41 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः

स च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया ।

तस्माद्देशादपक्रम्य चिन्तयामास वानरः ।। 5.41.1।।

स चेत्यादि ।। 5.41.1।।

अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा ।

त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ।। 5.41.2।।

अल्पेति । “अभिगम्य तु वैदेहीं निलयं रावणस्य च” इत्युक्तकार्यद्वये सीतादर्शनरूपं कार्यं जातम् । इदं कार्यं रावणनिलयपरिज्ञानरूपम् । अल्पशेषम् अल्पावशिष्टम् । सान्तःपुरलङ्कायाः सम्यक् परिज्ञातत्वे ऽपि राक्षसबलाबलरावणहृदयाद्यपरिज्ञानात्कार्यस्याल्पशेषत्वोक्तिः । इह राक्षसबलाबलरावणहृदयपरिज्ञानरूपकार्ये । त्रीनुपायानतिक्रम्य सामदानभेदानतिक्रम्य । चतुर्थो लक्ष्यते साधनतया दण्ड एव दृश्यत इत्यर्थः ।। 5.41.2।।

न साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते ।

न भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ।। 5.41.3।।

न चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते ।

हतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ।। 5.41.4।।

उपपत्तिपूर्वकमेतदेव विवृणोति न सामेति । “अनित्यो विजयो यस्माद्दृश्यते युद्ध्यमानयोः । पराजयश्च संग्रामे तस्माद्युद्धं विसर्जयेत् ।।” इति युद्धस्य अव्यवस्थितफलकत्वेऽपि सर्वं बलवतः पथ्यम्’ इति न्यायेन सर्वातिशायिबलपराक्रमस्य मम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम इति। मम तु इह रक्षोविषये पराक्रम एव रोचत इति संबन्धः।। 5.41.34 ।।

कार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् ।

पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ।। 5.41.5।।

“अभिगम्य तु वैदेहीं निलयं रावणस्य च” इत्यनुज्ञातस्यातिरिक्तकार्यकरणे दोषमाशङ्क्य परिहरति कार्य इति । कार्ये विहिते कर्तव्ये, बहूनि कार्याणि ।। 5.41.5।।

न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः ।

यो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ।। 5.41.6।।

न हीति । अल्पस्यापि कर्मणः एको हेतुस्साधको न किमुत महतः कर्मण इति भावः । बहुधा बहुभिर्हेतुभिः ।। 5.41.6।।

इहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् ।

परात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ।। 5.41.7।।

पूर्वोक्तसमर्थनायाह इहैवेति । अहमिहैव । परात्मसंमर्दविशेषतत्त्ववित् परात्मनोर्युद्धतारतम्यतत्त्ववित् कृतनिश्चयः कृतबलाबलनिश्चयः सन् यदि प्लवगेश्वरालयं व्रजेयं ततः भर्तृशासनं सीतादर्शनरावणनिलयसम्यक्परिज्ञानविषयं शासनम् । तावत् साकल्येन कृतं स्यात् । अन्यथा राक्षसबलाबलं कीदृशमिति भर्त्रा पृष्टे निरुत्तरः स्यामिति भावः ।। 5.41.7।।

कथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह ।

तथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ।। 5.41.8।।

कथं न्विति । युद्धं कथं सुखागतं सुखेन प्राप्तं भवेत्तथा कर्तव्यमित्यर्थः । युद्धस्य फलमाह तथैवेत्यादिना सार्द्धश्लोकेन । तथैव खलु युद्धकरणे खलु । सः दशाननः । रणे आत्मबलं स्वपक्षबलं मां च । सारवत् मानयेत्परिच्छिन्द्यात् ।। 5.41.8।।

ततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् ।

हृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ।। 5.41.9।।

बलप्रयायिना सेनान्या सह वर्तत इति सबलप्रयायी तम् । तस्य हृदि स्थितं मतं सीताविषयाध्यवसायं बलं च मत्वा सुखेन इतः अस्मात् स्थानात् पुनः व्रजे व्रजिष्यामि ।। 5.41.9।।

