15 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पुञ्चदशः सर्गः

स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।

अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ।। 5.15.1।।

सन्तानकलताभिश्च पादपैरुशोभिताम् ।

दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् ।। 5.15.2।।

तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् ।

हर्म्यप्रासादसंवाधां कोकिलाकुलनिस्वनाम् । 4.15.3 ।।

स वीक्षमाण इत्यादि । सः तत्रस्थः शिंशुपास्थः । मैथिलीं मार्गमाणः मैथिलीमार्गणाद्धेतोः । “लक्षणहेत्वोः क्रियायाः”इति शानच् । वीक्षमाणः विविधं चक्षुर्विक्षपन् महीं चावेक्षमाणः सर्वां ताम् अशोकवनिकाम् अन्ववैक्षतेत्यन्वयः ।। 5.15.13।।

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।

बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ।। 5.15.4।।

बह्वासनैः कुथैः आस्तरणैश्चोपेताम् । भूमिगृहाणि बिलगृहाणि ।। 5.15.4।।

सर्वर्तुकुसुमैः रम्यां फलवद्भिश्च पादपैः ।

पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ।। 5.15.5।।

सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभाम् उद्यत्सूर्यप्रभाम् ।। 5.15.5।।

प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत ।

निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ।। 5.15.6।।

विहगैः निष्पत्रशाखां क्रियमाणामिव स्थिताम् । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ।। 5.15.6।।

विनिष्पितद्भिः शतशश्चित्रैः पुष्पावतंसकैः ।

आमूलपुष्पनिचितैरशोकैः शोकनाशनैः ।। 5.15.7।।

पुष्पावतंसकैः चञ्चुपुटलग्नपुष्पालङ्कृतैरित्यर्थः । आमूलेति । आमूलं पुष्पैर्निचितैः । पुन्नागादौ तथा दृष्टम् ।। 5.15.7।।

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ।

कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ।। 5.15.8।।

स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ।

पुन्नागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा ।। 5.15.9।।

शातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः ।

नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः ।। 5.15.10।।

पुष्पभारः पुष्पसमूहः स एवातिभारो येषां तैः । अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षितां समुदैक्षतेति पर्वेणान्वयः ।। 5.15.810।।

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा ।

अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम् ।। 5.15.11 ।।

द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ।

पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा ।। 5.15.12 ।।

सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः ।

नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ।। 5.15.13।।

अनेकग्रन्धप्रवहं पुण्यगन्धं मनोरमम् ।

शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ।। 5.15.14।।

पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति नन्दनमित्यादिना श्लोकचतुष्टयेन । उद्यानम् अशोकवनम् । अत्र ददर्शेत्यपकृष्यते । नन्दनम् इन्द्रक्रीडावनम् । विविधोद्यानं विविधवृक्षषण्डम् । चैत्ररथं कुबेरक्रीडावनम् । नन्दनमतिवृत्तमिव अतिक्रम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः । आकाशसाम्ये साधारणधर्ममाह पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ।। 5.15.1114।।

अशोकवनिकायां तु तस्यां वानरपुङ्गवः ।

स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ।। 5.15.15।।

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् ।

प्रवालकृतसोपानं तप्तकाञ्जनवेदिकम् ।। 5.15.16।।

अशोकवनिकायामित्यादि । चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादम् ।। 5.15.1516।।

मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया ।

विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ।। 5.15.17।।

प्रांशुभावत्वात् दीर्घस्वभावत्वात् ।। 5.15.17।।

ततो मलिनसंवीतां राक्षसीभिः समावृताम् ।

उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ।। 5.15.18।।

मलिनसंवीतां मलिनवस्त्रेणावृताम्, मलिनैरङ्गैः संवीतां वा ।। 5.15.18।।

ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ।

मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम् ।। 5.15.19।।

शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितम् । मन्दं प्रख्यायमानेन इदं तदिति कथ़ञ्चित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षिताम् ।। 5.15.19।।

पिनद्धां धूमजालेन शिखामिव विभावसोः ।

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ।। 5.15.20।।

पिनद्धामिति मलिनसंवीतत्वे उपमा । पिनद्धां बद्धाम् । उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः ।। 5.15.20।।

सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् ।

व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ।। 5.15.21 ।।

सपङ्कां भूमेराविर्भवन्तीमिव स्थिताम् । अनलङ्कारां पङ्कं निवर्त्य अलङ्कुर्वतो ऽसन्निधानादलङ्काररहिताम् । रामागमने ऽप्ययमाश्रयो नोत्सादयितुमर्हतीत्येवं मन्यमानाम् । विपद्मामिव पद्मिनीं पद्मरहितां सरसीमिव स्थिताम् ।। 4.15.21 ।।

ग्रहेणाङ्गारकेणेव पीडितामिव रोहिणीम् ।

अश्रुपर्णमुखीं दीनां कृशामनशनेन च ।। 5.15.22 ।।

शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ।

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् ।। 5.15.23।।

ग्रहेण क्रूरग्रहेण । द्वितीय इवशब्दो वाक्यालङ्कारे । अश्र्विति । कृशां दीनामिति पुनःपुनरुक्तिः कार्श्यदैन्ययोरतिशयप्रदर्शनाय । अत्र उपवासकृशां कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपायसाशनवृत्तान्तः कल्पित इति तत्रैवोक्तम् ।। 5.15.22,23।।

स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ।

नीलनागाभया वेण्या जघनं गतयैकया ।। 5.15.24।।

नीलनागाभया कृष्णसर्पतुल्यया ।। 5.15.24।।

नीलया नीरदापाये वनराज्या महीमिव ।

सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम् ।। 5.15.25।।

नीरदापाये शरदि ।। 5.15.25।।

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ।

तर्कयामास सीतेति कारणैरुपपादिभिः ।। 5.15.26।।

उपपादिभिः उपपादनशीलैः । मन्दं प्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपादिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ।। 5.15.26।।

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ।

यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ।। 5.15.27।।

एवं लिङ्गैः सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह ह्रियमाणेति । इति तर्कयामासेति शेषः ।। 5.15.27।।

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् ।

कुर्वन्तीं प्रभया देवीं सर्वावितिमिरा दिशः ।। 5.15.28।।

पूर्णचन्द्राननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्तमेकं वाक्यम् । सुभ्रूं सुभ्रुवम् । उवङ्भाव आर्षः । कुर्वन्तीमिति । दशमासान् स्नानेन विना मलिनापि प्रभया दिशः वितिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः ।। 5.15.28।।

तां नीलकेशीं बिम्बोष्ठीं सुमघ्यां सुप्रतिष्ठिताम् ।

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ।। 5.15.29।।

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ।

भूमौ सुतनुमासीनां नियतामिव तापसीम् ।। 5.15.30।।

सुप्रतिष्ठितां सुप्रतिष्ठितपादतलाम् ।। 4.15.29,30।।

निश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव ।

शोकजालेन महता विततेन न राजतीम् ।। 5.15.31 ।।

न राजतीं न राजन्तीम् । तां प्रसिद्धाम् ।। 4.15.31 ।।

संसक्तां धूमजालेन शिखामिव विभावसोः ।

तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ।। 5.15.32 ।।

स्मृतिं मन्वाद्युक्तिम् । सन्दिग्धां सन्दिग्धार्थाम् ।। ऋद्धिं सम्पदम् । निपतितां क्षणाम् ।। 5.15.32 ।।

विहतामिव च श्रद्धामाशां प्रतिहतामिव ।

सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ।। 5.15.33।।

विहताम् अविश्वासबहुलाम् । प्रतिहताम् अलब्धकार्याम् । सोपसर्गां सविघ्नाम् । सकलुषां सकालुष्याम् । भावप्रधानो निर्देशः ।। 5.14.33।।

अभूतेनापवादेन कीर्तिं निपतितामिव ।

रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ।। 5.15.34।।

अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः ।

बाष्पाम्बुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ।। 5.15.35।।

वदनेनाप्रसन्नेन निःश्वसन्तीं पुनःपुनः ।। 5.15.36।।

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् ।

प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ।। 5.15.37।।

अभूतेन असत्येन । रामोपरोधव्यथितां रामप्राप्तिनिरोधेन व्यथिताम् ।। 5.15.3437।।

तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।

आम्नायानामयोगेन विद्यां प्रशिथिलामिव ।। 5.15.38।।

पुनः शीताशब्दो व्यवहितानुस्मरणार्थः । आम्नायानां वेदानाम् । अयोगेन असम्बन्धेन । प्रशिथिलाम् अप्राप्तप्रतिष्ठाम् । विद्यां वेदबाह्यविद्याम् । यद्वा आम्नायानाम् अभ्यासानामभावेन प्रशिथिलाम् अस्थिरपदां विद्यामिव सीतां निरीक्ष्य तस्य हनुमतो बुद्धिः सन्दिदिहे इत्यन्वयः । कार्श्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ।। 5.15.38।।

दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् ।

संस्कारेण यथा हीनां वाचमर्थान्तरं गताम् ।। 5.15.39।।

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् ।

तर्कयामास सीतेति कारणैरुपपादिभिः ।। 5.15.40।।

दुःखेनेति । संस्कारः शब्दव्युत्पत्तिः तेन हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिषितार्थं वक्तुमशक्नुवन्तीमविवक्षितमर्थं बोधयन्तीं वाचमिव । सम्यग्व्युत्पत्त्यभावादर्थान्तरं गतां व्युत्पत्त्यनन्तरं स्वार्थं प्रतिपादयन्तीमिव स्थितामित्यर्थः ।। 5.15.3940।।

वैदेह्या यानि चाङ्गेषु तदा रामो ऽन्वकीर्तयत् ।

तान्याभरणजालानि शाखाशोभीन्यलक्षयत् ।। 5.15.41 ।।

वैदेह्या इति । शाखायां शोभन्त इति शाखाशोभीनि । भर्तृविरहकाले भूषणधारणस्यानुचितत्वत् स्वाङ्गेभ्य उन्मुच्य शाखायां न्यस्तानीत्यर्थः ।। 5.15.41 ।।

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।

मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ।

श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च ।। 5.15.42 ।।

कर्णवेष्टौ कुण्डले । ” कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम्” इति सज्जनः । श्वदंष्ट्रः त्रिकर्णकाख्यः पुष्पाकारः कर्णपार्श्वभूषणविशेषः । “त्रिकर्णकः श्वदंष्ट्रश्च” इत्यभिधानरत्नमाला । हस्तेषु हस्तावयवेषु । श्यामानि विरहतापौष्ण्यवशाच्छ्यामीभूतानि । तथा चिरयुक्तत्वात् चिरधृतत्वात् संस्थानवन्ति हस्तेषु तत्तदाभरणसंस्थानानि दृश्यन्त इत्यर्थः ।। 5.15.42 ।।

तान्येवैतानि मन्ये ऽहं यानि रामो ऽन्वकीर्तयत् ।। 5.15.43।।

तान्येवेत्यर्धमेकं वाक्यम् ।। 5.15.43।।

तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।

यान्यस्या नावहीनानि तानीमानि न संशयः ।। 5.15.44।।

तत्र ऋश्यमूके यान्यवहीनानि पतितानि तान्यहं नोपलक्षये । अत्रेति शेषः । अस्याः सीतायाः सकाशाद्यानि नावहीनानि न पतितानि तानीमानि तत्तुल्यत्वात् ।। 5.15.44।।

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।

उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः ।। 4.15.45।।

भूषणानि च मुख्यानि दृष्टानि धरणीतले ।

अनयैवापविद्धानि स्वनवन्ति महान्ति च ।। 4.16.46।।

प्लवङ्गमैः सुग्रीवादिप्लवङ्गमैः । यदुत्तरीयं दृष्टं यानि द़ष्टानि तानि सर्वाण्यनयैव अपविद्धानि पातितानि । नगासक्तमित्यनेन पतनदशायामुत्तरीयाग्रं वृक्षे किञ्चित्सक्तमिति द्योत्यते ।। 5.15.4546।।

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।

तथापि नूनं तद्वर्णं तथा श्राद्यथेतरत् ।। 5.15.47।।

इदमिति । इतरत् उत्सृष्टम् तदुत्तरीयं यथा यादृशवर्णयुक्तं यथा श्रीमत् इदम् इदानीं धार्यमाणं तद्वर्णं तथा श्रीमत् नूनमिति योजना ।। 5.15.47।।

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया ।

प्रनष्टापि सती या ऽस्य मनसो न प्रणश्यति ।। 5.15.48।।

इयमिति । या रामस्य प्रिया सती महिषीति कृत्वा प्रनष्टापि अस्य रामस्य मनसः सकाशात् न प्रणश्यति । सदा मनसा दृष्टा भवतीत्यर्तः । सा कनकवर्णाङ्गी इयम् । मया परिदृश्यमानेत्यर्थः ।। 5.15.48।।

