समानाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ समानाधिकरणम् ॥ ६ ॥ एकस्यामेव वाजसनेयाखायाम् अग्निरहस्ये *स आत्मानमुपासीत मनोमयम् प्राणशरीरम् भारूपम् सत्यसङ्कल्पमाकाशात्मानमि*(वाज- सनेयके अग्निरहस्ये)ति श्रुतशाण्डिल्यविद्यात: *मनोमयोऽयम् पुरुषो भास्सत्यम् तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा, स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिस्सर्वमिदम् प्रशास्ति यदिदम् किञ्चे*(बृह.७-६-२)ति श्रुता शाण्डिल्यविद्या भिद्यते । सत्यसङ्कल्पत्वरूपवशित्वरूपगुणभेदादिति प्राप्त उच्यते – समान एवम् चाभेदात् […]
कार्याख्यानाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ कार्याख्यानाधिकरणम् ॥ ५ ॥ *लम्भुको ह वासो भवती*(छान्.५-२-२)त्यर्थवादोपबृम्हितात् *किम् मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चो-परिष्टाच्च अद्भिः परिदधती*(छान्.५-२-२)ति छान्दोग्ये श्रवणात् अपाम् वासस्त्वानुसन्धानम् प्रतीयते । बृहदारण्यके काण्वशाखायाम् – *आपो वास इति तद्विद्वाम्सः श्रोत्रिया अशिष्यंत आचामन्ति अशित्वा चाचा-मन्ति एतमेव तदनमनग्नम् कुर्वन्तो मन्यन्ते तस्मादेवम्विदशिष्य-न्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नम् कुरुत*(बृह.८-१-१४) […]
आनन्दाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ आनन्दाद्यधिकरणम् ॥ ४ ॥ यथा विद्यान्तरे श्रुतानाम् सम्यद्वामत्वादीनाम् गुणानाम् न विद्यान्तरे उपसम्हारः तथा सत्यत्वज्ञानत्वादीनामपि विद्याविशेषप्रकरणश्रुतानाम् न विद्यान्तरे उपसम्हारः प्रापकाभावादिति पूर्वपक्षे प्राप्ते उच्यते – आनन्दादयः प्रधानस्य ॥ ३-३-११ ॥ प्रधानस्य गुणिनो ब्रह्मणः सर्वेषु उपासनेष्वभेदाद्गुण्यपृथग्भूतानाम् आनन्दादीनाम् गुणानामपि सर्वेषु उपासनेषु उपसम्हारः ॥ नन्वेवम् प्रियशिरस्त्वादीनामपि सर्वेषूपासनेषूपसम्हारः प्राप्नोति । […]
सर्वाभेदाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सर्वाभेदाधिकरणम् ॥ ३ ॥ छान्दोग्यवाजसनेयकयोः कौषीतकिनामुपनिषदि च दशमेऽध्याये *यो ह वै ज्येष्ठम् च श्रेष्ठम् च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवती*(छान्.५-१-१) त्यारभ्य प्राणविद्या पठ्यते । तत्र सर्वगतस्य प्राणस्य ज्यैष्ठ्यश्रैठ्य-गुणकत्वम् वाक्चक्षुश्श्रोत्रमनसाम् वसुमत्तासम्पादकत्वसमविषमभूतलादि-प्रदर्शकत्वसम्पद्धेतु भूतवेदशास्त्रतदर्थश्रवणादिसम्पादकत्वस्रक्चन्दनादि-विषयज्ञानरूपभोगायतनत्वलक्षणवसिष्ठत्व प्रतिष्ठात्वसम्पत्त्वायतनत्व-रूपगुणवत्त्वम् वागादीनाम् च श्रैष्ठ्यविषयपरस्परविवादेन ब्रह्मसभो-पसर्पणम् *यस्मिन्व उत्क्रान्ते शरीरम् पापिष्ठतरम् दृश्यते स वश्श्रेष्ठ* […]
अन्यथात्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अन्यथात्वाधिकरणम् ॥२॥ वाजिनाम् तावत् *द्वया ह वै प्राजापत्या देवाश्चासुराश्चे*(बृह.३-१-१) त्यारम्भ *ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामे*(बृह.३-१-१) ति उद्गीथेनासुरविध्वम्सनम् प्रतिज्ञायोद्गीथे वागादिमनःपर्यन्तदृष्टा-वसुरैरभिभवमुक्त्वा *अथ हेममासन्यम् प्राणमूचुरि*(बृह.३-३-१-७) त्यादिनोद्गीथे प्राणदृष्ट्याऽसुरपरिभवमुक्त्वा *भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति य एवम् वेद*(बृह.३-३-१-७) इति शत्रुपराजय-फलायोद्गीथे प्राणदृष्टिर्विहिता । एवम् छन्दोगानामपि *देवासुरा ह वै यत्र सम्येतिर*(छान्.१-२-१) इत्यारभ्य […]
सर्ववेदान्तप्रत्ययाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सर्ववेदान्तप्रत्ययाधिकरणम् ॥१॥ नानाशाखास्वाम्नातानि वैश्वानराक्षरोपासनादीनि अभ्यासप्रकर-णान्तराभ्याम् भिद्यन्ते । इतरथा अविशेषपुनश्श्रवणलक्षणाभ्यासस्य प्रकरणान्तरस्य च वैयर्थ्यप्रसङ्गादिति शाखान्तराधिकरणपूर्वपक्ष- न्यायेन पूर्वपक्षे प्राप्ते उच्यते – सर्ववेदान्तप्रत्ययम् चोदनाद्यविशेषात् ॥३-३-१॥ सर्ववेदान्तेषु प्रतीयमानम् वैश्वानराद्युपासनमेकमेव – चोदनाद्यविशेषात् । चेदना तावद्वैश्वानरमुपासीतेत्यादिकैकरूपैव । ब्रह्मप्राप्तिरूपफलसम्योगो- ऽप्यविशिष्टः । उपायस्वरूपमप्यविशिष्टम् । वैश्वानरविद्येति समाख्याऽप्य-विशिष्टा । अतः *एकम् वा सम्योगरूपचोदनाख्याविशेषादि*(जै.मी.सू. २-४-९)ति शाखान्तराधिकरणसिद्धान्तसूत्रोक्तन्यायेनोपासनैक्यमेव […]