श्रीः
श्रीमते रामानुजाय नमः
कठोपनिषत्
शान्तिमन्त्रः
- ओं सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।।
। ओं शान्तिः शान्तिः शान्तिः ।।
प्रथमा वल्ली
उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ ।
तस्य ह नचिकेता नाम पुत्र आस ।। १ ।।
| प्रकाशिका |
(श्रीरङ्गरामानुजमुनिविरचिता)
अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।।
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि । व्याख्यास्ये विदुषां प्रीत्यै कठवल्लीं यथामति ।।
उशन् ह वै वाजश्रवसः इति – उशन् – कामयमानः । ‘वश-कान्तौ’ (धा.पा. १०७०) इत्यस्मात् शतरि ‘ग्रहिज्या ……..’ (पा.सू. ६-१-१६) इत्यादिना सम्प्रसारणम्। ह वै इति वृत्तार्थस्मरणार्थौ निपातौ । फलम् इति शेषः । वाजश्रवसः – वाजेन-अन्नेन दानादिकर्मभूतेन, श्रवः – कीर्तिः यस्य, स वाजश्रवाः । तस्यापत्यं वाजश्रवसः । रूढिर्वा वाजश्रवाः इति । स किल ऋषिः विश्वजिता सर्वस्वदक्षिणेन यजमानः तस्मिन् क्रतौ सर्ववेदसम् – सर्वस्वम्, ददौ – दत्तवान् इत्यर्थः । उशन् इत्यनेन कर्मणः काम्यत्वात् दक्षिणासाद्गुण्यम् आवश्यकमिति सूच्यते । आस – बभूव । ‘छन्दस्युभयथा (पा.सू. ३-४-११७) इति लिटः सार्वधातुकत्वात् ‘स्वस्तये तार्क्ष्यम्’ (ऋग्वेद. १०-१७८-१) इत्यादिवत् अस्तेः भूभावाभावः ।। १ ।।
तँ ह कुमारँ सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । सोऽमन्यत ।। २ ।।
तं हे कुमारं सन्तम् इति । तम् – नचिकेतसं, कुमारं सन्तम् – बालमेव सन्तं, ऋत्विग्भ्यो दक्षिणासु गोषु नीयमानासु सतीषु श्रद्धा – आस्तिक्यबुद्धि पितुः हितकामप्रयुक्ता आविवेश – आविष्टवती ।।।
यद्यपि यत् आनतिकरं द्रव्यं, तत् दक्षिणा इत्युच्यते । एका चासौ क्रतावानतिरिति तदुपाधिको दक्षिणाशब्दः एकवचनान्ततामेव लभते । अत एव भूनामक एकाक्रतौ, ‘तस्य धेनुर्दक्षिणां’ (पू.मी. विषयवाक्यम् १०-३-५६) इत्यत्र कृत्स्नस्य गवाश्वादेः प्रकृतस्य दाक्षिण्यस्य निवृत्तिः इति तस्य धेनुरिति गवाम्’ (पू.मी.१०-३-१९) इति दाशमिकाधिकरणे स्थितम् । तथापि दक्षिणाशब्दोऽयं भूतिवचनः । स च कर्मापेक्षयापि प्रवर्तते, अस्मिन् कर्मणि इयं भूतिः इति । कर्तुरपेक्षयापि प्रवर्तते, अस्मिन् कर्मणि अस्य पुरुषस्य इयं भूतिः इति । ततश्च ऋत्विग्बहुत्वापेक्षया दक्षिणाबहुत्वसम्भवात् दक्षिणासु इति बहुवचनम्। उपपद्यते । अत एव ऋतपेये ‘औदुम्बरस्सोमचमसो दक्षिणा, सप्रियाय सगोत्राय ब्रह्मणे देयः’ इत्यत्र वाक्यतापक्षे ब्रह्मभागमात्रेऽपि दक्षिणाशब्दस्य अवयवलक्षणामन्तरेण मुख्यत्वोपपत्तेः तन्मात्रबाध इत्युक्तं दशमे, ‘यदि तु ब्रह्मणस्तद्नं तद्विकारस्यात् (पू.मी.१०-३-६९) इत्यधिकरणे । ततश्च क्रत्वपेक्षया दक्षिणैक्येऽपि ऋत्विगपेक्षया दक्षिणाभेदसम्भवात्, दक्षिणासु इति बहुवचनस्य नानुपपत्तिः इति द्रष्टव्यम् ।।२।।
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।।
अनन्दा नाम ते लोकांस्तान् स गच्छति ता ददत् ।। ३ ।।
श्रद्धाप्रकारमेव दर्शयति – पीतोदकाः इति । पीतमुदकं याभिः ताः पीतोदकाः । जग्धं – भक्षितं तृणं याभिः, ताः जग्धतृणाः, दुग्धः दोहः क्षीराख्यो याभिः ताः दुग्धदोहाः, निरिन्द्रियाः – अप्रजननसमर्थाः, जीर्णाः – निष्फलाः इति यावत् । या एवम्भूता गावः, ता ऋत्विग्भ्यः दक्षिणाबुद्ध्या ददत् – प्रयच्छन्, अनन्दाः – असुखाः, ते – शास्त्रसिद्धाः लोकाः सन्ति, नाम – खलु, तान् सः – यजमानः गच्छति । एवम् अमन्यत इत्यर्थः ।। ३ ।।
स होवाच पितरं, तत! कस्मै मां दास्यसीति ।।
द्वितीयं तृतीयं तं होवाच मृत्यवे त्वा ददामीति ।। ४ ।।
स होवाच पितरम् इति । दीयमानदक्षिणावैगुण्यं मन्यमानः नचिकेताः स्वात्मदानेनापि पितुः क्रतुसाद्गुण्यमिच्छन्, आस्तिकाग्रेसरः पितरमुपगम्य उवाच – तत – हे तात ! कस्मै ऋत्विजे दक्षिणार्थं, मां दास्यसीति । स एवमुक्तेनापि पित्रा उपेक्ष्यमाणो द्वितीयं तृतीयमपि पर्यायं कस्मै मां दास्यसि इति उवाच’ – तं होवाच । बहु निर्बध्यमानः पिता कुपितः तम् – पुत्रम्, ‘मृत्यवे त्वा ददामि’ इति उक्तवान् ।। ४ ।।
बहूनामेमि प्रथमः बहूनामेमि मध्यमः ।
किं स्वित् यमस्य कर्तव्यं यन्मयाऽद्य करिष्यति ।। ५ ।।
एवमुक्तोऽपि पुत्रः, विगतसाध्वसशोकः, पितरमुवाच बहूनामेमि इति । सर्वेषां मृत्युसदनगन्तृणां पुरतो मध्ये वा गच्छामि, न तु पश्चात् । मृत्युसदनगमने न कोऽपि मम विचार इति भावः । किं तर्हि ? इत्यत्राह – किं स्विद्यमस्य इति । मृत्युर्यदद्य मया करिष्यति; तत् तादृशं यमस्य कर्तव्यं किं वा ? पूर्णकामस्य मृत्योः मादृशेन बालिशेन किं प्रयोजनं स्यात् ? येन ऋत्विग्भ्य इव तस्मै मदर्पणं सफलं स्यात् । अतः एतदेव अनुशोचामि इति भावः ।। ५ ।।
अनुपश्य यथा पूर्वे प्रतिपश्य तथाऽपरे ।
सस्यमिव मर्त्यः पच्यते सस्यमिवाऽऽजायते पुनः ।। ६ ।।
साध्वसरोषावेशहीनम् ईदृशं पुत्रवाक्यं श्रुत्वा, क्रोधावेशात् मया मृत्यवे त्वा ददामि इत्युक्तम् । न ईदृशं पुत्रं मृत्यवे दातुमुत्सहे इति पश्चात्तप्तहृदयं पितरमालोक्य उवाच – अनुपश्य इति । पूर्वे – पितामहादयः यथा मृषावादं विनैव स्थिताः, यथा च अपरे साधवः अद्यापि तिष्ठन्ति; तान् अन्वीक्ष्य तथा वर्तितव्यम् इति भावः । सस्यमिव इति । मर्त्यः सस्यमिव अल्पेनापि कालेन जीर्यति । जीर्णश्च मृत्वा सस्यमिव पुनः आजायते । एवमनित्ये जीवलोके किं मृषाकरणेन ? पालय सत्यम्, प्रेषय मां मृत्यवे, इति भावः ।। ६ ।।
वैश्वानरः प्रविशत्यतिथिर्ब्राह्मणो गृहान् ।
तस्यैतां शान्तिं कुर्वन्ति हर वैवस्वतोदकम् ॥ ७ ॥
एवमुक्त्वा प्रेषितः, प्रोषितस्य मृत्योर्द्वार तिस्रो रात्रीः अनश्नन् उवास । ततः प्रोष्य आगतं यमम्, द्वास्र्था: वृद्धाः ऊचुः, – वैश्वानरः प्रविशति इति । साक्षादग्निरेव अतिथिर्ब्राह्मणस्सन् गृहान् प्रविशति । तस्य – अग्नेः, एताम् – पाद्यासनदानादिलक्षणां शान्तिं कुर्वन्ति सन्तः, ‘तदपचारेण दग्धा मा भूम’ इति । अतः हे वैवस्वत ! नचिकेतसे पाद्यार्थमुदकं हर – आहर इत्यर्थः ।। ७ ।।।