इदमस्य नृशंसस्य नन्दनोपममुत्तमम् ।

वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ।। 5.41.10।।

इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः ।

अस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ।। 5.41.11।।

इदमिति । नेत्रमनःकान्तम्, वर्तत इति शेषः ।। 5.41.1011।।

ततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः ।

त्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ।। 5.41.12।।

अहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः ।

निहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ।। 5.41.13।।

तत इति । समादेक्ष्यति नियोजयिष्यति । इदम् अव्यवहितोत्तरकालिकम् । कपीश्वरालयमित्यनन्तरमितिकरणं द्रष्टव्यम् । इति चिन्तयामासेत्यन्वयः ।। 5.41.1213।।

ततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः ।

उरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ।। 5.41.14।।

ततः तेन चिन्तितेन हेतुना ।। 5.41.14।।

ततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् ।

मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ।। 5.41.15।।

प्रमदावनम् अन्तःपुरवनम् । “प्रमदावनमन्तः पुरोचितम्” इत्यमरः ।। 5.41.15।।

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।

चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ।। 5.41.16।।

नानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः ।

ताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् ।

न बभौ तद्वनं तत्र दावानलहतं यथा ।। 5.41.17।।

पर्वताग्रैः क्रीडापर्वताग्रैः ।। 5.41.1617।।

व्याकुलावरणा रेजुर्विह्वला इव ता लताः ।। 5.41.18।।

व्याकुलावरणाः आवरणादुपघ्नाद्व्याकुलाः । विह्वलाः स्त्रियः इव ।। 5.41.18।।

लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः ।

शिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ।। 5.41.19।।

व्यालमृगैः श्वापदादिहिंस्रमृगैः । निर्धुतैः पीडितैः । गृहैः केवलगृहैः ।। 5.41.19।।

सा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना ।

जाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ।। 5.41.20।।

सेति । शोच्यत इति शोकः । प्रतानं विततिः । अशोकम् अशोच्यम् लताप्रतानं यस्यास्सा अशोकलताप्रताना । दशास्यप्रमदावनस्य भोगवर्धनेन रावणवनितारक्षकस्य । प्रमदावनस्य अन्तःपुरोद्यानस्य । सा वनस्थली तृणगुल्मलतादिविशिष्टप्रदेशः । कपेर्बलाद्धि विह्वला लुलिता शोकलताप्रताना च जाता । यद्वा शोकलताश्शोकरताः । रलयोरभेदः । अप्प्रतानाः अप्सु प्रतानाः कमलकल्हारादयो ऽस्यां सा शोकलताप्प्रताना । म्लानजलजेति यावत् । दशास्यप्रमदावनस्य रावणप्रमदावनस्य ‘ङ्यापोस्संज्ञाच्छान्दसोर्बहुलम्” इति बहुलवचनाद्ध्रस्वाभावः । दशास्यप्रमदावनस्य वनस्थलीत्यत्र शिलापुत्रकस्य शरीरमितिवदुपचारात् षष्ठी । प्रमदावनस्य सीतारूपप्रमदापालकस्य । वनस्थली कपेर्बलाद्विह्वला शोकलताप्रताना च जाता । अशोकलतेत्युपलक्षणम् ।। 5.41.20।।

स तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः ।

युयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ।। 5.41.21।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकचत्वारिंशः सर्गः ।। 5.41।।

स इति । अर्थपतेः राज्ञो रावणस्य । मनसः व्यलीकम् अप्रियम् पीडनं वा । “अलीकं त्वप्रियाकार्यवैलक्ष्यानृतपीडने” इति निघण्टुः । युयुत्सुः योद्धुमिच्छुः । तोरणम् उद्यानबहिर्द्वारम् । “तोरणो ऽस्त्री बहिर्द्वारम्” इत्यमरः ।। 5.41.21।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकचत्वारंशः सर्गः ।। 5.41।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.