सुबालोपनिषत्-प्रथमः खण्डः

।। श्रीः ।।

शुक्लयजुर्वेदीया

सुबालोपनिषत्

शान्तिमन्त्रः

ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।।

।। ओम् शान्तिः शान्तिः शान्तिः ।।

शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्य स्वरूपस्य भावप्रतिपादक इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – ‘पूरी -आप्यायने’ (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति ‘वा दान्त-शान्त-पूर्ण- दस्त-स्पष्ट-छन्न-ज्ञप्ताः’ इति पाणिनिसूत्रेण (पा.सू.७-२-२७)पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । णिलोपः, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं चेति पूर्णशब्दसिद्धौ प्रक्रिया । क्तप्रत्ययश्च इह कर्तरि-कर्मणि वेति उभयथापि भाव्यम् । तत्र कर्तरि-ब्रह्म स्वरूपेण पूरयति-व्याप्नोति इत्यर्थः । कर्मणि तु – ब्रह्म कल्याणगुणैः सम्भृतमित्यर्थः। असंकुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र, सर्वदा, सर्वथा च पूर्णत्वं ब्रह्मणः प्रतिपाद्यते । (१) तत् यथा सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम सर्वव्याप्तस्य तत्तद्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् । तद्वा कथम्? न हि एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भवः । इति शङ्का निरस्यते सिद्धान्तिभिः विशिष्टाद्वैतिभिः व्यक्तिषु परिसमाप्तामपि व्यापिनी तार्किकाणां जाति निदर्शयद्भिरिति भाव्यम् । (२) सर्वदा – इति कालानवच्छेदेन व्याप्तिविवक्षा । (३) सर्वथा – इति व्याप्तिप्रकारविवक्षा च । तत्र स्वरूपतः गुणतश्चेति व्याप्तिप्रकारद्वैविध्यम् । तेन ‘दीपादुत्पन्नप्रदीप न्यायेन’ परस्वरूपवत् उत्तरेषां व्यूह-विभव-अन्तर्यामि-अर्चावताराणामपि गुणैः पूर्णतासिद्धिः । एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि । तथा हि – पूर्णमिदं पूर्णमदः इति च पाठभेदो दृश्यते । तत्र विप्रकृष्टवाचिना अदः शब्देन नित्यविभूतिवर्तिपरस्वरूपग्रहणम् । सन्निहितवाचिना इदं शब्देन च हृदयगुहावर्ति अन्तर्यामिरूपं विवक्षितम् । पूर्णशब्द: गुणपौष्कल्यवचनः । तथा च परवासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं च षाड्गुण्यपुष्कलमिति प्रथमवाक्यार्थः । अथ, पूर्णात् – पूर्वोक्तपरवासुदेवसकाशात् आविर्भूतं पूर्णम् – व्यूहस्वरूपम्, उदच्यते बहुप्रकारं भवति । सङ्कर्षण प्रद्युम्नानिरुद्धरूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः । तत्र व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतो गुणषट्कपूर्णमेवेति न न्यूनता भाव्या । इदं चोक्तम् – पाञ्चरात्रानुसारतः श्रीवत्सचिह्रगुरुभिः वरदराजस्तवे – ‘गुणैष्षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ । ततः तिस्रः तेषां त्रियुग! युगलैर्हि त्रिभिः अभुः’ (१६) इत्यादिना । पूर्णस्य पूर्णम् – इह षष्ठ्यन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं वदति । तत्सम्बन्धिपूर्णं रामकृष्णादिविभवावतारजातम् । तत् (द्वितीयान्तम्) आदाय -स्वहेतुत्वेन स्वीकृत्य – पूर्णं एव अवशिष्यते अर्चावताररूपमेव चरमतया वर्तते सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्णञ्च । इति मन्त्रस्य पदार्थविवरणम् ।

एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे एवं विध परिपूर्णब्रह्मस्वरूपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूषणस्य अरुम्बदाख्ये द्रविडभाषामयटिप्पणे समञ्जसमिदं विवरणं दृश्यम् । यद्यपि श्रीरङ्गरामानुजमुनीन्द्रै: बृहदारण्यके (७-१-१) अयं मन्त्रः प्रकरणात् प्रणवस्तुतिपरतया व्याख्यातः । तदेवं – पूर्णमदः पूर्णमिदम् इत्यनेन परोक्ष-प्रत्यक्षसर्वलोकानां वेदशब्दप्रभवत्वात् तद्व्याप्तत्वं प्रोच्य, (कारणेन कार्यस्य व्याप्तत्वात् – कारणीभूतवेदशब्दव्याप्तता लोकानाम् इति ।) एवं पूर्णात् – (व्याप्तात् लोकात्) पूर्णम् – पूर्णकर्तृ व्याहृतिरूप भूर्भुवादिशब्दजातम् उदच्यते – उत्कृष्टं भवतीति च व्याख्याय, पूर्णस्य पूर्णम् – व्याप्तलोकस्य पूरकं व्याहतिरूपशब्दजातम् आदाय – उपसंहृत्य, पूर्णम् – तस्यापि व्यापकं ओङ्काररूपं वस्तु अवशिष्यते – कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते – इति विवरणं कृतम् । अथ तैरेव अन्ते, इदञ्च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहृत्यादेः कार्यव्यापकत्वासम्भवतात् । उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं स्यादिति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्त्या अवास्तवमेवेदं प्रणवस्तुतिपरत्वमिति व्यञ्जनात्, युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मण एव परत्वादि पञ्चकपरतया व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरङ्गरामानुजीयं विवरणं वाक्यान्वयाधिकरणगत-श्रुतप्रकाशिकावचनविरुद्धमपि । तत्र हि व्यासार्यै: यादवप्रकाशपक्षनिराससन्दर्भे परमात्मपरतयैव मन्त्रोऽयं विवृतः । तत्रेयं तदीया सूक्तिः – परमात्मनः पूर्णत्वञ्च अणुमात्रेपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्यविशिष्टतया प्रतिपत्तियोग्यत्वम्’ इति ।।

