छान्दोग्योपनिषत् द्वितीयः प्रपाठकः

छान्दोग्योपनिषत्

द्वितीयः प्रपाठकः

 

प्रथमः खण्डः

 

[समस्तसामोपासनम्]

 

ओम् , समस्तस्य खलु साम्न उपासनम् , साधु यत् खलु साथ, तत्

सामेत्याचक्षते यदसाधु, तदसामेति ।। ।।

 

प्र. –सामावयवोपासन प्राङ्निर्दिश्य समस्तस्य साम्न: उपासनं प्रस्तौति समस्तस्य……साधुसमस्तस्य – पाञ्चविध्ययुक्तस्य साप्तविध्ययुक्तस्य वा समस्तस्य साम्न: साधुत्वेन उपासनं कार्यम् इत्यर्थः । तत्रोपपत्तिमाह – यत्……असामेति साध्वसाधुकर्मणी सामासामत्वेन व्यवहरन्ति इत्यर्थः ।।

तदुताप्याहुः, साम्नैनमुपागादिति, साधुनैनमुपागादित्येव तदाहुः । असाम्नैनमुपागादिति, असाधुनैनमुपागादित्येव तदाहुः ।। ।।

प्र. – तदुताप्याहुः तत् – तस्मिन्वषये अन्यदप्याहुः । किं तदित्यत्राह – साम्ना तदाहुः इत्यादि । सामासामोपायाभ्यामागतं प्रत्यर्थिनं साध्वसाधुभ्यामागतं व्यवहरन्ति इत्यर्थः ।।

अथोताप्याहुः, साम नो बतेति, यत्साधु भवति साधु बतेत्येव तदाहुः असाम नो बतेति, यदसाधु भवति असाधु बतेत्येव तदाहुः ।। ।। 

प्र. –अथोताप्याहुः । अस्मिन्नेवार्थे जनाः अन्यदप्याहुः इत्यर्थः । साम……भवति। यत्कर्म साधु भवति, तत् नः अस्माकं साम बतेति सानुमोदाः ‘प्रवदन्ति लोका: । साधु…. तदाहुः । साम नो बत इत्युक्त एवंविषये, साधु बतेति लोकाः प्रवदन्ति । ततः सामसाधुशब्दौ एकत्र प्रयुज्यमानौ दृश्येते इत्यर्थः । एवमुत्तरत्रापि । अतः सामसाधुशब्दयोः एकार्थप्रयोगात् समस्तस्य साम्नः साधुत्वेन उपासनं कर्तव्यम् इत्यर्थः ।।

 

[समस्तसामोपसनस्य फलम्]

 

एतदेवं विद्वान् साधु सामेत्युपास्ते, अभ्याशो यदेनँ साधवो धर्माः आगच्छेयुः, उप नमेयुः ।। ।।

 

।। इति प्रथमः खण्डः ।।

 

प्र. – …… नमेयुः । एवं साधुत्वेन समस्तसामोपासकं ह – प्रसिद्धं अभ्याशः क्षिप्रं साधुधर्माः सर्वे आगच्छेयुश्च, भोग्यत्वेन उपनताश्च भवेयुः इत्यर्थः ‘रमणीयचरणा अभ्याशो ह’ (छां.उ.५-१०-७) इत्यत्र अभ्याशः अभ्यागन्तारः इति व्यासार्यै: व्याख्यातत्वात् इहापि अभ्याश: – आगन्तारः साधवो धर्माः अभ्यागमनयोग्याः साधवः धर्माः अभ्यागच्छेयुः इति वार्थ: । उपनमेयुश्च – भोग्यतां भजेयुः इत्यर्थः ।।

।।इति प्रथमखण्डभाष्यम्।।

 

द्वितीयः खण्डः

 

[पञ्चविधसाम्नि लोकादिदृष्टिप्रकाराः]

 

लोकेषु पञ्चविधँ सामोपासीत पृथिवी हिङ्कारः अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथः आदित्यः प्रतिहारो, द्यौर्निधनमित्यूर्ध्वेषु ।। ।।

 

प्र. लोकेषु पञ्चविधं सामोपासीत । हिङ्कार प्रस्तावोद्गीथप्रतिहारनिधन-लक्षणपाञ्चविध्ययुक्तं क्रत्वङ्गभूतं सामोपासीत । पञ्चविधसामकर्मकमुपासनं लोकेषु लोकविषयकं कुर्यात् इत्यर्थः । ‘आदित्यादिमतयश्चाङ्ग उपपत्तेः’ (ब्र.सू.४-१-६) इत्यधिकरणे अङ्गानङ्गसमभिव्याहारयुक्तोपासनेषु अङ्गेषु अनङ्गदृष्टिरूपत्वस्य समर्थितत्वात् अङ्गभूते साम्नि अनङ्गलोकदृष्टिः कर्तव्या इत्यर्थः । तत्प्रकारमेव दर्शयति । पृथिवी…… इत्यूर्ध्वेषु । हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनेषु क्रमेण  पृथिव्यग्र्यन्तरिक्षादित्य धुलोकदृष्टिरूर्ध्वक्रमेण कर्तव्या ‘इत्यर्थः ।।

अथावृत्तेषुध्यौहिङ्कारः, आदित्यः प्रस्तावः, अन्तरिक्षमुद्गीथः, अग्निप्रतिहारः, पृथिवी निधनम् ।। ।।

प्र. – तथा, अथावृत्तेषु……निधनम् । आवृत्तक्रमेण तेष्वेव द्युलोका-दित्यान्तरिक्षाग्निपृथिवीदृष्टिः कर्तव्या इत्यर्थः ।।

 

कल्पन्ते हास्मै लोका ऊर्ध्वाश्चा वृत्ताश्च, एतदेवंविद्वाँल्लोकेषु पञ्चविधँ सामोपास्ते ।। ।।

 

।। इति द्वितीयः खण्डः ।।

 

प्र. – तत्फलमाह – कल्पन्ते हास्मै इत्यादि । अस्मै – अस्य लोकाः कल्पन्ते । उपासकभोगनिष्पादनसमर्थाः भवन्ति इत्यर्थः । एतादृशोपासनस्य फलमाह कल्पन्ते इत्यादि । अतिरोहितार्थमिदं प्रकरणम् ।।

।। इति द्वितीयखण्डभाष्यम् ।।

तृतीयः खण्डः

 

[वृष्टिदृष्ट्या सामोपासनम्]

 

वृष्टौ पञ्चविधँ सामोपासीतपुरोवातो हिंकारो मेघो जायते प्रस्तावो वर्षति उद्गीथो विद्योतते स्तनयति प्रतिहारः उद्गृह्णाति तन्निधनम् ।। ।।

 

प्र. – वृष्टौ……उपासीत । पूर्ववदेव अत्र पञ्चविधे साम्नि वृष्टिदृष्टिः कर्तव्या इत्यर्थः । पुरोवातः……तन्निधनम् उद्ग्रहणम् – जलस्य उद्ग्रहणं, वर्षसमाप्तिः । शिष्टं स्पष्टम् ।।

[तस्य फलम्]

 

वर्षति हास्मै, वर्षयति , एतदेवं विद्वान् वृष्टौ पञ्चविधँ सामोपास्तै ।।।।

 

।। इति तृतीयः खण्डः ।।

 

प्र. – वर्षति हास्मै । इच्छतः इति शेषः । अस्य इच्छायां सत्यां वर्षतीति यावत् । वर्षयति……उपास्ते । अद्यापि यः एवमुपास्ते, स इच्छायां सत्यां वर्षयतिवर्ष कारयति इत्यर्थः ।।

 

इति तृतीयखण्डभाष्यम् ।।

 

चतुर्थः खण्डः

[अप्सु पञ्चविधसामोपासनम्]

 

सर्वास्वप्सु पञ्चविधँ सामोपासीतमेघो यत्संप्लवते हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते उद्गीथो याः प्रतीच्यः प्रतिहारः समुद्रो निधनम् ।।।।

 

