20 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे विंशः सर्गः स तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ।। 5.20.1।। स तामित्यादि । साकारैः सेङ्गितैः । “आकाराविङ्गिताकृती ” इत्यमरः । न्यदर्शयत, स्वाभिप्रायमिति शेषः । सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ।। 5.20.1।। मां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ।। 5.20.2।। अदर्शनं अदृश्यत्वम् ।। 5.20.2।। कामये त्वां विशालाक्षि बहु मन्यस्व […]
19 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंश सर्गः तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता । रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ।। 5.19.1।। ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ।। 5.19.2।। आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ । उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी ।। 5.19.3।। दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः । ददर्श सीतां दुःखार्तां नावं सन्नामिवार्णवे ।। 5.19.4।। असंवृतायामासीनां धरण्यां संशितव्रताम् […]
18 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम् । विचिन्वतश्च वैदेहीं किंचिच्छेषा निशा ऽभवत् ।। 5.18.1।। तथेत्यादि । विप्रेक्षमाणस्य विचिन्वतश्च । विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः । ” यस्य च भावेन.” इत्यर्थे षष्ठी ।। 5.18.1।। षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ।। 5.18.2।। अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः । प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः ।। 5.18.3।। […]
17 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ततः कुमुदषण्डाभो निर्मलो निर्मलं स्वयम् । प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम् ।। 5.17.1।। साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः । चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम् ।। 5.17.2।। तत इत्यादि । प्रजगाम प्रकर्षेण जगाम, आकाशपरभागं प्राप्त इत्यर्थः ।। 5.17.12।। स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम् । शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि ।। 5.17.3।। स इति […]
16 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षोडशः सर्गः प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः । गुणाभिरामं रामं च पुनश्चिन्तापरो ऽभवत् ।। 5.16.1।। प्रशस्य त्वित्यादि । प्रशस्तव्यां प्रशंसितव्याम् । रामं सीतां च प्रशस्येति । अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ।। 5.16.1।। स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः । सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह ।। 5.16.2।। स इति । सीतामाश्रित्य सीतां विषयीकृत्य […]
15 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पुञ्चदशः सर्गः स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् । अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ।। 5.15.1।। सन्तानकलताभिश्च पादपैरुशोभिताम् । दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ।। 5.15.2।। तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् । हर्म्यप्रासादसंवाधां कोकिलाकुलनिस्वनाम् । 4.15.3 ।। स वीक्षमाण इत्यादि । सः तत्रस्थः शिंशुपास्थः । मैथिलीं मार्गमाणः मैथिलीमार्गणाद्धेतोः । “लक्षणहेत्वोः क्रियायाः”इति शानच् । वीक्षमाणः विविधं चक्षुर्विक्षपन् महीं […]
14 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः स मूहर्तमिव ध्यात्वा मनसा चाधिगम्य ताम् । अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः ।। 5.14.1 ।। सु मुहूर्तमित्यादि । इवशब्दो वाक्यालङ्कारे । प्राकारम् अशोकवनिकाप्राकारम् । तस्य वेश्मनः रावणस्य गृहात् । अवलुप्तः प्राप्तः ।। 5.14.1 ।। स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः । पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान् ।। 5.14.2 ।। स […]
13 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोदशः सर्गः विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः । हनुमान् वेगवानासीद्यथा विद्युद् घनान्तरे ।। 5.13.1 ।। विमानादित्यादि । इदानीं विमानादवतरणोक्त्या मध्ये विमानमधिरुढ इत्यवगम्यते । वेगवत्त्वे दृष्टान्तमाहविद्युदिति ।। 5.13.1 ।। सम्परिक्रम्य हनुमान् रावणस्य निवेशनात् । अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ।। 5.13.2 ।। सम्परिक्रम्येति । सम्परिक्रम्य, प्राकारमिति शेषः । अब्रवीत्, स्वयमिति शेषः ।। 5.13.2 ।। […]
12 Sarga सुन्दरकाण्डः
श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ।। 5.12.1 ।। स तस्येत्यादि । निशागृहान् । रात्रिनिवासयोग्यगृहान् । “गृहाः पुंसि च भूम्न्येव” इति पुँल्लिङ्गत्वम् । पश्यति अपश्यत् ।। 5.12.1 ।। स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम् । ध्रुवं हि सीता म्रियते […]
11 Sarga सुन्दरकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकादशः सर्गः अवधूय च तां बुद्धिं बभूवावस्थितस्तदा । जगाम चापरां चिन्तां सीतां प्रति महाकपिः ।। 5.11.1 ।। अवधूयेत्यादि । तां बुद्धिं मन्दोदर्यां सीताबुद्धिम् । अवस्थितौ बभूव स्वस्थचित्तो बभूव ।। 5.11.1 ।। न रामेण वियुक्ता सा स्वप्तुमर्हति भमिनी । न भोक्तुं नाप्यलङ्कर्तुं न पानमुसेवितुम् ।। 5.11.2 ।। नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम् । […]