।। इति शान्तिपाठविवरणम् ।।

।। श्रीः ।।

सुबालोपनिषत्

अथ प्रथमः खण्डः

[जगत्कारणत्वविषयकप्रश्नः]

तदाहुः – किं तदाऽऽसीत्

[उत्तरम्]

तस्मै स होवाच – नसन्नासन्नसदसदिति ।

सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम्

विशुद्धविज्ञानविशेषकारणं रजस्तमःकल्मषदोषनाशनम् ।

सदैव रामानुजपादपङ्कजं स्मरामि नौमि प्रणमामि चादरात् ।। ।।

सौबालोपनिषद्धृदि विनिहितमर्थं सुपुष्कलं गहनम् ।

अनुसन्दधीमहि वयमक्लिष्टमृजूपपन्नञ्च ।। ।।

तदाहुः इति । तत् – वक्ष्यमाणं वाक्यजातमध्येतारोऽधीयत इत्यर्थः । यद्वा शिष्याचार्यभावेन स्थिताः प्रष्टारः प्रतिवक्तारश्च ब्रह्मवादिन आहुरित्यर्थः । तत्र कस्यचित् शिष्यस्य प्रश्नवचनं दर्शयति – किं तदासीत् इति । तदा – सृष्टेः पूर्वं किं  जगत्कारणत्वेन अवस्थितमासीत् इत्यर्थः । तस्मै स होवाच । तस्मै – प्रष्टत्वेन प्रकृताय शिष्याय सः प्रष्टव्यतया बुद्धिस्थ आचार्य उवाच इत्यर्थः । ह इति पूजायाम् । अत्र पृष्ट रैक्वः, प्रतिवक्ता आचार्यो घोराङ्गिरा इति व्यक्ती भविष्यति । सङ्खपतः कारणविषयं प्रतिवचनं दर्शयति नसन्नासन्नसदसदिति । तत्र (अत्र?) सत् आदिपदानि नगशब्दवत् न शब्देन समस्तानि । न शब्दश्च तदन्यवाची । सत् शब्दः कार्यावस्थ चेतनपर: ‘इदं सर्वमसृजत्’ (तै.उ.आन.अनु.६) इत्युपक्रम्य, ‘सञ्च त्यञ्चाभवत् विज्ञानञ्चाविज्ञानञ्च’ (तै.उ.आन.अनु.६) इति कार्यावस्थचेतनविषये सच्छब्दस्य प्रयुक्तत्वात् । असत् शब्दश्च कार्यावस्थाचेतनपरः । कार्यावस्थचेतनविलक्षणं कार्यावस्था चेतनविलक्षणमुभयात्मक जगद्विलक्षणं परमे व्योम्नि स्थितं परं ब्रह्म कारणमासीदित्यर्थः । ब्रह्मणः परमव्योमसम्बन्धो हि वक्ष्यते, ‘परस्तान्नसन्नासन्नसदसत्’ इति । अस्य वाक्यस्य सदादिनिषेधमात्रपरत्वे, ‘तस्मात् तमः सञ्जायते’ इति तच्छब्देन कारणतया कस्यचित् परामर्शायोगात् । किञ्चिदपि नास्ति चेत्, तस्मात् इति परामृश्यते? सदसदनिर्वचनीयमज्ञानमिति चेत्, तदयुक्तम् । अस्यामेव उपनिषदि, ‘अपुनर्भावा(र्भव?) याण्डकोशं भिनत्ति’ इत्यारभ्य ‘मुत्युं भिनत्ति मृत्योर्वे परे देव एकीभवति । परस्तान्नसन्नासनसदसत्’ (खं-११) इति देशतः कालतः स्वभावतो वा मुक्तप्राप्यत्वकथनायोगात् । ‘मृत्युं दहति परस्तान्नसन्नासन्नसदसत्’ इति ज्ञानाग्निदाह्यात् मृत्योः परत्वाभिधानायोगाञ्च । अनिर्वाच्यं हि ज्ञाननिवर्त्यमभिमतम् । परस्तात् शब्दवैयर्थ्याञ्च । मृत्योरपि सान्ततया परत्वविशेषणं हि न घटते ‘मृत्युर्वे परे देव एकी भवति परस्तान्नसन्त्रासनसदसत्’ इति देशतः कालतः स्वभावतो वा सर्वे श्वारात् परत्वमनिर्वचनीयस्यात्यन्तानुपपन्नम् । जगत्कारणब्रह्मपरत्वे तु मुक्तप्राप्यत्वादिकं सर्वमुपपन्नम् । इति शब्दः प्रतिवचनसंक्षेपसमाप्तौ ।