प्र. – सर्वासु……उपासीत । पूर्ववदर्थः । मेघो हिंकारः सम्प्लवनं – सञ्चारः । या:…..उद्गीथः । स्यन्दन्ते, आप इति शेषः । याः प्रतीच्यः प्रतिहारः । प्रतीच्यः स्यन्दन्ते, आप इति शेषः । शिष्टं स्पष्टम् ।।

[तस्य फलम्]

 

हाप्सु प्रैति अप्सुमान् भवति, एतदेवं विद्वान् सर्वास्वप्सु पञ्चविधँ सामोपास्ते ।। ।।

 

।। इति चतुर्थः खण्डः ।।

 

प्र. – हाप्सु प्रैति । न प्रैति न म्रियते इत्यर्थः । अप्सुमान् भवति प्रभूतोदकसम्पन्नो भवति इत्यर्थः । ‘अपो योनियन्मतुषु’ (वा.३८७६) इत्यलुक् । शिष्टं स्पष्टम् ।।

 

।। इति चतुर्थखण्डभाष्यम् ।।

 

पञ्चमः खण्डः

 

[ऋतुषु पञ्चविधसामोपासनम्]

 

ऋतुषु पञ्चविधँ सामोपासीत वसन्तो हिङ्कारो, ग्रीष्मः प्रस्तावो, वर्षा उद्गीथः, शरत् प्रतिहारो, हेमन्तो निधनम् ।। ।।

 

प्र.-ऋतुषु पञ्चविधँ सामोपासीत इत्यादि । स्पष्टम् ।।

 

[तस्य फलम्]

 

कल्पन्ते हास्मा ऋतवः, ऋतुमान् भवति, एतदेवं विद्वान् ऋतुषु पञ्चविधँ सामोपास्ते ।। ।।

 

।। इति पञ्चमः खण्डः ।।

 

प्र. – कल्पन्ते हास्मा ऋतवः कल्पन्ते – उपासकस्य भोग्यनिष्पादनसमर्थाः भवन्ति इत्यर्थः । ऋतुमान् भवति । वसन्तादिऋतुफलभोगशाली भवति इत्यर्थः । शिष्टं स्पष्टम् ।।

 

।। इति पञ्चमखण्डभाष्यम् ।।

 

षष्ठः खण्डः

 

[पशुषु पञ्चविधसामोपासनम्]

 

पशुषु पञ्चविधँ सामोपासीतअजा हिङ्कारः‘, अवयः प्रस्तावः, गावः उद्गीथः, अश्वाः प्रतिहारः, पुरुषो निधनम् ।। ।।

 

प्र.-पशुषु पञ्चविधँ सामोपासीत इत्यादि । स्पष्टम् ।।

[तस्य फलम्]

 

भवन्ति हास्य पशवः, पशुमान् भवति, एतदेवं विद्वान् पशुषु पञ्चविधँ सामोपास्ते ।। ।।

 

।। इति षष्ठः खण्डः ।।

 

प्र. –भवन्ति हास्य पशवः । अस्योपासकस्य भोगसम्पादनक्षमाः भवन्ति इत्यर्थः । पशुमान् भवति प्रभूतपशुमान् भवति इत्यर्थः । अयम् उपासकः इति शेषः । शिष्टं स्पष्टम् ।।

 

।। इति षष्ठखण्डभाष्यम् ।।

 

सप्तमः खण्ड:

 

[प्राणेषु पञ्चविधसामोपासनम्]

 

प्राणेषु पञ्चविधँ परोवरीयः सामोपासीत प्राणोहिङ्कारो, वाक्प्रस्तावचक्षरुद्गीथः श्रोत्रं प्रतिहारो, मनो निधनं, परोवरीयांसि वा एतानि ।। ।।

प्र. –प्राणेषु……उपासीत । वरीयस्त्वं – ज्येष्ठत्वम् परस्त्वम् – श्रेष्ठत्वम् । परस्त्वे सति वरीयस्त्वं परोवरीयस्त्वम् । परश्शब्दः सान्तः । परोवरीयस्त्वगुणकप्राणदृष्ट्या पञ्चविधसामोपासनं कर्तव्यम् इत्यर्थः । तदेवाह – प्राणो……एतानि एतानि प्राणादीनि परोवरीयांसि – परोवरीयस्त्वगुणकानि इत्यर्थः ।।

|तस्य फलम्]

 

परोवरीयो हास्य भवति परोवरीयसो लोकाञ्जयति, एतदेवंविद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते इति तु पञ्चविधस्य ।। ।।

 

।। इति सप्तमः खण्डः ।।

 

प्र. – परोवरीयो हास्य भवति उपासकस्यास्य जीवनं श्रेष्ठं भवति इत्यर्थः । इति तु पञ्चविधस्य साम्न: उपासनमुक्तं भवति इत्यर्थः । शिष्टं स्पष्टम् ।।

 

।। इति सप्तमखण्डभाष्यम् ।।

 

अष्टमः खण्डः

 

[वाचि सप्तविधसामोपासनम्]

 

अथ सप्तविधस्यवाचि सप्तविधँ सामोपासीतयत्किञ्च वाचो हिमिति  हिङ्कारो, यत्प्रेति प्रस्तावो, यदेति आदिः ।। ।।

प्र. – अथ सप्तविधस्य । सप्तविधस्य साम्नः उपासनं प्रस्तूयते इत्यर्थः । वाचि…..उपासीत वाचि हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनाख्यसप्तविधायुक्ते साम्नि वक्ष्यमाणप्रकारेण वाक्छब्दितशब्ददृष्टिः कर्तव्या इत्यर्थः । यत्किञ्च हिङ्कारः वाचः . शब्दस्य अवयवभूतः हिमिति यः शब्दः, स हिङ्कारः । हिङ्कारस्य हिंशब्दवत्त्वसादृश्यात् । ततश्च हिङ्कारे, लोके हिंशब्दा यावन्तः तद्बुद्धिः कर्तव्या इत्यर्थः । एवमुत्तरत्रापि । यत्प्रेति……..आदिः । प्रस्तावे’सर्व’ प्रशब्दत्वबुद्धिः, कर्तव्या । उद्गीथस्य आद्यवयवभूते ओङ्कारे ‘अ’ इति शब्दबुद्धिः कर्तव्या इत्यर्थः ।।

 

यदुदिति उद्गीथो, यत् प्रतीति प्रतिहारो, यदुपेति उपद्रवोयन्नीति तन्निधनम् ।। ।।

प्र. – यदुदिति उद्गीथः इत्यादि । स्पष्टम् ।।

[उपासनाफलम्]

 

दुग्धेऽस्मै वाग् दोहं यो वाचो दोहः, अन्नवानन्नादो भवति, एतदेवं विद्वान् वाचि सप्तविधँ सामोपास्ते ।। ।।

 

।। इति अष्टमः खण्डः ।।

प्र. – उपासनाफलमाह दुग्धे……भवति । वाक्सम्बन्धी यो दोहोऽस्ति, वाक्साध्यं यत्फलम् इत्यर्थः । तत्फलं उपास्यमाना वाक् अस्मै उपासकाय दुग्धे प्रयच्छति इत्यर्थः । शिष्टं स्पष्टम् ।।

 

।। इति अष्टमखण्डभाष्यम् ।।

 

नवमः खण्डः

 

[सप्तविधे साम्नि आदित्यदृष्टिः]

 

अथ खल्वमुमादित्यँ सप्तविधं सामोपासीतसर्वदा समः, तेन साम, मां प्रति मां प्रतीति सर्वेण समः, तेन साम ।। ।।

 

प्र. –अथ……उपासीत । सप्तविधे साम्नि आदित्यबुद्धिः कर्तव्या इत्यर्थः । सामादित्ययोः ऐक्याध्यासहेतुमाह – सर्वदा सम: तेन साम । आदित्यस्य सर्वदा समपरिमाणत्वेन समत्वात् सामत्वम् इत्यर्थः । मां……साम । लोके हि, ‘आदित्यो मां प्रति सम: अभिमुखः, मां प्रति समः’ इतिः प्रतीयते । पुरुषविशेषं प्रति आभिमुख्यस्य पुरुषविशेषं प्रति अनाभिमुख्यस्य वा अभावात् । अतः सर्वं प्रति समत्वादपि सामत्वम् इत्यर्थः ।।