आशाप्रतीक्षे सङ्गतं सूनृतां इष्टापूर्ते पुत्रपशूँश्च सर्वान् ।
एतद्वृङ्क्ते पुरुषस्याल्पमेधसः यस्यानश्नन् वसति ब्राह्मणो गृहे ।। ८ ।।
अकरणे प्रत्यवायं च दर्शयन्ति स्म – आशाप्रतीक्षे इति । यस्य अल्पमेधसः – अल्पप्रज्ञस्य पुरुषस्य गृहे अनश्नन् – अभुञ्जानः, अतिथिर्वसति, तस्य आशाप्रतीक्षे – कामसंकल्पौ । यद्वा, अनुत्पन्नवस्तुविषयेच्छा – आशा; उत्पन्नवस्तुप्राप्तीच्छा – प्रतीक्षा । सङ्गतम् – सत्सङ्गमम् । सूनृताम् – सत्यप्रियवाचम् । इष्टापूर्ते – इष्टं यागादि, पूर्त खातादि । पुत्रान् पशूश्च, एतत् अनशनरूपं पापं वृङ्क्ते – वर्जयति – नाशयति इत्यर्थः । ‘वृजी-वर्जने’ (धा.पा.१४६२) रुधादित्वात् श्नम् । ‘वृजि-वर्जने (धा.पा.१०२९) इत्यस्माद्धातोर्वा इदितो नुम् । अदादित्वात् शपो लुक् ।। ८ ।।
तिस्रो रात्रीर्यदवात्सीगृहे मेऽनश्नन् ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन् स्वस्ति मेऽस्तु तस्मात् प्रति त्रीन् वरान् वृणीष्व ।। ९ ।।
एवं वृद्धेः उक्तो मृत्युः नचिकेतसम् उवाच – तिस्रः रात्रीर्यदवासीः इति । मे गृहे – यस्माद्धेतोः, हे ब्रह्मन्! नमस्कारार्होऽतिथिः त्वं तिस्रः रात्रीः – अभुञ्जान एव अवात्सी: इत्यर्थः । नमस्ते इति । स्पष्टोऽर्थः ।। तस्मात् इति – तस्माद्धेतोः मह्यं स्वस्ति यथा स्यादित्येवमर्थं त्रीन् वरान् प्रति – उद्दिश्य, वृणीष्व – प्रार्थयस्व । तव लिप्साभावेऽपि मदनुग्रहार्थम् अनशनरात्रिसमसंख्याकान् त्रीन् वरान् वृणीष्व इति भावः ।। ९ ।।
शान्तसकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माऽभि मृत्यो ।
त्वत्प्रसृष्टं माऽभिवदेत् प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ।। १०
एवं प्रार्थितो नचिकेतास्त्वाह – शान्तसंकल्पः इति । हे मृत्यो! मत्पुत्रो यमं प्राप्य किं करिष्यति ? इति मद्विषयचिन्तारहितः प्रसन्नमनाः माऽभि – मां प्रति मम पिता गौतमः, वीतमन्युः – वीतरोषश्च यथा स्यादित्यर्थः । किञ्च त्वत्प्रसृष्टम् इति । त्वया गृहाय प्रेषितं मा अभि – मां प्रति, प्रतीतः – यथा पूर्वं प्रीतस्सन् वदेत् । यद्वा, अभिवदेत् – आशिषं प्रयुङ्क्ताम् ।’ अभिवदति नाभिवादयते’ इति स्मृतिषु अभिवदनस्य आशीर्वाद प्रयोगात् । एतदिति – स्पष्टोऽर्थः ।। १० ।।
यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मतप्रसृष्टः ।
सुखं, रात्रीः शयिता वीतमन्युः त्वां दृशिवान् मृत्युमुखात् प्रमुक्तम् ।। ११ ।।
एवमुक्तो मृत्युः प्रत्युवाच – यथा पुरस्तात् इति । यथापूर्वं त्वयि हष्टो भविता । औद्दालकिरारुणि: मत्प्रसृष्टः उद्दालक एव औद्दालकिः, अरुणस्य अपत्यम् आरुणिः व्द्यामुष्यायणो वा । उद्दालकस्य अपत्यम्, अरुणस्य गोत्रापत्यं इति वाऽर्थः । मत्प्रसृष्टः – मदनुज्ञात: मदनुगृहीतस्सन्, मदनुग्रहादित्यर्थः । सुखम् इति – त्वयि विगतमन्युस्सन् उत्तरा अपि रात्रीः सुखं शयिता । लुट्, सुखनिद्रां प्राप्स्यतीति यावत् । दृशिवान् – दृष्टवान् सन्नित्यर्थः । क्वसन्तोऽयं शब्दः, ‘दृशेश्चेति वक्तव्यम्’ (वा.४४५२) इति कसोरिट् । छान्दसो द्विर्वचनाभावः । मत्प्रसृष्टम् इति द्वितीयान्तपाठे मत्प्रेषितं त्वाम् इति योजना ।। ११ ।।
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ।। १२ ।।
नचिकेता वरं द्वितीयं प्रार्थयते – स्वर्गे लोके इत्यादिना मन्त्रद्वयेन । अत्रा स्वर्गशब्दः मोक्षस्थानपरः । यथा च एतत् तथा उत्तरत्र वक्ष्यते । न तत्र त्वं, न जरया बिभेति । हे मृत्यो ! त्वं तत्र न प्रभवसि । जरायुक्तस्सन् न बिभेति । जरातो न बिभेति । तत्र वर्तमानः पुरुषः इति शेषः । उभे इति । अशनाया – बुभुक्षा । अत्रापि स्वर्गशब्दः मोक्षस्थानपरः ।। १२ ।।।
स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तँ श्रद्धधानाय मह्यम् ।
स्वर्गलोका अमृतत्त्वं भजन्ते एतत् द्वितीयेन वृणे वरेण ।। १३ ।।
स त्वम् इति । पुराणादिप्रसिद्धसार्वज्ञ: त्वं स्वर्गप्रयोजनकमग्नि जानासि । ‘स्वर्गादिभ्यो यद्वक्तव्यः’ इति प्रयोजनम् इत्यर्थे यत् । स्थण्डिलरूपाग्ने: स्वर्गप्रयोजनकत्वञ्च उपासनाद्वारेति उत्तरत्र स्फुटम् । श्रद्धधानाय – मोक्षश्रद्धावते; स्वर्गलोकेन तव किं सिद्ध्यति ? इत्यत्राह – स्वर्गलोकाः इति । स्वर्गे लोको येषां ते – परमपदं प्राप्ता इत्यर्थः । “परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते” (छां.उ. ८-१२-२) इति देशविशेषविशिष्ट ब्रह्मप्राप्तिपूर्वकत्वात् स्वरूपाविर्भावलक्षणमोक्षशब्दितामृतत्वस्येति भावः । एतत् इति स्पष्टम् ।। १३ ।।
प्र ते ब्रवीमि तदु में निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ।
अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतन्निहितं गुहायाम् ।। १४ ॥
एवमुक्त: मृत्युराह – प्र ते ब्रवीमि इति । प्रार्थितवते तुभ्यं प्रब्रवीमि। ‘व्यवहिताश्च’ (पा.सू.१-४-८२) इति व्यवहितप्रयोगः । मे – मम उपदेशात् , जानीहि इत्यर्थः । ज्ञानस्य फलं दर्शयति – स्वर्ग्यमग्निं इति । अनन्तस्य – विष्णोः लोकः, तत्प्राप्तिम् । तद्विष्णोः परमं पदम्’ (क.उ.३-९) इति उत्तरत्र वक्ष्यमाणत्वात् । अथो – तत्प्राप्यनन्तरं प्रतिष्ठाम् – अपुनरावृत्तिं च; ‘लभते’ इति शेषः । तज्ज्ञानस्य ईदृशसामर्थ्यं कथं सम्भवति? इति मन्यमानं प्रत्याह विद्धि इति। ब्रह्मोपासनाङ्गतया एतज्ज्ञानस्य मोक्षहेतुत्वलक्षणम् एतत्स्वरूपं गुहायां निहितम् अन्ये न जानन्ति । त्वं जानीहि इति भावः।
यद्वा – ज्ञानार्थकस्य विदेः लाभार्थकत्वसम्भवात् अग्नि प्रजानन् त्वम् अनन्तलोकाप्तिं प्रतिष्ठां लभस्व इत्युक्ते हे तुहे तुमद्भावः सिद्धो भवति । प्रजानन् । ‘लक्षणहेत्वोः (पा.सू.३-२-१२६) इति शतृप्रत्ययः ।। १४।।