[तमः आदिसृष्टिक्रमः]

तस्मात् तमः सञ्जायते ।

तमसो भूतादिर्भूतादेराकाशमाकाशाद्वायुः

वायोरग्निरग्नेरापोऽब्द्य: पृथिवी । तदण्डं समभवत् ।।

अथ विस्तरेण सृष्टिमाह – तस्मात् तमः सञ्जायते इति । तस्मात् सर्वविलक्षणत्वेन प्रतिपादितात् परस्मात् ब्रह्मणः अतिसूक्ष्मम् प्रधानतत्त्वं सञ्जायते सञ्जातम् । विभक्तमित्यर्थः ।

ननु पूर्वमविभक्तस्य हि पश्चाद्विभागः । ब्रह्मणः चिदचिद्विलक्षणतया तेन तत्पूर्वमपि अविभागाभावात् विभागोक्ति: न घटते । न । अस्यामेव उपनिषदि तमोमृत्यु शब्दवाच्यस्य सूक्ष्माचिद्वस्तुनः परब्रह्मशरीरत्वं वक्ष्यते । अतः तमश्शरीरके ब्रह्मणि कार्योपयुक्तांशस्य प्रलयदशायामविभागो युक्तः । वक्ष्यते ‘तम एकी भवति’ इति । अतः सर्गकाले विभागोऽप्युपपन्नः । विभागश्च न छित्वा भित्वा क्रियते । अपि तु केनचिदाकारेण व्यावृत्तिर्विभागः । परब्रह्मप्रकारभूतकार्योपयोग्यंशस्य कार्यानुरूप्यापत्तिर्विभागः । स च परमात्मप्रेरणाधीनः । परमात्मनोऽचिच्छरीरकत्वं तत्प्रेरकत्वञ्च भगवता मनुना स्पष्टमुक्तम्, ‘आसीदिदं तमोभूतम्’ (म.स्मृ.१-५) इत्यारभ्य, ‘प्रादुरासीत् तमोनुदः’ । (म.स्मृ.१-६) ‘सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः’ (म.स्मृ.१-८) इति ।

एतदुक्तं भवति – समस्तचिदचिद्विलक्षणस्वरूपात् तमश्शब्दवाच्याति-सूक्ष्मप्रधानशरीरकात् परब्रह्मणः कार्योत्पादनाय कश्चित् तमस्तत्त्वांश: तत्सङ्कल्पाद्विभक्तोऽभूदिति’ ।

तमसो भूतात् इति । भूतादिः आकाशादि भूतानामादिभूतः तामसाहङ्कारः । तस्माद्विभक्तात् तमसोऽक्षराव्यक्तमहदवस्थाद्वारेण भूतादिरभूदित्यर्थः । ‘भूतादिर्महति लीयते महानव्यक्ते लीयते अव्यक्तमक्षरे लीयते अक्षरं तमसि लीयते’ (खं-२) इति प्रळयक्रमस्य वक्ष्यमाणत्वात् तमसो भूतादिकारणत्वं तत्त्वान्तरव्यवधानेन इत्यवगम्यते । भूतादि शब्दः सात्त्विकाहङ्कारराजसाहङ्कारयोरपि प्रदर्शनार्थः ।

‘वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।

त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत’ ।। (वि.पु.१-२-३५,३६) इति भगवत्पराशरस्मरणात् ।

भूतादेराकाशम् इति । शब्दतन्मात्रावस्थापूर्वकम् आकाशमुत्पन्नमित्यर्थः । ‘आकाशमिन्द्रियेषु इन्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ लीयन्ते’ इति अस्यामेव उपनिषदि पञ्चभूतप्रळयदशायां तन्मात्रलयप्रतिपादनेन उत्पत्तावपि तन्मात्रोत्पत्तेरर्थ-सिद्धत्वात् ।

‘भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ।

ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम्’ ।। (वि.पु.१-२-३७,३८)

इति भगवत्पराशरवचनेन शब्दतन्मात्रादाकाशोत्पत्तेः स्पष्टतरमवगतत्वाञ्च । आकाशाद्वायुः इति । अत्रापि स्पर्शतन्मात्रपूर्वकं वायुरुत्पन्न इत्यर्थः ।

‘आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ।

बलवानभवद्वायुस्तस्य स्पर्शो गुणो मतः ।। (वि.पु.१-२-३०)

इति पराशरोक्ते : । वायोरग्निः अग्नेरापः अब्द्य: पृथिवीति । अत्रापि रूपतन्मात्रादग्नेरुत्पत्तिः, रसतन्मात्रादपामुत्पत्तिः, गन्धतन्मात्रात् पृथिव्युत्पत्तिरपि सिद्धा ।

ततो वायुर्विकुर्वाणो रूपमात्रं ससर्ज ह । (वि.पु.१-२-४०)

ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ।। (वि.पु.१-२-४१)

ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । (वि.पु.१-२-४२)

विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे’ इति ।। (वि.पु.१-२-४३)

पुराणवचनोपबृंहितत्वात् । वायोरग्निः इत्यत्र अग्नि शब्दः तेजोमात्रपरः । ‘आपस्तेजसि लीयन्ते’ इति अत्रैव प्रलयवाक्ये तेजःशब्दश्रवणात्; ‘तत् तेजोऽसृजत’ (छां.उ.६-२-३) इति श्रुत्यन्तरैकार्थ्यात्; ‘ज्योतिरुत्पद्यते वायोः’ (वि.पु.१-२-१४) इति स्मृतिवचनाञ्च ।

तदण्डं समभवत् इति । तत् शब्दः पृथिव्यन्ततत्त्वजातपरः । महदादिपृथिव्यन्तं तत्त्वजातमण्डात्मना परिणतम् अभूदित्यर्थः । ‘महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते’ (वि.पु.१-२-५३) इति स्मरणात् ।

ननु ‘तन्मात्राणि भूतादौ लीयन्ते’ इति तन्मात्राणां युगपत् प्रलयश्रवणात् उत्पत्तिरपि युगपदित्यवगम्यते । युगपत् उत्पन्नेभ्यः तन्मात्रेभ्यः परस्परानपेक्षेभ्यः आकाशाद्युत्पत्तिः । अत एव आकाशादीनां न परस्परकारणत्वम् । तथा सति, ‘अष्टौ प्रकृतयः षोडश विकाराः’ (गर्भो-३) इति विकाराणां षोडशसंख्याकत्वं घटते । अन्यथा आकाशादीनां चतुर्णां प्रकृतित्वेन (प्रकृतीनां?) विकाराणाञ्च द्वादशत्वं स्यात् । तन्मात्राणां युगपत् उत्पत्यङ्गीकारे लयश्रुत्यनुरोधश्च भवति । आकाशाद्वायुः इत्यादि वाक्येषु आकाशादिशब्दाः पञ्चम्यन्ताः तन्मात्रावस्थाकाशादिभूतपरा इति –

अत्रोच्यते न तावत् तन्मात्राणां युगपदुत्पत्तिः श्रुता । युगपत्प्रलयश्रवणात् कल्पनीयेति चेन्न – प्रळयस्यापि यौगपद्याश्रवणात् । लीयन्त इति हि श्रूयते; न तु ‘युगपल्लीयन्ते’ इति । अतः क्रमयोगपद्यसाधारणी इयं श्रुतिः । यथा, ‘यतो वा इमानि भूतानि जायन्ते – यत्प्रयन्त्यभिसंविशन्ति’ (तै.उ.भृ.अनु.१) ‘यस्मिन्निदं सञ्च वि चैति सर्वम्’ (श्वे.उ.४-११) इत्यादि । तत्रापि यौगपद्यविवक्षा अस्तीति चेत्, महदहङ्कारादि तत्त्वानां देवमनुष्यादीनाञ्च प्रमाणान्तरावगतसर्गप्रळयक्रमो बाध्येत । अतो युगपत्प्रळय श्रवणात् युगपदुत्पत्तिकल्पनं तन्मात्राणामयुक्तम् । न केवलं कल्पकाभावात् युगपदुत्पत्तिकल्पनमयुक्तम्; बाधकसद्भावाञ्चायुक्तम् । न हि श्रुतिक्रमविरोधेन योगपद्यकल्पनमुपपद्यते ।

तथा हि – ‘भूतादेराकाशमाकाशाद्वायुः वायोरग्निः’ इत्यादि वाक्येषु पञ्चम्यन्तानाम् आकाशादिशब्दानां प्रसिद्धाकाशादिमात्रपरत्वप्रहाणेन तन्मात्राकाशादिपरत्वमस्वरसम् । स्वारस्यबाधाभावेऽपि क्लिष्टार्थकल्पनमयुक्तम् । प्रथमान्तानां पञ्चम्यन्तानाञ्च आकाशादिशब्दानामर्थवैरूप्यञ्च स्यात् । प्रथमान्तानामपि तन्मात्रपरत्वात् नार्थवैरूप्यमिति चेत् – तर्हि भूतादेः शब्दतन्मात्रमुत्पन्नम्, शब्दतन्मात्रात् स्पर्शतन्मात्रमुत्पन्नम् इत्ययमर्थं उक्तः स्यात् । तदानीम् उत्तरोत्तरतन्मात्राणां पूर्वपूर्वतन्मात्रसृष्टत्वात् तेषां युगपदुत्पत्तिः बाध्येत । तन्मात्रेभ्यः प्रसिद्धाकाशाद्युत्पत्तिः निष्प्रमाणिका च स्यात् । ‘एतस्माज्जायते प्राणः ……खं वायुयर्कोतिरापः’ (मुं.उ.२-१-३) इत्यादौ कस्मिंश्चिदपि वेदवाक्ये तन्मात्रेभ्यः खाद्युत्पत्तिश्रवणाभावात् । प्रथमान्तानां शब्दानां तन्मात्रवाचित्वमपि अयुक्तम् । ‘अब्द्य: पृथिवी’ इत्यनेन भग्नत्वात् । न हि पृथिवीशब्दो गन्धतन्मात्रपरः; अनन्तरवाक्यविरोधात् । ‘तदण्डं समभवत्’ इति अस्याम् उपनिषदि, अन्यत्र ‘पृथिव्या ओषधयः’ (ते.उ.आन.अनु.१) इत्येवानन्तरं श्रूयते । न हि गन्धतन्मात्रात् अण्डोत्पत्तिरोषधीनामुत्पत्तिश्च भवति । किञ्च युगपदुत्पन्नेभ्यः तन्मात्रेभ्यः पञ्चभूतोत्पत्यभ्युपगमे, ‘पृथिव्यप्सु प्रलीयते’ इति प्रळयश्रुतिश्च विरुद्ध्यते । पृथिव्याः तत्कारणस्य गन्धतन्मात्रस्य च सलिलकारणकत्वा-भावात् । एवम् ‘आपस्तेजसि लीयन्ते’ इत्यादिभिश्च विरोधः । उत्तरोत्तरभूतानां पूर्वपूर्वभूतप्रसूतत्वाभावात् । अतः तन्मात्राणां युगपदुत्पत्तिः कल्पकाभावात् सर्गप्रळयपरानेकवाक्यविरोधाच्चानुपपन्ना । छान्दोग्ये च – ‘तत् तेजोऽसृजत – तत् तेज ऐक्षत – तदपोसृजत – ता अन्नमसृजन्त’ (छां.उ.६-२-३)इति तेजोबन्नवाचिशब्दानां तन्मात्रपरत्वे स्वारस्यभङ्गः, तस्मिन् सोढेऽपि युगपदुत्पत्तिविरोधश्चावर्जनीयः।