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।

कारुण्येनानृशंस्येन शोकेन मदनेन च ।। 5.15.49।।

रामः कारुण्यादिभिश्चतुर्भिः यत्कृते परितप्यते सेयम् ।। 5.15.49।।

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।

पत्नी नष्टेति शोकेन प्रियेति मदनेन च ।। 5.15.50।।

कारुण्यादीनां परितापहेतुत्वं विभज्य दर्शयति स्त्रीति । आपत्काले स्त्रियो रक्षणीयाः, तन्न कृतमिति कारुण्यात्परितप्यते । आनृशंस्यमक्रूरत्वम् । आश्रिसंरक्षणैकस्वभावत्वमिति यावत् । तस्मात् आश्रिता न रक्षितेति परितप्यते । ” अर्धो वा एष आत्मनो यत्पत्नी” इत्युक्तरीत्या आत्मार्धभूता पत्नी नष्टेति शोकेन परितप्यते । प्रिया नष्टेति मदनेन परितप्यत इति योजना ।। 5.15.50।।

अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् ।

रामस्य च यथारूपं तस्येयमसितेक्षणा ।। 5.15.51 ।।

अथानयोरन्योन्याभिरूप्यानुगुण्यमाह अस्या इति । अस्याः सीतायाः रूपं शरीरम् अङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधम्, तथाविधमेव रामस्यापि रूपम् अङ्गप्रत्यङ्गसौष्ठवं च । तथा रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधम्, तथाविधमेवास्यारूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेषः ।। 5.15.51 ।।

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।

तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ।। 5.15.52 ।।

तथा ऽनोयरन्योन्यस्यानुरागमाह अस्या इति । अस्या देव्याः मनस्तस्मिन् रामे प्रतिष्ठितम्, तेन हेतुना इयं मुहूर्तमपि जीवति । तस्य च मनो ऽस्यां प्रतिष्ठितम्, तेन कारणेन स मुहूर्तमपि जीवति । तयोरन्योन्यं मनोनिवेशनाभावे मुहूर्तजीवनमपि न घटत इति भावः ।। 5.15.52 ।।

दुष्करं कृतवान् रामो हीनो यदनया प्रभुः ।

धारयत्यात्मनो देहं न शोकेनावसीदति ।। 5.15.53।।

माल्यवति शैले रामस्य सीताविरहक्लेशातिशयं निशाम्य हन्त वसिष्ठशिष्यः कस्याश्चित् स्त्रियाः कृते कथमेवमभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्ततया, संप्रत्यस्या वैलक्षण्यातिशयदर्शनेन विशेषज्ञतया एतद्विरहे रामस्य देहधारणं सर्वात्मना अशक्यमित्याह दुष्करमिति । दुष्करं कृतवान् रामः । इमां वियुज्य समाधानपरो रामः प्रकामशक्यं कृत्यमकरोत् । हीनो यदनया प्रभुः । अनया विना देहं धृत्वा ऽवस्थित इति यत्तदत्यन्तमशक्यम् । प्रभुः गजाश्वादिकं शिक्षयितुं राज्यं पालयितुं च जानाति । न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्यात्मनो देहम् । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहो ऽयं देहं भोगायतनं हीदं न दुःखायतनम् “दिह उपचये” इत्यस्माद्धातोः “इगुपधः” इत्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमिति भावः । विशेषज्ञेनापि कथमिदं त्यक्तुं शक्यम् । तत्राह न शोकेनावसीदति ।। 5.15.53।।

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।

सीतां विना महाबाहुर्मुहूर्तमपि जीवति ।। 5.15.54।।

उक्तमर्थं किञ्चिद्विशेषान्तरेण दर्शयति दुष्करं कुरुत इति ।। 5.15.54।।

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।

जगाम मनसा रामं प्रशशंस च तं प्रभुम् ।। 5.15.55।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पुञ्चदशः सर्गः ।। 5.15।।

एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा हृष्टः सन् मनसा रामं जगाम सस्मार । तं प्रभुं बुद्धिस्थं रामं प्रशशंस च पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो राम इत्यस्तौषीत् । यद्वा एतादृशसौन्दर्यवतीं सीतां दृष्ट्वा एतद्विरहितस्य महान् शोकः प्राप्तः अतः युक्तमेव कृतवान् राम इत्यस्तौषीत् ।। 5.15.55।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः ।। 5.15।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.