्राणनरूपश्वासधारणसाध्यत्वात् प्राण: एव साम । उद्गीथ भक्त्यवयवत्वात् ओमित्यक्षरमेव उद्गीथः इत्यर्थः । तद्वा……प्राणश्च ।  स्त्रीलिङ्गशब्दवाच्यतया वाचः स्त्रीत्वं प्राणस्य पुल्लिङ्गशब्दवाच्यतया पुंस्त्वम् इति भावः । ऋक् च साम च । अत्रापि तदेतत् मिथुनमिति अनुषज्यते । उक्तरीत्या वाक्प्राणयोः मिथुनत्वेन तदभिन्नत्वेन ऋक्सामयोः अपि मिथुनत्वं द्रष्टव्यम् ।।

[मिथुनरूपस्य फलम्]

तदेतन्मिथुनम् ओमित्येतस्मिन्नक्षरे सँसृज्यते, यदा वै मिथुनौ समागच्छतःआपयतो वै तावन्योन्यस्य कामम् ।। ।।

प्र. – तदेतत्संसृज्यते । ऋक्सामात्मकं तदेतत् मिथुनं ओमिति एतस्मिन् अक्षरे उद्गीथावयवभूते संसृज्यते । उद्गीथस्य ऋगारूढसामभक्तिरूपत्वेन ऋक्सामरूपतया उद्गीथावयवप्रणवस्य ‘ऋक्सामभ्यां’ संसृष्टत्वात् तदात्मकमिथुनेन संसृष्टत्वम् इत्यर्थः । वाक्प्राणात्मकमिथुनाध्यासविशिष्टऋक्सामसंसृष्टतया उद्गीथावयवप्रणवोपासनं कर्तव्यम् इत्यर्थः ।

यदाकामम् । यदा दम्पती मिथुनीभूतौ ग्राम्यधर्माय संसृज्येयाताम् , तदा अन्योन्यकामप्रापकत्वं प्रसिद्धम् इत्यर्थः । मिथुनौ इति पुंस्त्वद्विवचने छान्दसे। ततश्च : ओङ्कारोऽपि स्वसंसृष्टमिथुनेन कामप्रापकः इति भावः ।।

[उद्गीथोपासनस्य फलम्]

आपयिता वै कामानां भवति, एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।। ।।

प्र. -तदुपासकोऽपि उद्गाता स्वोपास्यौङ्कारवत् यजमानकामप्रापकः इत्याह आपयिता उपास्ते । ‘कामाप्त्यादि विशिष्टोद्गीथावयवोपासनस्य यजमानगतकामाप्तिः एव फलमित्यर्थः ।।

तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदा हैषो एव समृद्धिर्यदनुज्ञा

समर्द्धयिता वै कामानां भवति एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।। ।।

प्र. – तद्वा एतदनुज्ञाक्षरम् । ओङ्कारः अनुज्ञाक्षरमित्यर्थः । तदेव उपपादयति यद्धि……तदाह । ‘लोके हि’ अनुज्ञां प्रयच्छन् पुरुषः ओमिति अनुजानाति इत्यर्थः । एषो……ज्ञा । उशब्दः प्रसिद्धौ । लोके समृद्धिमान् हि ‘ओम्’ इति अनुज्ञां प्रयच्छति । अतः अनुज्ञारूपस्य ओङ्कारस्य समृद्धिमूलत्वात् अनुज्ञारूप: ओङ्कारः एव समृद्धिः इत्यर्थः । एवं समृद्धिगुणविशिष्ट – ओङ्कारोपासनस्य फलमाह – समर्द्धयिता……उपास्ते इति । यजमानस्य कामसमृद्धिं करोति इत्यर्थः ।।

[ओङ्कारस्य स्तुतिः]

तेनेयं त्रयी विद्या वर्तते, ओमित्याश्रावयति, ओमिति शँसति, ओमित्युद्गायति एतस्यैवाक्षरस्यापचित्यै महिना रसेन ।। ।।

प्र. उपास्यम् ओङ्कारं प्ररोचनार्थं स्तौति – तेनेयं इत्यादिना । तेन – प्रकृतेन उपास्येन औङ्कारेण त्रयी विद्या‘ – त्रयीविहितं कर्म प्रवर्तते इत्यर्थः । तदेव उपपादयति – ओमितिउद्गायति । ओङ्कारपूर्वकत्वात् आश्रावणशंसनोद्गानानाम् इत्यर्थः । किमिति ओङ्कारपूर्वकमेव आश्रावणादिकं क्रियते इत्यत्राह – एतस्यैव रसेन रसेन – सारभूतेन महिमा – माहात्म्येन युक्तस्य एतस्य – ओङ्कारलक्षणस्य अक्षरस्य अपचित्यै – पूजार्थम् इत्यर्थः ।।

[उद्गीथविद्याफलं वीर्यवत्तरत्वम् ]

तेनोभौ कुरुतो यश्चैतदेवं वेद, यश्च वेद ; नाना तु विद्या चाविद्या यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्यवत्तरं भवति ।। इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ।। १० ।।

।। इति प्रथमः खण्डः ।।

प्र. – ‘ननु अनेवंविद्भिरपि’ कर्मणः अनुष्ठीयमानत्वदर्शनात् विद्यावैयर्थ्यम् इत्याशंक्य, सत्यं, विद्वद्भिः अविद्वद्भिः अपि लोके ओङ्कारेण कर्मानुष्ठीयते तथाऽपि विद्याविद्ये विलक्षणफले ; विद्यया क्रियमाणं हि कर्म वीर्यवत्तरं भवति ; अतादृशं तु न तथा इत्याह – तेनोभो इत्यादिना । नाना तु विलक्षणफले इत्यर्थः । यदेव ; कर्म इत्यर्थः । विद्या – उपासनम् । श्रद्धा – आस्तिक्यबुद्धिः । उपनिषच्छब्देन उपनिषज्जन्यं ब्रह्मात्मकत्वज्ञानमुच्यते । कर्मणः वीर्यवत्तरत्वं नाम प्रबलकर्मान्तरा : प्रतिबद्धफलकत्वम् ।। इति…… भवति । रसतमत्व-कामाप्ति-समृद्धि-गुणकत्वादिभि: उक्तप्रकारैः विशिष्टम् अभिहितम् उपासनं सर्वमेतत् अक्षरविषयकमेव इत्यर्थः । ततश्च उपास्यभेदशङ्का न कार्या इति भावः ।। एतत्खण्डान्तर्गतवाक्यविषयाणि अधिकरणानि उपन्यस्यन्ते अङ्गपादे – ‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमी यदुद्गीथ:’ इत्येवं जातीयकानां वाक्यानाम्’, ‘इयमेव जुहूः, स्वर्गो लोक आहवनीयः’ इत्यादिवाक्यवत् स्तावकत्वमेव, न तु रसतमत्वादिलक्षणोपास्यगुणसमर्पकत्वम् । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति न उपासनं विधीयते । ‘उद्गीथविधि सिद्धानुष्ठानौपयिकज्ञानसामान्यवाची हि उपासनशब्दः । अतोऽनुवाद एव । ततश्च रसतमत्वादिवाक्ये समभिव्याहृतविध्यभावेन तदेकवाक्यतया स्तावकत्वाभावेन ‘उद्गीथपदो पस्थापि तक्रतु’ प्रकरणगत – उद्गीथविध्येकवाक्यतया एव रसतमादिवाक्यानां स्तावकत्वम् । न च स्तावकवाक्यानां स्तुत्यविधिसमभिव्याहारनियमोऽस्ति । “एतद्ब्राह्मणान्येव पञ्चहवींषि, यद्ब्राह्मणानीतराणि” इति अतिदिष्टार्थवादेषु व्यभिचारात् । अस्तु वा “उद्गीथमुपासीत” इति उपासनविधिः; तदेकवाक्यता च “रसतमत्वा’ दिवाक्यानाम् – तथाऽपि रसतमादिवाक्यानां न उपासनविषयसमर्पकत्वेन एकवाक्यत्वम् , “ओमित्येतदक्षरम्” इत्यनेनैव उपास्यस्य लाभात् । अपितु उपास्योद्गीथस्तावकत्वेनैव ; ‘उपास्योद्गीथमादाय स्तुतिमात्रस्य उपलम्भात् इति ‘स्तुतिमात्रमुपादानादिति चेत्’ (ब्र.सू. ३-४-२१) इति सूत्रखण्डेन पूर्वपक्षं कृत्वा’, ‘नापूर्वत्वात्’ इति सूत्रखण्डेन च, ‘भावशब्दाच्च’ (ब्र.सू.३-४-२२) इति सूत्रेण च सिद्धान्तः कृतः ।

अयमर्थः – उद्गीथे रसतमत्वादीनां मानान्तराप्राप्तत्वेन अनुवादमुखेन स्तुत्यसम्भवात् । ‘इयमेव जुहूः’ इत्यादौ जुहूविधेः सन्निहिततया तदेकवाक्यत्वेन तत्स्तावकत्व सम्भवेऽपि क्रतुप्रकरणगतोद्गीथविधेः असन्निहिततया तदेकवाक्यत्वाभावात् । ‘एतद्ब्राह्मणान्येव पञ्च हवींषि’ इत्यादिवत् तदेकवाक्यताकल्पकवचनान्तराभावात् । ओमित्येतदक्षरमुद्गीथमुपासीत’ इति सन्निहिते विस्पष्ट विधिप्रत्यययुक्ते क्रियावाचिनि भावशब्दे विद्यमाने तदेकवाक्यताम् अनादृत्य क्रतुप्रकरणगतोद्गीथविध्येकवाक्यताकल्पनस्य अन्याय्यत्वात् । ननु सन्निहितोपासनविध्येकवाक्यत्वेऽपि उपास्योद्गीथस्तावकत्वेनैव रसतमादिवाक्यानाम् एकवाक्यताऽस्तु; न तु उपास्यसमर्पकत्वेन इति चेन्न; उपासनविषयसमर्पकतया प्रवृत्तिविशेषकरत्वे सम्भवति व्यर्थप्रायस्तुतित्वकल्पनाया:  अयुक्तत्वात्’ । अतः रसतमत्वादिकमपि उपास्यमेव । ततश्च रसतमत्वादिविशिष्टया एव उद्गीथोपासनं कर्तव्यं तत्तत्फलार्थिभिः इति स्थितम् । तथा-ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादौ निर्विशेषसामान्येन व्यवहारासम्भवात् विशेषाकाङ्क्षायां तत्तच्छाखागतानामेव उद्गीथव्यक्तीनां सन्निहितत्वात् तन्मात्रविषयत्वमेव उद्गीथश्रुतेः’ युक्तम् । ततश्च ताण्डिशाखागतरसतमत्व-कामाप्ति- हिरण्मयपुरुष-आकाशादिदृष्टिविशिष्टोपासने ताण्डिशाखागतोद्गीथव्यक्तेरेव क्रतुमध्यप्रयुक्तायाः उपास्यत्वम्, न तु शाखान्तरगतोद्गीथव्यक्तेः । न च सर्वशाखागतोद्गीथानाम् ऐक्यं शंक्यम् – स्वरादिभेदेन उद्गीथव्यक्तीनां भिन्नत्वात् । न च उद्गीथश्रुतेः संकोचलक्षणबाधप्रसङ्ग: इति वाच्यम् – शुक्लपटमानय इत्यादौ पटशब्दस्य व्यक्तिविशेषार्थकत्वेऽपि, “जातिव्यक्ती गृहीत्वेह वयं तु ‘श्रुत’ लक्षिते । “कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यते” ।। (श्लो.वा.३४८) इति न्यायेन श्रुत्यर्थभूतायाः पटत्वजातेः, लक्ष्यायाः व्यक्तेश्च अपरित्यागेन पटश्रुत्यबाध: इत्युक्तरीत्या उद्गीथश्रुतेरपि अबाधात् तत्तच्छाखागतोद्गीथमात्रविषयत्वमेव – इति पूर्वपक्षे प्राप्ते, उच्यते – ‘अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्’ (ब्र.सू. ३-३-५३) तु शब्दः पूर्वपक्षव्यावृत्त्यर्थः । उद्गीथाद्यङ्गावबद्धाः उपासनाः तत्तच्छाखागंतोद्गीथव्यक्तिषु एव न व्यवतिष्ठेरन् । अपितु प्रतिशाखं संबध्येरन् । शुक्लं पटमानय  इत्यादौ शुक्लपदसमभिव्याहारान्यथानुपपत्त्या विशिष्टैकार्थप्रत्यायनाय अविशेषप्रवृत्तश्रुतेः पीडनेऽपि प्रकृते तादृशबाधकाभावेन अविशेषप्रवृत्तोद्गीथश्रुतेः सन्निधिमात्रेण 1 संकोचाभावात्।।

शाखान्तरगत: क्रतु मध्ये प्रयुज्यमानः उद्गीथः शाखान्तरोक्तोपासनप्रकारेणापि उपास्य इत्यर्थः । ‘मन्त्रादिवद्वाऽविरोधः’ (ब्र.सू. ३-३-५४) । शाखान्तराम्नातानां मन्त्रादीनां शाखान्तराम्नातक्रतुसम्बन्धवत् शाखान्तरगत उपासनानामपि शाखान्तरगतोद्गीथसम्बन्धे विरोधाभावात् इति स्थितम् ।  तथा गुणोपसंहारपादे ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादिना विहितानाम् अङ्गावबद्धोपासनानाम् अव्यभिचरितक्रतुसम्बन्धिजुहूपस्थापित  क्रतुफलनिराकाङ्क्षपर्णतादिवत् अव्यभिचरितक्रतुसम्बन्धि उद्गीथोपस्थापितक्रतुफलेनैव नैराकाङ्क्ष्यात्, ‘तदेव वीर्यवत्तरं भवति’ इति वीर्यवत्तरत्वादिश्रवणानाम् अर्थवादत्वात् व्रीहिप्रोक्षणपर्णतादिवत् अङ्गत्वात् उपासनानि क्रतो नियमेन उपादेयानि इति पूर्वपक्षे प्राप्ते – उच्यते । ‘तन्निर्धारणानियमस्तदृष्टे: पृथग्घ्यप्रतिबन्धः फलम्’ (ब्र.सू. ३-३-४१) । निर्धारणं ‘निश्चयेन मनसोऽवस्थापनम् । ध्यानम् इत्यर्थः। तस्य उपासनस्य अनियमः नियमेन अननुष्ठानम्, ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ इति अनियमदर्शनात्। तस्य उपासनस्य प्रबलकर्माप्रतिबन्धरूप- वीर्यवत्तरत्वलक्षणफलान्तरवत्त्वेन कर्माङ्गत्वाभावात् इत्यर्थः । अयं भावः पर्णतोदुम्बरत्वादिस्थले विधिविभक्त्यश्रवणात् अर्थवादेनैव विधिशक्तिम् उपजनय्य पुनः तेनैव फलसमर्पणे विरम्यव्यापारात् वाक्यं भिद्येत । उपासनायां तु विस्पष्टविधिश्रवणात् न फलविधित्वे वाक्यभेदशंका । अत: पर्णतोदुम्बरतादिविध्यपेक्षया उपासनविधेः वैषम्यात् फलविधित्वं सम्भवतीति । इति स्थितम् । तथा अङ्गपादे – मुक्तिव्यतिरिक्तफलकोपासनानाम् उद्गीथविद्यारहितयज्ञादि कर्मनिष्पाद्यानामपि यज्ञादिरूपसाधननिष्पत्तौ सत्यां विलम्बे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षे प्राप्ते – उच्यते । ‘ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्’ (ब्र.सू.३-४-५०) । मुक्तिव्यतिरिक्तफलकम् उपासनं अप्रस्तुतप्रतिबन्धेप्रतिबन्धाभावे ऐहिकंइहैव जन्मनि सम्भवति । सतिप्रतिबन्धे जन्मान्तरे । न च प्रतिबन्धासम्भवः शंकनीयः, ‘यदेव विद्यया करोति श्रद्धया उपनिषदा तदेव वीर्यवत्तरं भवति’ इति उद्गीथविद्यायाः प्रबलकर्मान्तराप्रतिबद्ध- फलत्वावेदनेन प्रबलकर्मान्तरप्रतिबन्धस्य अनुज्ञातत्वात् । न च ‘तमेतं वेदानुवचनेन ब्राह्मणाः विविदिषन्ति’ (बृ.उ.६-४-२२) इति यज्ञादेवेदन साधनत्वश्रवणात् कारीर्यभिचारादिवत् नियतैहिकत्वमेव किं न स्यादिति वाच्यम् – शुष्यच्छालिसम्पत्ति- वैरिविशेषविपत्तिफलकत्वेन विहितानां तेषां नियतैहिकत्वेऽपि विद्यासाधनयज्ञादिकर्मणां तज्जन्मनि विद्योद्देशेन अविहिततया पश्वादिफलकचित्रेष्ट्यादिवत् नियतैहिकत्वाभावात् । पूर्वतन्त्रे चतुर्थाध्याये योगसिद्ध्यधिकरणे तथा निर्णीतत्वात् इति स्थितम् ।। तथा तदुत्तराधिकरणे – ‘यक्षानुरूपो बलिः’ इति न्यायेन बलवत्कर्मसाध्यानां मुक्तिफलकब्रह्मोपासनानां प्रबलकर्मान्तरप्रतिबन्धासम्भवात् नियतैहिकत्वमेव इति पूर्वपक्षे प्राप्ते – उच्यते, ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’ (ब्र.सू.३-४-५१) मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्धत्वरूपावस्थायाः विशेषेण  तत्रापि अवधृतत्वात् । तत्रापि प्रबलानां ब्रह्मविदपचारादिप्रतिबन्धकानां सम्भवात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था’ । प्रकृतमनुसरामः ।।

।। इति प्रथमखण्डभाष्यम् ।।

 

द्वितीयः खण्डः

[उद्गीथावयवे ओङ्कारे मुख्यप्राणदृष्टिः]

