श्रीभाष्यम् 02-04-08 संज्ञामूर्तिकॢप्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये संज्ञामूर्तिकॢप्त्यधिकरणम्॥८॥ (अधिकरणार्थः – नामरूपव्याकरणात्मकप्रपञ्चव्यष्टिसृष्टेः त्रिवृत्कर्तृसमानकर्तृता) २८५. संज्ञामूर्तिकॢप्तिस्तु त्रिवृर्त्कुवत उपदेशात् ॥ २–४–१७ ॥ (पेटिकासङ्गतिः) भूतेन्द्रियादीनां समष्टिसृष्टि:, जीवानां कर्तृत्वं च परस्माद्ब्रह्मण इत्युक्तं पुरस्तात्। जीवानां स्वेन्द्रियाधिष्ठानं च परायत्तमिति चानन्तरं स्थिरीकरणाय स्मारितम्। (संशयो विचारार्थः) या त्वियं नामरूपव्याकरणात्मिका प्रपञ्चव्यष्टिसृष्टि:, सा किं समष्टिजीवरूपस्य हिरण्यगर्भस्यैव कर्म, उत तेज: प्रभृतिशरीरकस्य परस्याबादिसृष्टिवद्धिरण्यगर्भशरीरकस्य परस्य ब्रह्मण, इतीदानीं चिन्त्यते। (सहेतुकः पूर्वपक्षः)             किं युक्तम्? समष्टिजीवस्येति; कुत:? […]

श्रीभाष्यम् 02-04-07 इन्द्रियाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इन्द्रियाधिकरणम्॥७॥ (अधिकरणार्थः – श्रेष्ठप्राणं विहायैव प्राणानां इन्द्रियरूपता) २८३. त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २–४–१५ ॥ (विचारोपयोगी संशयः) किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि, उत श्रेष्ठप्राणव्यतिरक्ता एवेति विशये (पूर्वपक्षः) प्राणशब्दवाच्यत्वात्, करणत्वाच्च सर्व एवेन्द्रियाणि॥ (सिद्धान्तमुखेन सूत्रार्थविवरणम्) इति प्राप्त उच्यते – श्रेष्ठव्यतिरिक्ता एव प्राणा इन्द्रियाणि कुत:? श्रेष्ठादन्येष्वेव प्राणेषु तद्व्यपदेशात् । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचरा: (भ.गी.१३.५) इत्यादिभिर्हि चक्षुरादिषु समनस्केष्वेव […]

श्रीभाष्यम् 02-04-06 ज्योतिराद्यधिष्ठानाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ज्योतिराद्यधिष्ठानाधिकरणम्॥६॥ (अधिकरणद्वयार्थनिगमनम्) २८१. ज्योतिराद्यधिष्ठानं तु तदामननात्प्राणवता शब्दात् ॥ २–४–१३ ॥ (अधिकरणद्वयार्थनिगमनम्) सश्रेष्ठानां प्राणानां ब्रह्मण उत्पत्तिरियत्तापरिमाणं चोक्तम्; तेषां प्राणानामग्न्यादिदेवताधिष्ठितत्वं च पूर्वमेव अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (शारी.२.१.५) इत्यनेन सूत्रेण प्रसङ्गादुपपादितम्; जीवस्य च स्वभोगसाधनानामेषामधिष्ठातृत्वं लोकसिद्धम्, एवमेवैष एतान् प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते (बृ.४.१.१८) इत्यादिश्रुतिसिद्धं च। (प्रकृतोपयोगी संशयः, पूर्वपक्षश्च) तदिदं जीवस्याग्न्यादिदेवतानां च प्राणविषयमधिष्ठानं किं स्वायत्तम्; उत परमात्मायत्तमिति विषये नैरपेक्ष्यात्स्वायत्तम् […]

