40 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।

उवाचात्महितं वाक्यं सीता सुरसुतोपमा ।। 5.40.1।।

श्रुत्वेत्यादि ।। 5.40.1।।

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर ।

अर्धसञ्जातसस्येव वृष्टिं प्राप्य वसुन्धरा ।। 5.40.2।।

यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः ।

संस्पृशेयं सकामा ऽहं तथा कुरु दयां मयि ।। 5.40.3।।

त्वामिति । अर्धसञ्जातसस्या अर्धोत्पन्नसस्या ।। 5.40.23।।

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।

क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ।। 5.40.4।।

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।। 5.40.5।।

स वीर्यवान् कथं सीतां हृतां समनुमन्यसे ।

वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपमः ।। 5.40.6।।

अभिज्ञानं चेति । काकस्यैकाक्षिशातनीं क्षिप्ताम् इषीकाम् इषीकतृणरूपमभिज्ञानं पूर्वोक्तं दद्याः । अन्यच्च वक्ष्यामीति भावः । तदेवाह मन इति । तिलके पूर्वतिलके प्रनष्टे सति । गण्डपार्श्वे गण्डस्थले गण्डशैलपार्श्वे वा । मनः शिलायास्तिलकः मनः शिलाकृततिलकः । तत् मनः शिलातिलकनिर्माणं स्मर्तुमर्हसि । इदमप्यभिज्ञानं दद्या इति योजना ।। 5.40.46।।

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।

एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ।। 5.40.7।।

एष ति । प्रहृष्यामीति । अस्य चूडामणेस्त्वया बहुशो लालितत्वेन त्वत्स्मारकत्वादिति भावः ।। 5.40.7।।

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।

अतः परं न शक्ष्यामि जीवितुं शोकलालसा ।। 5.40.8।।

असह्यानि न दुःखानि वाचश्च हृदयच्छिदः ।

राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ।। 5.40.9।।

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।

मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज ।। 5.40.10।।

वारिसम्भवः, रत्नं हि रत्नाकरे उत्पद्यते । अतः परं मासात्परम् ।। 5.40.810।।

घोरो राक्षसराजो ऽयं दृष्टिश्च न सुखा मयि ।

त्वां च श्रुत्वा विषज्जनं न जीवेयमहं क्षणम् ।। 5.40.11।।

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।

तथा ऽब्रवीन्महातेजा हनुमान् मारुतात्मजः ।। 5.40.12।।

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।

रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ।। 5.40.13।।

विषज्जन्तं विलम्बमानम् ।। 5.40.1113।।

कथंचिद् भवती दृष्टा न कालः परिशोचितुम् ।

इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यामि भामिनि ।। 5.40.14।।

तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिन्दमौ ।

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ।। 5.40.15।।

हत्वा तु समरे क्रूरं रावणं सहबान्धवम् ।

राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ।। 5.40.16।।

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते ।

प्रीतिसञ्जननं तस्य भूयस्त्वं दातुमर्हसि ।। 5.40.17।।

सा ऽब्रवीद्दत्तमेवेति मया ऽभिज्ञानमुत्तमम् ।

एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ।

श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति ।। 5.40.18।।

स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः ।

प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।। 5.40.19।।

तमुत्पातकृतोत्साहमवेक्ष्य हरिपुङ्गवम् ।

वर्धमानं महावेगमुवाच जनकात्मजा ।। 5.40.20।।

अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ।। 5.40.21।।

हनुमन् सिंहसङ्काशौ भ्रातरौ रामलक्ष्मणौ ।

सुग्रीवं च सहामात्वं सर्वान् ब्रूया ह्यनामयम् ।। 5.40.22।।

यथा च स महाबाहुर्मां तारयति राघवः ।

अस्माद्दुःखाम्बुसंरोधात् त्वं समाधातुमर्हसि ।। 5.40.23।।

इमं मुहूर्तम् अस्मिन्मुहूर्ते ।। 5.40.1423।।

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।

ब्रूयास्तु रामस्य गतः समीपं शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीर ।। 5.40.24।।

इमं चेति । शिवश्च ते ऽध्वा ऽस्तु हरिप्रवीरेति । शिवः अव्याहत इत्यर्थः ।। 5.40.24।।

स राजपुत्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।

अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदिचीं मनसा जगाम ।। 5.40.25।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चत्वारिंशः सर्गः ।। 5.40।।

स इति । अल्पावशेषम् अल्पावशिष्टम् । प्रसमीक्ष्य विचार्य ।। 5.40.25।।

इति श्रीगोविन्दराजवरिचिते श्रीरामायणभूषणे श्रृङ्गारङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चत्वारिंशः सर्गः ।। 5.40।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.