लोकादिमग्नि तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।
स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनराह तुष्टः ।। १५ ।।
अनन्तरं श्रुतिवाक्यम् – लोकादिमग्निम् इति । लोकस्य आदिम् – हेतुम्; स्वर्ग्यमिति यावत् । तमग्निमुवाच इति । यल्लक्षणाः इष्टकाश्चेतव्याः, यत्संख्याकाः, येन प्रकारेण चेतव्याः, तत् – सर्वम् उक्तवानित्यर्थः । ‘यावतीः’ इति पूर्वसवर्णः छान्दसः । स चापि इति । स च नचिकेताः, तत् – श्रुतं सर्वं तथैव अनूदितवान् इत्यर्थः । अथास्य इति । शिष्यस्य ग्रहणसामर्थ्यदर्शनेन सन्तुष्टस्सन् मृत्युः पुनरपि उक्तवान् इत्यर्थः।। १५।।
तमब्रवीत् प्रीयमाणो महात्मा वरं तवेहाद्य ददानि (मि) भूयः ।
तवैव नाम्ना भविताऽयमग्निः सृंकाञ्चेमामनेकरूपां गृहाण ।। १६ ।।
तमब्रवीत् इति । सन्तुष्यन् महामनाः मृत्युः नचिकेतसम् अब्रवीत् । पुनः चतुर्थं वरं ददानि – प्रयच्छानीति किं तत् ? तत्राह – तवैव नाम्ना इति । मया उच्यमानोऽग्निः तवैव नाम्ना – नाचिकेतः इति प्रसिद्धो भविता । किञ्च विचित्र सृंकाम् – शब्दवती रत्नमालां स्वीकुरु इत्यर्थः ।। १६ ।।
त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू ।
ब्रह्मजज्ञज्ञं देवमीड्यं विदित्वा निचाय्येमाँ शान्तिमत्यन्तमेति ।। १७ ।।
पुनरपि कर्म प्रस्तौति – त्रिणाचिकेतः इति । त्रिणाचिकेतः – ‘अयं वाव यः पवते’ (तै.ब्रा.३-११-७) इत्याद्यनुवाकत्रयाध्यायी । त्रिकर्मकृत् – यजन-अध्ययन दानकृत्, पाकयज्ञ-हविर्यज्ञ-सोमयज्ञकृद्वा, त्रिभिः – अग्निभिः, त्रिरनुष्ठितैरग्निभिः (हेतुभिः ?) सन्धिम् – परमात्मोपासनेन सम्बन्धम्, एत्य – प्राप्य, जन्ममृत्यू तरति इत्यर्थः । ‘करोति तत् येन पुनर्न जायते’ (क.उ. १-१९) इत्यनेन ऐकार्यात् । एवमेव हि अयं मन्त्रः ‘त्रयाणामेव चैवम्’ (ब्र.सू.१-४-६) इति सूत्रे व्यासार्यै: विवृतः । त्रिभिरेत्य सन्धिमिति निर्दिष्टम् अङ्गिभूतं परमात्मोपासनमाह – ब्रह्मजज्ञम् इति । अयं मन्त्रः ‘विशेषणाच्च (ब्र.सू.१-२-१२) इति सूत्रभाष्ये, ब्रह्मज्ञ: – जीवः । ब्रह्मणो जातत्वात् ज्ञत्वाच्च । तं देवमीड्यं विदित्वा – ‘जीवात्मानम् उपासकं ब्रह्मात्मकत्वेनावगम्य इत्यर्थः’ इति विवृतः । देवशब्दस्य परमात्मवाचितया जीवपरयोश्च ऐक्यासम्भवात्, अत्रत्य देवशब्दस्य परमात्मात्मकत्व पर्यन्तोऽर्थः इति भाष्याभिप्रायः । निचाय्येति निचाय्य – ब्रह्मात्मकं स्वात्मानं साक्षात्कृत्य । इमां त्रिकर्मकृत्तरति इति पूर्वमन्त्रनिर्दिष्टां संसाररूपानर्थशान्तिम् एति इत्यर्थः ।। १७ ।।
त्रिणाचिकेतस्त्रयमेतत् विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् ।
स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके ।।१८।।
त्रिणाचिकेतः इति । त्रिणाचिकेतः; उक्तार्थः । त्रयमेतत् विदित्वा ‘ब्रह्मजज्ञं देवमीड्यम्’ इति मन्त्रनिर्दिष्टं ब्रह्मस्वरूपं, तदात्मकस्वात्मस्वरूपं, ‘त्रिभिरेत्य सन्धिम्’ इति निर्दिष्टमग्निस्वरूपं च, विदित्वा – गुरूपदेशेन शास्त्रतो वा ज्ञात्वा । य एवं विद्वान् इति । एतादृशार्थत्रयानुसन्धानपूर्वकं नाचिकेतमग्निं यश्चिनुते, सः मृत्युपाशान् – रागद्वेषादिलक्षणान्; पुरतः – शरीरपातात् पूर्वमेव । प्रणोद्य – तिरस्कृत्य । जीवद्दशायामेव रागादिरहितस्सन्नित्यर्थः । शोकातिगो मोदते स्वर्गलोके इति पूर्वमेव व्याख्यातम् ।। १८ ।।
यो वा ए(प्ये)तां ब्रह्मजज्ञात्मभूतां चितिं विदित्वा चिनुते नाचिकेतम् ।
स एव भूत्वा ब्रह्मजज्ञात्मभूतः करोति तद् येन पुनर्न जायते ।। १९ ।।
यो वाप्येतामिति । यः एतां चितिं, ब्रह्मजज्ञात्मभूतां विदित्वा ब्रह्मात्मक स्वस्वरूपतया अनुसन्धाय नाचिकेतम् – अग्नि चिनुते, स एव ब्रह्मात्मकस्वात्मानुसन्धान शाली सन्, अपुनर्भवहेतुभूतं यत् भगवदुपासनम्, तदनुतिष्ठति । ततश्च अग्नौ भगवदात्मकस्वात्मत्वानुसन्धानपूर्वकमेव चयनं ‘त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू’ इति पूर्वमन्त्रे भगवदुपासनद्वारा मोक्षसाधनतया निर्दिष्टत्वात्; न अन्यत् इति भावः । अयं च मन्त्रः केषुचित्कोशेषु न दृष्टः; कैश्चित् अव्याकृतश्च । अथापि प्रत्ययितव्यतमैः व्यासार्यादिभिरेव व्याख्यातत्वात्, न प्रक्षेपशङ्का कार्या ।। १९ ।।
एष तेऽग्निर्नचिकेतः स्वर्ग्यो यमवृणीथा द्वितीयेन वरेण ।
एतमग्निं तवैव प्रवक्ष्यन्ति जनासः तृतीयं वरं नचिकेतो वृणीष्व ॥ २० ॥
एष तेऽग्निर्नचिकेतः स्वर्ग्य: । उपदिष्टः इति शेषः । यमवृणीथा द्वितीयेन वरेण । स्पष्टोऽर्थः । किञ्च एनमग्निम् इत्यादि । जनाः तवैव नाम्ना एनमग्निं प्रवक्ष्यन्ति इत्यर्थः । तृतीयम् इति स्पष्टोऽर्थः ।।
ननु एतत्प्रकरणगतानां स्वर्गशब्दानां मोक्षपरत्वे किं प्रमाणम् ? इति चेत् । उच्यते । भगवतैव भाष्यकृता स्वर्ग्यमग्निम् इति मन्त्रं प्रस्तुत्य स्वर्गशब्देनात्र परमपुरुषार्थलक्षणमोक्षोऽभिधीयते; ‘स्वर्गलोका अमृतत्वं भजन्ते’ (क.उ.१-१३) इति, तत्रस्थस्य जननमरणाभावश्रवणात् । ‘त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू’ (क.उ.१-१७) इति च प्रतिवचनात् । तृतीयवरप्रश्ने नचिकेतसा क्षयिफलानां निन्दिष्यमाणतया क्षयिफलविमुखेन नचिकेतसा क्षयिष्णुस्वर्गफलसाधनस्य प्रार्थ्यमानत्वानुपपत्तेश्च, स्वर्गशब्दस्य प्रकृष्टसुखवचनतया निरवधिकानन्दरूपमोक्षस्य स्वर्गशब्दवाच्यत्वसम्भवात् इति कण्ठतः तात्पर्यतश्च प्रतिपादितत्वात् न शङ्कावकाशः।
ननु – ‘स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति । उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके ।।
स त्वमग्निं स्वर्गयमध्येषि मृत्यो प्रब्रूहि तं श्रद्धधानाय मह्यम् ।स्वर्गलोका अमृतत्वं भजन्त एतत् द्वितीयेन वृणे वरेण’ (क.उ.१-१२,१३) इति द्वितीयवरप्रश्नमन्त्रद्वये चतुरभ्यस्तस्य स्वर्गशब्दस्य मोक्षपरत्वं, किं मुख्यया वृत्त्या ? उत अमुख्यया ?