 

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्ताानीति विद्यात् तस्य यत्पुरोदयात् स हिङ्कारः तदस्य पशवोऽन्वायत्ताः तस्मात्ते हिङ् कुर्वन्ति ; हिङ्कारभाजिनो ह्येतस्य साम्नः ।। ।।

 

प्र. – तस्मिन्…..विद्यात् तस्मिन् – आदित्ये । सर्वभूतोपजीव्यतया आदित्यम् उपासीत इत्यर्थः । भूतानाम् उपजीवनप्रकारं कालभेदेन दर्शयति । तस्य….साम्नः । तस्यआदित्यस्य उदयात् पुरा – पूर्वं यद्रूपं, स हिङ्कारः । हिङ्कारे तद्रूपदृष्टिः कर्तव्या इत्यर्थः । एवमग्रेऽपि । अस्य आदित्यस्य हिङ्काराख्यं तत् रूपं पशवः अन्वायत्ता: – उपजीवन्ति । हि – यतः एव ते एतस्य साम्नःसामरूपस्य आदित्यस्य सम्बन्धिहिंकारलक्षणरूपोपजीविनः । तस्मात्ते हिङ् कुर्वन्ति । अत एव पशवो हिमिति शब्दं कुवन्ति इत्यर्थः ।।

 

[प्रस्तावलक्षणम्]

 

अथ यत् प्रथमोदिते प्रस्तावः तदस्य मनुष्या अन्वायत्ताः, तस्मात्ते प्रस्तुतिकामाः प्रशँसाकामाः; प्रस्तावभाजिनो ह्येतस्य साम्नः ।। ।।

प्रअथ यत् प्रथमोदिते इत्यादि । प्रथमोदिते -प्रथमोदयकाले प्रथमोदयकालावच्छिन्नः आदित्यः प्रस्तावः । अस्य तथाविधं रूपं मनुष्याः उपजीवन्ति यतस्ते प्रस्तावाख्यप्रथमोदितादित्यरूपोपजीविनः, अत एव मनुष्याः प्रस्तुतिकामा: भवन्ति । प्रस्तुतिकामाः इत्यस्य विवरणं प्रशंसाकामाः इति ।।

 

[आदित्यसाम्न: आदिः]

 

अथ यत् सङ्गववेलायाँ आदिः तदस्य वयाँस्यन्वायत्तानि तस्मात् तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्ति ; आदिभाजीनि ह्येतस्य साम्न: ।। ।।

 

प्र. –अथ यत् सङ्गववेलायाम् इत्यादि । तानि वयांसि पक्षिणः अनारम्बणानि – आलम्बनान्तरशून्यान्येव आत्मानमेव आलम्बनत्वेन आदाय आकाशे परिपतन्ति । सङ्गवकालादित्यसम्बन्ध्यादिशब्दितोङ्काररूपोपजीवित्वादेव आदाय ‘परिपतनं पक्षिणाम् इत्यर्थः । आदिशब्दादायशब्दयोः आकारदकारवत्त्वसाम्यम् इहाभिप्रेतम् ।।

 

[आदित्यसामउद्गीथः]

 

अथ यत् सम्प्रति मध्यन्दिने उद्गीथः तदस्य देवा अन्वायत्ताः । तस्मात्ते सत्तमाः प्राजापत्यानाम् उद्गीथभाजिनो ह्येतस्य साम्नः ।। ।।

 

प्र. – अथ यत् सम्प्रति मध्यन्दिने उद्गीथः इत्यादि । सम्प्रति मध्यन्दिने ऋजुमध्यन्दिने इत्यर्थः । प्राजापत्यानां – ‘देवासुराणां मध्ये ते सत्तमा – उत्तमाः इत्यर्थः । उद्गीथसत्तमशब्दयोः संयुक्ततकारश्रुतिमत्त्वसाम्यात् उपजीव्योपजीवकभावोक्तिः द्रष्टव्या ।।

 

(प्रतिहारलाणम्।

 

अथ यदुर्ध्वं मध्यन्धिनात् प्रागपराह्णात् प्रतिहार तपस्य गर्भा अन्वायत्ता: । तस्मात्ते प्रतिहृता नावपद्यन्ते, प्रतिहारभाजिनो ह्येतस्य साम्न: ।।

 

प्रअथ यदुर्ध्वं मध्यन्धिनात् प्रागपराह्णात् प्रतिहार:  इत्यादि । सवितुः प्रतिहारभक्तिरूपोपजीवित्वादेव ऊर्ध्वं प्रतिहताः सन्तः गर्भाः नावपद्यन्तेद्वारे सत्यपि नाध: पतन्ति इत्यर्थः ।।

 

[उपद्रवलक्षणम्।

 

अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् , उपद्रवः तदस्यारण्याः अन्वायत्ताः । तस्मात्ते पुरुष दृष्ट्वा कक्षँ श्वभ्रमित्युपद्रवन्ति उपद्रवभाजिनो ह्येतस्य साम्न: ।। ।।

प्र.-अथ उपद्रवः इत्यादि । आदित्यसम्बन्ध्युपद्रवभक्त्युपजीवित्वात् एव पुरुषदर्शनभीतानां आरण्यानां कक्षश्वभ्रादिषु उपद्रवणम् इत्यर्थः ।।

[निधनलक्षणम्]

 

अथ यत्प्रथमास्तमिते, तन्निधनम् तदस्य पितरोऽन्वायत्ताः । तस्मात्तान्निदधति ; निधनभाजिनः ह्येतस्य साम्नः एवं खल्वमुमादित्यँ सप्तविधँ सामोपास्ते ।। ।।

 

।। इति नवमः खण्डः ।।

 

प्रअथ……साम्नः । श्राद्धकर्तारो हि दर्भेषु पितॄन् निक्षिपन्ति, तदर्थान् पिण्डान् वा इत्यर्थः । निधनभाजिनः हि – निधनोपजीवित्वात् पितॄणां दर्भेषु निधनं प्राप्तवन्तः । उक्तमुपासनम् उपसंहरति ह्येवं……उपास्ते ।।

इति नवमखण्डभाष्यम् ।।

 

दशमः खण्डः

 

[सप्तविधे साम्नि आत्मसंमितत्वातिमृत्युत्वोपासनम् ]

 

अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँ सामोपासीत, हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत् समम् ।।।।

 

प्र. – अथ……उपासीत अथ – अध्यस्तादित्यभावसप्तविधसामोपासनोपदेशानन्तरम् अतिक्रान्तादित्यसप्तविधसामोपासनम् उपदिश्यते इत्यर्थः । अत्र मृत्युशब्देन आदित्यः अभिधीयते । आदित्यस्य अहोरात्रकालावर्तनेन जगन्नाशहेतुत्वात् मृत्युत्वम् । आत्मसंमितम् – आत्मनां स्वेषाम् एषामेव त्र्यक्षरत्वेन परस्परसंमितत्वकथनात् आत्मसंमितत्वम् । द्वाविंशत्यक्षरात्मकस्य सप्तविधसामभक्तिविशेषस्य एकविंशति लक्षणादित्यसंख्यातिरेकित्वात् अतिमृत्युत्वम् । आत्मसम्मितत्वात् अतिमृत्युत्वप्रकारमेव दर्शयति । हिङ्कार इति……समम् । अतश्च एतयोः उभयोः समत्वादेव आवापोद्वापौ न कर्तव्यौ इत्यर्थः ।।

आदिरिति व्द्यक्षरं प्रतिहार इति चतुरक्षरं तत इहेकं तत् समम् ।। ।।

 

प्र. – आदिरिति……तत्समम् । चतुरक्षरात् एकमक्षरं गृहीत्वा व्द्ययक्षरे निवेशिते समं भवति इत्यर्थः ।।

 

उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवतिअक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ।। ।।

 

