दक्षिणायनाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् चतुर्थाध्यायस्य द्वितीयः पादः

दक्षिणायनाधिकरणम् ॥ ११ ॥

    *दिवा च शुक्लपक्षश्चे* त्येतत्त्वब्रह्मविद्विषयमिति पूर्वाधिकरण एव स्थितत्वात् कथमस्याश्शङ्काया उत्थितिरिति चेत्, सत्यम् । दक्षिणायनमृतस्य चन्द्रप्राप्तिश्रवणात् चन्द्रप्राप्तस्य पुनरावृत्तिश्रवणाय भीष्मादीनाम् ब्रह्मविदाम् उत्तरायणप्रतीक्षादर्शनाच्च दक्षिणायनमृतस्य ब्रह्मप्राप्तिरिति अधिकाशङ्कायामुच्यते –

अतश्चायनेऽपि दक्षिणे ॥ ४-२-१९ ॥

अयनेऽपि दक्षिणे मृतस्य पूर्वाधिकरणोक्तयुक्त्याऽस्त्येव ब्रह्मप्राप्तिः । चन्द्रम् प्राप्तस्यापि विदुषः *तस्माद्ब्रह्मणो महिमानमाप्नोती*(तै.महा ना.५१.अनु)ति वाक्यशेषे ब्रह्मप्राप्तिश्रवणाचन्द्रप्राप्तिर्विश्रमहेतुमात्रम् । चन्द्रम् प्राप्तस्य पुनरावृत्तिवचनम् अब्रह्मविद्विषयम् । भीष्मादीनाम् स्वच्छन्द-मरणानाम् उत्तरायण प्रतीक्षणमुत्तरायणप्राशस्त्यप्रदर्शनार्थम् ।
ननु

*यत्र काले त्वनावृत्तिमावृत्तिम् चैव योगिनः ।

प्रयाता यान्ति तम् कालम् वक्ष्यामि पुरुषर्षभ ॥

अग्निर्ज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् ।

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥

धूमो रात्रिस्तथा कृष्णष्षण्मासा दक्षिणायनम् ।

तत्र चान्द्रमसम् ज्योतिर्योगी प्राप्य निवर्तते ।

शुक्लकृष्णे गती ह्येते जगतश्शाश्वते मते ।

एकया यान्त्यनावृत्तिमन्यया वर्तते पुनरि ॥*(गी.८-२७)ति

स्मरणम् कथमुपपाद्याम् । तत्राह –

योगिनः प्रतिस्मर्येते स्मार्ते चैते ॥ ४-२-२० ॥

अस्मिन्प्रकरणे अर्चिरादिगतिः धूमादिगतिरित्येते द्वे गती स्मार्ते – स्मर्तव्यत्वेन योगिन इति स्मर्येते । न तु मुमूर्षताम् कालविशेषोऽभि-धीयते । *नैते सृती पार्थ जानन् योगी मुह्यति कश्चने*(गी.८-२७) त्युपसम्हारात् । *यत्र काले त्वनावृत्तिमि*(गी.८-२३-२४,२५,२६)त्यस्य यत्कालाभिमानिदेवताभिरतिवाहिनः ब्रह्म प्राप्नोति तम् मार्गम् वक्ष्य इत्येवार्थः । अतो योगिनो गतिद्वयविधानार्थोऽयम् सम्रम्भ इति ॥


इति दक्षिणायनाधिकरणम् ॥

*****
इति शारीरकशास्त्रार्थदीपिकायाम् चतुर्थस्याध्यायस्य द्वितीयः पादः ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.