नाद्यः स्वर्गापवर्गमार्गाभ्याम्, ‘स्वर्गापवर्गयोरेकम्, न स्वर्ग नापुनर्भवम् स्वर्गस्यात्त् सर्वान् प्रत्यविशिष्ट त्वात्’ (प.मी. ४-३-१५) इत्यादि प्रयोगेषु अपवर्गप्रतिद्वन्द्विवाचितया लोकवेदप्रसिद्धस्य स्वर्गशब्दस्य मोक्षवाचित्वाभावात् ।
‘ध्रुवसूर्यान्तरं यत्तु नियुतानि चतुर्दश ।। स्वर्गलोकः स कथितो लोकसंस्थानचिन्तकैः’ (वि.पु.२-७-१८) इति पुराणवचनानुसारेण सूर्यध्रुवान्तर्वतिलोकविशेषस्यैव स्वर्गशब्दवाच्यतया तत्रैव लौकिक वैदिकव्यवहारदर्शनेन मोक्षस्थानस्यातथात्वात् ।
नापि अमुख्ययेति द्वितीयः पक्षः, मुख्यार्थे बाधकाभावात् । किमत्र प्रश्नवाक्यगतं जरामरणराहित्यामृतत्त्वभाक्त्वादिकं बाधकम् ? उत प्रतिवचनगतजरामृत्युतरणादि ? (उत) क्षयिष्णुस्वर्गस्य सर्वकामविमुखनचिकेतः प्रार्थ्यमानत्वानुपपत्तिर्वा ?
नाद्यः; ‘स्वर्गलोकवासिनां जरा-मरण-क्षुत्-पिपासा-शोकादिराहित्यस्य अमृतपानात् अमृतत्वाप्राप्तेश्च पुराणेषु स्वर्गस्वरूपकथनप्रकरणेषु दर्शनात्, ‘आभूतसम्प्लवं स्थानममृतत्त्वं हि भाष्यते’ (वि.पु.२-८-९५) इति स्मरणात्, तत्रैव ‘अजीर्यताममृतानामुपेत्य’ इति मृत्यावपि अमृतशब्दप्रयोगदर्शनाञ्च, स्वर्गलोकवासिनामेव ब्रह्मोपासनद्वारा ‘ते ब्रह्मलोके तु परान्तकाले’ (तै.ना.१२) इति श्रुत्युक्तरीत्या अमृतत्त्वप्राप्तेः सम्भवेन, ‘स्वर्गलोका अमृतत्वं भजन्ते’ (क.उ.१-१३) इत्यस्य उपपत्तेश्च आपेक्षिकामृतत्वपरतया लोकवेदनिरूढौपसंहारिकामृतशब्दानुसारेण प्रक्रमस्थानन्यथासिद्धविशेष्यवाचिस्वर्गशब्दस्य अन्यथानयनासम्भवात् । न हि देवदत्तोऽभिरूपः इत्युक्ते अभिरूपपदस्वारस्यानुसारेण देवदत्तपदस्य अत्यन्ताभिरूपयज्ञदत्तपरत्वमाश्रीयते ।।
न द्वितीयः। त्रिणाचिकेतस्त्रिभिः’ (क.उ. १-१७) इति मन्त्रस्य स्वर्गसाधनस्यैवाग्रे: त्रिरभ्यासे, जन्ममृत्युमरणहेतुभूतब्रह्मविद्याहे तत्त्वमस्तीत्येतदर्थकतया स्वर्गशब्दस्य मुख्यार्थपरत्वाबाधकत्वात् । अत एव तत्तुल्यार्थस्य ‘करोति तद्येन पुनर्न जायते’ (क.उ.१-१९) इत्यस्यापि न स्वर्गशब्दमुख्यार्थबाधकत्वम् ।।
नापि – क्षयिष्णोः स्वर्गस्य फलान्तरविमुखनचिकेत: प्रार्थ्यमानत्वानुपपत्तिः इति तृतीयः पक्षः । स्वर्गसाधनाग्निप्रश्न प्रतिब्रुवता हितैषिणा मृत्युना अपृष्टेऽपि मोक्षस्वरूपे, ‘अनन्तलोकाप्तिमथो प्रतिष्ठाम्’ (क.उ.१-१४) ‘त्रिणाचिकेतस्त्रिभिरेत्य सन्धिं त्रिकर्मकृत्तरति जन्ममृत्यू’ (क.उ.१-१७) इत्यादिना उपक्षिप्ते, उत्पन्ना मुमुक्षा, अन्यं वरं नचिकेतो वृणीष्व’ इति प्रतिषेधेन दृढीकृता । तस्यां च दशायां क्रियमाणा क्षयिष्णुफलनिन्दा प्राचीनस्वर्गप्रार्थनायाः कथं बाधिका स्यात् ?