प्र.-उद्गीथ इति……समम् । उपद्रवः इति चतुरक्षरे एकस्मिन् अक्षरे पृथक्कृते सति अवशिष्टं त्र्यक्षरं सममेव भवति इत्यर्थः ।।

 

निधनमिति त्र्यक्षरं तत्सममेव भवति तानि वा एतानि द्वाविंशतिः अक्षराणि ।। ।।

 

प्र.-निधनमिति त्र्यक्षरं तत्सममेव भवति उपसंहरति तानि अक्षराणि

स्पष्टोऽर्थः ।।

 

एकविंशत्यादित्यमाप्नोति एकविंशो वा इतोऽसावादित्यः द्वाविंशेन परमादित्याज्जयति तन्नाकं तद्विशोकम् ।। ।।

प्र.-एकविंशत्या……आदित्यः । ‘द्वादशमासाः पञ्चर्तवः त्रय इमे लोकाः असावादित्य एकविंशः’ (ऐ.ब्रा.४-५, तां.ब्रा.१०-१-१०) इति श्रुतेः यतः आदित्यस्य एकविंशत्वं, अतः सप्तविधभक्तिनामाक्षरगतैकविंशतिसंख्यया एकविंशतिसंख्याकम् आदित्यं प्राप्नोति । आदित्यसालोक्यं प्राप्नोति इत्यर्थः । द्वाविंशेन……तद्विशोकम् । अवशिष्टेन द्वाविंशेन अक्षरेण आदित्यात् परं दुःखासम्भिन्नं लोकं प्राप्नाति इत्यर्थः ।।

 

आप्नोतीहादित्यस्य जयम् ; परो हास्यादित्यजयाज्जयो भवति एतदेवं विद्वान् आत्मसंमितमतिमृत्यु सप्तविधँ सामोपास्ते सामोपास्ते ।। ।।

 

इति दशमः खण्डः ।।

 

प्र.आप्नोतीहादित्यस्य  जयम् इति । इह – लोके आदित्यजयं प्राप्नोति इत्यर्थः । परो हास्य विद्वान् इत्यादि । य एवमुपास्ते तस्य आदित्यजयात् सर्वोत्कर्षो भवति इत्यर्थः ।।

 

।। इति दशमखण्डभाष्यम् ।।

 

एकादशः खण्डः

 

[प्राणेषु गायत्रसामोपासनम्]

 

मनो हिङ्कारो, बाक् प्रस्तावः, चक्षुरुद्गीथः, श्रोत्रं प्रतिहारः, प्राणो निधनम् एतद् गायत्रं प्राणेषु प्रोतम् ।। ।।

 

प्रअथ गायत्ररथन्तरादिसामोपासनं प्रस्तूयते – मनो……निधनम् इति गायत्राख्यस्य साम्न: हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चविधभक्तिषु मनो वाक्चक्षुश्श्रोत्रप्राणदृष्टिः कर्तव्या इत्यर्थः । एतद्गायत्रं प्राणेषु प्रोतम् । अनेन आकारेण गायत्राख्यस्य साम्रः मन आदि प्राणानां च अध्यासाधिष्ठानभावलक्षणसम्बन्धेन परस्परसम्बद्धम् इत्यर्थः ।।

[तस्य फलम्]

 

एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति, सर्वमायुरेति, ज्योग् जीवतिमहान् प्रजया पशुभिर्भवति, महान्कीर्त्या महामनाः स्यात् , तद्व्रतम्

 

।। इति एकादशः खण्डः ।।

 

प्र.-तत्फलमाह ……..वेद इत्यादि । प्राणी भवति – अविकलेन्द्रियो भवति इत्यर्थः । ज्योक् – उज्वलः, व्याध्यादिभिः अनुपहतः इत्यर्थः । महामनाः स्यात् – वदान्यमनस्को भवेत् इत्यर्थः तद्व्रतम् – महामनस्कत्वम् एतदुपासनाङ्गम् इत्यर्थः । एवमग्रेऽपि नेयम् । शिष्टं स्पष्टम् ।।

 

।। इति एकादशखण्डभाष्यम् ।।

 

द्वादशः खण्डः

 

[रथन्तरसामः उपासनम्]

 

अभिमन्थति हिङ्कारः धूमो जायते प्रस्तावः, ज्वलति उद्गीथःअङ्गारा भवन्ति प्रतिहारः, उपशाम्यति तन्निधनँ सँशाम्यति तन्निधनम् । तद्रथन्तरमग्नौ प्रोतम् ।। ।।

 

प्र.-अभिमन्थति इत्यादि । उपशम: – सावशेषः शमः । निःशेषोपशमः संशमः । एतद्रथन्तरं व्रतम् । अग्नेः अभिमुखो नाचामेत् न भक्षयेत् । न निष्ठीवेत् श्लेष्मादिनिरसनं च न कुर्यात् इत्यर्थः ।

 

, एतदेवं रथन्तरमग्नौ प्रोतं वेद, ब्रह्मवर्चस्यन्नादो भवति, सर्वमायुरेतिज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान्कीर्त्या प्रत्यङ्डग्निमाचामेन्न निष्ठीवेत् तद्व्रतम् ।। ।।

 

।। इति द्वादशः खण्डः ।।

 

प्र. – वेद इत्यादि । अग्नेरभिमुखो’ नाचामेत् – न भक्षयेत् । न निष्ठीवेत् – श्लेष्मादिनिरसनञ्च न कुर्यादित्यर्थः ।।

 

।। इति द्वादशखण्डभाष्यम् ।।

 

त्रयोदशः खण्डः

 

[मिथुने वामदेव्योपासनम्]

 

उपमन्त्रयते हिङ्कारः, ज्ञपयते प्रस्तावः, स्त्रिया सह शेते स उद्गीथः, प्रतिर्स्त्री सह शेते प्रतिहारः, कालं गच्छति तन्निधनम् , पारं गच्छति तन्निधनम् एतद्वामदेव्यं मिथुने प्रोतम् ।। ।।

 

प्र. –उपमन्त्रयते हिङ्कारःउपमन्त्रणं – संकेतकरणम् । ज्ञपयते स प्रस्तावः । ज्ञपनं – तोषणम् । मरणतोषणानिशामनेषु मित्वात् ज्ञा धातोर्हस्वः । स्त्रिया सह शेते उद्गीथः । एकपर्यङ्कोपवेशनं सहशयनम् । प्रतिस्त्री सह शेते स प्रतिहारः । स्त्रिया आभिमुख्येन शयनम् इत्यर्थः । कालं……निधनम् । मैथुननिवृत्तिः इत्यर्थः ।।

 

[वामदेव्योपासनस्य फलम्]

 

एवमेतद् वामदेव्यं मिथुने प्रोतं वेद, मिथुनीभवति, मिथुनात् मिथुनात् प्रजायते, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या काञ्चन परिहरेत् , तद्व्रतम् ।। ।।

 

।। इति त्रयोदशः खण्डः ।।

प्र. फलमाह…. ……वेद इत्यादि । मिथुनी भवति । सर्वदा स्त्रिया अवियुक्तो भवति इत्यर्थः । मिथुनान्मिथुनात्प्रजायते । अमोघरेताः भवति इत्यर्थः ।  काञ्चन परिहरेत् तद्व्रतम् । काञ्चन स्त्रियं प्रार्थयमानाम् इति शेषः । प्रार्थयमानसर्वयोषिद्गमनस्य वामदेव्योपासनाङ्गत्वेन विधानात् परदारगमनप्रतिषेधकवचनानि तदतिरिक्तविषयाणि द्रष्टव्यानि ।।

 

चतुर्दशः खण्डः

 

[आदित्ये बृहत्सामोपासनम्]

 

उद्यन् हिङ्कारः, उदितः प्रस्ताव: मध्यन्दिन उद्गीथः, अपराह्णः प्रतिहारःअस्तं यन्निधनम् एतद्वृहदादित्ये प्रोतम् ।। ।।