देवासुरा वै यत्र संयेतिरे उभये प्राजापत्याः तद्ध देवा उद्गीथमाजहुःअनेनैनान् अभिभविष्यामइति ।। ।।

प्र. उद्गीथावयवे ओङ्कारे मुख्यप्राणदृष्टिं विधातुम् आख्यायिकां प्रस्तौति – देवासुरा…… प्राजापत्या इत्यादिना । द्विविधाः प्रजापतिसुताः देवासुराः यत्र यस्मिन् काले परस्परं संयेतिरे – युद्धं कृतवन्तः इत्यर्थः । प्राजापत्या इति अपत्यार्थे, ‘दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः’ (पा.सू. ४-१-८५) इति ण्यः। तद्ध……इति तत् – तदा-ह – प्रसिद्धं यथा तथा देवाः अनेनैव – उद्गीथावयवेन ओङ्कारेण उपासितेन एनान् – असुरान् अभिभविष्याम: जेष्यामः इत्यभिसन्धाय ‘उद्गीथं प्राणं उपायत्वेन स्वीकृतवन्तः इत्यर्थः ।।

ते नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे ; तँ हासुराः पाप्मना विविधुः । तस्मात् तेनोभयं जिघ्रति सुरभि दुर्गन्धि ; पाप्मना ह्येष विद्धः ।। ।।

 प्र. –ते……चक्रिरे ते – देवा: घ्राणेन्द्रियत्वेन उद्गीथम् उपासितवन्तः इत्यर्थः । नासिकायां भवं नासिक्यम् । ‘शरीरावयवाञ्च’ (पा.सू.४-३-५५) इति यत् । तं……विविधुःतं – नासिक्यं प्राणम् असुराः – स्वकीयेन पाप्मना विविधुः संयोजितवन्तः । पापहेतुभूतवृत्त्या संयोजितवन्तः इति यावत् । तस्मात्……विद्धः । तस्मात् – पापसंसर्गाद्धेतोः पुरुषः घ्राणेन सुरभि च दुर्गन्धि च उभयं जिघ्रति । तस्मात् नासिक्यः प्राणः पापविद्ध एव इत्यर्थः ।।

अथ वाचमुद्गीथमुपासाञ्चक्रिरे, ताँ हासुराः पाप्मना विविधुः। तस्मात् तयोभयं वदति सत्यञ्चानृतञ्च; पाप्मना ह्येषा विद्धा ।। ।।

 प्र. – अथ वाचम् – इत्यादि । पूर्ववत् ।।

अथ चक्षुरुद्गीथमुपासाञ्चक्रिरे, तद्धासुराः पाप्मना विविधुः तस्मात् तेनोभयं पश्यति दर्शनीयञ्चादर्शनीयञ्च ; पाप्मना ह्येतद् विद्धम् ।। ।।

प्र. – अथ……चक्रिरे इत्यादि । अदर्शनीयम् – अमेध्यादिकम् इत्यर्थः ।।

अथ श्रोत्रमुद्गीथमुपासाञ्चक्रिरे ; तद्धासुराः पाप्मना विविधुः तस्मात् तेनोभयँ शृणोति श्रवणीयञ्चाश्रवणीयञ्च ; पाप्मना ह्येतद् विद्धम् ।। ।।

प्र. – अथ……चक्रिरे इत्यादि । अश्रवणीयं – पापवचनम् इत्यर्थः ।।

अथ मन उद्गीथमुपासाञ्चक्रिरे; तद्धासुराः पाप्मना विविधुः; तस्मात् तेनोभयँ सङ्कल्पयते सङ्कल्पनीयञ्चासंकल्पनीयञ्च ; पाप्मना ह्येतद् विद्धम् ।। ।।

प्र. अथ……चक्रिरे इत्यादि । असंकल्पनीयं – पापम् इत्यर्थः ।।

[असुराणां पराभवः]

अथ , एवायं मुख्यः प्राणः, तमुद्गीथमुपासाञ्चक्रिरे ; तँ हासुरा ऋत्वा विदध्वँसुः, यथाऽश्मानमाखणमृत्वा विध्वँसेत, एवम् ।। ।।

 प्र. – अथ……चक्रिरे । उद्गीथावयवम् ओङ्कारं मुख्यप्राणत्वेन उपासितवन्तः इत्यर्थः । तं विदध्वंसुः। तं – मुख्यप्राणं पाप्मना वेद्धुं प्रवृत्ताः असुराः तं ऋत्वा-प्राप्य स्वयमेव विदध्वंसुः – विध्वस्ता अभवन् इत्यर्थः । तत्र दृष्टान्तमाह – यथाऽश्मानं एवम् । आखन्यते इति आखणं मृत्पिण्डः । यथा मृत्पिण्डः अश्मानं प्राप्य विध्वस्तो भवति, एवम् इति व्यासार्यै: व्याख्यातम् । आखणमिति छान्दसं णत्वम् ; नपुंसकत्वञ्च ।।

[उद्गीथविद्यायाः फलम्]

 यथाऽश्मानमाखणमृत्वा विध्वँसते, एवं हैव विध्वँसते, एवंविदि पापं कामयते, यश्चैनमभिदासति; एषोऽश्माखणः ।। ।।

प्र. एतद्विद्यायाः फलमाह यथा…… कामयते इत्यादि । एवंविदि एतद्विद्यानिष्ठे यः पापं कर्तुं कामयते, यश्चैनं अभिदासति – हिनस्ति, सः अश्मप्राप्तलोष्टवत् ध्वस्तो भवति इत्यर्थः । ‘दाप् लवने’ (धा.पा.१०५९) इत्यतः, ‘दो अवखण्डने’ (धा.पा. ११४८) ‘इत्यतो’ वा लेटि ; ‘सिब्बहुलं लेटि’ (पा.सू.३-१-३४) इति सिपि दासति इति रूपम् ।

एषोऽश्माखणः एषः एतद्विद्यानिष्ठे पापकामः अश्माखण: अश्मप्राप्ताखण इत्यर्थः । एतेन – ‘खनो घ च’ (पा.सू. ३-३-१२५) इति ‘घप्रत्ययस्य, करणाधिकरणयोः’ (पा.सू.३-३-११७) इत्यनुवृत्त्या कर्मण्यभावात् , करणार्थ एव घप्रत्ययो वक्तव्यः । अतः आखणशब्दस्य अश्मविशेषणत्वमेव वक्तव्यम् । खननसाधनतया दृढम् अश्मानं प्राप्य यथा लोष्टादिकं ध्वंसते इति हि तस्यार्थः । अत एव एषोऽश्माखण इति वाक्यशेषे अश्मविशेषणत्वमेव आखणस्य श्रूयते – इति शंकाऽपास्ता । वाजसनेयके समानप्रकरणे, ‘यथाऽश्मानमृत्वा लोष्टो विध्वँसते’ (बृ.उ.३-३-७) इति श्रवणेन तत्समानार्थत्वस्य वक्तव्यतया आखणशब्दस्य लोष्टवाचित्वस्यैव उचितत्वात् । बहुलग्रहणेन कर्मण्यपि घप्रत्ययस्य उपपत्तेः । इतरथा कर्तृवाचिपदाध्याहारप्रसङ्गात् । स एषोऽश्माखणः इत्यत्र अश्माखणशब्दस्य समस्तस्य अश्मप्राप्ताखणवाचित्वेन, अश्मशब्दसामानाधिकरण्येन आखणशब्दस्य अश्मविशेषणत्वाभावात् । पूर्ववाक्ये नपुंसकलिङ्गनिर्दिष्टस्यापि स एष इति पुल्लिङ्गसामानाधिकरण्येन आखणशब्दस्य पुल्लिङ्गत्वोपपत्तेश्च इति द्रष्टव्यम् ।।

[अपहतपाप्मा मुख्यप्राणः]

 नैवैतेन सुरभि दुर्गन्धि विजानाति ; अपहतपाप्मा ह्येषः तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवति; एतमु एवान्ततोऽवित्त्वोत्क्रामति ; व्याददात्येवान्ततः इति ।। ।।

प्र. – इतरप्राणाद्यपेक्षया तस्य वैषम्यमाह – नेव…… विजानाति । एतेन मुख्यप्राणेन इत्यर्थः । पुरुष इति शेषः । तत्र हेतुमाह – अपहतपाप्मा ह्येष इति । स्पष्टोऽर्थः तेन यत् अवति । तेनैव हेतुना तस्य अपहतपाप्मत्वादेव प्राणान्तरवत् आत्मम्भरित्वाभावात् स्वाशितपीतादिना इतरान् प्राणान् रक्षति इत्यर्थः । एतमु……क्रामति । यत एव घ्राणादिप्राणसमुदाय: मुख्यप्राणाशित-पीत-लब्धसत्ताकः । अत एव अन्ततः – मरणकाले मुख्यप्राणाशितादेः अभावेन एतम् अवित्त्वा – अलब्ध्वा उत्क्रामति इत्यर्थः । ‘विद्ल् लाभे’ (धा.पा.१४३३) इति हि धातुः । व्याददात्येवान्तत इति । अन्ततः मरणकाले सर्वप्राणानाम् उत्क्रमणादेव ‘आस्य व्यादानं करोति इत्यर्थः ।।

[प्राणस्य अङ्गिरसस्त्वादि]

तँ हाङ्गिराः उद्गीथमुपासाञ्चक्रे; एतमु एवाङ्गिरसं मन्यन्ते, अङ्गानां यद्रसः ।। १० ।।

 प्र. – तं……चक्रे तं – अध्यस्तप्राणभावम् उद्गीथम् उद्गीथावयवम् ओङ्कारम् अङ्गिराः ऋषिः उपासाञ्चक्रे इत्यर्थः । केचित्तु अङ्गिरसा उपास्यमेव ‘मुख्यप्राणम् अङ्गिरस’ वदन्ति इत्याह – एतमु…… रसः । अङ्गानां प्राणाधीनस्थितित्वेन प्राणस्य अङ्गिरसत्वम् इति भावः । अङ्गरसम् अङ्गिरसं वदन्ति परोक्षप्रियत्वात् देवानाम् इति भावः ।

तेन तँ बृहस्पतिरुद्गीथमुपासाञ्चक्रे एतमु एव बृहस्पतिं मन्यन्तेवाग्घि बृहती, तस्या एष पतिः ।। ११ ।।

प्र. – तेन…… चक्रे तेन – अङ्गिरसत्वेन गुणेन बृहस्पतिः उपासितवान् इत्यर्थः । एतमु……पतिः । वागिन्द्रियस्य सर्वार्थप्रकाशकत्वादिना ‘बृहत्वम्’।’तस्य मुख्यप्राणाधीनत्वात् प्राणस्य वाक्पतित्वम् । अत: उपास्यस्यैव बृहस्पतित्वं मन्यन्त इत्यर्थः।

तेन तँ हायास्य उद्गीथमुपासाञ्चक्रे एतमु एवायास्यं मन्यन्ते, आस्याद्यदयते ।। १२ ।।

प्र. – तेन……उपासाञ्चक्रे तेन – बृहस्पतित्वेन ‘अयास्यः ऋषिः’ उपासितवान् इत्यर्थः । एतमु……यदयते आस्यात् – मुखात् अयते – निर्गच्छति इत्यर्थः ।।

तेन तँ बको दाल्भ्यो विदाञ्चकार नैमिषीयाणामुद्गाता बभूव ; स  स्मैभ्य: कामानागायति ।। १३ ।।

प्र. – तेन……विदाञ्चकार तेन – पूर्वोक्ताङ्गिरसत्व-बृहस्पतित्वायास्यत्वादि-गुणविशिष्टतया दल्भसुतो बको नामा ऋषिः उपासितवान् इत्यर्थः। बभूव । स्पष्टोऽर्थः । ……आगायति सः दाल्भ्य: बकः एभ्यः नैमिषीयेभ्यः यजमानेभ्यः शत्रुपराभवादीन् कामान् गानेन विद्यामाहात्म्यात् सम्पादितवान् इत्यर्थः । आगायति स्म । ‘लट् स्मे’ (पा.सू.३-२-११८) इति लट् ‘भूतेऽपि ।।

[अङ्गिरत्वादि गुणोपासनस्य फलम्]

आगाता वै कामानां भवति, एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यध्यात्मम् ।। १४ ।।

।। इति द्वितीयः खण्डः ।।

प्र. आगाता……उपास्ते। एवम् उपासको यजमानकामानां गानेन सम्पादयिता भवति इत्यर्थः । इत्यध्यात्मम् । अध्यात्मम् उद्गीथोपासनं समाप्तम् इत्यर्थः । आत्मशब्देन इन्द्रिय-मनःप्राणादि-सङ्घात उच्यते । अध्यात्मम् – आत्मनि इत्यर्थः । आत्मविषयम् इति यावत् ।। एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणं लिख्यते । अङ्गपादे – ऋत्विक्परिक्रयस्य अङ्गानुष्ठानमात्रार्थत्वात् , अङ्गावबद्धोपासनानाञ्च ‘तन्निर्धारणानियमस्तदृष्टे : पृथग्ध्यप्रतिबन्धः फलम्’ (ब्र.सू.३-३-४१) इति सूत्रोक्तन्यायेन अनङ्गत्वात् । ‘शास्रफलं प्रयोक्तरि’ (पू.मी.सू.३-७-१७) इति न्यायेन यजमानगामिफल- साधनभूतोपासनस्य यजमानेनैव कर्तव्यत्वात् , ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इति श्रुतपश्वर्थगोदोहनादेः अनङ्गत्वेऽपि ऋत्विक्कर्तृकप्रणयन ‘निर्वर्तकस्य गोदोहनस्य यजमानेन उपादातुम् अशक्यतया ऋत्विक्कर्तृकत्वेऽपि उद्गातृकर्तृके उद्गीथे यजमानस्य उपासनसम्भवात् उपासनं याजमानमेव । औद्गात्रसमाख्यानं तु ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायेन विरोधात् उपेक्षणीयम् । अतः फलस्य स्वामिगतत्वात् फलस्वामियजमानकर्तृकमेव उपासनम् इति आत्रेयमतमिति, ‘स्वामिनः फलश्रुतेरित्यात्रेयः’ (ब्र.सू. ३-४-४४) इति सूत्रेण पूर्वपक्षं कृत्वा उपासनान्यपि ऋत्विक्कर्माण्येव स्युः । प्रयोगाङ्गस्य ऋत्विजः प्रयोगान्त: पात्युद्गीथाधुपासनेऽपि कर्तृत्वसम्भवात् । ‘तँ ह बको दाल्भ्यो विदाञ्चकार’ । ‘स ह नैमिषीयाणाम् उद्गाता बभूव । स ह स्मैभ्यः कामानागायति’ इति उद्गातृदाल्भ्यगतविद्यायाः यजमानकामसम्पादकत्वदर्शनलिङ्गाच्च ऋत्विक्कर्तृकमेवोपासनम् । न च ऋत्विक्कर्तृकोपासनस्य फलं ऋत्विग्गतमेव स्यादिति ‘शक्यशङ्कम्’ । ऋत्विजां परार्थतया तेषां वचनमन्तरेण फलसम्बन्धानुपपत्तेः । ‘यां वै काञ्चन यज्ञे ऋत्विज आशिषमाशासते, यजमानायैव एतामाशिषमाशासते’ (शत.ब्रा. १-३-१-२६) इति श्रुतेश्च । ‘तस्मादु हैवं विदुद्गाता ब्रूयात् कं ते काममागायानि’ (छां.उ. १-७-८) इति ऋत्विग्गतविज्ञानस्य