किञ्च – ‘श्वोऽभावा मर्त्यस्य’ इत्यादौ मर्त्यभोगनिन्दाया एव दर्शनेन स्वर्गनिन्दायाः अदर्शनात् ; स्वर्गशब्दस्य मोक्षपरत्वे तस्य ज्ञानैकसाध्यतया तत्प्रयोजनकत्वस्य अग्नौ अभावात् उपक्रमोपसंहारमध्याभ्यस्तस्वर्गशब्दपीडाप्रसङ्गाच्च ।
सन्तु वा प्रतिवचने बाधकानि; अथापि उपक्रमाधिकरणन्यायेन प्रक्रमस्थ प्रश्नवाक्यस्थ स्वर्गशब्दस्यैव प्रबलत्वात् । न च – ‘भूयसां स्यात् सधर्मत्वम्’ (पू.मी.सू.१२-२-२३) इति सूत्रे औपसंहारिकबह्वपेक्षयाऽपि मुख्यस्यैव प्राबल्योक्तेः । तस्मात् स्वर्गशब्दस्य मुख्यार्थपरित्यागे न किञ्चित् कारणमिति ।
अत्रोच्यते – स्वर्गशब्दस्य मुख्ययैव वृत्त्या मोक्षवाचित्वम् । ‘स्वर्गकामाधिकरणे’ (पू.मी.६-१-१), ‘नागृहीतविशेषणन्यायेन’ (पू.मी.सू.१-३-१०) स्वर्गशब्दस्य प्रीतिवचनत्वमेव; न प्रातिविशिष्टद्रव्यवाचिता इत्यक्त्वा नन् – स्वर्गशब्दस्य नागृहीत विशेषणन्यायेन प्रतिवचनत्वे सिद्धेऽपि देहान्तरदेशान्तरभोग्यप्रीतिवाचिता न सिद्धयेत् । न च यस्मिन्नोष्णम् इति वाक्यशेषात् विध्युद्देशस्थस्वर्गशब्दस्य प्रीतिविशेषवाचितानिश्चयः – इति वाच्यम् । प्रीतिमात्रवाचित्वेन निर्णीतशक्तिकतया सन्देहाभावेन ‘सन्दिग्धे तु वाक्यशपात् (पू.मी.सू.१-४-२९) इति न्यायस्यानवतारात् इति परिचोद्य, यद्यपि लोक एव स्वर्गशब्दस्य निर्णीतार्थता; तथापि लोकावगतसातिशयसुखवाचित्चे, तत्साधनत्वं ज्योतिष्टोमादीनां स्यात् । तथा च अल्पधननरायाससाध्ये लौकिके तदुपायान्तरे सम्भवति; न बहुधननरायाससाध्ये बह्वन्तराये ज्योतिष्टोमादौ प्रेक्षावान् प्रवर्तत इति, प्रवर्तकत्वं ज्योतिष्टोमादिविधेः न स्यात् । अतः वाक्यशेषावगते निरतिशयप्रातिविशेषे स्वर्गशब्दस्य शक्तौ निश्चितायां, वाक्यशेषाभावस्थलेऽपि यववराहादिष्विव स एवार्थः । लौकिके सातिशयप्रीतिभरिते गुणयोगादेव वृत्तेरुपपत्तेः न शक्तयन्तरकल्पना । न च – प्रीतिमात्रवचनस्यैव स्वर्गशब्दस्य वेदे निरतिशयप्रीतिवाचित्वमस्तु – इति वाच्यम्; निरतिशयत्वांशस्य अन्यतोऽनवगतत्वेन, तत्रापि शक्तयवश्यंभावेन स्वर्गशब्दस्य लोकवेदयोः अनेकार्थता (हि) स्यात् (?) । यदा तु वैदिकप्रयोगावगतनिरतिशयप्रीतिवाचिता, तदा सातिशये लौकिके प्रीतित्वसामान्ययोगात् गौणी वृत्तिः – इति मीमांसकै निरतिशयसुखवाचित्वस्यैव समर्थिततया, मोक्षस्य स्वर्गशब्दवाच्यत्वे विवादाऽयोगात्।पार्थशब्दस्य अर्जुन इव, तदितरपृथापुत्रेषु प्रचुरप्रयोगाभावेऽपि, पार्थशब्दमुख्यार्थत्वान्पायवत, स्वर्गशब्दस्य सूर्यधुवान्तर्वर्तिलोकगतसुखविशेष इव, अन्यत्र प्रचुरप्रयोगाभावेऽपि वाच्यत्वानपायात् ।।
‘बर्हिराज्यादिशब्दानाम् असंस्कृततृणघृतादिषु आर्यैरप्रयुज्यमानानामपि, अस्त्येव तद्वाचित्वम् । केषाञ्चिदप्रयोगमात्रस्य शक्तयभावासाधकत्वात् । अत तृणत्वादिजातिवचना एवं बर्हिरादिशब्दाः इति ‘बर्हिराज्याधिकरणे (पू.मी.१-४-८) स्थितत्वात्।
तदुक्तम् वार्तिके – ‘एकदेशेऽपि यो दृष्टः शब्दो जातिनिबन्धनः ।। तदत्यागान्न तस्यास्ति निमित्तान्तरगामिता’ ।। (तन्त्रवा. १-४-१०) इति । ततश्च स्वर्गशब्दो मोक्षसाधारण एव ।
ननु – बर्हिराज्यादिशब्देषु असंस्कृततृणघृतादौ आर्यप्रयोगाभावेऽपि अनार्यप्रयोगसत्त्वात्, असंस्कृतवाचिता, अस्तु नाम । स्वर्गशब्दस्य सूर्यधुवान्तर्वर्तिप्रयोग विशेषेण रूढत्वात् , तस्य च उद्गातुः एकत्वेन, प्रैतु होतुश्चमसः प्रोद्गातृणाम् इति बहुवचनार्थबहुत्यासम्भवात् , तदन्वयार्थं रूढिपूर्वकलक्षणया अपसुब्रह्मण्यानाम् एकस्तोत्रसम्बन्धिनां त्रयाणां वा, ससुब्रह्मण्यानां चतुर्णा वा उद्गात्रादीनां छन्दोगानां ग्रहणम् इत्येतद्विरुध्येत ।।
तथा हि’अहीनाधिकरणे (प.मी.३-३-८) तिस्र एव साह्नस्योपसद: द्वादशाहीनस्य (तै.सं.६-२-४) इत्यत्रत्य अहीन शब्दस्य ‘अह्न: खः । क्रतौ’ (वा २७२२,२७२३) इति व्याकरणस्मृत्या स्वप्रत्ययान्ततया, अहर्गणसामान्यवाचितया व्युत्पादितस्यापि, अहोनशब्दस्य नियमने सत्रे अप्रयोगात्, अहर्गणविशेषरूढिमङ्गीकृत्य, ज्योतिष्टोमस्य अहर्गणविशेषत्वाभावात् अहीन इति योगस्य रूढ़ि पराहतत्वेन, योगेन ज्योतिष्टोमे वृत्त्यसम्भवात् ज्योतिष्टोमप्रकरणाधीताया अपि द्वादशाहीनस्य इति द्वादशोपसत्तायाः अहर्गणविशेष उत्कर्षः – इत्युक्तम् । ।
तथा, ‘पाय्यसान्नायनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु’ (पा.सू. ३-१-१२०) इति व्याकरणस्मृत्या सामिधेनीमात्रवाचितया व्युत्पादितस्यापि धाय्याशब्दस्य, न सामिधेनीमात्रवचनत्वम्; नापिधीयमानत्वरूपयोगार्थवशेन धीयमानमात्रवचनत्वम् ; स्तुति शस्त्रार्थतयाधीयमानासु ऋक्षु सामधेनीमात्रे च धाय्याशब्दप्रयोगात्; अपि तु, पृथुपाजवत्यो धाय्ये भवतः इत्यादिवैदिकप्रयोगविषयेषु पृथुपाजवत्यादिष्वेव धाय्याशब्दस्य शक्तिरिति ‘समिधमानवर्ती समिध्यवर्ती च अन्तरेण धाय्यास्स्युः ‘ (पू.मी.सू.५-३-४) इति पाञ्चमिकाधिकरणे स्थितम् । एवमादिकं सर्वं विरुद्धयेत । स्वर्गशब्दे त्वदुक्तरीत्या प्रयोगाभावेऽपि, शक्तिसम्भवे उद्गात्रादिशब्दानां ऋत्विग्विशेषादिषु रूढे: अकल्पनीयत्वात् – इति चेत्।