प्रउद्यन् हिङ्कारः उदितः प्रस्तावः इत्यादि । आदित्य इति शेषः । मध्यन्दिन उद्गीथः । मध्यन्दिनकालावच्छिन्नः आदित्यः उद्गीथः इत्यर्थः । अपराह्णः प्रतिहारः । अपराहकालावच्छिन्नः आदित्यः प्रतिहारः इत्यर्थः । अस्तं यन्निधनम् यन् – गच्छम् इत्यर्थः ।।

 

एवमेतद्वृहदादित्ये प्रोतं वेद, तेजस्व्यन्नादो भवति, सर्वमायुरेतिज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या, तपन्तं निन्देत् । तद्व्रतम् ।। ।।

 

।। इति चतुर्दशः खण्डः ।।

 

प्र एवमेतद्वृहदादित्ये प्रोतं वेद इत्यादि । तपन्तं निन्देत् तद्व्रतम् । तपन्तम् आदित्यं न निन्देत् इत्यर्थः ।।

 

।। इति चतुर्दशखण्डभाष्यम् ।।

 

पञ्चदशः खण्डः

 

[पर्जन्येवैरूप्यसामोपासनम्]

 

अभ्राणि संप्लवन्ते हिङ्कारः, मेघो जायते प्रस्तावः, वर्षति स उद्गीथः, विद्योतते स्तनयति प्रतिहारः, उद्गृह्णाति तन्निधनम् एतद् वैरूपं पर्जन्ये प्रोतम् ।। ।।

 

प्र. – अभ्राणि सम्प्लवन्ते हिङ्कारः अभ्राणि – जलधारकत्वमात्रावस्थापन्नानि। संप्लवः-सञ्चारः । मेघो जायते मेघः सेचकत्वावस्थापन्नः । उद्गृह्णाति उद्ग्रहणम् वर्षसमाप्तिः । एतद् वैरूपं पर्जन्ये प्रोतं । वैरूपं-वैरूपाख्यं साम इत्यर्थः ।

 

[तस्य फलम्]

 

, एवमेतद् वैरूप्यं पर्जन्ये प्रोतं वेद, विरूपाँश्च सुरूपाँश्च पशूनवरुन्धेसर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । वर्षन्तं निन्देत् तद्व्रतम् ।। ।।

 

।। इति पञ्चदशः खण्डः ।।

 

प्र.- अवरुन्धे विरूपान् – ‘विविधरूपान्’ सुरूपान् – शोभनरूपान् अवरुन्धे – प्राप्नोति इत्यर्थः । वर्षन्तं निन्देत् तद्व्रतम्वर्षन्तं – पर्जन्यम् इत्यर्थः ।।

।। इति पञ्चर्दशखण्डभाष्यम् ।।

 

षोडशः खण्डः

 

[वैराजसाम्नः उपासनम्]

 

वसन्तो हिङ्कारः, ग्रीष्मः प्रस्तावः, वर्षा उद्गीथः, शरत् प्रतिहारः, हेमन्तो निधनम् । एतद् वैराजमृतुषु प्रोतम् ।।।।

 

एवमेतद् वैराजमृतुषु प्रोतं वेद, विराजति प्रजया पशुभिर्ब्रह्मवर्चसेनसर्वमायुरेति, ज्योग्जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या ऋतून्  निन्देत् , तत् व्रतम् ।। ।।

 

।। इति षोडशः खण्डः ।।

 

प्र. – वसन्तो हिङ्कारः इत्यादि । स्पष्टम् । वैराजं – वैराजाख्यं साम इत्यर्थः ।।

।। इति षोडशखण्डभाष्यम् ।।

 

सप्तदशः खण्डः

 

[क्करीसाम्न: उपासनम्]

 

पृथिवी हिङ्कारः, अन्तरिक्षं प्रस्तावः, द्यौरुद्गीथः, दिशः प्रतिहारः, समुद्रो निधनम् एताः क्कर्यो लोकेषु प्रोताः ।। ।।

 

प्र. – पृथिवी हिङ्कारः इत्यादि । स्पष्टम् । शक्कर्यः – शक्कर्याख्यं साम इत्यर्थः । ‘नित्य बहुवचनम् ।।

[क्करीसाम्नः फलम्]

 

एवमेताः क्वर्यो लोकेषु प्रोता वेद लोकीभवति, सर्वमायुरेतिज्योग् जीवति महान् प्रजया पशुभिर्भवति, महान् कीर्त्या लोकान् निन्देत्तद् व्रतम् ।। ।।

 

।। इति सप्तदशः खण्डः ।।

 

प्र एवमेताः इत्यादि । लोकीभवति – उत्तमलोकप्राप्तो भवति इत्यर्थः । शिष्टं स्पष्टम् ।।

 

।। इति सप्तदशखण्डभाष्यम् ।।

 

अष्टादशः खण्डः

 

[पशुदृष्ट्या रेवतीसामोपासनम्]

 

अजा हिङ्कारः, अवयः प्रस्तावो गाव उद्गीथः, अश्वाः प्रतिहारः, पुरुषो निधनम् एतारेवत्यः पशुषु प्रोता: ।। ।।

 

, एवमेता रेवत्यः पशुषु प्रोता वेद, पशुमान् भवति, सर्वमायुरेतिज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या पशून् निन्देत् । तद् व्रतम् ।। ।।

 

।। इति अष्टादशः खण्डः ।।

प्र.अजा……पशुषु प्रोता: रेवत्य: इत्यपि शक्कर्यः इतिवत् नित्यबहुवचनं, सामविशेषनाम ।।

 

।। इति अष्टादशखण्डभाष्यम् ।।

 

एकोनविंशः खण्डः

 

[अङ्गदृष्ट्या यज्ञायज्ञीयसामोपासनम्]

 

लोम हिङ्कारः, त्वक् प्रस्तावो, माँसमुद्गीथः, अस्थि प्रतिहारः, मज्जा निधनम् एतद् यज्ञायज्ञीयमङ्गेषु प्रोतम् ।। ।।

 

एवमेतद् यज्ञायज्ञीयमङ्गेषु प्रोतं वेद, अङ्गीभवति नाङ्गेन विहूर्च्छतिसर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या संवत्सरं मज्जो नाश्नीयात् तद् व्रतं, मज्जो नाश्नीयादिति वा ।। ।।

 

।। इति एकोनविशः खण्डः ।।

 

प्र.-लोमहिङ्कारस्त्वक्प्रस्ताव: इत्यादि । स्पष्टम् ।।  एवमेतद्यज्ञायज्ञीयम् इत्यादि । अङ्गीभवति – समग्राङ्गयुक्तो भवति इत्यर्थः । नाङ्गेन विहूर्च्छति अङ्गेन – हस्तपादादिना विहूर्च्छति कुटिलो न भवति इत्यर्थः । ‘हुर्छा कौटिल्ये’ (धा.पा.२११) इति हि धातुः। संवत्सरं मज्जो नाश्नीयात् तद्वतम् मज्ज:-मज्जाख्यं मांसविशेषान् इत्यर्थः । मज्जो नाश्नीयादिति वा । व्रतं । सर्वदा इति शेषः ।।

।। इति एकोनविंशखण्डभाष्यम् ।।

 

विंशः खण्डः

 

[राजनसामोपासनम्]

 

अग्निर्हिङ्कारो, वायुः प्रस्तावः, आदित्य उद्गीथः, नक्षत्राणि प्रतिहारःचन्द्रमा निधनम् , एतद् राजनं देवतासु प्रोतम् ।। ।।

 

प्र. – अगिर्हिङ्कारः इत्यादि । स्पष्टम् । राजनं – राजनाख्यं साम इत्यर्थः ।।

[तस्य फलम्]

 

, एवमेतद् राजनं देवतासु प्रोतं वेद, एतासामेव देवतानाँ सलोकताँ सार्ष्टिताँ सायुज्यं गच्छति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या ब्राह्मणान्न निन्देत् , तद् व्रतम् ।। ।।

 

।। इति विंशः खण्डः ।।

 

