दक्षिणायनाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः दक्षिणायनाधिकरणम् ॥ ११ ॥     *दिवा च शुक्लपक्षश्चे* त्येतत्त्वब्रह्मविद्विषयमिति पूर्वाधिकरण एव स्थितत्वात् कथमस्याश्शङ्काया उत्थितिरिति चेत्, सत्यम् । दक्षिणायनमृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रप्राप्तस्य पुनरावृत्तिश्रवणाय भीष्मादीनाम् ब्रह्मविदाम् उत्तरायणप्रतीक्षादर्शनाच्च दक्षिणायनमृतस्य ब्रह्मप्राप्तिरिति अधिकाशङ्कायामुच्यते – अतश्चायनेऽपि दक्षिणे ॥ ४-२-१९ ॥ अयनेऽपि दक्षिणे मृतस्य पूर्वाधिकरणोक्तयुक्त्याऽस्त्येव ब्रह्मप्राप्तिः । चन्द्रम् प्राप्तस्यापि विदुषः *तस्माद्ब्रह्मणो महिमानमाप्नोती*(तै.महा ना.५१.अनु)ति वाक्यशेषे […]

निशाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः निशाधिकरणम् ॥ १० ॥     *दिवा च शुक्लपक्षश्च षण्मासा उत्तरायणम् । मुमूर्षताम् प्रशस्तानि विपरीतन्तु गर्हितमि* ति निशामरणस्य निन्दितत्वावेदने-नाधोगतिहेतुत्वप्रतीते: निशि मृतस्य ब्रह्मप्राप्तिर्नास्तीति पूर्वपक्षे प्राप्त उच्यते – निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥४-२-१८॥ तस्य ह्य्यर्थः । कर्मसम्बन्धाभावे शरीरान्तरपरिग्रहासम्भवाद्यावद्देहम् कर्मसम्बन्धो वक्तव्यः । निशि मृतस्यापि ब्रह्मविदः प्रारब्धव्यतिरिक्त-कर्मणाम् विद्यया नष्टत्वात् […]

रश्म्यनुसाराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः रश्म्यनुसाराधिकरणम् ॥ ९ ॥      *अथ यत्रैतदस्माच्छरीरादुत्क्रामति अथैतैरेव रश्मिभिरूर्ध्वमाक्रमत* (छान्.८-६-५) इति प्रतिपादितस्य विदुषो रश्मिगमनस्य निशि मृते विदुष्यसम्भवात् रश्मिभिरेव गमनमिति न नियमः, अथैतैरेवरश्मि-भिरिति वचनन्तु पक्षप्राप्तविषयम् । एवकारस्तु अत्यन्तायोगव्यव-च्छेदार्थ इति प्राप्त उच्यते – रश्म्यनुसारी ॥४-२-१७॥ विद्वान् नियमेन रश्मीननुसृत्यैव गच्छति । *एतैरेव रश्मिभिरि’* (छान्.८-६-५)त्येवकारस्य क्रिया सङ्गतैवकारत्वाभावेन अत्यन्ता-योगव्यवच्छेदार्थकत्वाभावेन अन्ययोगव्यवच्छेदार्थकत्वस्थैव वक्तव्यत्वात् […]

तदोकोऽधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः तदोकोऽधिकरणम् ॥ ८ ॥      कठवल्लयाम् श्रूयते – *शतञ्चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ती*(कठ.२-६-२६)ति । अत्र मूर्धन्यनाड्यैव विदुषो गमनम् अन्याभिरविदुषो गमनमिति नियमो नोपपद्यते । नाडीनाम् भूयस्त्वादतिसूक्ष्मत्वाच्च  दुर्विवेचतया पुरुषेणोपादा-तुमशक्यत्वात् *तयोर्ध्वमायन्नमृतत्वमेती*(कठ.२-६-२६)ति श्रुतिः यादृच्छिकीमुत्क्रान्तिमनुवदतीति प्राप्त उच्यते – तदोकोऽग्रज्वलनम् तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतश्शताधिकया ॥ ४-२-१६ ॥ विद्वान् शताधिकया […]

अविभागाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः अविभागाधिकरणम् ॥७॥ तथा सेयम् परमात्मनि जीवस्य सम्पत्तिः प्राकृतलयवत्कारणापत्ति-रूपैव । सर्वात्मनः सर्वोपादानत्वात् । न तु वागादेर्मन आदिष्विवा-विभागमात्रमिति पूर्वपक्षे प्राप्ते उच्यते – अविभागो वचनात् ॥ ४-२-१५ ॥ अत्रापि पृथग्भावानर्हसम्सर्गविशेषलक्षणाविभाग एव सम्पत्तिशब्दार्थः । *वाङ्ग्मनसि सम्पद्यत*(छान्.६-८-६) इत्यत्र सतस्सम्पद्यत इति शब्दस्यैवेहाप्यनुषज्यमानतया अभिधानवैरूप्याश्रय-णस्यान्याय्यत्वादिति स्थितम् ॥ इति अविभागाधिकरणम् ॥