सत्यम्; यदि सर्वात्मना तदतिरिक्ते स्वर्गशब्दप्रयोगो न स्यात् । तदा ध्यावृत्ता रूढ़िः अभ्युपगन्तव्या स्यात् । अस्ति हि तत्रापि प्रयोगः । ‘तस्यां हिरण्मयः कोशः स्वर्गों लोको ज्योतिषावृतः यो वै तां ब्रह्मणो वेद’ (तै.आर.१-२७-११५) ‘तेन धीरा अपियन्ति ब्रह्मविदः स्वर्ग लोकमित ऊर्ध्वं विमुक्ताः’ (बृ.उ. ६-४-८) ‘अपहत्य पाप्मानम्, अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति’ (के.उ. ४-९) इति तैत्तिरीयक-बृहदारण्यक-तलवकारादिषु अध्यात्मशास्त्रेषु प्रयोगदर्शनातू, पौराणिकपरिकल्पितस्वर्गशब्दरूढ़े: सांख्यपरिकल्पिताव्यक्त शब्दरूढिवत् अनादरणीयत्वात् । अस्मिन्नेव प्रकरणे, त्वदुक्तरीत्या प्रयोगाभावेऽपि, शक्तिसम्भवे उद्गात्रादिशब्दानां ऋत्विग्विशेषादिषु रूढ़े: अकल्पनीयत्वात् – इति चेत् ; ‘त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वांश्चिनुते नाचिकेतम् । स मृत्युपाशान् पुरतः प्रणोद्य शोकातिगो मोदते स्वर्गलोके’ ।। (क.उ. १-१८) इति मन्त्रे, कर्मज्ञानसमुच्चय साध्यवाचकतया श्रूयमाणस्य स्वर्गलोकशब्दस्य, सूर्यध्रुवान्तर्वार्तिलोकव्यतिरिक्त वैराजपदवाचकतया परैरपि व्याख्यातत्वाच्च ।।
ननु – सूर्यलोकोर्ध्ववर्तिलोकत्वस्यैव प्रवृत्तिनिमित्ततया, तस्य च वैराजपदेऽपि सत्त्वात्, न अमुख्यार्थत्वम् इति चेत् – तर्हि भगवल्लोकेऽपि ऊर्ध्वर्वार्तित्वाविशेषेण मुख्यार्थत्वानपायात्, स्वर्गापवर्गमार्गाभ्याम् इत्यादिव्यवहारस्य ‘ब्राह्मणपरिव्राजकन्यायेन’ उपपत्तेश्च ।
अस्तु वा अमुख्यार्थत्वम्; मुख्यार्थे बाधकसत्त्वात् । किमत्र बाधकम् ? इति चेत् श्रूयतामवधानेन । ‘स्वर्गे लोके न भयं किञ्चनास्ति’ (क.उ. १-१२) इति प्रथमे प्रश्नमन्त्रे ‘न भयं किञ्चनास्ति’ इति अपहतपाप्मत्वं प्रतिपाद्यते । (कथम् ?) ‘स्वर्गऽपि पातभीतस्य इत्युक्तरीत्या केन पापेन ? कदा पतिष्यामि ? इति भीत्यभावः प्रतिपाद्यते । स हि अपहतपाप्मन एव सम्भवति ‘न तत्र त्वं न जरया बिभेति’ (क.उ. १-१२) इत्यनेन विजरत्व-विमृत्युत्वे प्रतिपाद्येते । ‘उभे तीर्त्वा अशनायापिपासे’ (क.उ. १-१२) इत्यनेन विजिघत्सत्त्वापिपासत्वे प्रतिपाद्येते । शोकातिगः इति विशोकत्वम् । ‘मोदते स्वर्गलोके’ इत्यनेन ‘स यदि पितृलोककामो भवति, संकल्पादेवास्य पितरस्समुत्तिष्ठन्ति । तेन पितृलोकन सम्पन्नो महीयते’ (छां.उ. ८-२-१) इति श्रुतिसन्दर्भप्रतिपाद्ये सत्यकामत्व – सत्यसंकल्पत्वे प्रतिपाद्यते । ततश्च अध्यात्मशास्त्रसिद्धस्य अपहतपाप्मत्वादि ब्रह्मगुणाष्टकाविर्भावस्य इह प्रतीयमानतया तस्यैवेह ग्रहणसम्भवे, पौराणिकस्य स्वर्गलोकगतापेक्षिक जरामरणाद्यभावस्वीकारस्य अनुचितत्त्वात् ।।
अत एव – ‘सप्तमे विध्यताधिकरणे’ (पू.मी. ७-४-१) अनुपदिष्टेतिकर्तव्यताकासु सौर्यादिविकृतिभावनासु इति कर्तव्यताकाङ्क्षायाम्, वैतानिक कर्माधिकार प्रवृत्तत्रयीविहितत्वसामान्यात्, वैदिक्येव दर्शपौर्णमासी इतिकर्तव्यता उपतिष्ठते – इत्युक्तम् । उक्तं च शास्त्रदीपिकायाम् –
‘वैदिकी वैदिकत्वेन सामान्येनोपतिष्ठते । | लौकिकी त्वसमानत्वान्नोपस्थास्यत्यपेक्षिता’ ।। (शा.दी.७-४-१) इति ।।
न च – यद्येकं यूपमुपस्पृशेत्, ‘एष ते वायाविति ब्रूयात्’ इति विहितस्य ‘एष ते वायौ’ इति वचनस्य वैदिकत्वसामान्येन विहितवैदिकयूपस्पर्शनिमित्तकत्वमेव स्यात् । न च इष्टापत्तिः । ‘लौकिके दोषसंयोगात्’ (पू.मी.सू.९-३-९) इति नावमिकाधिकरण विरोधप्रसङ्गात् – इति वाच्यम्; ‘यूपो वै यज्ञस्य दुरिष्टमामुञ्चते तस्मात् यूपो नोपस्पृश्यः इति प्रतिषिध्य; ‘यद्येकं यूपमुपस्पृशेत्, एष ते वायाविति ब्रूयात्’ इति, अनन्तरमेव विहितस्यप्रतिषिद्धप्रायश्चित्तसाकाङ्क्षलौकिकस्पर्शविषयत्वावश्यम्भावेन वैदिकविषय यत्वासम्भवेऽपि असति बाधके वैदिकविषयत्वस्य युक्तत्वात् ।।
अत एव – ‘यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्’ (तै.सं. २-३-१२) इति विहितेष्टिः वैदिके एव अश्वदाने; न तु न केसरिणो ददाति इति निषिद्धे, प्रायश्चित्तसापेक्षे सुहृदादिभ्यः स्नेहादिना क्रियमाणे – इति निर्णीतं तृतीये।
तथा – ‘योगिनः प्रति स्मर्थेते स्मार्ते चैते’ (ब्र.सू.४-२-२०) इति सूत्रे, स्मार्तस्य वेदान्तेन प्रत्यभिज्ञानम् = इत्युक्तं परैः । ततश्च स्वर्गे लोके’ (क.उ.१-१२) इति मन्त्रे, अध्यात्मशास्त्रसिद्धस्य अपहतमाप्मत्वादि ब्रह्म गुणाष्टकस्यैव ग्रहणम उचितम् : ‘स्वर्गलोका अमृतत्वं भजन्ते’ (क.उ.१-१३) इति द्वितीयप्रश्ने मन्त्रे अमृतत्त्वभाक्त्वश्रवणात् , अमृतत्वशब्दस्य अध्यात्मशास्त्रे मोक्ष एवं प्रयोगात्, ‘अजीर्यताममृतानाम्’ (क.उ.१-२९) इत्यत्र अमृतशब्दस्यापि मुक्तपरत्वेन आपेक्षिकामृतत्वपरत्वाभावात्, ‘उत्तरत्र ततो मया नाचिकेतश्चितोऽग्निरनित्यैर्द्रव्यैः प्राप्तवानस्मि नित्यम्’ (क.उ.२-१०) ‘अभयं तितषितां पारं नाचिकेतं शकेमहि’ (क.उ.३-२) इति, परस्यैव ब्रह्मणा नाचिकेताग्निप्राप्यत्वकथनेन, स्वर्गशब्दस्य प्रसिद्ध स्वर्गपरत्वासम्भवात्, नान्यं तस्मान्नचिकेता वृणीते इति ब्रह्मेतरविमुखतया प्रतिपादितस्य नचिकेतसः, क्षयिष्णुस्वर्गप्रार्थनानुपपत्तेश्च ।।
‘मुख्यं वा पूर्वचोदनाल्लोकवत्’ (पू.मी.सू.१२-२-२३) इत्यत्र समसंख्याकयोः परस्परविरोधे एव मुख्यस्य प्राबल्यम् । न हि अल्पवैगुण्ये सम्भवति, बहुवैगुण्यं प्रयोगवचनं क्षमते । अतः यत्र जघन्यानां भूयस्त्वम्, तत्र ‘भूयसां स्यात् स्वधर्मत्वम् (पू.मी.सू.१२-२-२२) इति न्याय एव प्रवर्तते – इत्येवं मीमांसकैः सिद्धान्तितत्वात् । प्रतर्दनविद्यायाम्, ‘एष ह्येव साधुकर्म कारयति’ (कौ.उ.३-९) ‘एष लोकाधिपतिरेष लोकपालः’ (कौ.उ.३-६६) आनन्दोऽजरोऽमृतः’ (को.उ.३-६२) इति औपसंहारिक परमात्मधर्मबाहुल्येन प्रकृत श्रुतजीवलिङ्गबाधस्य ‘प्राणस्तथानुगमात्’ (ब्र.सू.१-१-२९) इत्यत्र प्रतिपादितत्वात् इत्यलमतिचर्चया । प्रकृतमनुसरामः ।। २० ।।।
येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके ।
एतद् विद्यामनुशिष्टस्त्वयाऽहं बराणामेष वरस्तृतीयः ।। २१ ।।