यजमानगामिफलक त्वावेदन लिङ्गाच्च न, ‘शास्त्रफलं प्रयोक्तरि’ (पू.मी.सू.३-७-१-७) इति न्यायावतार: । ततश्च परिक्रयविधिबलात् उत्सृष्टस्य ऋत्विक्कर्तृकस्य याजमानसमाख्यापादकाभावात् लिङ्गानुग्रहात् औद्गात्रसमाख्यानाञ्च  आर्त्विज्यमेवोपासनमिति, ‘आर्विज्यमित्यौडुलोमिः, तस्मै हि परिक्रीयते’ (ब्र.सू. ३-४-४५) इति सूत्रेण सिद्धान्तितम् । सूत्रस्य चायमर्थः – उपासनमार्त्विज्यम् ऋत्विक्कर्म । तस्मै ‘क्रतुप्रयोगाय’ हि ऋत्विक् परिक्रीयते । अत: अनङ्गभूतमपि उपासनं क्रतुप्रयोगान्तः पातित्वात् ऋत्विजा एवानुष्ठेयमिति स्थितम् । तथा गुणोपसंहारपादे चिन्तितम् । तत्र हि वाजिनां तावत् ‘द्वया ह वै प्राजापत्या देवाश्चासुराश्च’ इत्यारभ्य, ‘ते ह देवा ऊचुः, हन्तासुरान् यज्ञ उद्गीथेनात्ययाम’ (बृ.उ.३-३-१) इति उद्गीथेन असुरविध्वंसनं प्रतिज्ञाय उद्गीथे  वागादिमनःपर्यन्तदृष्टौ असुरैः अभिभवमुक्त्वा, ‘अथ हेममासन्यं प्राणमूचुः’ (बृ.उ.३-३-७) इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपरिभवमुक्त्वा, ‘भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद’ (बृ.उ.३-३-७) इति शत्रुपराजयफलाय उद्गीथे प्राणदृष्टिविहिता । एवं छन्दोगानामपि – ‘देवासुरा ह वै यत्र संयेतिरे’ इत्यारभ्य, ‘तद्ध देवा उद्गीथमाजहुः । अनेनैनानभिभविष्यामः’ इति, (छां.उ. १-२-१) इति उद्गीथेन असुरपराभवं प्रतिज्ञाय तद्वदेव उद्गीथे वागादिदृष्टौ दोषम् अभिधाय, ‘अथ ह य एवायं मुख्यः प्राणः, तमुद्गीथमुपासाञ्चक्रिरे’ (छां.उ. १-२-७) इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा, ‘यथाऽश्मानमाखणमृत्वा विध्वँसते, एवँ हैव स विध्वँसते, य एवंविदि पापं कामयते’ (छां.उ. १-२-८) इति शत्रुपराभवाय उद्गीथे प्राणदृष्टिः विहिता ।। तत्र ‘उभयत्रा ध्यस्तप्राणभावस्य उद्गीथस्यैव उपास्यत्वश्रवणेन रूपाभेदात्, शत्रुपराभवरूपफलसंयोगाविशेषात्, उद्गीथविद्या इति समाख्यैक्याच्च तयोः ऐक्यमिति पूर्व:पक्षः। तत्र राद्धान्तच्छायया परिचोद्य परिहरति – ‘अन्यथात्वं शब्दादिति चेन्नाविशेषात्’ (ब्र.सू.३-३-६) । वाजसनेयके, ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्’ (बृ.उ. ३-३-७) इत्युद्गानकर्तरि प्राणदृष्टिविधानात् । छान्दोग्ये – ‘अथ ह य एवायं मुख्यः प्राणः तमुद्गीथमुपासाञ्चक्रिरे’ (१-२-७) इति उद्गानकर्मणि प्राणदृष्टिविधानात् शब्दात् उपास्यरूपान्यथात्वप्रतीतेः भेद इति चेन्न । देवासुरसङ्ग्रामोपक्रमादिबहुसारूप्यात्, वाजसनेयकेऽपि ‘हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति’ (बृ.उ. ३-३-१) इति उद्गीथेन उपक्रमात् तदविरोधाय, ‘तेभ्य एष प्राण उदगायत्’ (बृ.उ. ३-३-१) इति उद्गानकर्मरूप एवोद्गीथे पाकादिषु सौकर्यातिशयविवक्षया, ‘पच्यते ओदनः स्वयमेव’ इति ओदने कर्तृत्वोपचारवत् – उद्गानकर्मण्येव कर्तृत्वोपचारोपपत्तेः उद्गीथ एव उभयत्राप्युपास्यः । अतो विद्यैक्यम् – इति प्राप्ते प्रचक्ष्महे – ‘न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्’ (ब्र.सू. ३-३-७) । न वेति पूर्वपक्षं व्यावर्तयति । प्रकरणभेदात् । छान्दोग्ये ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति प्रकृतोद्रीथावयव-प्रणवविषयकम् उपासनम् । वाजसनेयके प्रणवस्य अप्रकृतत्वात्, उद्गीथेनात्ययाम इति कृत्स्नोद्गीथस्यैव प्रस्तुतत्वात् कृत्स्नोद्गीथविषयकमेव उपासनम् । अतो रूपभेदाद्विद्याभेदः । किञ्च छान्दोग्ये उद्गीथस्य अध्यस्तप्राणभावस्य’ उपास्यत्वम्, वाजिनां तु, ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति, तथेति तेभ्य एष प्राण उदगायत्’ (बृ.उ.३-३-७) इति अध्यस्तप्राणभावस्य उद्गातुरुपास्यत्वम् । न च वाजसनेयके उद्गातुरुपास्यत्वे, उद्गीथेनात्ययाम इति उपक्रमविरोधः शङकनीयः। उद्गातुरुपासने ‘उद्गीथस्यानु प्रविष्टतया उपक्रमावगतस्य उद्गीथस्य अपरित्यागात् । अत्र च वक्तव्यं बृहदारण्यकप्रकाशिकायाम् उक्तं, तत्रैवानुसन्धेयम् । संज्ञातश्चेत्तदुक्तम् अस्ति तु तदपि’ (ब्र,सू. ३-३-८) । ननु उद्गीथविद्येति संज्ञैक्यात् विद्यैक्यमुक्तमिति चेन्न – तत् संज्ञैक्यं विधेयभेदेपि अस्त्येव । यथा अग्निहोत्रसंज्ञा नित्याग्निहोत्रे कुण्डपायिनाम् अयनाग्निहोत्रे च । छान्दोग्यगतप्रथमप्रपाठकोदितासु बह्रीषु विद्यासु उद्गीथविद्या इति संज्ञैक्यस्य दर्शनाच्च तदप्रयोजकमिति भावः । ‘व्याप्तेश्च समञ्जसम्’ (ब्र.सू. ३-३-९)। छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासु ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादिषु ‘उद्गीथावयवस्य’ व्याप्तत्वेन तन्मध्यपातित्वात् अस्या अपि विद्याया उद्गीथावयवप्रणवविषयत्वमेव । ततश्च छान्दोग्यवाजसनेयकयोः बह्वर्थवादसारूप्येऽपि छान्दोग्यगतविद्याया अध्यस्तप्राणभावोद्गीथावयवप्रणवविषयत्वात् वाजसनेयकोद्गीथविद्यायाश्च अध्यस्तप्राणभावोद्गानकर्तृविषयत्वात् प्रधानभूतोपास्यभेदे बह्वर्थवादसारूप्यस्य अप्रयोजकत्वात् विद्याभेद इति स्थितम् । प्रकृतमनुसरामः ।।

।। इति द्वितीयखण्डभाष्यम् ।।

 

 

तृतीयः खण्डः

[आदित्यदृष्ट्या उद्गीथोपासनम्]

अथाधिदैवतम् एवासौ तपति तमुद्गीथमुपासीत उद्यन्वा एष प्रजाभ्य उद्गायति; उद्यँस्तमोभयमपहन्ति ; अपहन्ता वै भयस्य तमसो भवति एवं वेद ।। ।।

प्र.अताधिदैवतम् । उद्गीथस्य उपासनम् उच्यते इति शेषः । अधिदैवतम् – देवतायाम् इत्यर्थः । देवताविषयमिति यावत् । ……उपासीत । आदित्यदृष्ट्या उद्गीथमुपासीत इत्यर्थः । कर्माङ्गभूतोद्गीथापेक्षया कर्माराध्यस्य आदित्यस्य उत्कृष्टत्वात्, अपकृष्टे उत्कृष्टदृष्टेरेव न्याय्यत्वात् आदित्यदृष्ट्या उद्गीथस्य उपास्यत्वं द्रष्टव्यम् । अयमर्थः -‘आदित्यादिमतयश्चाङ्ग उपपत्तेः’ (ब्र.सू,४-१-६) इति अधिकरणसिद्धः । तच्चाधिकरणं बृहदारण्यकप्रकाशिकायाम् उपन्यस्त, तत्रैव अनुसन्धेयम् । उद्गीथेऽध्यस्यमानस्य आदित्यस्य उदगीथसाम्यमाह – उद्यन्गायति । वैशब्दोऽवधारणे । एष:। आदित्यः उद्यन् – उद्गच्छन्नेव प्रजानाम् अर्थप्रकाशनं कुर्वन् उद्गायतीव भवति । उद्गीथोऽपि प्रजानाम् उद्गायतीव भवति इत्यर्थः । उद्यन्……हन्ति । उद्यन्नेव आदित्य: तमोजनितं प्राणिनां भयम् अपहन्ति इत्यर्थः । तमोभयापहन्तृत्वगुणविशिष्टतया उद्रीथे आदित्योपासनस्य फलमाह अपहन्ता……वेद । अन्धकारादिप्रयुक्त भयहन्ता भवति इत्यर्थः ।।

[प्राणादित्ययोः समानत्वम् ]

समान एवायञ्चासौ , उष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते, स्वर इति प्रत्यास्वर इत्यमुम् तस्माद्वा एतमिमममुञ्चोद्गीथमुपासीत ।। ।।

प्र. समान……चासौ । अध्यात्मप्रकरणे उक्तः अयंप्राणश्च अधिदैवतप्रकरणे उच्यमानः असौ आदित्यश्च समान एव इत्यर्थः । तदेव दर्शयति उष्णोऽयमुष्णोऽसौअयं प्राण: उष्णः, उच्छ्वासस्य उष्णतया उपलभ्यमानत्वात् । उष्णोऽसौ – सवितुश्च उष्णत्वं स्पष्टमेवेति भावः । स्वरः……इत्यमुम् इमं – प्राणं स्वर इत्याचक्षते । स्वरः गन्ता इत्यर्थः । ‘स्वृ – शब्दोपतापयोः’ (धा.पा. ९३२) इत्यस्मात्, धातूनाम् अनेकार्थत्वात्, कर्तरि अचि रूपम् । अमुं – आदित्यं स्वर इति प्रत्यास्वर इति च आचक्षते । उदयास्तमययोः गमनप्रत्यागमनसत्त्वात् । प्राणस्य वायुरूपतया सदागतित्वेन प्रत्यागमनाभावात् न प्रत्यास्वरसंज्ञेति भावः । अत: स्वरसंज्ञावत्वात् औष्ण्याञ्च प्राणादित्यौ परस्परसमानौ इत्यर्थः । तस्मात्…… उपासीत तस्मात् उभयोरपि समत्वात् इमं – प्राणं वा अमुम् – आदित्यं वा एतम् – एतादृशगुणकम् उद्गीथमुपासीत । उद्गीथेऽध्यस्तम् उपासीत इत्यर्थः ।।

 

[व्यानात्मना उद्गीथं उपासीत]

अथ खलु व्यानमेवोद्गीथमुपासीत ; यद्वै प्राणिति प्राणः, यदपानिति सोऽपानः। अथ यः प्राणापानयोः सन्धिः व्यानः। यो व्यानः सा वाक् । तस्मादप्राणन् अनपानन् वाचमभिव्याहरति ।। ।।

प्र. – प्रकारान्तरेण उद्गीथोपासनमाह – अथ……उपासीत । उद्गीथं व्यानत्वेन उपासीत इत्यर्थः । को व्यानः इत्यत्राह – यद्वै प्राणिति इत्यादिना । पुरुषो मुखनासिकेन यत् प्राणिति-यं वायुं बहिर्निस्सारयति। सः प्राणाख्यो वायोः वृत्तिविशेषः । मुखनासिकेन यं वायुम् अन्तराकर्षति, सोऽपानाख्यवृत्तिविशेषः । तयोः अन्तरालवृत्तिविशेषरूप: सन्धिः व्यानः इत्यर्थः । उद्गीथे व्यानाध्यासहेतुमाह – यो व्यानः सा वाक् । वाच: व्याननिर्वर्यत्वात् वाक् व्यान: एवेत्यर्थः । वाचो व्याननिर्वर्त्यत्वे युक्तिमाह – तस्मात्……व्याहरतितस्मात् – वाचः व्याननिर्वर्यत्वादेव हेतोः अप्राणन् अनपानन् – श्वासमोक्षाकर्षणलक्षणप्राणापानौ विनैव तत्सन्धिरूपया व्यानवृत्त्या वाचम् अभिव्याहरति इत्यर्थः ।।

या वाक् सर्क् ; तस्मादप्राणन् अनपानन् ऋचमभिव्याहरति यर्क् तत् साम ; तस्मादप्राणन् अनपानन् साम गायति ; यत् साम उद्गीथः, तस्मादप्राणन् अनपानन् उद्गायति ।। ।।

प्र. या वाक् इत्यादि । अप्राणता अनपानता पुंसा क्रियमाणत्वादेव व्यानस्य वागृक्सामोद्गीथानाञ्च ऐक्यमित्यर्थः ।।

अतो यान्यन्यानि वीर्यवन्ति कर्माणि, यथाअग्नेर्मन्थनमाजे: सरणम्दृढस्य धनुष आयमनम्अप्राणन् अनपानँस्तानि करोत्येतस्य हेतोर्व्यानमेव उद्गीथमुपासीत ।। ।।

प्र. अत……उपासीत । लोके अग्निमथनमर्यादाधावनदृढधनुरारोपणादि वीर्यवत्कर्माणि व्यानसाध्यान्येव । अतोहेतोः उद्गीथाख्यवीर्यवत्कर्मणोऽपि व्यानसाध्यत्वात् व्यानमेव उद्गीथम् उपासीत इत्यर्थः ।।

अथ खलूद्गीथाक्षराण्युपासीत, उद्गीथ इति प्राण एव उत् ; प्राणेन ह्युत्तिष्ठति वाग्गीः, वाचो गिर इत्याचक्षते अन्नं थम् अन्ने हीदँ सवँ स्थितम् ।। ।।

प्र. अथ……उपासीत इति । उत् गी थ इति त्रीणि उद्गीथनामानुप्रविष्टाक्षराणि एव उपासीत इत्यर्थः । प्राण एव उत् । उत् इति अक्षरे प्राणबुद्धिः कार्या इत्यर्थः । तत्र हेतुमाह – प्राणेन ह्युत्तिष्ठतीति । स्पष्टम् । वाग्गी: । गी: इत्यक्षरे वाग्बुद्धिः कार्या । वाचो गीर्शब्दवाच्यत्वात् गीः इत्यस्य वागध्यासाधिष्ठानत्वम् उपपद्यते इति भावः । अन्नं थम् । थम् इत्यक्षरे अन्नबुद्धिः कर्तव्या इत्यर्थः । तत्र हेतुमाह – अन्ने……स्थितम् । अन्नस्य ‘सर्वस्थानत्वेन’ थकारवत्वसाम्यात् थशब्दे अन्नबुद्धिः युज्यते इति भावः ।।

[उद्गीथनामाक्षरोपासनम्]

द्यौरेव उत् , अन्तरिक्षं गीः, पृथिवी थम्, आदित्य एव उत् ; वायुर्गी:, अग्निः थम् ; सामवेद एव उत् , यजुर्वेदो गी:, ऋग्वेदः थम् ; दुग्धेऽस्मै वाग् दोहम् ; यो वाचो दोहः, अन्नवान् अन्नादो भवति, एतान्येवं विद्वान् उद्गीथाक्षराणि उपास्ते उद्गीथ इति ।। ।।

प्र. प्रकारान्तरेण ‘उद्गीथाक्षरोपासनमाह – द्यौरेवथम् इत्यादि उदक्षरे द्युलोकादित्यसामवेददृष्टिः, गीरक्षरे अन्तरिक्षवायुयजुर्वेददृष्टिः, थमक्षरे पृथिवी अग्निऋग्वेददृष्टिश्च कार्या इत्यर्थः । उक्तस्य चतुर्विधस्य उद्गीथनामाक्षरोपासनस्य फलमाह दुग्धेऽस्मै वाग्दोहम् । वाक् अस्मै ‘उपासकाय दोहं दोग्धि इत्यर्थः । कं दोहम् इत्यत्राह – यो वाचो दोहः । वाक्साध्यं फलम् इत्यर्थः । फलान्तरमप्याह – अन्नवान्नादो भवति । प्रभूतान्नः दीप्ताग्निश्च भवति इत्यर्थः । …… इति । स्पष्टोऽर्थः ।।

 

[आशीस्समृध्द्यर्थोपसरणानि]

अथ खल्वाशी: समृद्धिरुपसरणानीत्युपासीतयेन साम्ना स्तोष्यन् स्यात् , तत् सामोपधावेत् ।।८।।

प्र. अथ……उपासीत । आशीस्समृद्धिहेतुभूतानि उपासनानि इमानि इति मत्वा उपासीत -उपासनं कुर्यादित्यर्थः । केषाम् उपासनं कार्यम् इत्यत्राह . येन……धावेत् उपधावेत् – चिन्तयेत् । उपासीत इत्यर्थः । शिष्टं स्पष्टम् ।।

यस्यामृचि, तामृचम् यदार्षेयम्, तमृषिम् यां देवतामभिष्टोष्यन् स्यात्तां देवतामुपधावेत् ।। ।।

प्र. यस्मामृचि तामृचम् । यस्यां ऋचि साम्ना स्तोष्यन् स्यात् तामृचं चिन्तयेत् इत्यर्थः । यदार्षेयं तमृषिम् । ‘ऋषिसम्बन्धि आर्षेयम्’ । यस्यार्षेयम् यदार्षेयम् । शिवभागवतवत् समासः । साम यदृषिकम् तमृषिं चिन्तयेत् इत्यर्थः । यां……धावेत् । स्पष्टम् ।।

येनच्छन्दसा स्तोष्यन् स्यात् , तच्छन्द उपधावेत् येन स्तोमेन स्तोष्यमाणः स्यात्, तँ स्तोममुपधावेत् ।। १० ।।

प्र. – येन….उपधावेत् छन्दः – गायत्र्यादिकम् इत्यर्थः । येन धावेत् । स्तोमः – त्रिवृत्पञ्चदशादिलक्षण-ऋक्सङ्ख्याविशेषः ।।

यां दिशमभिष्टोष्यन् स्यात् , तां दिशमुपधावेत् ।। ११ ।।

प्र. – यां……धावेत् । यद्दिगभिमुखतया स्तोष्यन् स्यात् तां दिशं च ध्यायेत् इत्यर्थः ।।

आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन् अप्रमत्तः। अभ्याशो ह यदस्मै कामः समृध्द्येत, यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ।। १२ ।।

।। इति तृतीयः खण्डः ।।

प्र. – आत्मानं……अप्रमत्तः । उक्तं सर्वं ध्यात्वा अन्ततः – अन्ते आत्मानमपि उपसृत्य – ब्रह्मात्मकं ध्यात्वा कामं – आत्मन इष्टं ध्यायन् अप्रमत्तः अवहितः स्वरवर्णाद्यभ्रेषानुकूलमनोऽवधानयुक्तस्सन् बहिष्पवमानादिस्तोत्रमारभेत इत्यर्थः । अभ्याशो  स्तुवीतेति । यत्कामनया एवंवित् स्तोत्रं करोति स कामः यस्मात्कारणात् अभ्याश: क्षिप्रं समृध्द्येत – समृद्धिं प्राप्नोति इत्यर्थः । अभ्याङ्पूर्वात् अश्नोते: असुनि अभ्याश इति रूपम् । क्षिप्रफलसिद्धिः उपसरणफलम् इत्यर्थः । द्विरुक्तिः विद्यासमाप्त्यर्था ।।

चतुर्थः खण्डः

[प्रणवप्रशंसा]

ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति तस्योप – व्याख्यानम् ।। ।।

प्र. – ओमित्येतत् इत्यादि । पूर्ववदर्थः । अत्र उक्तस्यैव उद्गीथोपासनस्य पुनः परामर्शो मध्ये ‘उद्गीथनामाक्षरोपासनया’ अन्तरितत्वात् इति द्रष्टव्यम् ।।

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ; ते छन्दोभिरच्छादयन् । यदेभिरच्छादयन्, तत् छन्दसां छन्दस्त्वम् ।। ।।

प्र. – देवाः……प्राविशन् । देवा: मरणभीताः सन्तः त्रयीं विद्या प्राविशन् वैदिकं कर्म प्रारब्धवन्तः इत्यर्थः । ते छन्दोभिरच्छादयन् छन्दोभिः – कर्मविनियुक्तैः वैदिकैर्मन्त्रैः मृत्युभीताः सन्त आत्मानं छादितवन्तः इत्यर्थः । वैदिकमन्त्रकञ्चुकच्छन्ना इति यावत् । यत्……छन्दस्त्वम् । छादकत्वादेव (वैदिकमन्त्राणां) छन्दस्त्वम् इत्यर्थः ।।

तानु तत्र मृत्युः, यथा मत्स्यमुदके परिपश्येत्, एवं पर्यपश्यदृचि साम्नि यजुषि ते नुविदित्वो र्ध्वा‘; ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ।। ।।

प्र. तानु……यजुषि । उशब्दो निरर्थकः । तान् – देवान् कर्मपरान् , यथा मत्स्यग्राही उदके मत्स्यं परिपश्यति, एवं मृत्युः त्रयीविहितं, कर्मानुप्रविष्टान् ‘कर्मभ्रेष-समयं प्रतीक्ष्य ग्रहीतुम् ऐच्छत् इत्यर्थः । ते नु……प्राविशन् ते – देवा: मृत्योः चिकीर्षितं ज्ञात्वा ऋक्सामयजूरूपत्रयीविहितयज्ञादिकर्मभ्यः ऊर्ध्वा: – अधिका:* कर्मनिर्मलीकृतान्त:- करणास्सन्तः स्वरशब्दितम् ओङ्कारं प्राविशन् – उपासितुं प्रवृत्ताः ‘इत्यर्थः ।।

यदा वा ऋचमाप्नोति ओमित्येवातिस्वरति एवँ साम एवं यजुः एष स्वरः यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ।। ।।

प्र. – कथं पुनः स्वरशब्दवाच्यत्वम् ओङ्कारस्य इत्यत्राह – यदा……यजुः । यदा वा ऋगादिकं आप्नोति’ – आरभते । तदा ‘ओम्’ इति अतिस्वरति – शब्दं करोति इत्यर्थः । एष स्वरः । तस्मात् एषः – ओङ्कारस्वरः इत्यर्थः । यत् ……अभयम् । ओङ्कार एव मरणभयादिनिवर्तकः इत्यर्थः ।तत्…..अभवन् ।मरणभयादिनिवर्तकम् ओङ्कारं प्रविश्य देवाः अमृताः अभयाश्च अभवन् इत्यर्थः।।

[अमृताभयगुणोंकारोपासनस्य फलम्]

एतदेवं विद्वानक्षरं प्रणौति, एतदेवाक्षरँ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवा: तदमृतो भवति ।।५।।

।। इति चतुर्थः खण्डः ।।

प्र. – ……प्रणौति इत्यादि । य एतदेवाक्षरं स्वरममृतमभयं ‘प्रणौति . उपास्ते इति यावत् । तादृशामृतत्वादिगुणक प्रणवं प्रविश्य देवाः यादृशामृतत्वादियुक्ताः, तादृशः भवति इत्यर्थः ।।

।। इति चतुर्थखण्डभाष्यम् ।।

पञ्चमः खण्डः

[प्रणबोद्गीथयोः एकत्वविज्ञानोपदेशः]

अथ खलु उद्गीथः सः प्रणवः यः प्रणवः उद्गीथ इति असौ वा । आदित्य उद्गीथ एष प्रणवः; ओमिति ह्येष स्वरन्नेति ।। ।।

प्र. प्रणवोद्गीथयोः एकत्वविज्ञानम् अनेकपुत्रफलकम् उपदिश्यते। अथ..उद्गीथ इति । उद्गात्रा प्रयुज्यमानो : उद्गीथः – उद्गीथावयवः ओङ्कारः, स एव होत्रा प्रयुज्यमानः प्रणवः । यच होत्रा प्रयुज्यमानः प्रणवः, एव उद्गात्रा प्रयुज्यमानः उद्गीथावयवः ओङ्कारः इति इतरेतरैक्याध्यासः कर्तव्यः इत्यर्थः । एवं तयोरैक्यं कृत्वा तत्र आदित्यदृष्टिम् उपदिशति । असौ……प्रणवः इति । कथम् आदित्यस्य प्रणवत्वम् इत्यत्राह – ओमिति……एति इति । एषः – आदित्यः ओमिति स्वरन् – कर्तव्यकर्मणां ओमित्यनुज्ञां कुर्वन्निव उदेति इत्यर्थः । ‘स्व शब्दोपतापयोः’ (धा.पा.९३२) इति हि धातुः । अतः सविता प्रणवः, अत एव उद्गीथश्च इति भावः ।।

एतमु एवाहमभ्यगासिषम् ; तस्मान्मम त्वमेकोऽसि इति कौषीतकिपुत्रमुवाचरश्मीँ स्त्वं पर्यावर्तयात् , बहवो वै ते भविष्यन्ति ; इत्यधिदैवतम् ।।२।।

प्र. –एतमु……उवाच । एतम् आदित्यमेव उद्गीथम् अहं गीतवान् अस्मि । न तु बहुरश्मिगुणविशिष्टतया उपासितवान् अस्मि । तेन दोषेण मम त्वमेक एव पुत्रोऽभूः इति कौषीतकिः स्वपुत्रम् उवाच इत्यर्थः । रश्मीन्……भविष्यन्ति इति । तस्मात् त्वं बहुरश्मिविशिष्टादित्य विज्ञानावृत्ति कुरु । तव रश्मिबहुत्वविज्ञानमहिम्ना बहवः पुत्रा भविष्यन्ति इत्यपि उवाच इति पूर्वेण सम्बन्धः । पर्यावर्तयात् इति पुरुषव्यत्ययः छान्दस: । लेटि, ‘लेटोऽडाटौ’ (पा.सू. ३-४-९४) इत्याडागमः । इत्यधिदैवतम् । उपदिष्टम् इति शेषः ।।

[मुख्यप्राणदृष्ट्या उद्गीथोपासनम्]

अथाध्यात्मम् एवायं मुख्यः प्राणः, तमुद्गीथमुपासीत ; ओमिति ह्येष स्वरन्नेति ।। ।।

प्र. –अथाध्यात्मम् । उपदिश्यते इति शेषः । ……..उपासीत । स्पष्टोऽर्थः । ओमिति……एति एषः प्राणः वागादि प्राणवृत्यर्थं ओमित्यनुज्ञां कुर्वन्निव सञ्चरति । तस्मात् प्राणः एव प्रणवः, उद्गीथश्च इत्यर्थः ।।

एतमु एवाहमभ्यगासिषम् ; तस्मान्मम त्वमेकोऽसि इति कौषीतकिः पुत्रमुवाचप्राणाँस्त्वं भूमानमभिगायतात् , बहवो मे भविष्यन्तीति ।। ।।

प्र. एतमु……उवाच इत्यादि । पूर्ववदर्थः । प्राणान्भविष्यन्तीति । मे बहवः पुत्राः भविष्यन्तीति अभिसन्धाय मुख्यं प्राणम् उपासीनः त्वं भूमानं . बहुत्वमाश्रितान् वागादीन् प्राणांश्च मुख्यप्राणेन सहाभिसन्धाय अभिगायतात् – उद्गानं कुरु इत्यर्थः ।।

[प्रणवोद्गीथयोरेकत्वोपासनस्य फलम्]

अथ खलु उद्गीथः प्रणवः, यः प्रणवः उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति अनुसमाहरतीति ।। ।।

।। इति पञ्चमः खण्डः ।।

प्र. – उक्तप्रणवोद्गीथैकत्वविज्ञानफलमाह – अथ……समाहरति इति । अपि दुरुद्गीथम् – वेदनहीनमपि उद्गीथमित्यर्थः । होतृषदनात् – होतृकर्तृकोद्गीथप्रणवैक्यज्ञानात् इत्यर्थः । होतृषदनात् – इत्यत्र, ‘पूर्वपदात् ‘(पा.सू.८-३-१०६) इति षत्वम् । अयं भावः – उद्गीथप्रणवैकत्वविज्ञानं होत्रापि कर्तव्यम् ; उद्गात्रापि कर्तव्यम् । प्रणवे होतुः, उद्गीथे उद्गातुश्च कर्तृत्वात् । तत्र उद्गातुः एतादृशैकत्वविज्ञानाभावेन दोषयुक्तमपि उद्गात्रा प्रयुज्यमानम् उद्गीथं होता स्वीयोद्गीथप्रणवैकत्वविज्ञानमाहात्म्यात् अनुसमाहरति । समादधाति – अदुष्टं करोति इति । अनुसमाहरतीति द्विरुक्तिः विद्यासमाप्त्यर्था ।। एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् उपन्यस्यते । गुणोपसंहारपादे – ‘अङ्गेषु यथाश्रयभावः’ (ब्र.सू.३-३-५९), अङ्गेषु, आश्रितानाम् उपासनानां क्रतोः बहि:प्रयोगासम्भवेन आश्रयतन्त्रत्वस्य वक्तव्यतया प्रयोगवचनेन आश्रयाणाम् उद्गीथादीनां समुच्चयनियमेन आश्रितानामपि समुच्चयनियमो युक्तः। इतरथा ‘तदाश्रितत्वानुपपत्तेरित्यर्थः’ । ‘शिष्टेश्च’ (ब्र.सू. ३-३-६०), ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इतिवत् अधिकारान्तराश्रवणेन ‘उद्गीथम् उपासीत इति उद्गीथाङ्गतया’ उपासनविधानाञ्च नियमेन उपासना उपादेया । न च वीर्यवत्तरत्वरूपफलार्थत्वस्य, ‘तन्निर्धारणानियमः’ (ब्र.सू. ३-३-४१) इत्यत्र उक्तत्वात् कथं तस्य उद्गीथाङ्गत्वम् इति वाच्यम् । ‘उद्गीथमुपासीत’ इति वाक्येन उपासनस्य उद्गीथरूपाश्रयसंबन्धे वीर्यवत्तरत्वरूपफलसम्बन्धे च बोध्यमाने वाक्यभेदप्रसङ्गात् । न च वाक्यभेदभीत्या तस्य फलविधित्वासम्भवेऽपि तस्य फलाकाङ्क्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वस्यैव आर्थवादिकस्य फलत्वकल्पनं सम्भवतीति वाच्यम् । पर्णतादावपि तथा ‘प्रसङ्गात्’ । ‘समाहारात्'(ब्र.सू. ३-३-६१), ‘होतृषदनाद्धैवापि दुरुद्गीथम् अनुसमाहरति’ इति उपासनस्य समाहारनियमो दृश्यते । उद्गातृकृतवेदनहानिप्रयुक्तोद्गीथ वैगुण्यस्य होतृकर्तृकप्रणवोद्गीथैकत्वविज्ञानेन समाधानोक्त्या उपासनस्य आवश्यकत्वप्रतीतेः इत्यर्थः । ‘गुणसाधारण्यश्रुतेश्च’ (ब्र.सू.३-३-६२) । उपासनगुणस्य उपास्यस्य प्रणवस्य, ‘तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयति ओमिति शंसति ओमित्युद्गायति’ इति साधारण्यश्रुतेश्च उपासनावश्यकता गम्यते । प्रकृतपरामर्शिना तेनेति शब्देन उपास्यस्य प्रणवस्यैव प्रतीते: । अत: उपासननियमो अस्तीति प्राप्ते उच्यते – ‘न वा तत्सहभावाश्रुतेः’ (ब्र.सू.३-३-६३), न वा क्रतुषु उपादाननियमः उद्गीथोपासनादेः । कुतः ? तत्सहभावाश्रुतेः-उद्गीथाङ्गभावाश्रुतेः इत्यर्थः ।

वीर्यवत्तरत्वरूपफलार्थतया गोदोहनतुल्यत्वेन क्रत्वर्थत्वाभावात् इति भावः । न च पर्णतादेरपि पुरुषार्थत्वप्रसङ्गः । पर्णतायाः जुहू सम्बन्धेऽपि अव्यापाररूपतया फलनिष्पादकत्वाभावेन फलाकाङ्क्षायाः एवाभावात् फलकल्पनायाः अप्रसक्तेः। अतः फलाकाङ्क्षासिद्ध्यर्थं क्रतूपरागेण व्यापाररूपतां सम्पादयितुं जुहूलिङ्गेन क्रतुम् उपस्थाप्य तत्सम्बन्धबोधकशब्दो वा कल्प्यः, जुहूशब्दस्य जुहूसम्बन्धिक्रतुलक्षकत्वं कल्प्यम् । ततश्च क्रतुफलेनैव नैराकाङ्क्ष्यात् रात्रिसत्रन्यायेन आर्थवादिकफलकल्पना न समुन्मिषति । इह उपासनायाः स्वयं व्यापाररूपायाः क्रतूपरागमन्तरेणैव फलाकाङ्क्षा सम्भवति । सत्याञ्च फलाकाङ्क्षायां वाक्यशेषस्यैव फलसमर्पकतया परिणामसम्भवे फलवत्कर्मान्तरबोधकवाक्यकल्पनाद्यनपेक्षणात् । तस्मात् वाक्यशेषश्रुताय तस्मै तस्मै फलाय उद्गीथाद्याश्रयविशिष्टोपासनविधिः इत्येवम् युक्तम् । न च उपासनानाम् आश्रयतन्त्रत्वात् सति आश्रये तत्तन्त्राणाम् उपासनानामपि आवश्यकत्वम् इति वाच्यम् । इदमेव उपासनानाम् अश्रयतन्त्रत्वम् यत् आश्रये सत्येव वृत्तिः, नान्यदाऽस्ति । न तु यावदाश्रयसत्वं वृत्तिरिति । ततश्च कामोपबद्धत्वात् उपासनानाम्, कामनानाञ्चा नित्यत्वात् तदवबद्धानामपि उपासनानाम् अनित्यत्वमेव । ‘दर्शनाच्च‘, (ब्र.सू. ३-३-६४) ‘एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति’ (छां.उ. ४-१७-१०) इति ब्रह्मणो वेदनेनैव सर्वेषां रक्षणं ब्रुवती श्रुतिः उद्गातृप्रभृतीनां वेदनस्य अनियमं दर्शयति इति स्थितम् ।।

केचित्तु – उद्गीथविद्यायाः क्रत्वर्थत्वाभावे, ‘अन्यथात्वं शब्दादिति चेत्’ (ब्र.सू.३-३-६) इत्यधिकरणे, ‘उद्गीथविद्यायाः क्रत्वर्थत्वेन क़तुसाद्गुण्यफलकत्वेऽपि आर्थवादिकमपि फलं तदविरुद्धं ग्राह्यम् इति देवताधिकरणे प्रतिपादितम्’ इति भाष्यं विरुध्येत । तथा पुरुषार्थाधिकरणे, ‘यदेव विद्यया करोति’ (छां.उ.१-१-१०) इति विद्यायाः तृतीयाश्रुत्या कर्माङ्गत्वप्रतिपादनात् न विद्यातः पुरुषार्थः इति, ‘तच्छ्रुतेः’ (ब्र.सू.३-४-४) इति सूत्रेण पूर्वपक्षे कृते, तत्र विद्याशब्दस्य प्रकृतोद्गीथविद्याविषयत्वेन उद्गीथविद्यामात्रस्य कर्माङ्गत्वेऽपि न ब्रह्मविद्यायाः कर्माङ्गत्वम् अस्तीति एतदर्थप्रतिपादकयोः, ‘असार्वत्रिकी’ (ब्र.सू.३-४-१०) इति सूत्रतद्भाष्ययोः विरोधश्च स्यात् । अतश्च अस्त्येव क्रत्वर्थत्वम् । न च ‘तन्निर्धारणानियमः’ (ब्र.सू. ३-३-४१), ‘अङ्गेषु यथाश्रयभावः’ (ब्र.सू. ३-३-५९) इत्यधिकरणद्वयविरोधः ; तयोः नियतक्रत्वर्थत्वप्रतिक्षेपमात्रपरत्वात् । न च क्रत्वर्थत्वेऽपि आर्थवादिकफलस्वीकारे पर्णताया अपि अपापश्लोकश्रवणफलकत्वप्रसङ्ग इति शंक्यम् । प्रस्तरप्रहरणस्य क्रत्वर्थस्यापि सूक्तवाकमन्त्रप्रतिपाद्यफलार्थत्ववत् , उपकोसलविद्याङ्गभूतायाः अग्निविद्यायाः, ‘नास्यावरपुरुषाः क्षीयन्ते’ (छां.उ.४-११-२) इति प्रतिपन्नब्रह्मविद्याऽविरोधि तदुपयोगिफलार्थत्ववञ्च क्रत्वर्थायाः अपि पर्णताया अर्थवादप्रतिपन्नक्रत्वविरुद्धफलार्थत्वे न दोषः इति भाष्यकाराशयः इति वदन्ति । अन्ये तु ; ‘अन्यथात्वं शब्दात्'(ब्र.सू.३-३-६) इत्यत्र भाष्यस्य अन्वारुह्योक्तित्वात् क्रत्वर्थत्वं न भाष्यकृदभिमतम् इति वदन्ति । प्रकृतमनुसरामः ।।

।। इति पञ्चमखण्डभाष्यम् ।।

 