प्र.- एवमेतद्राजनम् इत्यादि । सार्ष्टिता – समानऋद्धित्वम् । सायुज्यं – समानभोग्यत्वम् । ब्राह्मणान् निन्देत् तद्व्रतम् । एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’ । इति श्रुतेः । ब्राह्मणनिन्दैव देवतानिन्दा इति भावः ।।

 

।। इति विंशखण्डभाष्यम् ।।

 

एकविंशः खण्डः

 

[त्रयीविद्यादिदृष्ट्या सामोपासनम् ]

 

त्रयी विद्या हिङ्कारस्त्रय इमे लोकास्स प्रस्तावोऽग्निर्वायुरादित्यस्स उद्गीथो नक्षत्राणि वयाँसि मरीचयस्स प्रतिहारः, सर्पा गन्धर्वाः, पितरस्तत्रिधनम् । एतत् साम सर्वस्मिन् प्रोतम् ।। ।।

 

प्र.-त्रयी विद्या हिङ्कारस्त्रय इमे लोकास्स: इत्यादि । स्पष्टम् । एतत् साम सर्वस्मिन् प्रोतम् । अत्र सामनामविशेषानिर्देशात् सामशब्दः सामसामान्यपरः ।।

 

[तस्य फलम्]

 

एवमेतत् साम सर्वस्मिन् प्रोतं वेद, सर्वँ भवति ।। ।।

 

प्र. – एवमेतत् साम सर्वस्मिन् प्रोतं वेद । तस्य सर्वं हि भवति । काम्यमानं सर्वम् आप्नोति इत्यर्थः ।।

 

[त्रयीविद्यादिस्तुतिः]

 

तदेष श्लोकः यानि पञ्चधा त्रीणि त्रीणि तेभ्यो ज्याय: परमन्यदस्ति ।।।।

 

प्र.-तदेष श्लोकः । तत् – उक्ते सर्वात्मकसामोपासने एषः वक्ष्यमाणमन्त्रोऽप्यस्ति इत्यर्थः । तमेवाह – यानि……परमन्यदस्ति त्रीणि त्रीणि – त्रयी विद्या हिङ्कारस्रय इमे लोका ‘इत्यादिना उक्तानि [त्रयीविद्या, लोकत्रयं, अग्निवाय्वादित्याः, नक्षत्रवयोमरीचयः, सर्पगन्धर्वपितरश्चेत्येतानि यानि त्रीणि हिङ्कारादिरूपेण पञ्चधा भवन्ति । अतः परं – उत्कृष्टं अन्यत् श्रेयः किमपि नास्ति इत्यर्थः ।।

 

यस्तद् वेद वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति ।।

सर्वमस्मीत्युपासीत, तद् व्रतं तद् व्रतम् ।। ।।

 

।। इति एकविंशः खण्डः ।।

 

प्र. – यस्तद्वेद वेद सर्वं । एतदुपासकः सर्वज्ञो भवति इत्यर्थः । सर्वा……हरन्ति । सर्वदिग्वर्तिनोपि वशीकृताः अस्मैउपासकाय उपहारान् समर्पयन्ति इत्यर्थः । सर्वमस्मीत्युपासीत । सामसामान्ये उक्तरीत्या ‘सर्वत्वाश्रयत्वेन स्वाभिन्नत्वेन च उपासना कर्तव्या इत्यर्थः । तद् व्रतं तद् व्रतम् । तस्य तदेव व्रतम् , नान्यद् ।व्रतमस्ति इत्यर्थः । द्विरुक्तिः सामोपासनसमाप्त्यर्था ।।

 

।। इति एकविंशखण्डभाष्यम् ।।

 

द्वाविंशः खण्डः

 

[गानविशेषोपदेशः]

 

विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापते: निरुक्तस्सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान् सर्वानेवोपसेवेत, वारुणं त्वेव वर्जयेत् ।। ।।

 

प्र एवं सामोपासनं समाप्य गानविशेषान् उद्गातुरुपदिशति – विनर्दिसाम्नो वृणे पशव्यम् इति । विशिष्टो नर्दः स्वरविशेषः, ऋषभकूजितसमः सः अस्य अस्तीति विनर्दि । गानमिति वाक्यशेषः । साम्नः – सामसम्बन्धि । पशव्यं – पशुहितम् । ‘उगवादिभ्यो यत्’ (पा.सू.५-१-२) इति यत् । सामसम्बन्दिविनर्दिगानं वृणेप्रार्थयेत पुरुषव्यत्ययश्छान्दसः । अग्नेरुद्गीथोऽनिरुक्तः । अग्निदेवत्यम् उद्गानं अनिरुक्तः . अस्पष्टं भवति । अस्पष्टो गानविशेषोऽग्निप्रीतिहेतुः भवति इत्यर्थः । प्रजापतेर्निरुक्तः । निरुक्तः – स्पष्टो गानविशेषः प्रजापतिदैवत्यः । प्रजापतिप्रीतिहेतुः इत्यर्थः । सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं । स्पष्टम् । बलवदिन्द्रस्य बलवत् – बलवत्प्रयत्रोपेतम् इत्यर्थः । क्रौञ्चं बृहस्पतेः । क्रौञ्चपक्षिनादसमं बार्हस्पत्यं गानम् इत्यर्थः । अपध्वान्तं वरुणस्य भिन्नकांस्यसमं वारुणगानमित्यर्थः तान् वर्जयेत् । अपध्वान्तगानव्यतिरिक्तान् सर्वान् उद्गीथान् उपसेवेत इत्यर्थः ।।

 

अमृतत्वं देवेभ्य आगायानीत्यागायेत् स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः, स्वर्गं लोकं यजमानाय, अन्नमात्मन आगायानीति । एतानि मनसा ध्यायन् अप्रमत्तः स्तुवीत ।। ।।

 

प्र. – अमृतत्वं……आगायेत् । अमृतत्वप्राप्तिम् आगायानि – गानेन साधयानि इति आगायेत् – गानं कुर्यात् इत्यर्थः । यथाप्रार्थनं फलं भवति इति भावः । स्वधां पितृभ्यः । आगायानि इति सर्वत्र सम्बन्धः । आशां मनुष्येभ्यः, तृणोदकं पशुभ्यःस्वर्ग लोकं यजमानाय, अन्नमात्मने आगायानि इति आगायेत् इत्यर्थः । एतानि……स्तुवीत एतानि – देवामृतत्वादीनि फलानि मनसा ध्यायन् स्वरादिषु अप्रमत्तस्सन् स्तोत्रं कुर्यात् इत्यर्थः ।।

 

सर्वे स्वरा इन्द्रस्यात्मानः, सर्व ऊष्माणः प्रजापतेरात्मानः, सर्वे स्पर्शामृत्योरात्मानः तं यदि स्वरेषूपालभेत, इन्द्रं शरणं प्रपन्नोऽभूवम् त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ।। ।।

 

प्र.-सर्वे……आत्मनः । अच: स्वराः आत्मानः‘अवयवसदृशाः इत्यर्थः । श-ष-स-हाः ऊष्माणः । कादयो मावसानाः स्पर्शाः तं यदि स्वरेषूपालभेत । एवंविधम् उद्गातारं यदि कश्चित् आगत्य ‘त्वया दुष्टः स्वरः प्रयुक्तः’ इत्युपालम्भं कुर्यात् इत्यर्थः । इन्द्रं ब्रूयात् इन्द्रमहं शरणं गतः । तस्मात् इन्द्रः एव तव प्रत्युत्तरं दास्यति इति तदा तम् आक्षेप्तारं प्रति ब्रूयात् इत्यर्थः ।।

 

अथ यद्येनमूष्मसूपालभेत, प्रजापति शरणं प्रपन्नोऽभूवं, त्वा प्रतिपेक्ष्यतीत्येनं ब्रूयात् अथ यद्येनँ स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवं त्वा प्रतिधक्ष्यतीत्येनं ब्रूयात् ।। ।।

 