नचिकेता आह – येयं प्रेते इति । ‘अत्ता चराचरग्रहणात्’ (ब्र.सू. १-२-९) इत्यधिकरणे इमं मन्त्रं प्रस्तुत्य, इत्यं हि भगवता भाष्यकृता – ‘अत्र परमपुरुषार्थरूप ब्रह्मप्राप्तिलक्षणमोक्षयाथात्म्यविज्ञानाय, तदुपायभूतपरमात्मोपासनपरावरात्मतत्वाजिज्ञासया अयं प्रश्नः क्रियते । एवं च येयं प्रेते’ इति न शरीरवियोगमात्राभिप्रायम् अपि तु सर्वबन्धविनिर्मोक्षाभिप्रायम् । यथा न ‘प्रेत्य संज्ञाऽस्ति’ (बृ.उ. ४-४-१२) इति । अयमर्थः – मोक्षाधिकृते मनुष्ये, प्रेते . सर्वबन्धविनिर्मुक्ते, तत्स्वरूपविषया बादिविप्रतिपत्तिनिमित्ता, अस्तिनास्त्यात्मिका येयं विचिकित्सा, तदपनोदनाय तत्स्वरूपयाथात्म्यं त्वया अनुशिष्टः अहम्, विद्याम् – जानीयामिति ।
तथा हि बहुधा विप्रतिपद्यन्ते – केचित् वित्तमात्रस्य आत्मन: स्वरूपोच्छित्तिलक्षणं मोक्षमाचक्षते । अन्ये तु वित्तिमात्रस्यैव सतः अविद्यास्तमयम् । परे पाषाणकल्पस्यात्मनः ज्ञानाद्यशेषवैशेषिकगुणोच्छेदलक्षणं कैवल्यरूपम् । अपरे अपहतपाप्मानं परमात्मानम् अभ्युपगच्छन्तः, तस्यैव उपाधिसंसर्गनिमित्तजीवभावस्य उपाध्यपगमेन तद्भावलक्षणं मोक्षम् आतिष्ठन्ते ।।
तथा त्रय्यन्तनिष्णातास्तु, – निखिलजगदेककारणस्य अशेषहेयप्रत्यनीकानन्त ज्ञानानन्दैकस्वरूपस्य, स्वाभाविकानवधिकातिशयासंख्येयकल्याणगुणाकरस्य, सकलेतरविलक्षणस्य, सर्वात्मभतस्य परस्य ब्रहणः शरीरतया प्रकारभूतस्य, अनुकूलापरिच्छिन्नज्ञानस्वरूपस्य, परमात्मानुभवैकरसस्य जीवस्य, अनादिकर्मरूपाविद्योच्छेद पूर्वकस्वाभाविकपरमात्मानुभवमेव मोक्षमाचक्षते । ‘तत्र मोक्षस्वरूपं तत्साधनं च त्वत्प्रसादात् विद्याम् इति नचिकेतसा पृष्टो मृत्युः’ – इति भाषितम् ।।
तथा ‘त्रयाणामेव चैवम्’ (ब्र.सू. १-४-६) इति सूत्रे, ‘तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेण उपेयस्वरूपम्, (उपेतृस्वरूपम) उपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टम्’ इति च भाषितम् । श्रुतप्रकाशिकायां ‘च’. ‘येयम्’ इत्यादिप्रश्नवाक्ये मोक्षस्वरूपप्रश्नः कण्ठोक्तः । प्रतिवचनप्रकारेण उपासनादिप्रश्नश्च अर्थसिद्धः निर्विशेषापत्ति: मोक्षश्चेत्, वाक्यार्थज्ञानस्य उपायता स्यात् । उभयलिङ्गकं प्राप्यं चेत्, तथात्वेनोपासनम् उपाय: स्यात् । अतः मोक्षस्वरूपज्ञानं तदनुबन्धज्ञानापेक्षम् – इति वणिॆतम् ।
अतः ‘येयं प्रेते’ इत्यस्य मुक्तस्वरूपप्रश्नपरत्वमेव न देहातिरिक्तपारलौकिक कर्मानुष्ठानोपयोगिकर्तृभोक्त्रात्मक जीवस्वरूपमात्रपरत्वम् । अन्यथा तस्यार्थस्य दुरधिगमवत्वप्रदर्शनविविधभोगवितरणप्रलोभनपरीक्षायाः असम्भवादिति द्रष्टव्यम् । नचिकेतसो हि अयम् अभिप्रायः – हितैषिवचनात् आत्मा परित्यक्तचरमदेहः, आविर्भूतापहत पाप्मत्वादिगुणाष्टको भवति इत्युपश्रुत्य, ‘स्वर्गे लोके न भयं किञ्चनास्ति’ (क.उ. १-१२) इत्यादिना मन्त्रद्वयेन मोक्षसाधनभूताग्निम् अप्राक्षम् । अधुना तु वादिविप्रतिपत्त्या तद्विषये सन्देहो जायते । अयं ‘स्वर्ग लोके न भयं किञ्चनास्ति’ इत्यादिना मया उपन्यस्त अपहतपाप्मत्वादिविशिष्टरूपः आत्मा, अस्ति इत्येके, नायमस्ति इत्यपरे, त्वया उपदिष्टः एतत् जानीयात् – इति । अत एव प्रतिवचने, ‘एतच्छ्रुत्वा सम्प्रतिगृह्य मर्त्यः प्रवृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा’ इति एतत्प्रश्नानुगुण्यमेव दृश्यते । अतो यथोक्त एवार्थः । ।
केचित्तु – ‘पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ’ (ब्र.सू. ३-२-४) इति सूत्रे, ‘तिरोहितम् इति निष्ठान्तपदे,’ उपसर्जनतया निर्दिष्टस्य तिरोधानस्य, देहयोगाद्वा सोऽपि (ब्र.सू. ३-२-५) इति तदुत्तरसूत्रे, ‘सोऽपि – तिरोधानभावोऽपि’ इति पुल्लिङ्ग तच्छब्देन परामर्शदर्शनात्, ‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’ (ब्र.सू.१-२-११) इत्यत्रापि ‘प्रविष्टौ’ इति उपसर्जनतया निर्दिष्टस्य प्रवेशस्य, ‘तद्दर्शनात्’ इति तच्छब्देन परामर्शदर्शनात्, सर्वनाम्नाऽनुसन्धिर्वृत्तिच्छन्नस्य’ (२-११) इति वामनसूत्रे कृत्तद्धितादिवृत्तिन्याग्भूतस्यापि सर्वनाम्ना परामर्शस्याङ्गीकृतत्वात् , येयं प्रेते इति निष्टान्तप्रेतशब्दे उपसर्जनतया निर्दिष्टस्यापि प्रायणशब्दितमोक्षस्य ‘नायमस्तीति चैके’ इत्यत्र ‘अयम्’ इति पदेन परामर्शोऽस्तु ।।
न च – एवं भुक्तवत्यस्मिन् भोजनमस्ति वा न वा ? इति वाक्यवत्, मुक्तेऽस्मिन् मोक्षोऽस्ति न वा ?’ इति सन्देहकथनं व्याहतार्थम् इति – वाच्यम्; मोक्षसामान्यमभ्युपेत्य मोक्षविशेषसन्देहस्य उपपादयितुं शक्यत्वात् । अयम् इत्यनेन विशेषपरामर्शसम्भवात् ।।
ननु – न प्रायणशब्दस्य मोक्षवाचित्वं क्वचिद्दृष्टम् । शरीरवियोगवाचित्वात् । श्रुतप्रकाशिकायां शरीरवियोगवाचित्वमभ्युपेत्यैव चरमशरीरवियोगपरतया व्याख्यातत्वात् इति चेत्, ‘अस्त्वेवम्; तथापि अयम् इत्यनेन’ चरमशरीरवियोगपरामर्शसम्भवात् , तद्विषयिण्येव विचिकित्साऽस्तु ।
ननु – तस्य निश्चितत्वात्, तद्विषयिणी विचिकित्सा नोपपद्यते इति चेत् – सत्यम् । अयं चरमशरीरवियोग: ब्रह्मरूपाविर्भावपूर्वभावित्वेन रूपेण अस्ति ? न वा ? इति विचिकित्सायाः सूपपादत्वात् – इति वदन्ति ।। २१।।
देवैरत्रापि विचिकित्सितं पुरा न हि सुज्ञेयमणुरेष धर्मः ।।
अन्यं वरं नचिकेतो वृणीष्व मा मोपरोत्सीरति मा सृजैनम् ।। २२ ।।