षष्ठः खण्डः

इयमेवर्क् अग्निस्साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढ़ँ साम गीयते इयमेव सा; अग्निरमः, तत् साम ।। ।।

प्र. प्रकारान्तरेण उद्गीथोपासनं प्रस्तूयते – इयमेव……साम । ऋचि इयम् इत्युक्तपृथिवीदृष्टिः, साम्नि अग्निदृष्टिश्च कर्तव्या इत्यर्थः । तदेतत्…….साम तदेतत् अग्न्याख्यं साम एतस्यां – पृथिवीरूपायाम् ऋचि अध्यूढम् – उपरिस्थितम् इत्यर्थः । अत एवाद्यापि ऋगारूढमेव साम गीयते इत्याह – तस्मात्……गीयते इति । एवं ऋक्सामयोः पृथिव्यग्निदृष्टिं विधाय ‘सामनामावयवभूतयोः साशब्द-अमशब्दयोः पृथिव्यग्निदृष्टिः कर्तव्या इत्याह – इयमेव……अम इति । उक्तोऽर्थः । तत्साम तत् – तत एव परस्परसंसृष्टपृथिव्यग्निरूपसाशब्दामशब्दमेलनेन सामव्यवहारो लोके प्रवर्तते इत्यर्थः ।।

अन्तरिक्षमेवर्क्, वायुस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते अन्तरिक्षमेव सा, वायुरमः, तत् साम ।। ।।

द्यौरेवर्क्, आदित्यस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते, द्यौरेव सा, आदित्योऽमः, तत् साम ।। ।।

नक्षत्राण्येवर्क् चन्द्रमास्साम, तदेतदेतस्यामृच्यध्यूढँ साम; तस्मादृच्यध्यूढँ साम गीयते, नक्षत्राण्येव सा, चन्द्रमा अमः, तत् साम ।। ।।

प्र. –अन्तरिक्षमेवर्ग्वायुस्साम इत्यादेः पूर्ववदर्थः ।।

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क्, अथ यन्नीलं पर:कृष्णम् तत् सामतदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ; अथ यन्नीलं पर:कृष्णम् तदमः, तत् साम ।। ।।

प्र. अथ……ऋक् शुक्लं भाः शुक्ला दीप्तिः इत्यर्थः । शुक्लम् इति लिङ्गव्यत्ययश्छान्दसः । अथ साम परः कृष्णम् – अतिशयेन कार्ष्ण्यरूपम् । पर:कृष्णमिति प्रसिद्धं यन्नीलं, तत् साम इत्यर्थः । आदित्ये कार्ष्ण्यस्य समाहितदृष्टिभिः ईक्ष्यमाणत्वात् तदस्तीति द्रष्टव्यम् । ‘अत्र’ परशब्दः सान्तः द्रष्टव्यः । तत् साम । शिष्टं स्पष्टम् ।।

[आदित्यान्तर्गतपुरुषदृष्ट्या उपासनम्]

अथ एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः ।। ।।

प्र. एवमृचि पृथिव्यन्तरिक्षधुनक्षत्रादित्यगतशुक्लभारूपत्वदृष्टिम्, साम्नि अग्निवाय्वादित्यचन्द्रादित्यगतनीलभारूपत्वदृष्टिञ्च विधायाह अथ दृश्यते । अन्तरादित्ये – आदित्यमण्डलस्यान्तः हिरण्मयः – रमणीयः यः योगिभिः दृश्यते इत्यर्थः । ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क.उ.१-३-१२) इति श्रुत्यैकार्थ्यात् । ‘हिरण्मय’ इति रूपसामान्यात्, ‘चन्द्रमुखवत्’ इति वाक्यकारः । ततश्च हिरण्मयशब्दस्य न मुख्याथों ग्राह्य इति वाक्यकाराभिप्रायः । ततश्च हिरण्मयत्वम् उज्ज्वलत्वम् इत्यर्थः । ततश्च नीलतोयदाभस्यापि हिरण्मयत्वे नानुपपत्तिः । यद्वा ‘कञ्चिन्न तत् हेमसमानवर्णं तस्याननम्’ (रा. सुं.३६-२८) इति श्रीरामायणप्रयोगात्, ‘पश्यते रुक्मवर्णम्’ (मुं.उ.३-१-३) इति श्रुतेश्च नीलतोयदाभस्यापि रुक्मवर्णत्वं सम्भवति । तत्र हेतुश्च सम्प्रदायगम्यः । एतत्सर्व ‘वेदार्थसङ्ग्रहश्रुतप्रकाशिकायां’ स्पष्टं, तत एव अवगन्तव्यम् ।। अत्र केचित् – ‘कप्यासं पुण्डरीकम्’ इति वाक्ये कप्यासशब्देन आदित्यमण्डलम् उच्यते । पुण्डरीकम् इत्यनेन हृदयपुण्डरीकम् उच्यते । अतश्च यथा सूर्यमण्डल हदयपुण्डरीकञ्च उपासनस्थानम् ; एवम् उपासकस्य अक्षिणी अपि परमात्मनः उपासनस्थानम् इति परोक्त-व्याख्यानदूषणावसरे व्यासार्यः, आदित्यमण्डलरूपस्थानावरुद्धे  अक्ष्णो: स्थानतया विधानं न सम्भवति’ इत्युक्तेः आदित्यमण्डलस्थानम् उत्पत्तिशिष्टम् इति प्रतीयते । ततश्च ‘य एषोऽन्तरादित्य’ इति वाक्यम् उपासनोत्पत्तिपरम् । ततश्च पुरुषो दृश्यते इत्यत्र द्रष्टव्यः इत्यर्थ इति व्यासार्याभिप्रायः । न च आदित्यमण्डलस्य उत्पत्तिशिष्टत्वे उत्पत्तिशिष्टस्थानावरुद्धे भाष्यकृदभिमतपुण्डरीकदलामलायताक्षत्वादेः कथं विधानमिति वाच्यम् । पुण्डरीकाक्षत्वादे : उत्पत्तिशिष्टादित्यमण्डलस्थानाविरुद्धत्वात् उत्पत्तिशिष्टाविरुद्धगुणानां विधानसम्भवात् । नन्वेवं, ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) इत्यत्र, ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’  (छां.उ.३-१४-१) इत्युत्पत्तिशिष्टसार्वात्म्यावरुद्धे, मनोमयत्वादीनां विधानं न सम्भवति’ इत्याक्षिप्य ‘सर्वं खलु’ इति वाक्यस्य उपासीत इत्यनेन एकवाक्यत्वाभावेन सार्वात्म्यस्य नोत्पत्तिशिष्टत्वम्’ इति व्यासायैः समर्थनम् अयुक्तं स्यात् । ‘मनोमयत्वादीनाम् उत्पत्तिशिष्टसार्वात्म्यविरोधात्’ इत्येव परिहारसम्भवेन वाक्यभेदमाश्रित्य सार्वात्म्यस्य उत्पत्तिशिष्टत्वाभावसमर्थनं मुधा इति चेत् – उपायान्तरस्योपायान्तरादूषकत्वात् – इति वदन्ति । अन्ये तु – ‘आदित्यमण्डलस्थानावरुद्धे’ इति नोत्पत्तिशिष्टस्थानावरुद्धत्वम् अभिप्रेतम् । अपितु युगपत् अनुपसंहरणीयादित्यमण्डलरूपाक्षिरूपस्थानद्वयविधाने अष्टदोषदुष्टविकल्पप्रसङ्गात् इत्येव तात्पर्यम् इत्याहुः । ‘यदा पश्यः पश्यते रुक्मवर्णम् ‘ (मुं.उ. ३-१-३) इति प्रकरणे ‘मनसा तु विशुद्धेन’ इति रुक्मवर्णविग्रहविशिष्टस्य विशुद्धमनोग्राह्यतोक्तेः, आरोपिताकारस्य विशुद्धमनोग्राह्यत्वाभावात् अनारोपितत्वं सिद्धम् । ‘ईक्षति कर्मव्यपदेशात्सः’ (ब्र.सू.१-३-१३) इत्यत्र ईक्षणस्य परमात्मविषयत्वं वक्तव्यम् इति परैरपि अङ्गीकृतत्वाञ्च । ‘आदित्यवर्णं तमसः परस्तात्'(श्वे.उ.३-८) इति तम:पारवर्तिनः आदित्यवर्णविग्रहविशिष्टत्वाभिधानेन कल्पितत्वाप्रसक्तेः । न हि कल्पितस्य तमःपारवर्तित्वं सम्भवति । हिरण्यश्मश्रुः इत्यादि – रमणीयश्मश्रुकेशः रमणीयसर्वावयवः इत्यर्थः ।।

तस्य यथा कप्यासं पुण्डरीकामेवमक्षिणी ; तस्योदिति नाम ; एष सर्वेभ्यः पाप्मभ्य उदितः; उदेति वै सर्वेभ्यः पाप्मभ्यः, एवं वेद ।। ।।

प्र.तस्य……अक्षिणी । कं पिबतीति कपिः आदित्यः । तेन अस्यते क्षिप्यते विकास्यते इति कप्यासम् । तथा आह ‘वाक्यकार:-आदित्यक्षिप्तं वा श्रीमत्त्वात्’ इति । यद्वा कँ पिबतीति कपिः – नालम्; तस्मिन् आस्ते इति कप्यासम् । अपचितादपि पङ्कजात् नालस्थस्य पुण्डरीकस्य शोभातिशयशालित्वात् तादृशम् इह विवक्षितम् । यद्वा कंजलम् । ‘आस – उपवेशने’ (धा.पा. १०२१) इति धातुः अपिपूर्वकः। ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः’ इति वचनात् अकारलोपः । के जलेऽपि आस्ते इति कप्यासं – सलिलस्थम् इत्यर्थः । एवम् अस्यार्थत्रयस्य उपपन्नतया वाक्यकारेण सिद्धान्तितत्वम् अभिप्रेत्य भगवता भाष्यकारेण वेदार्थसङ्ग्रहे – ‘गम्भीराम्भस्समुद्भूतसुमृष्ट- नालरविकरविकसितपुण्डरीकदलामलायतेक्षणः’ इति अभिहितम् ।  मर्कटजघनसदृश- पुण्डरीकसादृश्यादि अर्थान्तरं तु अश्लीलत्वादिदोषदुष्टतया वाक्यकृदनादृतत्वात् भाष्यकारेणापि अनादृतम् ।। यद्यपि अमरकोशे ‘पुण्डरीकं सिताम्भोजम्'(अ.को. १-१०-४१) इत्यनुशिष्टम् , तथापि शबरस्वामिना नवमाध्याये, ‘मौद्गं चरुं निर्वपेच्छ्रियै श्रीकामः’ इति विहितायामिष्टौ,  ‘पौण्डरीकाणि बर्हीषि भवन्ति’ इति स्तरणार्थत्वेन विहितेषु पुण्डरीकेषु अतिदेशप्राप्तस्य, ‘दर्भस्तृणीतहरितै:’ इति मन्त्रस्य दर्भपदस्थाने पुण्डरीकपदं हरितपदस्थाने रक्तपदम् ऊहितव्यम् छान्दोग्योपोषण इत्युक्तत्वात् रक्ताम्भोजमेव पुण्डरीकम् इति द्रष्टव्यम् ।

तस्योदिति नाम । स्पष्टोऽर्थः । तस्य उन्नामकत्ये हेतुमाह – एष सर्वेभ्यपाप्मभ्य: उदितः । सर्वपापोद्गतत्वात् ‘उन्नामक’ इत्यर्थः । नीडात् शकुन्तस्य उद्गमनवत् पापपञ्जरात् उद्गमनरूपमुख्यार्थस्य कुत्राप्यभावात् उद्गमनेन तत्सम्बन्धराहित्यं लक्ष्यते । ‘नैनं सेतुमहोरात्रे तरतः, न जरा न मृत्युः न शोको न सुकृतं न दुष्कृतम्'(छा,उ.८-४-१) इति परमात्मन: ‘सुकृत सम्बन्धाभावो हि प्रतिपाद्यते । तरते: प्राप्तिवाचित्वात् । पापशब्दच पुण्यपापरूपोभयविधकर्मपरः । परमात्मप्रकरणेषु, ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युः न शोकः न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते'(छा.उ.८-४-१) इति सुकृतेऽपि पापशब्दप्रयोगात् ।। ‘पाप्मानः कालजरामृत्युशोकादयः संख्यातत्वात्’ इति वाक्यकारवचनात् , अलौकिकत्वे सति  अनिष्टफलसाधनत्वरूपप्रवृत्तिनिमित्तियोगात् पुण्यस्यापि पापशब्दाभिधेयत्वोपपत्तेः । मुमुक्ष्वपेक्षया स्वर्गादीनामपि अनिष्टत्वात् । ‘एते वै निरयास्तात ! स्थानस्य परमात्मनः।’ (महा.भा.शा.१९६-६) क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्’।। (वि.पु.२-६-४४) इति स्मरणात् । सर्वपापोदितत्वं नाम कर्मवश्यतागन्धराहित्यम् इति फलितोऽर्थः । कृतानामपि कर्मणां  फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदेश्वरस्वभावविशेषः अपहतपाप्मत्वाख्यः सर्वपापोदितशब्दार्थः इति द्रष्टव्यम् । एवं नाम शिष्टज्ञानस्य फलमाह उदेति……वेद इति । स्पष्टोऽर्थः ।।

तस्य ऋक् साम गेष्णौ तस्मादुद्गीथः तस्मात्त्वेवोद्गाता एतस्य हि गाता एष ये चामुष्मात् पराञ्चो लोकाः तेषां ईष्टे देवकामानां च इत्यधिदैवतम् ।। ।।

प्र. – तस्यर्क् साम गेष्णौ । पृथिव्यग्न्यादिदृष्टिविशिष्टतया प्राक् प्रस्तुते ऋक्सामे एतस्य गेष्णौ – गानरूपे । यद्यपि ऋचो गानाश्रयत्वेऽपि न गानरूपत्वम् – तथापि अभेदोपचारेण गेष्णत्वोक्ति: द्रष्टव्या । अव्युत्पन्नो गेष्णशब्दः । व्यत्ययेन पुंस्त्वम् । अनीन्द्रादिप्रतिपादकऋक्सामगेयत्वोक्त्या सर्वात्मकत्वम् उक्तं भवति । तस्मादुद्गीथः….गाता । यस्मादुन्नामकत्वं परमात्मनः, अत एव तद्गानरूपत्वात् द्वितीयभक्तेः उद्गीथसंज्ञत्वम्, तद्गातुरुद्गातृसंज्ञावत्वं च इत्यर्थः । यद्वा परमात्मनः उन्नामकत्वात् ऋक्सामगेष्णत्वाञ्च उद्गष्णस्य परमात्मनः उद्गीथत्वम् उपपद्यते । ततः उद्गीथे परमात्मदृष्टिः युक्ता इत्यर्थः । ……कामानाञ्च एषः हिरण्मयः पुरुषः आदित्यमण्डलोर्ध्ववर्ति लोकानां देवभोग्यभोगोपकरणभोगस्थानानाञ्च नियन्ता इत्यर्थः । इत्यधिदैवतम् । उपासनम् उपदिष्टम् इति शेषः ।।

।। इति षष्ठखण्डभाष्यम् ।।

 

सप्तमः खण्डः

 

[अध्यात्मस्वरूपम्]

अथाध्यात्मम्वागेवर्क्, प्राणस्साम ; तदेतदेतस्यामृच्यध्यूढँ सामतस्मादृच्यध्यूढँ साम गीयते ; वागेव सा, प्राणोऽमः, तत् साम ।। ।।

चक्षुरेवर्क्, आत्मा साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; चक्षुरेव सा, आत्माऽमः, तत् साम।।।।

श्रोत्रमेवर्क्, मनस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; श्रोत्रमेव सा ; मनोऽमः तत् साम ।। ।।

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क्, अथ यन्नीलं परः कृष्णम् तत् सामतदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा, अथ यन्नीलं परः कृष्णम् तदमः ; तत् साम ।। ।।

प्र. अथाध्यात्मम् उपदिश्यते इति शेषः । वागेवर्क्……तत् साम सर्वं पूर्ववत् ।। (१-४ )

[उद्गीथे अक्षिपुरुषदृष्ट्युपयुक्तनयनपूर्वकतदृष्टिविधानम्]

अथ एषोऽन्तरक्षिणि पुरुषो दृश्यते, सैवर्क् ; तत् साम, तदुक्थम् । तद्यजुः तद्ब्रह्म तस्यैतस्य तदेव रूपम् , यदमुष्य रूपम् यावमुष्य गेष्णौ तौ गेष्णौ, यन्नाम तन्नाम ।। ।।

प्र. – एवमृचि वाक्चक्षुःश्रोत्राक्षिगतशुक्लभारूपत्वदृष्टिम्, साग्निप्राणच्छायात्ममनः अक्षिगतपरः कृष्णरूपत्वदृष्टिञ्च विधायाह – अथ…..ब्रह्म । चक्षुषि यः पुरुषो योगिभिः दृश्यते ; स एव ऋग्यजुस्सामात्मा, उक्थादिशस्त्रात्मा ब्रह्म च इत्यर्थः । अत्रोक्थस्य त्रय्यपेक्षया पृथक्परिगणनं गोबलीवर्दन्यायेन द्रष्टव्यम् । तस्य….नामः तस्यैतस्य अक्ष्यन्तर्वर्तिनः परमपुरुषस्य, आदित्यान्तर्वतिनो यत् हिरण्मयत्वादिरूपम् उदिति नाम, ऋक्सामरूपगेष्णौ च, तानि सर्वाणि भवन्ति इत्यर्थः ।।

एष ये चैतस्मादर्वाञ्चो लोकाः तेषां ईष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्ति एतं ते गायन्ति तस्मात्ते धनसनयः ।। ।।