आकाशाद्वायुः’ इत्यादि वाक्यानां केचिदेवं निर्वाहमिच्छन्ति- ‘भूतादेराकाशाद्वायुः’, ‘आत्मन आकाशः संभूतः, आकाशाद्वायुः’ (तै.उ.आन.अनु.१) इत्यादिवाक्येषु आकाशादयः शब्दा अविशेषेण स्थूलसूक्ष्मावस्थतत्तद्भूतवाचिनः । अतोऽर्थ वैरूप्यादिदोषा न स्युः । तत्रार्थसामर्थ्यात् सूक्ष्मांशस्यैव स्थूलभूतमनन्तरं प्रति कारणत्वं सिद्ध्येत्’ – इति । इदानीमपि तन्मात्राणां युगपदुत्पत्तिः दूरतः परित्यक्ता । किञ्च – ‘आकाशाद्वायुः’ इत्यादीनि वाक्यानि मिथुनात् मिथुनोत्पत्तिवचनानि । पञ्चम्यन्तानां प्रथमान्तानाञ्च पदानामुभयवाचित्वात् । एवं सति मातापित्रोरिव पुत्रदुहित्रोरिव च स्थूलसूक्ष्मभूतयोः न परस्परकार्यकारणभावः सिद्ध्येत्’ । पुत्रदुहितरौ प्रति पित्रोरन्यतरस्येव स्थूलाकाशस्यापि स्पर्शमात्रं वायुमपि प्रति कारणत्वं स्यात् । सूक्ष्मस्येव स्थूलाकाशस्यापि प्रकृत्त्युत्पन्नस्य स्थूलं सूक्ष्मञ्च वायुं प्रति हेतुतयाऽन्वायस्य अविशेषेण पञ्चमीप्रतिपन्नत्वात् स्थूलाकाशस्य स्पर्शमात्रस्थूलवायुजननायोग्यत्वे प्रमाणान्तराभावात् । शास्त्रैकसमधिगम्यो ह्ययमर्थो यथाशब्द स्वीकार्यः । अतः अर्थसामर्थ्यात् अभिमतव्यवस्था दुर्लभा । तथा, ‘वायुराकाशे लीयते’ इत्युक्ते स्पर्शतन्मात्रवाय्वोः स्थूलाकाशेऽपि लयः प्रतिपादितः स्यात् । अतः सर्वं परमतं व्याकुलं स्यात् ।

तस्मात् प्रमाणान्तरागोचरे जगत्सर्गप्रळयादौ शब्दानां स्वरससिद्ध एवार्थ: स्वीकार्यः । स्वप्रकरणस्थवाक्यानुगुण्यात् उपबृंहणवचनानुगुण्याञ्च प्रसिद्धानामेव आकाशादीनां तन्मात्रव्यवहिता सृष्टिरित्यभ्युपगन्तव्यम् । ‘तमसो भूतादिः, भूतादेराकाशम्’ इत्यादिषु व्यवधानेऽपि कार्यकारणभावनिर्देशदर्शनात् ।

तर्हि ‘अष्टौ प्रकृतयः षोडश विकाराः’ इति श्रुतेः का गतिः? इति चेत्- वेदोपबृंहणनिपुणतरपरमर्षिसंदर्शितैव गतिः । नास्माभिः तद्विरुद्धनिर्वहणेऽभिनिवेष्टव्यम् । भगवता वेदव्यासेन हि मोक्षधर्मे याज्ञवल्क्यजनकसंवादे षोडशविकाराः प्रत्यक्षश्रुत्यन्तराविरोधेन दर्शिता: –