एवं मुक्तस्वरूपं पृष्टो मृत्युः – उपदिश्यमानार्थस्यातिगहनतया पारं प्राप्तुम् अप्रभवते, मध्ये पतयालवे, नोपदेष्टव्यम् इति मत्वाऽऽह – देवैरत्रापि इति । बहुदर्शिभिरपि देवैः अस्मिन् मुक्तात्मस्वरूपे विचिकित्सितम् – संशयितम् । न हि इति । आत्मतत्त्वं न सुज्ञानमिति सूक्ष्म एष धर्मः । अन्यं वरं इति । स्पष्टोऽर्थः । मा मोपरोत्सीः इति । मा मा इति निषेधे वीप्सायां द्विर्वचनम् । उपरोधं मा कार्षीः । एनं मा – माम् अतिसृज – मुञ्च ।। २२ ।।
देवरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ।।२३ ।।
एवमुक्तो नचिकेता आह – देवैरत्रापि विचिकित्सितं किल इति । स्पष्टोऽर्थः । त्वं च इति । त्वं च मृत्यो न सुविज्ञेयम् इति यदात्मस्वरूपम् उक्तवान् । वक्तेति । त्वादृक् – चादृश इत्यर्थः । अन्यत् स्पष्टम् ।। २३ ।।।
शतायुषः पुत्रपौत्रान् वृणीष्व बहून् पशून् हस्तिहिरण्यमश्वान् ।
भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ।। २४ ।।
एवं नचिकेतसोक्तो मृत्युः, ‘विषयस्य दुरधिगमतया मध्ये न त्यक्षति इति निश्चित्य, सत्यपि ग्रहणसामर्थ्यं, विषयान्तरासक्तचेतसे एतादृशं मुक्तात्मतत्त्वं नोपदेशार्हम् इति मत्वा, मुमुक्षास्थैर्यानुवृत्त्यर्थं प्रलोभयन् उवाच – शतायुषम् इति । स्पष्टोऽर्थः । भूमेः इति । पृथिव्याः विस्तीर्णम् आयतनम् – मण्डलं राज्यं वृणीष्व । अथवा भूमेः सम्बन्धि महदायतनम् – विचित्रशालाप्रासादादियुक्तं गृहं वृणीष्व । स्वयं चेति । यावद्वर्षाणि जीवितुमिच्छसि, तावज्जीव इत्यर्थः ।। २४ ।।।
एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च ।
महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ।। २५ ।।
एतत्तुल्यम् इति । उक्तेन वरेण सदृशम् अन्यदपि वरं मन्यसे चेत् ! तदपि वृणीष्व; प्रभूतं हिरण्यरत्नादिकं चिरंजीवनं च इत्यर्थः । महाभूमौ नचिकेतस्त्वमेधि । एधि – भव । राजेति शेषः । अस्तेः लोण्मध्यमपुरुषैकवचनम् । कामानाम् – काम्यमानानाम् अप्सर:प्रभृति-विषयाणाम् । कामभाजम् – कामः कामना । तां विषयतया भजतीति कामभाक्; तम् । काम्यमानाप्सर:प्रभृतीनामपि कामनाविषयं करोमि इत्यर्थः ।। २५ ।।
ये ये कामा दुर्लभाः मर्त्यलोके सर्वान् कामान् छन्दतः प्रार्थयस्व ।
इमा रामास्सरथास्सतूर्या न हीदृशा लोभनीया मनुष्यैः ।
आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ।। २६ ।।
ये ये कामाः इति । छन्दतः – यथेष्टम् इत्यर्थः । इमाः रामाः इति । रथवादित्र सहिताः मया दीयमानाः स्त्रियः, मनुष्याणां दुर्लभाः इत्यर्थः । आभिरिति । आभिः = मया दत्ताभिः परिचारिकाभिः, पादसंवाहनादिशुश्रूषां कारय इत्यर्थः। मरणमनु – मरणात्, मुक्तेः पश्चात्; मुक्तात्मस्वरूपमिति यावत् । मरणशब्दस्य देहवियोगसामान्यवाचिनोऽपि, प्रकरणवशेन विशेषवाचित्वं न दोषाय इति द्रष्टव्यम् ।। २६ ।।
श्वोऽभावा मर्त्यस्य यदन्तकैतत् सर्वेन्द्रियाणां जरयन्ति तेजः ।।
अपि सर्वं जीवितमल्पमेव तवैव वाहास्तव नृत्यगीते ।। २७ ।।
एवं प्रलोभ्यमानोऽपि नचिकेताः अक्षुभितहृदय आह – श्वोऽभावाः इति । हे। अन्तक ! त्वदुपन्यस्ता ये मर्त्यस्य कामाः ते श्वोऽभावाः – श्वः अभावः येषां ते तथोक्ताः ।। दिनद्वयस्थायिनो न भवन्ति इत्यर्थः । सर्वेन्द्रियाणां यदेतत् तेजः, तत् क्षपयन्ति । अप्सर:प्रभृतिभोगा हि सर्वेन्द्रियदौर्बल्यावहा इति भावः । अपि सर्वमिति । ब्रह्मणोऽपि जीवितं स्वल्पम्, किमुत अस्मदादिजीवितम् । अतः चिरजीविकाऽपि न वरणार्हेति भावः । तवैव वाहाः इति । वाहाः – रथादयः । तिष्ठन्तु इति शेषः ।। २७ ।।
न वित्तेन तर्पणीयो मनष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत् त्वा ।
जीविष्यामो यावदीशिष्यसि त्वं वरस्तु मे वरणीयः स एव ।। २८ ।।
न वित्तेनेति । न हि वित्तेन लब्धेन कस्यचित् तृप्तिः दृष्टचरी । न जातुकामः कामानामुपभोगेन शाम्यति’ (वि.पु. ४-१०-२३) इति न्यायादिति भावः । किञ्च लप्स्यामहे वित्तमिति । त्वां वयं दृष्टवन्तश्चेत्, वित्तं प्राप्स्यामहे (?) त्चद्दर्शनम् अस्ति चेत्, वित्तलाभे को भार इति भावः । तर्हि चिरजीविका प्रार्थनीया इत्यत्राह – जीविष्यामो यावदिति – यावत्कालं याम्ये पदे त्वम् ईश्वरतया वर्तसे – व्यत्ययेन परस्मैपदम् – तावत्पर्यन्तम् अस्माकमपि जीवनं सिद्धमेव । न हि त्वदाज्ञातिलङ्घनेन अस्मज्जीवितान्तकरः कश्चिदस्ति । वरलाभालाभयोरपि तावदेव जीवनमिति भावः । वस्तु मे वरणीयः स एव । अतः ‘येयं प्रेते’ इति प्राक्प्रस्तुतो वर एव वरणीय इत्यर्थः ।। २८ ।।
अजीर्यताममृतानामुपेत्य जीर्यन् मर्त्यः क्व तदास्थः प्रजानन् ।
अभिध्यायन् वर्णरतिप्रमोदानतिदीर्घे जीविते को रमेत ।। २९ ।।
अजीर्यतामिति । जरामरणशून्यानां मुक्तानां स्वरूपं ज्ञात्वा । प्रजानन् – विवेकी जरामरणोपप्लुतोऽयं जनः तदास्थः – जरामरणाद्युपप्लुताप्सरः प्रभृतिविषय विषयकास्थावान्, क्व – कथं भवेत् ? इत्यर्थः । अभिध्यायन्निति । तत्रत्यान् वर्णरतिप्रमोदान् । वर्णाः आदित्यवर्णत्वादिरूपविशेषाः, रतिप्रमोदाः – ब्रह्मभोगादि जनितानन्दविशेषाः, तान् सर्वान् अभिध्यायन् – निपुणतया निरूपयन् । अनतिदीर्घे जीविते को रमेत – अत्यल्पे ऐहिके चिरजीविते कः प्रीतिमान् स्यात् इत्यर्थः ।। २९ ।।
यस्मिन्निदं विचिकित्सन्ति मृत्यों यत साम्पराये महति ब्रूहि नस्तत् ।
योऽयं वरो गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेता वृणीते ।।२३ ।।
।। इति कठोपनिषदि प्रथमाबल्ली ।।
यस्मिन् इति । महति – पारलौकिके यस्मिन् – मुक्तात्मस्वरूपे संशेरते, तदेव मे ब्रूहि । योऽयमिति गूढम् – आत्मतत्त्वम् अनुप्रविष्टः योऽयं वरः, तस्मात् अन्यं नचिकेता न वृणीते स्म इति श्रुतेर्वचनम् ।। ३० ।।।
।। इति प्रथमाबल्ली प्रकाशिका ।।