प्र. – …..कामानां चेति एतस्मात् – अक्षिस्थानात् अधोवर्तिनां लोकानां मनुष्यभोग्यादीनां च एषः नियन्ता इत्यर्थः ।तत्……गायन्ति । यस्मात् अयम् ईश्वरः, तस्माद्धेतोः वीणागायकाः सर्वेऽपि इममेव गायन्ति इत्यर्थः । तस्य सर्वात्मकत्वेन देवमनुष्यादिकर्मकगानस्यापि परमात्मविषयत्वात् इति भावः । तस्मात्ते धनसनयः । सनिः – लाभः धनानां सनिः येषां ते धनसनयः ईश्वरगायकत्वादेव वीणागायकानां धनलाभवत्त्वम् । न हि अनीश्वरगातृत्वे धनप्रसक्तिः अस्तीति भावः ।।

 

[आदित्याक्षिपुरुषोपासनस्य फलम् ]

अथ एतदेवं विद्वान् सामगायत्युभौ गायति सोऽमुनैव एष ये चामुष्मात्पराञ्चो लोकास्ताँश्चाप्नोति देवकामाँश्च ।। ।।

 प्र. –अथ……गायति । अध्यात्माधिदैवतभिन्न विद्यायुक्तस्सन् उद्गिथं यो गायति, स चाक्षुषम् आदित्यस्थं च गायति इत्यर्थः । उनीथस्य चाक्षुषेण परमात्मना, आदित्यान्तर्वतिना च परमात्मना, ऐक्याध्यासविशिष्टतया तादृशोद्रीयगायकस्यैव परमात्मगायकत्वात् इति भावः । तस्यैवं विदः फलम् उच्यते । सोऽमुनैव कामांश्च सः – विद्वान् अमुनैव आदित्यान्तर्वर्तिना उपासितेन एषः – तदुपासनाविशिष्टः एतस्मात् ऊर्ध्वलोकान् देवकामांश्च आप्नोति इत्यर्थः ।।

 

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँश्चाप्नोति मनुष्यकामाँश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ।। ।।

 प्र. – अथानेनैव……कामांश्च अनेन – अक्ष्यन्तर्वतिना उपासितेन मनुष्यलोकात् अधस्तनलोकान् मनुष्यकामांश्च आप्नोति इत्यर्थः । चक्षुरादित्यस्थानवर्तिपरमात्मोपासनया सर्वलोकावाप्तिः भवतीत्यर्थः, तस्मादु ब्रूयात् एवंवित् – एतादृशविद्यायुक्त: उद्गाता यजमानं प्रति ब्रूयात् ।।

कं ते काममागायानीति एष ह्येव कामागानस्येष्टे, एतदेवं विद्वान् साम गायति, साम गायति ।। ।।

।। इति सप्तमः खण्डः ।।

प्र. किमिति इत्यत्राह – कं ते काममागायानि इति । हे यजमान ! ते कं – देवकामं मनुष्यकामं वा आगायानि – गानेन सम्पादयानि इति प्रब्रूयात् इत्यर्थः । ननु एतादृशोक्तौ उद्गातुः कथं सामर्थ्यम् इत्यत्राह – एष….गायति । एवं विदुषः सामगस्य कामसम्पादकगानसामर्थ्यम् अस्तीत्यर्थः । द्विरुक्ति: विद्यासमाप्त्यर्था ।। एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् ‘उपन्यस्यते समन्वयाध्याये प्रथमपादे – अन्तरादित्ये अन्तरक्षिणि च वर्तमानत्वेन श्रुतः पुरुषो जीव एव । ‘हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः’ इति शरीरसम्बन्धश्रवणात्।  शरीरत्वस्यैव कर्मजन्यतावच्छेदकत्वेन कर्माजन्यशरीरासम्भवात् प्रक्रमश्रुतेन शरीरित्वलिङ्गेन जीवत्वे निश्चिते औपसंहारिकं सर्वपापोदितत्वम् आपेक्षिकं नेतव्यम् इति पूर्वपक्षे प्राप्ते – उच्यते – ‘अन्तस्तद्धर्मोपदेशात्’ (ब्र.सू. १-१-२१) । आदित्याक्ष्यन्तर्वर्ति पुरुषः परमात्मैव, परमात्मधर्मोपदेशात् । कर्मवश्यतागन्धराहित्यलक्षणं नित्याविर्भूतं सर्वपापोदितत्वं न परमात्मनो अन्यत्र सम्भवति । तञ्च चरमश्रुतमपि ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ इति फलरूपतात्पर्यलिङ्गात् प्रबलम् । तथा ऋक्सामगेयत्वाक्षिप्तं, ‘सैवर्क् तत्साम’ इति वाक्यश्रुतञ्च सार्वात्म्यं परमात्मधर्मः । तथा अक्ष्यादित्यवर्त्येकपुरुषगतोर्ध्वाधोवर्तिलोक- कामेश्वरत्वरूपं निरंकुशं सर्वकामेश्वरत्वमपि, “सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकाः तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मात् अर्वाञ्चो लोकाः ताँश्चाप्नोति मनुष्यकामांश्च” इति वाक्यशेषप्रतिपन्नफलरूपतात्पर्यलिङ्गानुगृहीतत्वात् प्रबलम् । अतः प्रबलै: परमात्मलिङ्गैः परमात्मत्वे निर्णीते, ‘अजायमानो बहुधा विजायते’ (तै.आर. ३-१३-३), ‘अजोऽपि सन्नव्ययात्मा भूतानाम् ईश्वरोपि सन् । प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया ।। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।।” (भ.गी.४-६,८) ‘इच्छागृहीताभिमतोरुदेहः’ (वि.पु. ६-५-८४) इति श्रुतिस्मृत्यनुसारेण अजहत्स्वस्वभावस्यैव परमात्मनो मायाशब्दितसंकल्पमात्रेण उपासकपरित्राणाय अप्राकृतदिव्यविग्रहपरिग्रहोपपत्तेः । एतेन नित्यसर्वज्ञस्य सर्वशक्तेः ज्ञानार्थं प्रवृत्त्यर्थं वा करणानपेक्षणात् आत्मानन्दतृप्तस्य विग्रहे स्पृहासम्भवाञ्च विग्रहो न सम्भवतीति शङ्का प्रत्युक्ता । करणानपेक्षज्ञानक्रियस्यापि परमात्मनः उपासकानुग्रहार्थं भोगार्थञ्च विग्रहस्वीकारोपपत्तेः । प्रभूतानन्दानामपि आनन्दान्तरापेक्षादर्शनेन निरतिशयानन्दस्वरूपस्यापि ब्रह्मणः प्रीतिविशेषापेक्षायाः सम्भवात् । न च विग्रहस्य भोग्यत्वे स्वरूपभोग्यत्ववैकल्यं शंक्यम् – स्वसम्बन्धिभोग्यत्वस्य स्वभोग्यत्वातिशयावहत्वेन ‘तद्वैकल्यावहत्वा भावात् । तत्र च, ‘समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। (वि.पु.६-७-७०) समस्तशक्तिरूपाणि तत्करोति जनेश्वर ! । देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया।।” (वि.पु.६-७-७१) ‘नित्याऽलिङ्गास्वभावसंसिद्धिरिन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवती’ ‘उज्जहारात्मनः केशौ’ सितकृष्णौ’ (वि.पु.५-१-६०) ‘अंशाशेनावतीर्योर्व्याम्'(वि.पु.५-१-३) इत्यादिप्रमाणात् नित्यस्य विग्रहस्य अशिथिलसंस्थानस्यैव अप्राकृतानन्तावतारहेतुत्वम् उपपद्यते । चतुर्मुखदेहस्य संस्थानाशैथिल्येऽपि अनेकदेहोत्पादकत्वदर्शनात् । ततश्च उपासकानुग्रहार्थं स्वेच्छासृष्टाप्राकृतशरीरसम्बन्धस्य प्रमाणसिद्धस्य परमात्मनि सत्वात् ‘हिरण्मय- विग्रहसम्बन्धानुपपत्तिः’ परमात्मनः । अतः अक्ष्यादित्यान्तर्वर्ती परमात्मा ।। ननु आदित्यपुरुषात् अन्यः परमात्मैव नास्ति इत्यत्राह ‘भेदव्यपदेशाञ्चान्यः’ (ब्र.सू.१-१-२२) ‘य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद’ (बृ.उ.५-७-९) इति आदित्यपुरुषावेद्यस्य तन्नियन्तुः परमात्मनो अन्यस्य प्रमाणसिद्धत्वात् तद्व्यतिरिक्तो नास्तीति न शंक्यम् । न च नित्यमुक्तव्यतिरिक्तः परमात्मा नास्ति इत्यपि शक्यं वक्तुम् । य आत्मनि तिष्ठन्निति पर्याये परिशुद्धमुक्तात्मभ्योऽपि भेदप्रतिपादनात् । अतः अन्तरादित्ये अन्तरक्षिणि च विद्यमान: परमात्मेति स्थितम् । प्रकृतमनुसरामः ।।

।। इति सप्तमखण्डभाष्यम् ।।

अष्टमः खण्डः

 

[उद्गीथाक्षरस्य परोवरीयस्त्वोपासनम्]

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः, चैकितायनो दालभ्यःप्रवाहणो जैबलिरिति, ते होचुःउद्गीथे वै कुशलाः स्मः, हन्तोद्गीथे कथां वदाम इति ।। ।।

प्र. – प्रकारान्तरेण उपासनं विधातुम् आख्यायिकामाह – त्रयो…… जैबलिरिति शालावत्सुतः शिलकनामा, दल्भगोत्रः चिकितायनसुतः, जीबलसुत: प्रवाहणनामा त्रयो एते’ उद्गीथविज्ञाने निपुणा बभूवुः इत्यर्थः । शालावत्यः शालावच्छब्दात् अपत्यार्थे अणि तदन्तात् स्वार्थे ‘अभिजिद्विदभृच्छालावत्’ (पा.सू.५-३-११८) इत्यादिना यञ् प्रत्यय: । दाल्भ्य: दलभ्यशब्दात् गोत्रापत्ये गर्गादित्वात् यञ् । चिकितायनशब्दात् अपत्यार्थे ऋषित्वात् अणि चैकितायन: । जीबलशब्दात् ‘अत इञि’ जैबलिः तेवदामः इति वयम् उद्गीथविज्ञाने कुशलाः भवामः । अतो विद्यावेशद्याय वादकथां परस्परं प्रवर्तयामः इत्यूचुः इत्यर्थः ।।

तथेति समुपविविशुः प्रवाहणो जैबलिरुवाच भगवन्तावग्रे वदताम् ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति ।। ।।

प्र. –तथेति समुपविविशुः । ‘तथा कुर्मः इत्यन्योन्यम् उक्त्वा’ एकत्र उपविष्टवन्तः इत्यर्थः ।। …. उवाच । प्रवाहणः क्षत्रियः तो ब्राह्मणौ प्रागल्भ्यात् उवाच इत्यर्थः । उक्तिमेवाह – भगवन्तो….श्रोष्यामि इति । भगवन्तौ – पूजावन्तो ब्राह्मणौ अग्रेवदतां – वादकथा: कुरुताम् । तत्प्रकारं श्रोष्यामीति ।

शिलकश्शालावत्यश्चैकितायनं दालभ्यमुवाचहन्त त्वा पृच्छानीति । पृच्छेति होवाच ।। ।।

प्र. ….. पृच्छानीति । स्पष्टोऽर्थः । तत्र दालभ्यस्य प्रत्युक्तिमाह – पृच्छेति होवाच इति । स्पष्टम् ।।

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का गतिरिति प्राण इति होवाच प्राणस्य का गतिरिति अन्नमिति होवाच अन्नस्य का गतिरिति । आप इति होवाच ।। ।।

प्र. – शिलकः पृच्छति । का साम्नो गतिरिति गति: – अयनं प्राप्यम् इत्यर्थः ।

सः दाल्भ्यः स्वर इति ह उवाच – प्रत्युवाच । स्वरात्मकत्वात् साम्नः इति भावः । शिलकः पृच्छति । स्वरस्य का गतिरिति । दालभ्यः उत्तरमाह । प्राण इति होवाच । प्राणनिर्वय॑त्वात् स्वरस्य इति भावः । एवम् उत्तरत्रापि औचित्यम् अनुसन्धेयम् ।।

अपां का गतिरिति असौ लोक इति होवाच अमुष्य लोकस्य का गतिरिति स्वर्गं लोकमतिनयेदिति होवाचस्वर्गं वयं लोकँ सामाभिसँस्थापयामः ; स्वर्गसँस्तावँ हि सामेति ।। ।।

प्र.-अपां का गतिः इति पृष्टो दाल्भ्यः, असौ लोकः इति होवाच । द्युलोकादेव वृष्टिप्रभवात् इति भावः । अमुष्य लोकस्य का गतिरिति पृष्टो दालभ्यः आह । …….होवाच । स्वर्गलोकमतीत्य परमाश्रयान्तरं साम न नयेत् । स्वर्गलोकव्यतिरिक्तम् आश्रयान्तरं साम न प्रापयेत् इत्यर्थः । न वदेत् इति यावत् । स्वर्गं……सामेति । अतो वयमपि साम अभि – साम प्रति आश्रयत्वेन स्वर्गं लोकं सम्यक् स्थापयामः । हि- यस्मात् साम स्वर्गसंस्तावम् – स्वर्गो वै लोक: सामवेदः इति श्रुत्या स्वर्गत्वेन साम्नः स्तूयमानत्वात् इत्यर्थः ।।

तँ शिलकश्शालावत्यश्चैकितायनं दालभ्यमुवाचअप्रतिष्ठितं वै किल ते दालभ्य ! साम ; यस्त्वेतर्हि ब्रूयात्, मूर्धा ते विपतिष्यतीति, मूर्धा ते विपतेदिति ।।

प्र.-तँ विपतेदिति । हे दाल्भ्य ! अप्रतिष्ठितं स्वर्गलोकं सामगतिपरम्परा-विश्रान्तिभूमिं वदतः तव मते साम अप्रतिष्ठितमेव स्यात् । एतस्मिन् समये यः कश्चित् आगत्य वादकथायाम् अयुक्तमर्थ प्रतिजानानस्य ते मूर्धा विपतिष्यति इति यदि ब्रूयात् – तदा विपतेदेव ते मूर्धा । न संशयः । मया तु सौहार्दात् तथा नोक्तम् । अतो जीवसि इति शिलक उक्तवान् इत्यर्थः ।।

हन्ताहमेतद् भगवत्तो वेदानीति विद्धीति होवाच अमुष्य लोकस्य का गतिरिति अयं लोक इति होवाच अस्य लोकस्य का गतिरिति प्रतिष्ठां लोकमतिनयेदिति होवाच ; प्रतिष्ठां वयं लोकं सामाभिसँस्थापयामः प्रतिष्ठासँस्तावँ हि सामेति ।।

प्र.-हन्त विद्धीति होवाच । तर्हि अहं सामगतिपरम्पराविश्रान्तिभूमिं त्वत्तः जानीयाम् इति दाल्भ्येन प्रार्थितः शिलक: तथा इत्युक्तवान् इत्यर्थः । अनुमतो दाल्भ्यः पृच्छति । अमुष्य……इति । शिलकः उत्तरमाह – अयंहोवाच । यागदानहोमादिभिः भूलोकस्य स्वर्गोपजीव्यत्वात् इति भावः । अस्य लोकस्य इत्यादि । पृथिवीलोकस्य का गतिः इति दालभ्येन पृष्टः शिलकः प्रतिष्ठां – पृथिवीलोकमतिक्रम्य सामगतिपरम्पराविश्रान्ति- भूमिम् अन्यं न कश्चिदपि वदेत् । अतः वयमपि तथैव वदामः । ‘इयं वै रथन्तरं’ (तां.बा.१८-६-११) इति श्रुत्या साम्नः प्रतिष्ठालोकत्वेन स्तूयमानत्वात् । स्वर्गस्य ज्योतिश्चक्रलग्नतया बम्भ्रम्यमाणत्वेन प्रतिष्ठात्वाभावेपि पृथिव्यास्तु, स्थिरत्वात् प्रतिष्ठात्वम् इत्युक्तवान् इत्यर्थः ।।

 

तँ प्रवाहणो जैबलिरुवाच अन्तवद्वे किल ते शालावत्य ! सामयस्त्वेतर्हि ब्रूयात्, मूर्धा ते विपतिष्यतीति, मूर्धा ते विपतेदिति ।। हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाच ।।

।। इति अष्टमः खण्डः ।।

प्र. – तं प्रवाहणो जैबलिरुवाच – उक्तवान् किमिति । अन्तवद्वे किल ते शालावत्य साम । अन्तवर्ती पृथिवीं सामगतिपरम्पराविश्रान्तिभूमितया प्रतिजानानस्य ते मते साम अन्तवदेव स्यात् इत्यर्थः । यस्त्वेतर्हि……होवाच इति । पूर्ववदर्थः । हन्ताहमेतत् इत्यादि शिलक आह – विद्धीति राजा उवाच इत्यर्थः ।।

 

।। इति अष्टमखण्डभाष्यम् ।।

 

नवमः खण्डः

 

अस्य लोकस्य का गतिरिति, “आकाशइति होवाच, “सर्वाणि वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ; आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायान् आकाश: परायणम् ।। ।।

प्र. – एवम् अनुमत: शिलक: राजानं पृच्छति । अस्य लोकस्य का गतिरिति अस्य – पृथिवीलोकस्य । का गतिरिति इत्यर्थः । शालावत्येन पृष्टः प्रवाहण: आकाश इति होवाच । आकाश’ इत्युक्तवान् इत्यर्थः । । अत्र’ आकाशते प्रकाशते, आकाशयतीति वा व्युत्पत्या आकाशशब्दो ब्रह्मपरः । ‘आकाशो ह वै नामरूपयो: निर्वहिता’ (छां.उ.८-१४-१) इत्यादी आकाशशब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात् ; न तु भूताकाशपरः इति द्रष्टव्यम् । तदेव गतित्वं प्रपञ्चयति । सर्वाणि ………यन्ति । चिदचिदात्मकप्रपञ्चः आकाशादेव उत्पद्यते तत्रैव लीयते इत्यर्थः । आकाशो ज्यायान् । ज्यायस्त्वं नाम –सर्वैकल्याणगुणैः सर्वेभ्यो निरतिशयनिरुपाधिकोत्कर्षः आकाश: परायणम् । परायणत्वं – परमगतित्वम् । परमप्राप्यत्वम् इति यावत् ।।

