सुबालोपनिषत्-षष्ठः खण्डः

सुबालोपनिषत्

अथ षष्ठः खण्डः

[भगवत: नारायणस्य उपास्यता प्राप्यता च]

नैवेह किञ्चनाग्र आसीदमूलमनाधारम् ।

इमाः प्रजाः प्रजायन्ते दिव्यो देव एको नारायणः ।।

चक्षुश्च द्रष्टव्यञ्च नारायणः । श्रोत्रञ्च श्रोतव्यं च नारायणो घ्राणं च घ्रातव्यं च नारायणो जिह्वा च रसयितव्यञ्च नारायणः । त्वक् च स्पर्शयितव्यञ्च नारायणो मनश्च मन्तव्यञ्च नारायणो बुद्धिश्च बोद्धव्यञ्च नारायणोऽहङ्कारश्चाहकर्तव्यञ्च नारायणश्चित्तञ्च चेतयितव्यञ्च नारायणो वाक् च वक्तव्यञ्च नारायणो हस्तौ चादातव्यञ्च नारायणः । पादौ च गन्तव्यञ्च नारायणः । पायुश्च विसर्जयितव्यञ्च नारायणः । उपस्थश्चाऽऽनन्दयितव्यं च नारायणः ।

धाता विधाता कर्ता विकर्ता दिव्यो देव एको नारायणः ।

आदित्या रुद्रा मरुतो वसनोऽश्विनौ ऋचो यजूंषि सामानि मन्त्रोऽग्निराज्याहुतिर्नारायणः ।

उद्भवः सम्भवो दिव्यो देव एको नारायणः ।

माता पिता भ्राता निवासः शरणं सुहृद्गतिर्नारायणः ।।

विराजासुदर्शनाजितासोम्यामोघाकुमाराऽमृतासत्यामध्यमानासीरा-शिशुरासूरासूर्यास्वरा (शिशुसूर्याऽसुराभास्वती?) विज्ञेयानि नाडीनामानि दिव्यानि ।

गर्जति गायति वाति वर्षति वरुणोऽर्यमा चन्द्रमाः कला कलिर्धाता ब्रह्मा प्रजापतिर्मघवा दिवसाश्चार्धदिवसाश्च कला: कल्पाश्चोर्ध्वञ्च दिशश्च सर्वं नारायणः ।।

पुरुष एवेदं सर्वं यद्भूतं यश्च भव्यम् ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ।।

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।।

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत् परमं पदम् ।

तदेतनिर्वाणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।

।। इति षष्ठः खण्डः ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.