श्रीभाष्यम् 02-04-05 श्रेष्ठाणुत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥५॥ (अधिकरणार्थः – मुख्यप्राणस्याप्यणुत्वमेव, न विभुत्वम्) २८०. अणुश्च ॥ २–४–१२ ॥ अणुश्चायम्, पूर्ववदुत्क्रान्त्यादिश्रवणात् तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृ.३.५.३) इत्यादिषु। अधिकाशङ्का तु सम एभिस्त्रिभिर्लोकैस्समोऽनेन सर्वेण (बृ.३.३.२२) प्राणे सर्वं प्रतिष्ठितम्, सर्वं हीदं प्राणेनावृतम्  इत्यादिश्रवणात् महापरिमाण इति॥१२॥ परिहारस्तु – उत्क्रान्त्यादिश्रवणात्परिच्छिन्नत्वे निश्चिते सर्वस्य प्राणिजातस्य प्राणायत्तस्थितित्वेन वैभववादोपपत्ति: – इति॥१२॥ इति श्रीशारीरकमीमांसाभाष्ये श्रेष्ठाणुत्वाधिकरणम्॥ ५॥

श्रीभाष्यम् 02-04-04 वायुक्रियाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥ (अधिकरणार्थः – श्रेष्ठः प्राणः न वायुसामान्यम्, तत्क्रिया वा, किन्तु विशिष्टो वायुः) २७६. न वायुक्रिये पृथगुपदेशात् ॥ २–४–८ ॥ (विचारोपयोगी संशयः) सोऽयं श्रेष्ठ: प्राण: किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्न: – इति विशये – (पूर्वपक्षः सहेतुकः) वायुरेवेति प्राप्तम्, य: प्राणस्स वायु: इति व्यपदेशात्। यद्वा वायुमात्रे प्राणत्वप्रसिद्ध्यभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च तत्क्रियैव – (सिद्धान्तरूपं सूत्रोत्तरार्धवर्णनम्) […]

श्रीभाष्यम् 02-04-03 प्राणाणुत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम् ॥३॥ (अधिकरणार्थः – इन्द्रियाणाम् अणुपरिमाणतास्थापनम्) २७४. अणवश्च ॥ २–४–६ ॥ (पूर्वपक्षः सप्रमाणः)             त एते सर्व एव समा: सर्वेऽनन्ता: (बृह.३.५.१३) इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम् – (सिद्धान्तरूपः सूत्राशयः) इति प्राप्तेऽभिधीयते – प्राणमनूत्क्रान्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ.६.४.२) इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणा:। आनन्त्यश्रुतिस्तु अथ यो हैताननन्तानुपास्ते (बृ.३-५-१३) इत्युपासनश्रवणात् उपास्यप्राणविशेषणभूतकार्यबाहुल्याभिप्राया ॥६॥ २७५. श्रेष्ठश्च ॥ २–४–७ ॥ (मुख्यप्राणस्यापि उत्पत्तिमत्ता) […]

श्रीभाष्यम् 02-04-02 सप्तगत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सप्तगत्यधिकरणम्॥२॥ (सू.4-5) (अधिकरणार्थः – इन्द्रियाणां एकादशसङ्ख्यतासमर्थनम्) २७२. सप्त गतेर्विशेषितत्वाच्च ॥ २–४–४ ॥ (विचारणोपयोगी संशयः) तानीन्द्रियाणि किं सप्तैव स्यु:, अथवैकादशेति चिन्त्यते। श्रुतिविप्रतिपत्तेस्संशय:। (पूर्वपक्षः तत्र हेतुश्च) किं प्राप्तम्; सप्तेति। कुत:? गतेर्विशेषितत्वाच्च। गतिस्तावज्जायमानेन म्रियमाणेन च जीवेन सह लोकेषु सञ्चरणरूपा सप्तानामेव श्रूयते सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्त (मु.२.१.८) इति । वीप्सा पुरुषभेदाभिप्राया । विशेषिताश्च ते […]