‘अष्टौ प्रकृतयः प्रोक्ताः विकाराश्चैव षोडश ।

तथा व्यक्तानि सप्तैव प्राहुरध्यात्मचिन्तकाः ।।

अव्यक्तञ्च महांश्चैव तथाऽहङ्कार एव च ।

पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।।

एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु ।

श्रोत्रं त्वक् चैव चक्षुश्च जिह्वा घ्राणञ्च पञ्चमम् ।।

वाक् च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ।

शब्दस्पर्शाै च रूपञ्च रसो गन्धस्तथैव च ।।

एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु ।

दशेन्द्रियाण्यथैतानि सविशेषाणि मैथिल ।।

मनःषोडशमित्याहुः अध्यात्मगतिचिन्तकाः’ ।। इति ।

(महा.भा.शां.प.२९८-१०.११.१२.१३.१४.१५)

अत्र ज्ञानप्रवृत्तिकारणानीन्द्रियाणि तद्विषयाः शब्दादयश्च तत्त्वान्तरानारम्भकत्वात् षोडश विकाराः इति प्रतिपादितम् । ‘एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु’ इति वैयधिकरण्यनिर्देशात् विशेषशब्दः शब्दस्पर्शादिगुणमात्रपरः । ‘शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः’ (वि.पु.१-२-५०) इत्यत्र तदभावात् विशेषशब्दो गुणिपरः । ‘पटस्य शुक्लः, पटः शुक्लः’ इत्यादिषु शुक्लादिशब्दानामिव विशेषशब्दस्यापि गुणपरत्वं गुणिपरत्वञ्च युक्तमेवेति प्रयोगवशादवगम्यते ।

नन्वेवं सति चतुर्विंशत्याधिक्यं स्यादिति चेन । द्रव्यरूपाणां कार्यकारणाचित्तत्त्वानाम् अव्यक्तादीनां चतुर्विंशतिसंख्यानतिरेकात् । ‘अष्टौ प्रकृतयः षोडश विकाराः’ इत्यादि वाक्यस्य तु द्रव्यैक्यपरत्वनियमो नास्तीति उपबृंहणवशादवगम्यते । अर्थान्तराणाम् अनुपपन्नत्वाञ्च । आकाशादीनामपि प्रकृतित्वे, ‘अष्टौ प्रकृतयः’ इति श्रुतं प्रकृतीनाम् अष्टसंख्याकत्वं न घटत इति चेन्न-तन्मात्राणां भूतेष्वन्तर्भावाभिप्रायेण अष्टसंख्यानिर्देशो-पपत्तेः ।

तथा वसिष्ठ-कराळजनकसंवादेऽपि भूततन्मात्रव्यतिरिक्तानां शब्दस्पर्शादीनां विशेषशब्दोक्तानां षोडशविकारान्तर्भावः प्रतिपाद्यते

‘अव्यक्तमाहुः प्रकृतिं परां प्रकृतिवादिनः ।

तस्मान्महत् समुत्पन्नं द्वितीयं राजसत्तम ।।

अहङ्कारस्तु महतः तृतीय इति नः श्रुतम् ।

पञ्च भूतान्यहङ्कारादाहुः सांख्यनिदर्शिनः ।।

एताः प्रकृतयस्त्वष्टौ विकाराश्चापि षोडश ।

पञ्चैव च विशेषाश्च पञ्च पञ्चेन्द्रियाणि तु’ ।। इति ।

(महाभा.शां.प.२९४-२७,२८,२९)

अत्र पञ्चानां भूतानां प्रकृतिषु परिगणनात् केवलविकारत्वमपास्तम् । विशेषशब्दस्य तन्मात्रपरत्वं तन्मात्राणां केवलविकारत्वञ्च न कस्यापि इष्टम् । अतो विशेषशब्दः शब्दस्पर्शादिगुणमात्रपर इति परिशेषात् सामर्थ्याञ्च सिद्धम् । ‘पञ्च भूतानीति भूतशब्दः तन्मात्रपरः; विशेषशब्द: आकाशादि परः’ इति चेन्न । अपवादाभावेऽपि भूतशब्दस्य क्लिष्टार्थकल्पनाऽयोगात् । विशेषशब्दो गुणेष्वक्लिष्टः। न केवलमुपबृंहणवचनस्थ भूतशब्दस्यैव, श्रुतिवाक्यस्थाकाशादिशब्दानामपि तन्मात्रपरत्वे स्वारस्याभावः स्फुटतरः ।

एवम् उपनिषद्वाक्यानां परमर्षिवचसाञ्चामुख्यार्थाश्रवणमर्वाचीनसांख्यदुर्निबन्धनम् स्वरसवचनान्तरयुक्त्यन्तराभावात् । समीचीनं सांख्यमतं तु श्रुतिस्वारस्यानुगुणमिति अत्रैव दर्शितम् , ‘आहुः सांख्यनिदर्शनम्’—इति