प्रअथ यद्येनमूष्मसूपालभेत इत्यादि । पूर्ववत् उक्तार्थम् । त्वा प्रति पेक्ष्यतीत्येनं ब्रूयात् त्वा प्रति – त्वां प्रति पेक्ष्यति – चूर्णयिष्यति इत्यर्थः । ‘पिष्ल् सञ्चूर्णने’ (धा.पा.१४५६) इति हि धातुः । त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् वक्ष्यति भस्मीकरिष्यति इत्यर्थः । ‘दह भस्मीकरणे’ (धा.पा.९९१) इति हि धातुः ।।

 

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्याः, इन्द्रे बलं दधानीति सर्वे ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः, प्रजापतेरात्मानं परिददानीति । सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्याः, मृत्योरात्मानं परिहराणीति ।। ।।

 

।। इति द्वाविंशः खण्डः ।।

 

प्र. – सर्वे……दधानीति । घोषवत्तया बलवत्तया उच्चारणम् इन्द्रस्य बलाधायकम् इत्यर्थः । सर्वे……वक्तव्याः अग्रस्ताःअन्तरप्रवेशिताः । अनिरस्ता: – बहिरक्षिप्ताः। ‘लुमवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्’ (अ.को. १-६-२०) इत्यमरः । विवृताः विवृतप्रयत्नोपेताः। प्रजापतेरात्मानं परिददानीति । ऊष्मणां प्रजापत्यात्मकत्वात् अग्रस्तत्वादियुक्त ऊष्मोच्चारणे प्रजापतेः आत्मलाभः भवति इत्यर्थः । सर्वे स्पर्शा:……वक्तव्याःलेशेन अल्पश: अनभिनिहिताः – अनभिक्षिप्ताः, अद्रुतोच्चारिता इति यावत् । मृत्योरात्मानं परिहराणीति । सर्वेषां स्पर्शानां मृत्य्वात्मकत्वात् स्पर्शानां तेषां दोषेभ्यः परिहृत्य उच्चारणे मृत्योः आत्मैव दोषेभ्यः परिहतो भवति इति भावः ।।

[इति द्वाविंशखण्डभाष्यम्]

 

त्रयोविंशः खण्डः

 

[ओङ्कारब्रह्मोपासनविधिः]

 

त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयःब्रह्मचार्याचार्यकुलवासी  तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्ति; ब्रह्मसँस्थोऽमृतत्वमेति ।।।।

 

प्र.– ओङ्कारेण ब्रह्मोपासनं विधातुं प्रस्तौति – त्रयो धर्मस्कन्धाः इत्यादि । धर्मस्कन्धाः – धर्मसाधकमार्गाः । आश्रमरूपमार्गाः त्रयः इत्यर्थः । यज्ञो…. प्रथमः । यज्ञाध्ययनदानशब्दैः गृहस्थाश्रमः उच्यते । अध्ययनशब्दः वेदाभ्यासपरः । तप एव द्वितीयः । तपश्शब्देन वैखानसपारिव्राज्ययोः ग्रहणम् । उभयोः तपःप्रधानत्वात् । तपश्शब्दो हि कायक्लेशे रूढः । स च द्वयोरपि समानः । ब्रह्मचारी……अवसादयन् । अत्यन्तम् आचार्यकुले नियमैः देहं क्षपयन् तृतीयाश्रमे इत्यर्थः । सर्वे एते……एति । एवं त्रित्वेन सङ् गृहीतानां चतुर्णाम् आश्रमाणां मध्ये यः ब्रह्मसंस्थः ब्रह्मनिष्ठः स मुक्तिभाग् भवति । ब्रह्मनिष्ठाविकला: केवलाश्रमिणः पुण्यलोकभाजः भवन्ति इत्यर्थः । एवमेव हि ‘अनुष्ठेयं बादरायणस्साम्यश्रुतेः’ (ब्र.सू.३-४-१९) इत्यत्र भाषितम् । न च अत्र ब्रह्मसंस्थशब्दात् संन्यासाश्रमप्रतिपत्तिः इति शङ्क्यम् । ब्रह्मसंस्थशब्दस्य प्रोक्षिणीन्यायेन योगेन एव वृत्त्युपपत्तौ संन्यासे रूढेः अनभ्युपगन्तव्यत्वात् । योगमात्रस्य च आश्रमान्तरसाधारणत्वात् न ब्रह्मसंस्थशब्देन संन्यासाश्रमग्रहणे प्रमाणं पश्यामः । न च सम्पूर्वस्य तिष्ठते: समाप्तिवाचकत्वात् , अनन्यव्यापारत्वलक्षणाया ब्रह्मणि समाप्तेः ‘संन्यासिष्विव’ अग्निहोत्रादिकर्मान्तरव्यग्राश्रमान्तरेषु असम्भवात्, ब्रह्मसंस्थशब्देन परिव्राडेव उच्यते इति वाच्यम् । स्वाश्रमोचित धर्म व्यग्रतायाः संन्यासिषु अपि अविशिष्टत्वात् । तदतिरिक्तव्यापारराहित्यस्य सर्वाश्रमेषु अपि सम्भवात् न ब्रह्मसंस्थशब्देन चतुर्थाश्रमपरामर्शे हेतुं पश्यामः ।।

[ओङ्कारस्तुतिः]

 

प्रजापतिर्लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस्त्रयीविद्या संप्रास्रवत् तामभ्यतपत् तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त, भूर्भुवस्सुवः इति ।। ।।

प्र. – एवं ‘ब्रह्मसंस्थ: अमृतत्वमेति’ इति अमृतत्वसाधनं ब्रह्मोपासनम् उक्त्वा तत्प्रणवाङ्गकमिति वक्तुं प्रणवं स्तौति – प्रजापतिर्लोकानभ्यतपत् इत्यादिना । अभ्यतपत् – सारनिष्कर्षाय लोकान् पर्यालोचयत् इत्यर्थः । तेभ्यो…. संप्रास्रवत् त्रयीविद्या संप्रास्रवत् – सारत्वेन निष्पन्ना अभवत् इत्यर्थः । एवम् उत्तरत्रापि द्रष्टव्यम् ।।

 

तान्यभ्यतपत् तेभ्योऽभितप्तेभ्य ओङ्कारः संप्रास्रवत् तद् यथा शङ् कुना सर्वाणि पर्णानि संतृण्णानि एवमोंकारेण सर्वा वाक् संतृण्णा ओङ्कार एवेदँ सर्वम् , ओङ्कार एवेदँ सर्वम् ।। ।।

 

।। इति त्रयोविंशः खण्डः ।।

 

प्रतान्यभ्यतपत् इत्यादि । तद्यथा……सर्वम् यथा सर्वाणि पत्रजातानि शंकुना – पर्णनालेन संतृण्णानि – व्याप्तानि भवन्ति, एवम्, ‘ओङ्कारो वै सर्वा वाक्’ – इति श्रुतेः ओङ्कारेण सर्वा वाक् व्याप्ता अतः ओङ्कारः एव सर्वं वाङ्मयम् । अतः ओङ्कारेण ब्रह्मोपासनं कर्तव्यम् इति पर्यवसितोऽर्थः । द्विरुक्तिः विद्यासमाप्त्यर्था ।।

 

।। इति त्रयोविंशखण्डभाष्यम् ।।

चतुर्विंशः खण्डः

 

[प्रातस्सवनादि कर्माङ्गाणि]

 

ब्रह्मवादिनो वदन्तियद्वसूनां प्रातस्सवनँ रुद्राणां माध्यन्दिनँ . –सवनमादित्यानाञ्च विश्वेषाञ्च देवानां तृतीयसवनम् ।। ।।

 

प्र. – प्रसङ्गात् कर्माङ्गानि कानिचित् विधातुं प्रस्तौति – ब्रह्मवादिनः वदन्ति इत्यादिना । ब्रह्मवादिनः – वेदवेत्तारः इत्यर्थः । ते किं वदन्ति इत्यत्राह – यद्वसूनां प्रातस्सवनम् इत्यादि । प्रातस्सवन-माध्यन्दिनसवन-तृतीयसवनेश्वरैः वसुरुद्रादित्यविश्वेदेवै: तत्सवनफलभूताः पृथिव्यन्तरिक्षस्वर्लोकाः वशीकृताः इत्यर्थः ।।