श्रीभाष्यम् 02-04-01 प्राणोत्पत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचते श्रीशारीरकमीमांसाभाष्ये द्वितीये अविरोधाध्याये चतुर्थः प्राणपाद: ॥ (पादार्थः – प्राणादीनां जीवोपकरणानां ब्रह्मकार्यत्वचिन्ता) प्राणोत्पत्त्यधिकरणम्॥१॥ (अधिकरणार्थः – प्राणशब्दवाच्यानामिन्द्रियाणामपि वियदादिवत् ब्रह्मकार्यता) २६९. तथा प्राणा: ॥ २–४–१ ॥ (पादसङ्गतिप्रदर्शनम्) ब्रह्मव्यतिरिक्तस्य वियदादे: कृत्स्नस्य कार्यत्वेनोत्पत्तावुक्तायां जीवस्य कार्यत्वेऽपि स्वरूपान्यथाभावलक्षणोत्पत्तिरपोदिता; तत्प्रसङ्गेन जीवस्वरूपं शोधितम् ॥ सम्प्रति जीवोपकरणानामिन्द्रियाणां प्राणस्य चोत्पत्त्यादिप्रकारो विशोध्यते । (विचाराङ्गसंशयस्वरूपम्) तत्र किमिन्द्रियाणां कार्यत्वं जीववत्; उत वियदादिवदिति चिन्त्यते । (अधिकरणद्वयार्थनिगमनम्) किं युक्तम्? जीववदेवेत्याह […]

श्रीभाष्यम् 02-03-07 अंशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अंशाधिकरणम्॥७॥ (अधिकरणार्थः – जीवात्मनः परमात्मनः अंशभूताः इति साधनम्) २५८. अंशो नानाव्यपदेशादन्यथा चापि दाशकितवादित्वमधीयत एके॥ २–३–४२॥ (अवान्तरसङ्गतिः अधिकरणीयः संशयश्च) जीवस्य कर्तृत्वं परमपुरुषायत्तमित्युक्तम्; इदानीं किमयं जीव: परस्मादत्यन्तभिन्न:, उत परमेव ब्रह्म भ्रान्तम्, उत ब्रह्मैवोपाध्यवच्छिन्नम्, अथ ब्रह्मांश इति संशय्यते; श्रुतिविप्रतिपत्तेस्संशय:। (अधिकरणस्य पौनरुक्त्यशङ्का – परिहारौ) ननु तदनन्यत्वमारम्भणशब्दादिभ्य: (शारी.२.१.१५) अधिकं तु भेदनिर्देशात् (शारी.२.१.२२) इत्यत्रैवायमर्थो निर्णीत:। सत्यम्, स एव नानात्वैकत्वश्रुतिविप्रतिपत्त्या आक्षिप्य […]

श्रीभाष्यम् 02-03-06 परायत्ताधिकरणम्

श्रीशारीरकमीमांसाभाष्ये परायत्ताधिकरणम्॥६॥ (अधिकरणार्थः – जीवात्मगतं विहित-निषिद्धक्रियाकर्तृत्वं परमात्माधीनम्) २५६. परात्तु तच्छ्रुते:॥ २–३–४० ॥ (एतदधिकरणविचारणीयोऽर्थः) इदं जीवस्य कर्तृत्वं किं स्वातन्त्र्येण? उत परमात्मायत्तमिति। (युक्तिसिद्धः पूर्वः पक्षः) कि प्राप्तम्? स्वातन्त्रयेणेति । परमात्मायत्तत्वे हि  विधिनिषेधशास्त्रानर्थक्यं प्रसज्येत । यो हि स्वबृुद्धया प्रवृत्तिनिवृत्त्यारम्भशक्त:; स एव नियोज्यो भवति। अत स्वातन्त्र्येणास्य कर्तृत्वम्॥ (सिद्धान्तः सूत्रार्थविवृत्त्या सह) इति प्राप्तेऽभिधीयते – परात्तु तच्छ्रुते: – इति। तुशब्द: पक्षं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.