[उद्गीथः परोवरीयः]

एष परोवरीयानुद्गीथ:, एषोऽनन्तः परोवरीयो हास्य भवति ; परोवरीयसो  लोकाञ्जयति : एतदेवं विद्वान् परोवरीयाँसमुद्गीथमुपास्ते

प्र. एष परोवरीयानुद्गीथ:परः उत्कृष्टः, वरीयन् उत्कृष्टतरः । वरीयसामपि परः इत्यर्थः । अत्र परःशब्दः सकारान्तो द्रष्टव्यः । एवं रूपः आकाश उद्गीथः । परमात्मदृष्टिविशिष्टः उद्गीथ इत्यर्थः । उद्गीथे एतादृशाकाशदृष्टिः कर्तव्या इति यावत् । एषोऽनन्तः । उद्गीथ अध्यस्यमानः अयमाकाशः अनन्तः अपरिच्छित्रः इत्यर्थः । ततश्च अनन्तस्य आकाशशब्दितस्य परमात्मन एव सामगतिपरम्पराविश्रान्ति- भूमित्वात् मत्यक्षे ‘अन्तवद्वै किल ते साम’ इत्युक्तः अन्तवत्त्वदोषो न प्रसरति इति भावः । परोवरीयो….जयति इत्यादि । यः – परोवरीयांसम् एतम् आकाशशब्दितं परमात्मानं विद्वान् आकाशत्वेन उद्गीथम् उपास्ते, तस्य परोवरीयस्त्वगुणकं जीवनं भवति । परोवरीयस्त्वगुणकसकललोकावाप्तिश्च भवति ।।

[विद्याफलश्रुतिविषये शौनकवाक्योद्धरणम्]

तँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच, यावन्त एनं प्रजायामुद्गीथं वेदिष्यन्ते, परोवरीयो हैभ्यस्तावदस्मिन् लोके जीवनं भविष्यति ।। ।।

प्र. – प्रवाहणः स्वोक्तार्थं संवादयति – तं……उवाचअतिधन्वनामा शुनकसुतः उदरशाण्डिल्याय ऋषये, उदरशब्देन सन्ततिर्लक्ष्यते । सन्ततिशाली शाण्डिल्य: इत्यर्थः । तस्मै एनम् उद्गीथम् उक्त्वा अन्यदप्युवाचेत्यर्थः । किं तत् इत्यत्राह – यावन्त….भविष्यतीति । बेदिष्यन्त इत्येतद् व्यत्ययेन आत्मनेपदम् प्रजायां – त्वत्सन्ततौ यावन्तःपुरुषाः एनं उद्गीथं उपासिष्यन्ते, तेषाम् उत्कृष्टमिह लोके जीवनं भविष्यति इत्यर्थः ।।

तथाऽमुष्मिन् लोके लोक इति एतमेवं विद्वान् उपास्ते, परोवरीय एव हास्यास्मिन् लोके जीवनं भवति, तथाऽमुष्मिन् लोके लोक इति, लोके लोक इति ।। ।।

।। इति नवमः खण्डः ।।

प्र. तथाऽमुष्मिन् लोके लोक इति । तथा अमुष्मिन्नपि परलोके भविष्यति इत्यर्थः । परोवरीयो जीवनमित्यनुषङ्गः । लोके लोके इति वीप्सायां द्विर्वचनम् । इति अतिधन्वा उवाच इति पूर्वेणान्वयः । अतः इदानीन्तनानामपि तद्विदां तत् फलमस्ति इत्याह – लोके इति । स्पष्टोऽर्थः । लोके लोके इति । लोके लोके इतीति द्विरुक्तिः विद्यासमाप्त्यर्था ।  एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते – समन्वयाध्याये प्रथमपादे उद्गीथे अध्यस्योपास्यमानाकाशो भूताकाशः एव । आकाशशब्दस्य भूताकाशे रूढत्वेन रूढाकाशशब्दाभ्यासात् इति पूर्वपक्षे प्राप्ते उच्यते – ‘आकाशस्तल्लिङ्गात् ‘ (ब्र.सू.१-१-२३) आकाशशब्दाभिधेयः परमात्मा । निखिलजगदेककारणत्व-सर्वज्यायस्त्व-परायणत्वादीनां परमात्मलिङ्गानां भूताकाशे असम्भवात् । भूताकाशस्य अचेतनवर्ग प्रति कारणत्वसम्भवेऽपि चिदचिद्वर्गकारणत्वासम्भवात् सर्वै: कल्याणगुणै: सर्वोत्कृष्टत्वलक्षण- ज्यायस्त्वस्यापि असम्भवात् अचेतनस्य स्वरूपभिन्नत्वेन मोक्षविरोधितया ‘हेय’ शब्दादिनिषिद्धविषयप्रावण्यजनकतया च सकलपुरुषार्थविरोधिनः अचेतनस्य परायणत्वलक्षणप्राप्यत्वस्य चासम्भवात् तस्य ‘का साम्रो गतिः,’ ‘अस्य लोकस्य का गतिः,’ इत्युपक्रमलक्षणतात्पर्यलिङ्गेन प्रतिपिपादयिषितत्वावगमात् । प्रतिपिपादयिषितपरायणत्वानन्तत्वपरोवरीयस्त्वादिलिङ्गविरोधे अभ्यस्ताया अपि श्रुतेर्दुर्बलत्वाञ्च आकाशशब्दच आकाशते आकाशयतीति वा योगवशेन परमात्मपर एव । ननु ‘सर्वाणि ह वा इमानि भूतानि’ (छां.उ.१-९-१) इति श्रुत्यैव आकाशस्य जगत्कारणत्वावेदनात् यथाश्रुताकाशस्यैव जगत्कारणत्वम् अभ्युपेतव्यमिति चेन्न ‘सदेव सोम्येदमग्र आसीत्,’ (छां.उ. ६-२-१), ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ.उ.१-१) ‘एको ह वै नारायण आसीत्’ (महो.१-१) इत्यादियोग्यार्थाननुवादरूपबहुवाक्यविरोधे एकस्यानुवादरूपस्य अयोग्यार्थस्यास्य वाक्यस्य दुर्बलत्वेन स्वार्थप्रतिपादनसामर्थ्याभावात् । अत: आकाशशब्द: यौगिक्या वृत्या ब्रह्मपर एव । यत्तु अत्र व्यासार्यै:, “अर्थाविरोध एव रूढिप्राबल्यमित्यपशूद्राधिकरणनयोपजीवनेन अवयवशक्त्या निर्वाहो भाष्ये उक्तः”। रूढ्यपरित्यागेन ‘अपर्यवसानवृत्त्या आकाशशब्दस्य आकाशशरीरकपरमात्मपरतया निर्वाहोऽपि अभिमतः इत्युक्तम् – तत् उपायान्तरसम्भव-प्रदर्शनमात्रपरम्; न तु प्रकृताभिप्रायम् । अनन्यथासिद्धभूताकाशलिङ्गसत्त्व एव, ‘जीवमुख्यप्राणलिङ्गात्’ (ब्र.सू.१-४-१७) इति सूत्रोक्तन्यायावतारात्, “परविद्यासु जीवोक्ति: निरुक्त्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ।।” (न्या.सि.ईश्वरपरिच्छेदे) इत्याचार्योक्तेः । भूताकाशशरीरकब्रह्मप्रतिपादकत्वा सम्भवाच्चेति द्रष्टव्यमिति स्थितम् । प्रकृतमनुसरामः ।।

।। इति नवमखण्डभाष्यम् ।।

 

दशमः खण्डः

[प्रस्तावोद्गीथप्रतिहारभक्तित्रयोपासनम्]

मटचीहतेषुकुरुष्वाटक्यासह जायया उपस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणकउवास ।। ।।

प्र. –प्रस्तावोद्गीथप्रतिहारभक्तित्रयविषयकोपासनानि विधातुम् आख्यायिकामाह मटची…..उवास । चक्रस्य सुतः उषस्तिनामा कश्चन ऋषिः मटचीहतेषु – अश्मवृष्टि- कृतदुर्भिक्षदूषितेषु कुरुदेशेषु आटक्या अनुपजातपयोधरादिव्यञ्जनया भार्यया सह इभ्यानां – गजारोहाणां ग्रामे प्रद्राणकः – अनशनेन कुत्सितां गतिमापन्नः ब्रह्मविद्यायाः निष्पत्तये प्राणानामनवसादं काङ्क्षन् उवास । ‘द्रा कुत्सायां गतौ’ (धा.पा. १०५४) इति हि धातुः । चक्रस्य गोत्रापत्यम् इत्यर्थे अश्वादित्वात् फञि चाक्रायण इति रूपम् ।

[उषस्ते: भिक्षायाचनम्]

हेभ्यं कुल्माषान् खादन्तं बिभिक्षे तँ होवाचनेतोऽन्ये विद्यन्तेयच्चये मे इमे उपनिहिता इति ।। ।।

प्र.-…. बिभिक्षे सः अन्नार्थी अटन् कुल्माषान् – कुत्सितान् माषान् खादन्तं इभ्यम् याचितवान्’ । ‘कुल्माषादञ्’ (पा.सू. ५-२-८३) इति निर्देशात् कुत्सितमाषार्थे कुल्माषशब्दस्य साधुत्वम् । तं……निहिताः इति । इतः मया भक्ष्यमाणात् उच्छिष्टराशेः कुल्माषा अन्ये विद्यन्तेयत् – यस्माद्धेतोः इमे – कुल्माषा: मे चये । मे – मया भक्ष्यमाणे चये – उच्छिष्टराशौ उपनिहिता: – प्रक्षिप्ताः । अतः किं करोमि इति उषस्तिम् इभ्य उवाच इत्यर्थः ।।

एतेषां मे देहीति होवाच, तानस्मै प्रददौ, हन्तानुपानमित्युच्छिष्टं वै मे पीतँ स्यादिति होवाच ।। ।।

प्र. –एतेषां……होवाच । उच्छिष्टानामपि मध्ये मे – मह्यमपि किञ्चित् देहीति इभ्यम् ऋषिः प्रार्थितवान् इत्यर्थः । तानस्मै प्रददौ तान् – कुल्माषान् उषस्तये इभ्य: दत्तवान् इत्यर्थः । हन्त….. उवाच । अथ समीपस्थम् उदकं गृहीत्या गृहाणानुपानमिति इभ्येनोक्तः स ऋषिः ‘तदुदकपाने उच्छिष्टोदकपानं मे स्यादिति प्रत्युवाच इत्यर्थः ।।

स्विदेतेऽप्युच्छिष्टा इति वा अजीविष्यमिमानखादन् इति होवाचकामो मे उदपानमिति ।। ।।

प्र.-……होवाच इत्यादि । किमेते इदानीं त्वया मत्तो गृहीताः कुल्माषा अनुच्छिष्टाः इति इभ्येन पर्यनुयुक्त ऋषिः कुल्माषाखादने स्वस्य जीवनहानिर्भवति । तावन्मात्रखादनेन धृतप्राणस्य स्वस्य उच्छिष्टोदकपानं कामः कामकारितं निषिद्धं स्यात् इत्युवाच इत्यर्थः ।।

खादित्वाऽतिशेषान् जायाया आजहार साऽग्र एव सुभिक्षा बभूव तान् प्रतिगृह्य निदधौ ।।५।।

प्र. …..आजहार सः – उषस्तिः तान् स्वयं किञ्चिद्धक्षयित्वा अतिशिष्टान् अवशिष्टान् जायायै दत्तवान् इत्यर्थः । सा…… निदधौ । सा जाया अग्रे – प्रागेव सुभिक्षा – लब्धान्ना बभूव । तथापि स्त्रीस्वभावात् अनवज्ञाय तान् कुल्माषान् पत्युः हस्तात् प्रतिगृह्य निक्षिप्तवती ।।

प्रातः संजिहान उवाच, यद्वतान्नस्य लभेमहि, लभेमहि धनमात्राँराजाऽसौ यक्ष्यते, मा सर्वेरार्त्विज्यैषणीतेति ।। ।।

प्र. ……धनमात्राँ उषस्तिः प्रातः संजिहानः शयनं परित्यजन्नेव पत्न्यां शृण्वन्त्याम् इदम् उवाच । किं तत् ? यदन्नस्य स्तोकमपि लभेमहि तेन प्राणान् धृत्वा धनमात्रां अल्पधनं लभेमहि इत्यर्थः । कथं धनमात्रा लभ्यत इत्यत्राह । राजाऽसौ वृणीतेति । राजाऽसौ नातिदूरे यजते, स मां दृष्ट्वा सर्वाणि आर्त्विज्यानि त्वया कारयितव्यानि इति मा ‘प्रार्थयेत’ – इति उवाच इत्यर्थः ।।

तं जायोवाच, हन्त पते इम एव कुल्माषा इति तान् खादित्वाऽमुं यज्ञं विततमेयाय ।। ।।

प्र. – तं…… कुल्माषा इति हे पते, ; ये मद्धस्तनिक्षिप्ताः कुल्माषाः, ते इम एव, एतान् गृहाणेति जाया प्रत्युक्तवती इत्यर्थः । तान्……विततमेयाय । तानेव पर्युषितोच्छिष्टान् कुल्माषान् भक्षयित्वा विततं – विस्तीर्णं यज्ञं गतवान् इत्यर्थः ।।

तत्रोद्गातृनास्तावे स्तोष्यमाणानुपोपविवेश प्रस्तोतारमुवाच ।। ।।

प्र. तत्र…… उपविवेश । आस्तुवन्ति अस्मिन् इति आस्तावः स्तोत्रस्थानम् । सदसि स्तोतुं प्रवृत्तानां उद्गातृ-प्रस्तोतृ-प्रतिहर्तृणां समीपे उपविष्टवान् इत्यर्थः । ह प्रस्तोतारमुवाचसः – उषस्तिः प्रस्तोतारं प्रति इत्थम् उवाच इत्यर्थः ।।

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान् प्रस्तोष्यसि, मूर्धा ते विपतिष्यतीति ।। ।।

प्र. – उक्तिमेवाह – प्रस्तोतर्या…..विपतिष्यतीति हे प्रस्तोतः; प्रस्तावमन्वायत्ता प्रस्तावभक्तौ अध्यस्य या देवता उपास्या, ताम् अविदित्वा यदि विदुषो मम समीपे प्रस्तोष्यसि मूर्धा ते विपतिष्यति इत्यर्थः । ‘यद्यपि तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न  वेद’ (छां.उ. १-१-१०) इति अविदुषोऽपि आविज्याधिकारोऽस्ति । तथापि विद्वत्सन्निधौ अविदुषः कर्माधिकारो नास्तीति भावः ।।

एवमेवोद्गातारमुवाच, उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसिमूर्धा ते विपतिष्यतीति ।। १० ।।

।। इति दशमः खण्डः ।।

प्र. – एवमेव ……उवाच इत्यादि । पूर्ववदर्थः ।।

एवमेव प्रतिहर्तारमुवाच, प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता ताञ्चेदविद्वान्

प्रतिहरिष्यसि, मूर्द्धा ते विपतिष्यतीति ते समारतास्तूष्णीमासाञ्चक्रिरे ।। ११ ।।

प्र. – एवमेव……उवाच इत्यादि । स्पष्टोऽर्थः । ते ……चक्रिरे ते – प्रस्तोत्रादयः समारताः उपरतास्सन्तः मूर्धपातभयात् तूष्णीमेव स्थिताः इत्यर्थः ।।

।। इति दशमखण्डभाष्यम् ।।

एकादशः खण्डः

 

[प्रस्तावप्रतिहारयोः उपासना]

अथ हैनं यजमान उवाच, भगवन्तं वा अहं विविदिषाणीति उपस्तिरस्मि चाक्रायण इति होवाच ।। ।।

प्र.-अथ……विविदिषाणीति । को भवानिति भवन्तं ज्ञातुम् इच्छामि इति उषस्तिं यजमानः उक्तवान् इत्यर्थः । उपस्तिरस्मि……उवाच । स ऋषिः इति शेषः । स्पष्टोऽर्थः ।।

होवाच, भगवन्तं वा अहमेभिः सर्वेरार्त्विज्यैः पर्येषिषम् ; भगवतो वा अहमविद्याऽन्यानवृषि ।। ।।

प्र.-……अवृषि । तम् ऋषिं यजमानः उवाच । किमिति । भगवन्तं । सर्वगुणोपेतं श्रुत्वा सर्वाणि आर्त्विज्यानि भगवदधीनानि कर्तुं पर्यषिषम् – भगवतोऽन्वेषणं कृतवान् अस्मि । भगवतः अविद्या – विदिः लाभः । न विदिः अविदि: ‘इक् कृष्यादिभ्यः’ (वा. २२३२) इति इक् । सा न भवति इति अविदिः । तया अविद्या . अलाभेन इमान् ऋत्विजः अवृषि – वृतवानस्मि इत्यर्थः ।।

 

भगवाँस्त्वेव मे सर्वैरार्त्विज्यैः इति तथेति अथ तर्हि एत एव समतिसृष्टाः स्तुवताम्। यावत्त्वेभ्यो धनं दद्या: तावन्मम दद्या: इति तथेति यजमान उवाच ।।३।।