परसम्पत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः परसम्पत्त्यधिकरणम् ॥ ६ ॥ *तेजः परस्याम् देवतायामि*(छान्.६-८-६)त्यत्र जीवपरिष्वक्ततेज-श्शब्दितभूतसूक्ष्माणाम् परदेवतासम्पत्तौ प्रयोजनाभावात् *तेजः परस्याम् देवतायामि*(छान्.६-८-६)ति श्रुतिः स्तुतिमात्रपरेति पूर्वपक्षे प्राप्त उच्यते – तानि परे तथा ह्याह ॥४-२-१४॥ तानि जीवसम्सृष्टानि भूतसूक्ष्माणि परे परमात्मनि सम्पद्यन्ते । कुतः; तथाह्याह श्रुतिः – *तेजः परस्याम् देवतायामि*(छान्.६-८-६)ति । श्रुतिवशाच्च सुषुप्तिप्रळययोरिव परमात्मसम्पत्तेः सुखदुःखोपभोगायास-विश्रमः प्रयोजनत्वेन परिकल्प्यत इति […]

आसृत्युपक्रमाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः आसृत्युपक्रमाधिकरणम् ॥ ५ ॥     *अत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इत्यत्रैव विदुषो ब्रह्मभावश्रवणात् नोत्क्रान्तिरिति प्राप्ते उच्यते – समाना चासृत्युपक्रमादमृतत्वञ्चानुपोष्य ॥४-२-७॥ आसृत्युपक्रमात् आगत्युपक्रमात् । नाडीप्रवेशात् प्रागुत्क्रान्तिर्विद्वद-विदुषोस्समाना । *शतञ्चैका च हृदयस्य नाड्यस्तासाम् मूर्धानमभि-निस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेती*(कठ.२-६-१६ & बृह.४-४-७)ति विदुषोऽपि नाडीविशेषेणोत्क्रमणश्रवणादुत्क्रान्तिरवर्जनीयैव । *अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुत*(कठ.२-६-१४) इति विदुषोऽत्रैव श्रूयमाणम् यदमृतत्वम् तदनुपोष्य शरीरेन्द्रियसम्बन्धमदग्ध्वैव […]

भूताधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः भूताधिकरणम् ॥४॥   *प्राणस्तेजसी*(छान्.६-८-६)ति जीवयुक्तस्य प्राणस्य तेजोमात्र एव सम्पत्तिश्रवणान्न सर्वभूतसम्पत्तिरिति प्राप्ते उच्यते – भूतेषु तच्छ्रुतेः ॥ ४-२-५॥ स जीवः प्राणस्सम्हतेषु सर्वेषु भूतेषु सम्पद्यते । *पृथिवीमय आपोमयस्तेजोमय*(बृह.६-४-५) इति सञ्चरतो जीवस्य सर्वभूतमय-त्वश्रवणेन सर्वभूतसम्पत्तेर्वक्तव्यत्वात् । नैकस्मिन्दर्शयतो हि ॥ ६ ॥ एकस्मिन् तेजोमात्रे न सम्पद्यते एकैकस्य भूतस्य कार्याक्षमत्वम् *अनेन जीवेनात्मनाऽनुप्रविश्य […]

अध्यक्षाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः अध्यक्षाधिकरणम् ॥३॥     *प्राणस्तेजसी*(छान्.६-८-६)ति श्रुतेः प्राणस्तेजसि सम्पद्यत इति प्राप्ते उच्यते – सोऽध्यक्षे तदुपगमादिभ्यः॥४-२-४॥ सः इन्द्रियसहितः प्राणः अध्यक्षे जीवे सम्पद्यते । *एवमेवेममात्मा-नमन्तकाले सर्वे प्राणा अभिसमायन्ती*(बृह.६-३-३८)ति प्राणानाम् जीवोपगमस्य तेन सहोत्क्रान्तेश्च श्रवणाज्जीव एव सम्पद्यते गंगया सम्युज्य सागरम् गच्छन्त्याम् यमुनायाम् यमुना सागरम् गच्छतीति प्रयोगवज्जीवद्वारा प्राणस्य तेजस्सम्पत्तावपि *प्राणस्तेजसी*(छान्.६-८-६) त्युक्तिरुपपद्यते । न च […]

मनोधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः मनोधिकरणम्॥२॥     *मनः प्राणे*(छान्.६-८-६) इत्यत्र मनोवृत्तेरेव प्राणे अप्यय उच्यते, मनश्शब्दस्य मनोवृत्तिष्वपि प्रचुरप्रयोगसत्त्वात् । न तु पूर्वोक्तरीत्या सम्योगविशेषस्सम्पत्तिशब्दार्थ इति प्राप्ते उच्यते – तन्मनः प्राण उत्तरात् ॥४-२-३॥ मनसो निर्व्यापारताहेतुभूतः प्राणेन सम्योगविशेष एव इहापि सम्पत्ति- शब्दार्थः । ततश्च मन एव प्राणे सम्पद्यते *मनःप्राण*(छान्.६-८-६) इत्युत्तरवाक्यादित्यर्थः । मनश्शब्दस्य मनोवृत्तिपरत्वेऽपि सम्पत्तिश्रुते-र्गौणत्वावश्यम्भावेन मनश्शब्दस्य […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.