सुबालोपनिषत्-सप्तमः खण्डः

सुबालोपनिषत्

अथ सप्तमः खण्डः

[भगवतः सर्वशरीरान्तर्यामित्वम् |

अन्तश्शरीरे निहितो गुहायामज एको नित्यः यस्य पृथिवी शरीरम्, य: पृथिवीमन्तरे सञ्चरन्, यं पृथिवी न वेद; यस्यापः शरीरं योऽपोऽन्तरे सञ्चरन् यमापो न विदुः। यस्य तेजः शरीरं यस्तेजोऽन्तरे सञ्चरन् यं तेजो न वेद; यस्य वायुः शरीरं यो वायुमन्तरे सञ्चरन् यं वायुर्न वेदः यस्याकाश: शरीरं य आकाशमन्तरे सञ्चरन् यमाकाशो न वेद; यस्य मनः शरीरं यो मनोऽन्तरे सञ्चरन् यं मनो न वेद; यस्य बुद्धिः यो बुद्धिमन्तरे सञ्चरन् यं बुद्धिर्न वेद; यस्याहङ्कारः शरीरं योऽहकारमन्तरे सञ्चरन् यमहङ्कारो न वेद; यस्य चित्तं शरीरं यश्चित्तमन्तरे सञ्चरन् यं चित्तं न वेद; यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे सञ्चरन् यमव्यक्तं न वेद; यस्याक्षरं शरीर योऽक्षरमन्तरे सञ्चरन् यमक्षरं न वेद; यस्य मृत्युः शरीरं यो मृत्युमन्तरे सञ्चरन् यं मृत्युर्न वेद; एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः एतां विद्यामपान्तरतमाय ददौ । अपान्तरतमो ब्रह्मणे ददौ । ब्रह्मा घोराङ्गिरसे ददौ । घोराङ्गिरा रेक्वाय ददौ । रैक्वो रामाय ददौ । रामः सर्वेभ्यो ददौ । निर्वणानुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।

।। इति सप्तमः खण्डः ।।

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.