तथा यमस्मृतौ विषयेन्द्रियाण्येव षोडशविकारा इत्युक्तम् –

‘पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः ।

प्रकृतिज्ञो विकारज्ञः स दुःखात् परिमुच्यते ।।

मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः ।

एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ।।

श्रोत्राक्षिरसनाघ्राणम् त्वक् च सङ्कल्प एव च ।

शब्दरूपरसस्पर्शगन्धवाक्पाणिपायवः ।।

उपस्थपादाविति च विकाराः षोडश स्मृताः ।

चतुर्विंशकमित्येतत् ज्ञानमाहुर्मनीषिणः ।।

पञ्चविंशकमव्यक्तं षड्विंशः पुरुषोत्तमः ।

एतत् ज्ञात्वा तु मुच्यन्ते यतयः शान्तबुद्धयः ।।

अशब्दमरसस्पर्श रूपगन्धविवर्जितम् ।

निर्दुःखं सुसुखं शुद्धं तद्विष्णोः परमं पदम् ।।

अजं निरञ्जनं शान्तमव्यक्तं ज्ञानमक्षरम् ।

अनादिनिधनं ब्रह्म तद्विष्णोः परमं पदम्’ ।। इति ।

अत्र प्रकृतिषु परिगणनात् प्रथमोपादानाञ्च प्रधानतत्त्वमव्यक्ततया मन इत्युक्तम् । सङ्कल्पशब्देन तत्कारणं मनो विवक्षितम् । ज्ञानम् ज्ञातव्यम् । प्रत्यगात्मनः पञ्चविंशकत्वेन उक्तत्वात् परिशेषाञ्च चक्षुराद्यगम्यमात्मतत्त्वम् अव्यक्त शब्देनोक्तम् । ‘विकाराः षोडशस्मृताः’ इति षोडशविकारशब्दोपादानात् ‘एताः प्रकृतयस्त्वष्टौ’ इत्युक्तत्वाञ्च अस्य स्मृतिवचनस्य, ‘अष्टौ प्रकृतयः षोडश विकाराः’ इति श्रुतिमूलत्वमवगम्यते । अतः तस्याः श्रुतेः अयमर्थ इति यमेन निर्णीयत इति स्फुटम् ।

ईदृशस्मृत्युपबृंहितया अनया श्रुत्या विषयेन्द्रियाण्येव षोडश विकारत्वेन विवक्षितानीति भगवतो भाष्यकारस्य हृदयमिति भगवद्गीताभाष्ये स्पष्टमवगम्यते .

‘महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च’ इति क्षेत्रारम्भकद्रव्याणि । पृथिव्यप्तेजो-वाय्वाकाशानि महाभूतानि । अहङ्कारो भूतादिः । बुद्धिः महान् । अव्यक्तम् प्रकृतिः । ‘इन्द्रियाणि दशैकञ्च पञ्च चेन्द्रियगोचराः इति क्षेत्राश्रितानि तत्त्वानि । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थाः पञ्च कर्मेन्द्रियाणि दश; एकमिति मनः । इन्द्रियगोचराश्च पञ्च शब्दस्पर्शरूपरसगन्धाः’ (गी.भा.१३-५) इति । अत्र क्षेत्रारम्भक-द्रव्याणीत्यारम्भकद्रव्यपदेन, ‘अष्टौ प्रकृतयः’ इति प्रकृतिशब्दो व्याख्यातः । क्षेत्राश्रितानि तत्त्वानि’ इति विषयेन्द्रियाणां षोडशानां साधारणाकार उक्तः ।

एवम्, ‘अष्टौ प्रकृतयः षोडश विकाराः’ इति वाक्येऽपि विषयेन्द्रियाण्येव श्रुत्यन्तराविरोधेन षोडशविकारत्वेन विवक्षितानीति व्यासादीनां परमर्षीणां भाष्यकारस्य च (हृदयं) स्फुटतरमवगम्यते । अतः आकाशाद्वायुरित्यादीनां यथोक्त एवार्थः ।।

[अण्डद्वैधरूपेण ब्रह्मसृष्टिः]

तत् संवत्सरमात्रमुषित्वा द्विधाऽकरोत्, अधस्ताद्भूमिमुपरिष्टादाकाशम् ।

मध्ये पुरुषो दिव्यः सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् सहस्रबाहुरिति ।