 

क्व तर्हि यजमानस्य लोक इति यस्तन्न विद्यात् कथं कुर्यात् अथ विद्वान् कुर्यात् ।। ।।

प्र. – क्व तर्हि यजमानस्य लोकः इति । एवं तै: लोकानां वशीकृततया अवशिष्टस्य लोकस्य यजमानप्राप्यस्य अभावात् यजमानस्य लोकः क्व अस्तीति वेदितव्यम् इत्यर्थः । यस्तन्न विद्यात् कथं कुर्यात् । यस्य यजमानप्राप्यलोकस्थानज्ञानं नास्ति सोऽज्ञः कथं कर्म कुर्यात् । अथ विद्वान् कुर्यात् । तस्मात् लोकस्वीकरणोपायभूतं वक्ष्यमाणं सामगान-होम-मन्त्रोत्थानलक्षणं ज्ञात्वैव कुर्यात् इत्यर्थः ।।

[प्रातस्सवनप्राप्युपायः]

 

मी पुरा प्रातरनुवाकस्योपाकरणात्, जघनेन गार्हपत्यस्योदङ्मुख उपविश्य  वासर्वं सामाभिगायति ।। ।।

 

प्र. – तदेवाह – पुरा प्रातरनुवाकस्योपाकरणात् इत्यादि । प्रातरनुवाकस्योपाकरणात् पुरा – प्रातरनुवाकारम्भात् प्राक् गार्हपत्यस्य जघनेन – पश्चात् उदङ्मुखपविश्य वासवं – वसुदैवत्यं साम सः विद्वान् गायेत् इत्यर्थः ।।

 

लोकद्वारमपावार्णू पश्येम त्वा वयँ रा .७३ हुं आ  जा यो इति ।। ।।

प्र.-तदेव साम आह – लोकद्वारमपावृणु पश्येम त्वा वयं राज्याय इति । हे अग्ने! पृथिवीलोकप्राप्तये द्वारम् अपावृणु । तेन अपावृतेन द्वारेण त्वां राज्याय पृथिवीलोकप्राप्तिफलाय पश्येम इत्यर्थः ।।

 

अथ जुहोति, नमोऽग्नये पृथिवीक्षिते लोकक्षिते लोकं मे यजमानाय विन्दएष वे यजमानस्य लोकः एतास्मि ।। ।।

 

अत्र यजमानः परस्तादायुषः स्वाहा अपजहि परिघम् इत्युक्त्वोत्तिष्ठति । तस्मै वसवः प्रातस्सवनँ संप्रयच्छन्ति ।। ।।

 

प्र.-अथ जुहोति अथ – अनन्तरम् अनेन वक्ष्यमाणेन मन्त्रेण जुहोति इत्यर्थः । होममन्त्रमेव आह – नमोऽग्नये…. लोकक्षिते इत्यादि । पृथिवीक्षिते – पृथिवीनिवासाय लोकक्षिते – लोकनिवासाय अग्नये नमः । मे – मह्यं यजमानाय लोकं विन्द – ‘लम्भयस्व । एष वै मम यजमानस्य लोकः यजमानोऽहमत्र अस्मिन् लोके आयुषः परस्तात् – मरणात् ऊर्ध्व एतास्मि – आगन्तास्मि । स्वाहेति – जुहोति इत्यर्थः । अपजहि……उत्तिष्ठति । एवं हुत्वा अनन्तरं परिघं – लोकद्वारार्गलम् अपजहि अपनय इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति इत्यर्थः । तस्मै सम्प्रयच्छन्ति । एवं सामगानहोममन्त्रोत्थानकृते यजमानाय वसवः प्रातस्सवनसम्बन्धिलोकं पृथिवीलोकं प्रयच्छन्ति इत्यर्थः । एवम् अग्रेपि द्रष्टव्यम् ।।

 

[माध्यन्दिनसवनप्रात्युपायः]

 

पुरा माध्यन्दिनस्य सवनस्योपाकरणात् , जघनेनाग्नीध्रीयस्य उदङ्मुखः उपविश्य रौद्रं सामाभिगायति ।। ।।

 

लोकद्वारमपावार्णू पश्येम त्वा वयं विरा हुं ३३ जायो ३३३ इति ।। ।।

 

प्र.-पुरा माध्यन्दिनस्य इत्यादि । आग्नीध्रीयस्य – अग्नेः इत्यर्थः । रौद्रं . रुद्रदेवताकम् इत्यर्थः । लोकद्वारम् इत्यादि । वैराज्याय – अन्तरिक्षलोकफलप्राप्तये इत्यर्थः ।।

 

अथ जुहोति, ‘नमो वायवेऽन्तरिक्षक्षिते लोकक्षितेलोकं मे यजमानाय विन्द एष वै यजमानस्य लोकः एतास्मि ।। ।।

 

अत्र यजमान: परस्तादायुषः स्वाहा अपजहि परिघम् इत्युक्त्वा उत्तिष्ठति । तस्मैरुद्रा माध्यन्दिनँ सवनँ संप्रयच्छन्ति ।। १० ।।

 

पुरा तृतीयसवनस्योपाकरणात् जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यँ वैश्वदेवँ सामाभिगायति ।। ११ ।।

 

लोकद्वारमपावार्णू २३३ पश्येम त्वा वयँ स्वरा ३३३३ हुं ३  जा यो इत्यादित्यम् ।। १२ ।।

 

अथ वैश्वदेवम् – ‘लोकद्वारमपावार्णू पश्येम त्वा वयँ साम्ना ३  हुम् जायो १११ इति।। १३ ।।

 

अथ, जुहोति, नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षभ्द्यो लोकक्षिभ्द्यः लोकं मे यजमानाय विन्दत ।। १४ ।।

 

एष वै यजमानस्य लोकः एतास्म्यत्र यजमानः परस्तादायुषः स्वाहा । अपहत परिघम् इत्युक्त्वोत्तिष्ठति ।। १५ ।।

 

तस्मा आदित्याश्च विश्वे देवास्तृतीयसवनँ सम्प्रयच्छन्ति एष वै यज्ञस्य मात्रां वेद, एवं वेद एवं वेद ।। १६ ।।

 

।। इति चतुर्विशः खण्डः ।।

 

।। इति द्वितीयः प्रपाठकः समाप्तः ।।

 

प्र.-अथ नमो वायवे इति मन्त्रेण जुहोति इत्यर्थः । अन्तरिक्षक्षिते अन्तरिक्षनिवासाय इत्यादि पूर्ववन्नेयम् ।।  माध्यन्दिनं सवनम् – माध्यन्दिनसवनसम्बन्धिलोकम् । पुरा तृतीयसवनस्योपाकरणात् इत्यादि । आहवनीयस्य – अग्नेः इत्यर्थः । आदित्यं – आदित्यदैवत्यम् । वैश्वदेवं – विश्वेदेवदैवत्यम् इत्यर्थः । तत्रादित्यं सामाह लोकद्वारम् इत्यादि । स्वाराज्याय – स्वर्गलोकाय इत्यर्थः । इत्यादित्यं सामोक्तम् इति शेषः ।

अथ वैश्वदेवम् – सामोच्यते इति शेषः । साम्राज्याय – उत्तमस्वर्गफलाय इत्यर्थः । अथ जुहोति इत्यादि । सर्वं पूर्ववत् द्रष्टव्यम् । आदित्यानां विश्वेदेवानां च बहुत्वात् विन्दत अपहत इति बहुवचनम् । तृतीयसवनम् – तत्फलं स्वर्गमित्यर्थः ।। एष वै यज्ञस्य मात्रां वेद मात्रां – परिमाणं याथात्म्यम् इत्यर्थः । एवं वेद एवं वेद य एवं कर्तुं वेद इत्यर्थः । द्विरुक्ति: अध्यायपरिसमाप्त्यर्था ।।

 

।। इति द्वितीयप्रपाठकप्रकाशिका समाप्ता ।।

 

।। समाप्तं द्वितीयप्रपाठकभाष्यम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.