प्र.-भगवाँस्त्वेव……आर्त्विज्यैरिति । इतः परमपि भगवानेव सर्वै: आर्त्विज्यैः ऋत्विक्कर्मभिः वृतः इति उवाच इत्यर्थः । सर्वार्त्विज्यार्थं वृतः इति यावत् । तथेति स्तुवताम् इत्यादि । अथ उषस्तिः तथा इत्यभ्युपगम्य त्वया पूर्वं वृताः एते एव मया समतिसृष्ठाः – सम्यक्प्रसन्नेन अनुज्ञाताः उपदिष्टदेवताः सन्तः स्तुवतां – स्तुवन्तु किन्तु एभ्यो यावद्धनं प्रयच्छसि तावन्मम दद्याः इति उक्तवान् इत्यर्थः । तथेति यजमान उवाच । स्पष्टोऽर्थः ।।

 

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता, ताञ्चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ; कतमा सा देवतेति ।। ।।

प्र.-अथ हैनं प्रस्तोतोपससाद । उषस्तिवचनं श्रुत्वा प्रस्तोता विनयेन तत्समीपम् आगतवान् इत्यर्थः । प्रस्तोतर्या अन्वायत्ता इत्यादि । भगवान् मां प्रति प्रस्तोतर्या देवता इत्यादिना यां देवताम् अवोचत् – उक्तवान् , सा देवता का इति प्रस्तोता तम् ऋषिं पप्रच्छ इत्यर्थः ।।

 

[प्राण एव प्रस्तावदेवता]

प्राण इति होवाच सर्वाणि वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।। ।।

 प्र.-प्राण इति होवाच । प्राण एव प्रस्तावमन्वायत्ता देवता इति उषस्ति: उवाच इत्यर्थः । अत्र प्राणयितृत्वगुणयोगात् प्राणशब्देन परमात्मा उच्यते । प्राणशब्दस्य मुख्यप्राणपरत्वं व्यावर्तयति । सर्वाणि……अन्वायत्ता । प्राणमभिलक्ष्य संविशन्ति – समित्येकीकारे ऐक्येन विशन्ति । लीयन्त इत्यर्थः । प्राणमभ्युज्जिहते प्राणादेव उद्गच्छन्ति इत्यर्थः सर्वभूतलयोत्पत्तिस्थानत्वेन वेदान्तेषु प्रसिद्धा प्राणरूपा देवता प्रस्तावभक्त्यनुगता प्रस्तावभक्तो अध्यस्य उपास्येत्यर्थः । तां……मयेति । “ताञ्चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मदुक्त्यनन्तरमपि मदुक्तिम् अनादृत्य तद्देवताम् अनभिज्ञाय यदि प्रास्तोष्यः, तदा मूर्धा ते व्यपतिष्यदेव । अतः साधु कृतं त्वया मत्समीपमागत्य विनयेन पृच्छतेति भावः । अत्र मूर्धा ते व्यपतिष्यत् तथोक्तस्य मया इत्युक्त्या विदुषा एवम् उक्तस्य अविदुषः तदनादरेण कर्मकरणे प्रत्यवायः, न तु विदुषा अनुमतस्यापि अविदुष इति भावः । व्यासार्यैस्तु मूर्धा ते व्यपतिष्येत् इत्यस्य “आत्मसत्ता न लभ्येत” इत्यर्थः इति आत्मसत्ताहानिपर्यन्तः प्रत्यवायो वर्णितः ।।

अथ हैनमुद्गातोपससाद उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्दास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ।। ।।

प्र.-अथ हैनमुद्गातोपससाद इत्यादि । पूर्ववदर्थः ।।

 

[आदित्यः उद्गीथदेवता]

आदित्य इति होवाच, सर्वाणि वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।। ।।

प्र.-आदित्य इति होवाच इति । उद्गीथेऽध्यस्योपास्यः आदित्य इत्यर्थः । सर्वाणि……गायन्ति इति । उच्चैस्सन्तं – उच्चैः स्थितं अधःस्थितानि भूतानि गायन्ति इत्यर्थः । प्रस्तावप्राणयोः प्रशब्दवत्त्वेन साम्यवदुद्गीथोच्चैः स्थितादित्ययोः उच्छब्दवत्त्वेन साम्यमिति भावः । शिष्टं पूर्ववत् ।।

 

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ।। ।।

प्र.-अथ हैनं प्रतिहर्तोपससाद इत्यादि । पूर्ववत् ।।

 

[प्रतिहारदेवता अन्नम्]

 

अन्नमिति होवाच, सर्वाणि वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ।। ।।

प्र. अन्नमिति होवाच। प्रतिहारभक्तौ अन्नमध्यस्य उपास्यम् इत्यर्थः । सर्वाणि जीवन्ति इति । प्रतिहरमाणानि भक्षयन्ति इत्यर्थः । सन्ति इति शेषः । अत्र प्रतिहरमाणानि इति प्रतिशब्दवत्त्वेन अन्नप्रतिहारयोः साम्यात् प्रतिहारे अन्नाभिमानिदेवताध्यासः । ततश्च प्रस्तावोद्गीथप्रतिहारभक्तिषु क्रमेण प्राणादित्यान्नदृष्टिः कर्तव्या इत्यर्थः । तथोक्तस्य मयेति तथोक्तस्य मयेति इति द्विरुक्ति: विद्यासमाप्त्यर्था । शिष्टं पूर्ववत् ।।

एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते – समन्वयाध्याये प्रथमपादे प्राणस्य निखिलभूतजातप्रवृत्तिहेतुत्वसम्भवात् प्राणशब्देन मुख्यप्राणः एव अभिधीयताम् इति पूर्वपक्षे प्राप्ते – शिलाकाष्ठाद्यचेतनस्वरूपस्य, शुद्धस्य जीवस्वरूपस्य च मुख्यप्राणाधीन स्थितिकत्वाभावात्’ प्रसिद्धवन्निर्दिष्टसकलचेतनोत्पत्तिलयहेतुत्वस्य परमात्मव्यतिरिक्ते असम्भवात् चेतनवाचिदेवताशब्दस्यापि अचेतने मुख्यप्राणे असम्भवाच्च परमात्मैव प्राणयितृत्वादियोगवशेन अभिधीयते इति । अत एव प्राणः’ (ब्र.सू.१-१-२४) इति सूत्रेण सिद्धान्तितम् ।

 

[प्रतिहारदेवता अन्नम्]

 

अन्नमिति होवाच, सर्वाणि वा इमानि भूतान्यत्रमेव प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति तथोक्तस्य मयेति ।। ।।

प्र.-अन्नमिति होवाच। प्रतिहारभक्तौ अन्नमध्यस्य उपास्यमित्यर्थः । सर्वाणि जीवन्ति इति । प्रतिहरमाणानि – भक्षयन्तीत्यर्थः । सन्तीति शेषः । अत्र प्रतिहरमाणानीति प्रतिशब्दवत्वेन अन्नप्रतिहारयोः साम्यात् प्रतिहारे अन्नाभिमानिदेवताध्यासः । ततश्च प्रस्तावोद्गीथप्रतिहारभक्तिषु क्रमेण प्राणादित्यान्नदृष्टिः कर्तव्या इत्यर्थः । तथोक्तस्य मयेति तथोक्तस्य मयेति इति द्विरुक्तिविद्यासमाप्त्यर्था । शिष्टं पूर्ववत् ।। एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणमुपन्यस्यते – समन्वयाध्याये प्रथमपादे प्राणस्य निखिलभूतजातप्रवृत्तिहेतुत्वसम्भवात् प्राणशब्देन मुख्यप्राण एव अभिधीयताम् इति पूर्वपक्षे प्राप्ते – शिलाकाष्ठाद्यचेतनस्वरूपस्य, शुद्धस्य जीवस्वरूपस्य च, मुख्यप्राणाधीन स्थितिकत्वाभावात् प्रसिद्धवनिर्दिष्टसकलचेतनोत्पत्तिलयहेतुत्वस्य परमात्मव्यतिरिक्ते असम्भवात् चेतनवाचिदेवताशब्दस्यापि अचेतने मुख्यप्राणे असम्भवाच्च परमात्मैव प्राणयितृत्वादियोगवशेन अभिधीयते इति । ‘अत एव प्राणः’ (ब्र.सू.१-१-२४) इति सूत्रेण सिद्धान्तितम् । ननु प्रस्तावोद्गीथप्रतिहारभक्त्यनुगतत्वेन देवतात्वेन च निर्दिष्टेषु प्राणादित्यान्नेषु प्राणस्यैव परमात्मत्वम् आदित्यानयोस्तु न तथात्वम् इत्यत्र किं विनिगमकम् । चेतनवाचिदेवताशब्दः त्रिष्वपि समानः । प्राणवाक्यशेषे प्रसिद्धप्राणासम्भावितासंकुचितसर्व भूतसंवेशनोद्गमनाधारत्वश्रवणवत् आदित्यान्नवाक्यशेषयोरपि असंकुचित- सर्वभूतगेयत्व सर्वभूतोपजीव्यत्वयोः प्रसिद्धादित्यानासम्भावितयोः श्रवणाविशेषात् । यदि च आदित्यवाक्ये सर्वभूतशब्दः आदित्यगानयोग्यचेतनविशेषपरतया अन्नवाक्यशेषे अन्नोपजीवनयोग्य चेतनविशेषपरतया च संकोच्यते । देवताशब्दश्च ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ (ब्र.सू.२-१-५) इति सूत्रोक्तन्यायेन अभिमानिदेवतापरतया योज्यते । तर्हि प्राणेऽपि तथाऽस्तु विशेषाभावात् इति चेत् उच्यते प्राणशब्दस्य ‘प्राणस्य प्राणं’ (बृ.उ.६-४-१८) ‘यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्’ (क.उ.६-२) इत्यादिषु परमात्मन्यपि निरूढत्वात् । ‘सर्वाणि ह वा इमानि भूतानि’ इत्यादिवाक्यशेषस्वारस्याच्च परमात्मपरत्वमाश्रितम् । अन्नादित्यशब्दयो: अतथात्वात् चेतनवाचिदे वताशब्दस्य केवलादित्यमण्डलान्नयोः अभावात् तदभिमानिदेवतापरत्वम् । अन्नाभिमानिदेवतायाश्च ‘भूतभक्ष्यत्वं तदधिष्ठेयात् न अभेदारोपेण उपपद्यते । ‘सर्वाणि ह वा इमानि भूतानि आदित्यमुच्चैस्सन्तं गायन्तीति’ प्रतिपादितं सर्वभूतगेयत्वं परमात्मनोऽपि न सम्भवति । भूतशब्दो हि प्राणिनिकाये महाभूतेषु च रूढः । महाभूतस्य गातृत्वप्रसक्तेरेवाभावात् प्राणिनिकायपरत्वं वक्तव्यम् । तदपि न सम्भवति । न हि सर्वेऽपि प्राणिनः परमात्मानं गायन्ति ; स्थावरेषु पश्वादिषु चाभावात् । तस्मात् गानयोग्यप्राणिविशेषपरत्वेन संकोचः परमात्मपरत्वेऽपि आवश्यक इति आदित्य शब्दस्य लोकव्युत्पत्तिविरुद्धं परमात्मपरत्वं नाश्रयणीयम् । एवमन्नवाक्यशेषेऽपि ‘प्रतिहरमाणानि’ इति भक्ष्यमाणत्वं न परमात्मनि मुख्यम् । अतः आदित्यान्नशब्दयोः ब्रह्मपरत्वाभावेऽपि प्राणशब्दस्य ब्रह्मपरत्वं सिद्धमिति द्रष्टव्यम् । प्रकृतमनुसरामः ।।

।। इति एकादशखण्डभाष्यम् ।।

 

द्वादशः खण्डः

 

[श्वदृष्टोद्गीथस्तुत्यर्थ दाल्भ्यस्य आख्यायिका]

 

अथात: शौव उद्गीथः तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ।। ।।

 

प्र.-अतीतखण्डे अन्नाप्राप्तिनिमित्ता उच्छिष्टपर्युषितभक्षणलक्षणा कष्टावस्था उक्ता । अनन्तरमन्नलाभाय श्वदृष्टः उद्गीथः प्रस्तूयते । अथातः शौव उद्गीथः शौवश्वदृष्टः उद्गीथः । प्रस्तूयते इति शेषः । शौव इति टिलोपश्छान्दसः । तद्ध……वव्राज । अत्र वाशब्दः चार्थे । बकग्लावनामद्वययुक्तो दल्भसुतो मित्रासुतश्च स्वाध्यायं कर्तुं उद्वव्राजग्रामात् निर्गतवान् इत्यर्थः ।।

 

तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान उपसमेत्योचुः अन्नं नो भगवानागायतु; अशनायाम वौ इति ।। ।।

प्र. – तस्मै……बभूव । तत्स्वाध्यायेन तोषितः कश्चन ऋषिः श्वेतशुनकरूपतया प्रादुर्बभूव इत्यर्थः । तं……ऊचुः तंश्वेतं श्वानं क्षुल्लका: श्वान: उपसमेत्य उक्तवन्तः । उक्तिमेवाह- अन्नं इति । वैशब्दोऽवधारणे । वयं अशनायाम बुभुक्षिताः स्मः । अस्माकं, गानेनान्नं भगवान् सम्पादयतु इत्यूचुरित्यर्थः ।।

तान् होवाच, इहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ।। ।।

प्र. – तान्…….समीयातेति । श्वः प्रातःकाले अस्मिन्नेव देशे मा – मामुपगच्छतेति तान् – क्षुल्लकान् शुनः श्वेतः श्वा उवाच इत्यर्थः । तद्धचकार । बकग्लावनामा ऋषिः तत्संवादं श्रुत्वा श्वेतश्चाद्यागमनं प्रतीक्ष्य स्थितवानित्यर्थः ।।

ते यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुः तेह समुपविश्य हिञ्चक्रुः ।। ।।

प्र. ते……ससृषु । ते – श्वेतश्वादयः तत्रैव प्रातरागत्य, बहिष्पवमानेन स्रोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः अन्योन्यस्पृष्टा  गच्छन्तीत्येतद्यथा, तथैव अन्योन्यस्य पुच्छं ‘मुखेन’ गृहीत्वा आससृपुः – उपसर्पणं कृतवन्तः । ते…… हिञ्चक्रुः । अथ ते, उपविश्य हिञ्चक्रुः – हिङ्कारं कृतवन्तः इत्यर्थः ।।

ओ३मदा३मों पिबा मों देवो वरुणः प्रजापतिः सविता ऽन्नमिहा२हरदनपते ऽन्नमिहाहरा हरो मिति ।। ।।

 

।। इति द्वादशः खण्डः ।।

प्र. – हिङ्कारमेवाह – ओमदार्मो……आहरत् । ओमिति गानोपक्रमे । अदाम . भक्षयेम’, पिबाम च । द्योतमानत्वात् देवः । व्रियमाणत्वात् वरुणः । प्रजानां पालनात् – प्रजापतिः । एवम्भूतः सविता अन्नमाहरतु इत्यर्थः । अन्नपते……ओमिति अन्नपते इति आदित्यस्य सम्बोधनम् । आहराहर इति द्विरुक्तिः प्रार्थनायाम् । इति गीतवन्तः इत्यर्थः अन्नपत इति मन्त्रकरणकादित्याध्यासविशिष्टोद्गीथोपासनमन्त्रफलकमिति भावः ।।

।। इति द्वादशखण्डभाष्यम् ।।

 

त्रयोदशः खण्डः

 

अयं वाव लोको हाउकारो वायुर्हा इकारश्चन्द्रमा अथकार आत्मेह कारोऽग्निरीकारः ।।१।।

प्र.-सामावयवान्तर्गतस्तोभाक्षरविषयाणि उपासनान्तराण्युपदिश्यन्ते । अयं……हाउकारः । हाउ इत्येवंलक्षणो यः सामसु स्तोभः सः अयं लोकः एतल्लोकत्वेनोपास्यः इत्यर्थः । एवमुत्तरत्रापि स्तोभशब्दोऽध्याहर्तव्यः । अयं स्तोभो रथन्तरसाम्नि प्रसिद्धः । वायुर्हा इकारः हा इति स्तोभः वामदेव्यसाम्नि प्रसिद्धः । एवमग्रेऽपि । शिड्राष्टं स्पष्टम् ।।

 

आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोइकारः प्रजापतिहिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ।। ।।

 

प्र. – आदित्य ऊकार: इत्यादि । निहव एकारःनिहवः – आह्वानम् इत्यर्थः । ह्वस्सम्प्रसारणं च न्यभ्युपविषु’ (पा.सू.३-३-७२) इति भावे ह्वङ: अप्सम्प्रसारणयोः निहव इति रूपम् । प्राणः स्वरः स्वर इति स्तोभः प्राण इत्यर्थः । अन्नं या । या इति स्तोभाः अन्नमित्यर्थः । वाग्विराट् । वागिति स्तोभो विराट् अन्नमित्यर्थः । विराट्पुरुषो वा ।।

 

अनिरुक्तस्त्रयोदशस्तोभः सञ्चरो हुङ्कारः ।। ।।

प्र.-अनिरुक्तः……हुङ्कारः । हाउकारादिभ्यो द्वादशभ्यः पूर्वोक्तेभ्यः अधिक: हुमिति त्रयोदशो यः स्तोभः, सः इदमिति निर्वक्तुमशक्यतया अनिरुक्तत्वात् सञ्चर: डोलायितः सन्देहरूप इत्यर्थः । ततश्च तत्र सञ्चरत्वदृष्टि: कार्या इत्यर्थः । ततश्च हाउकारादिषु त्रयोदशसु उक्तपृथिवीलोकादिदृष्टिः कर्तव्या इति स्थितम् ।।

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः; अन्नवानन्नादो भवति, एतामेवं सानामुपनिषदं वेदोपनिषदं वेद इति ।। ।।

 

।। इति त्रयोदशः खण्डः ।।

 

।। इति प्रथमः प्रपाठकः समाप्तः ।।

 

प्र.-तस्य फलमाह – दुग्धे……भवति । उक्तोऽर्थः । यः……वेद । सामावयव स्तोभाक्षरोपासनां यो वेद इत्यर्थः । द्विरुक्तिरध्यायसमाप्त्यर्था ।।

।। इति प्रथमप्रपाठकप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.