सोऽग्रे भूतानां मृत्युमसृजत् त्र्यक्षं त्रिशिरस्कं त्रिपादं खण्डपरशुम् । तस्य

ब्रह्मा बिभीते । सो ब्रह्माणमेव विवेश । स मानसान् सप्त पुत्रानसृजत् । ते ह

विराजः सप्त मानसानसृजन् । ते ह प्रजापतयः ।

एवं ब्रह्मण्ड’सृष्टिरुक्ता । अथ हिरण्यगर्भोत्पत्तिमाह – तत् संवत्सरमात्रमुषित्वा’ द्विधाऽकरोत् इति । वक्ष्यमाणः पुरुषः तस्मिन्नण्डे संवत्सरमात्रमुषित्वा परिणतं तदण्डं द्विधाऽकरोत् इत्यर्थः । आकाशम् इति । अकरोत् इत्यन्वयः । आकाशादि शब्दः स्वर्गादि परः । मध्ये अन्तरिक्षे पुरुषः । अभूदिति शेषः । पुरुषशब्दस्य मनुष्यपरत्वव्यावृत्त्यर्थं दिव्यः पुरुषः इत्युक्तम् । तस्याण्डोत्पन्नस्य दिव्यपुरुषस्य पुरुषसूक्त प्रतिपाद्य-परमपुरुषात्मकत्वमाह – सहस्रशीर्षा पुरुषः इति । अन्यथा द्वितीयपुरुषशब्दस्य पौनरुक्त्यप्रसङ्गात् । सर्वज्ञत्वात् सर्वशक्तित्वाश्च सर्वत्र शिरश्चक्षुः पादकार्यबाहुकार्यकरणसमर्थो यो महापुरुषः श्रुतः, तदात्मकोऽयमण्डोत्पन्नः पुरुष इत्यर्थः ।

इदञ्च सामानाधिकरण्यं परमपुरुषान्तर्यामिकत्वनिबन्धनम्। न तु स्वरूपैक्य-कृतम् । तस्य ब्रह्मा बिभीते इति तस्य मृत्युभयाभिधानात्, ‘भीषाऽस्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चमः’ (तै.आन.अनु.८) ‘स यश्चायं पुरुषे । यश्चासावादित्ये । स एकः’ (तै.उ.आन.अनु.८) इति पुण्डरीकाक्षस्य परमपुरुषस्य, मृत्योरपि भयनिमित्तत्वाञ्च मृत्योर्भीतस्य मृत्युभयजनकस्य च स्वरूपैक्यानुपपत्तेः । शाखान्तरे हिरण्यगर्भस्य, महापुरुषस्य महापुरुषत्वानाभिज्ञत्वाम्नानाञ्च न स्वरूपैक्यम् । ‘स प्रजापतिरेकः पुष्करपणे समभवत्’ इत्यारभ्य ‘मम चै त्वङ्गांसा समभूत्’ इति प्रजापतिनोक्ते, ‘नेत्यत्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत् पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः’ इति चतुर्मुखस्य परमपुरुषावेदनं हि प्रतिपादितम् । अत एव हि उक्तं ब्रह्मणैव,

‘यन्न देवा न मुनयो न चाहं न च शङ्करः ।

जानन्ति परमेशस्य तद्विष्णोः परमं पदम्’ ।। (वि.पु.१-९-५५)

इति । तथा तेनैव ब्रह्मरुद्रसंवादेऽप्युक्तम् –

‘तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः ।

सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित्’ ।।

इति । अतः तदन्तर्यामित्वनिबन्धनं सामानाधिकरण्यम् ।

इतिशब्दो भगवदेककर्तृकसर्गसमाप्तौ ।

अथ हिरण्यगर्भकर्तृकसर्गमाह – सोऽग्रे भूतानां मृत्युमसृजत् इति । मृत्युं विशिनष्टि त्र्यक्षम् इत्यादिपदैः । तस्य ब्रह्मा बिभीते । तस्य इति सम्बन्धमात्रे षष्ठी । तस्मात् मृत्योर्भीतः । स्रष्टुरपि भयावहो मृत्युः; किमुत अन्येषामित्यर्थः । सो ब्रह्माणमेव विवेश इति । सो ब्रह्माणम् इति सन्धिश्छान्दसः । ब्रह्मशरीरे तिरोहित इत्यर्थः । स मानसान् इति । सः ब्रह्मा सप्त मानसान् असृजत् मनसा असृजत् इत्यर्थः । ते ह विराजः विविधदीप्तियोगात् विराट्छब्दवाच्यभूताः सप्त मानसपुत्राः स्वयमपि मानसानसृजन् । कथं मनसा सृष्टिरित्याह – ते ह प्रजापतयः इति । प्रजापतित्त्वात् मनसा स्रष्टुं शक्ता हि इत्यर्थः ।

ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्यः कृतः ।

ऊरू तदस्य यद् वैश्यः पभ्ध्यां शूद्रो अजायत ।

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

श्रोत्राद्वायुश्च प्राणश्च हृदयात् सर्वमिदं जायते ।।

।। इति प्रथमः खण्डः ।।

पुनश्च हिरण्यगर्भात् प्राणिसृष्टिमाह – ब्राह्मणोऽस्य मुखमासीत् इति । ब्राह्मणः मुखमासीदिति औपचारिकं सामानाधिकरण्यम् । मुखजात इत्यर्थः । पभ्ध्यां शूद्र इत्यनन्त-रोक्तेः । बाहू राजन्यः कृतः । बाहुभ्यां कृतः तज्जनित इत्यर्थः । ऊरू तदस्य यद्वैश्यः । (यदिति) नपुंंसकं वस्तुत्वाभिप्रायम् । वैश्य इति यत् तदस्य ब्रह्मणः ऊरू ऊरुभ्यां जात-मित्यर्थः । प्राणः पञ्चवृत्तिप्राणः । हृदयात् सङ्कल्पादित्यर्थः । सर्वमिदम् अनुक्तं सर्वमिदम् ।।

।। इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्धवेदव्यासापरनामधेयस्य

श्रीसुदर्शनार्यस्य कृतौ सुबालोपनिषद्विवरणे प्रथमः खण्डः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.