11 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकादशः सर्गः रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् । सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ।। 4.11.1 ।। असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः । त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः ।। 4.11.2 ।। अथ सुग्रीवो वालिवधक्षमं रामबलं परीक्षितुकामस्तद्बलं दर्शयत्येकादशे रामस्येत्यादि । पूजयाञ्चक्रे अञ्जलिबन्धादिना । प्रशशंस तुष्टाव ।। 4.11.1,2 ।। वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या […]

10 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे दशमः सर्गः ततः क्रोधसमाविष्टं संरब्धं तमुपागतम् । अहं प्रसादयाञ्चक्रे भ्रातरं प्रियकाम्यया ।। 4.10.1 ।। अथ वालिदोषदर्शनेन रामस्य दृढतरा वालिवधप्रतिज्ञा दशमे तत इत्यादि ।। 4.10.1 ।। दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः । अनाथस्य हि मे नाथस्त्वमेको नाथनन्दनः ।। 4.10.2 ।। अनाथान् नन्दयतीत्यनाथनन्दनः ।। 4.10.2 ।। इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम् । छत्त्रं […]

09 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे नवमः सर्गः वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः । पितुर्बहुमतो नित्यं ममापि च तथा पुरा ।। 4.9.1 ।। अथ वाल्यपराधवृत्तान्तो नवमे वाली नामेत्यादिषड्विंशतिः श्लोकाः ।। 4.9.1 ।। पितर्युपरते ऽस्माकं ज्येष्ठो ऽयमिति मन्त्रिभिः । कपीनामीश्वरो राज्ये कृतः परमसम्मतः ।। 4.9.2 ।। पितरीति । अयं ज्येष्ठः । अतः कपीनामीश्वर इति राज्ये कृतः स्थापितः […]

08 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टमः सर्गः परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः । लक्ष्मणस्याग्रतो राममिदं वचनमब्रवीत् ।। 4.8.1 ।। अथ सुग्रीवस्य स्वशोकमूलविज्ञापनमष्टमे परितुष्ट इत्यादि ।। 4.8.1 ।। सर्वथा ऽहमनुग्राह्यो देवतानामसंशयः । उपपन्नगुणोपेतः सखा यस्य भवान्मम ।। 4.8.2 ।। देवतानामनुग्राह्यः दयनीयो ऽभवम् । यस्य मे भवान् सखा ऽ ऽसीत् । कीदृशः सखा? उपपन्नगुणोपेतः राजयोग्यशौर्यवीर्यादिसर्वगुणोपपन्नः ।। 4.8.2 ।। शक्यं […]

07 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तमः सर्गः एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः । अब्रवीत् प्राञ्चलिर्वाक्यं सबाष्पं बाष्पगद्गदः ।। 4.7.1 ।। एवमाभरणदर्शनव्याजेन चेतनस्य यादृच्छिकप्रासङ्गिकसुकृतदर्शनेन तल्लाभत्वरा भगवत उच्यते सप्तमे एवमुक्त इत्यादि । बाष्पगद्गदः रामबाष्पदर्शनेन स्वयमपि बाष्पगद्गदः । “एकं दुःखं सुखं च नौ” इत्यस्य प्रथमोदाहरणमिदम् ।। 4.7.1 ।। न जाने निलयं तस्य सर्वथा पापरक्षसः । सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा […]

06 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षष्ठः सर्गः पुनरेवाब्रवीत् प्रीतो राघवं रघुनन्दनम् ।। 4.6.1 ।। एवं रामेण वालिवधे प्रतिज्ञाते सुग्रीवेणापि रामकार्यसिद्धिः प्रतिज्ञायते षष्ठे पुनरेवेत्यादि । राघवमिति नाम । सुग्रीव इति शेषः ।। 4.6.1 ।। अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः । हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः ।। 4.6.2 ।। अयमिति । त्वं यन्निमित्तं वनमागतः तदाख्याति स्म ।। 4.6.2 […]

05 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चमः सर्गः ऋश्यमूकात्तु हनुमान् गत्वा तु मलयं गिरिम् । आचचक्षे तदा वीरौ कपिराजाय राघवौ ।। 4.5.1 ।। अथ पापभीतस्य कर्मानुरूपं फलं दिशतो भगवतो ऽपि त्रस्तस्य आचार्यमुखात् भगवद्गुणान् श्रुत्वा तदेकोपायनिष्ठा सूच्यते पञ्चमे ऋश्यमूकात्वित्यादि । रामलक्ष्मणदर्शनभीतः सुग्रीवः ऋश्यमूकादुत्प्लुत्य गहनं मलयाख्यमृश्यमूकपर्यन्तपर्वतं गतः हनुमान् रामलक्ष्मणौ तत्र प्रतिष्ठाप्य सुग्रीवं तत्रानीतवानिति बोध्यम् ।। 4.5.1 ।। अयं रामो […]

04 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुर्थः सर्गः ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः । श्रुत्वा मधुरसम्भाषं सुग्रीवं मनसा गतः ।। 4.4.1 ।। अथाचार्यमुखेन चेतनालाभश्चतुर्थे तत इत्यादि । मधुरसम्भाषं मधुरभाषणं तद्वचः श्रुत्वा कृत्यवान् कार्यवान् रामः इति हेतोः प्रहृष्टः सन् सुग्रीवं मनसा गतः । “तमेव चावां मार्गाव” इति वचनभावतया रामस्य कृत्यवत्त्वज्ञानम् ।। 4.4.1 ।। भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः । […]

03 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे तृतीयः सर्गः वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः । पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ ।। 4.3.1 ।। प्रथमे सर्गे वैकुण्ठवासिनो भगवतः स्वीयेषु केषाञ्चित् स्वपरत्वे वर्तमाने केषाञ्चिद्विषयान्तरप्रावण्यमवलोक्य दूयमानमानसस्य दयावृत्तिविशेषः प्रतिपादितः । द्वितीये चेतनस्य भगवदपराधदण्डभीतस्य तस्मिन्नभिमुख्यमुक्तम् । अथ तल्लाभहेत्वाचार्यकृत्यं दर्शयति तृतीये वच इत्यादि ।। 4.3.1 ।। कपिरूपं परित्यज्य हनुमान् मारुतात्मजः । भिक्षुरूपं ततो भेजे शठबुद्धितया […]

02 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्वितीयः सर्गः तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ । वरायुधधरौ वीरौ सुग्रीवः शङ्कितो ऽभवत् ।। 4.2.1 ।। अथ सुग्रीवेण हनुमत्प्रेषणं द्वितीये तौ त्वित्यादि । महात्मानौ महाशरीरौ, भद्राकृती इत्यर्थः । वरायुधधरौ अत एव वीरौ ।। 4.2.1 ।। उद्विग्नहृदयः सर्वा दिशः समवलोकयन् । न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुङ्गवः ।। 4.2.2 ।। उद्विग्नहृदयः भीतमनस्कः ।। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.