31 Sarga सुन्दरकाण्डः

श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः

एवं बहुविधां चिन्तां चिन्तयित्वा महाकपिः ।

संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह ।। 5.31.1।।

एवमित्यादि । चिन्तां चिन्तयित्वा चिन्तां कृत्वा, कर्तव्यमर्थं निश्चित्येत्यर्थः । संश्रवे सम्यक् श्रूचते ऽस्मिन्निति संश्रवः समीपम्, समीपे व्याजहार । यद्वा “पाठ्ये गेये च मधुरम्” इति संश्रवे श्रवणे मधुरं ज्ञानप्रसरणद्वारा इन्द्रियेभ्यो निस्सृत्य विषयान् गृहीत्वा तदनन्तरं हि रसो जायते लोके, अत्र न तथा यत्र शब्दसंसर्गो जायते तत्र रसो जायत इत्यतिशयोक्तिः । मधुरं ज्ञानमपि तद्द्वारा रसजनकं वाक्यं पूर्वापरनिरूपणं विना स्वयं रसजलकम् । वैदेह्याः वैदेही निमित्तम् । कुलानुरोधेन देहे निस्स्पृहायाः देहमपि दत्त्वा रसावहत्वमुच्यते ।। 5.31.1।।

राजा दशरथो नाम रथकुञ्जरवाजिमान् ।

पुण्यशीलो महाकीर्तिर्ऋजुरासीन्महायशाः ।। 5.31.2।।

राजर्षीणां गुणश्रेष्टस्तपसा चर्षिभिः समः ।

चक्रवर्तिकुले जातः पुरन्दरसमो बले ।। 5.31.3।।

अहिसारतिरक्षुद्रौ घृणी सत्यपराक्रमः ।

मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः ।। 5.31.4।।

राजेत्यादि । वितरणविक्रमादिजनितत्वेन कीर्तियशसोर्भेदो ऽवगन्तव्यः ।। 5.31.24।।

पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः ।

पृथिव्यां चतुरन्तायां विश्रुतः सुखदः सुखी ।। 5.31.5।।

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः ।

रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम् ।। 5.31.6।।

रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।

रक्षिता जीवलोकस्य धर्मस्य च परन्तपः ।। 5.31.7।।

पार्थिवव्यञ्जनैः राजलक्षणैः ।। 5.31.57।।

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः ।

सभार्यः सह च भ्रात्रा वीरः प्रव्राजितो वनम् ।। 5.31.8।।

तस्य पितुर्वचनाद्वनं प्रव्राजितः गतः । स्वार्थे णिच् ।। 5.31.8।।

तेन तत्र महारण्ये मृगयां परिधावता ।

राक्षसा निहताः शूरा बहवः कामरूपिणः ।। 5.31.9।।

मृगयां परिधावता मृगयामुद्दिश्य परिधावता । अनेन लीलया खरादिवधः सूच्यते ।। 5.31.9।।

जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ ।

ततस्त्वमर्षापहृता जानकी रावणेन तु ।

वञ्जयित्वा वने रामं मृगरूपेण मायया ।। 5.31.10।।

स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम् ।

आससाद वने मित्रं सुग्रीवं नाम वानरम् । ।। 5.31.11।।

ततः स वालिनं हत्वा रामः परपुरञ्जयः ।

प्रायच्छत् कपिराज्यं तत् सुग्रीवाय महाबलः ।। 5.31.12।।

सुग्रीवेणापि सन्दिष्टा हरयः कामरूपिणः ।

दिक्षु सर्वासु तां देवीं विचिन्वन्ति सहस्रशः ।। 5.31.13।।

अहं संपातिवचनाच्छतयोजनमायतम् ।

अस्या हेतोर्विशालाक्ष्याः सागरं वेगवान् प्लुतः ।। 5.31.14।।

जनस्थानवधं जनस्थानरक्षोवधम् । अमर्षेणापहृताः अमर्षपहृता । मृगरूपेण मृगसौन्दर्येण प्रशस्तमृगेण वा । “प्रशंसायां रूपप्” ।। 5.31.1014।।

यथारूपां यथावर्णां यथालक्ष्मीं च निश्चिताम् ।

अश्रौषं राघवस्याहं सेयमासादिता मया ।। 5.31.15।।

विररामैव मुक्त्वा ऽसौ वाचं वानरपुङ्गवः ।

जानकी चापि तच्छृत्वा विस्मयं परमं गता ।। 5.31.16।।

यथारूपां यादृशशरीराम् । यथावर्णां यादृशरूपाम् । यथालक्ष्मीं यादृशकान्तिम् । राघवस्य राघवात् ।। 5.31.1516।।

ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम् ।

उन्नम्य वदनं भीरुः शिंशुपावृक्षमैक्षत ।। 5.31.17।।

निशम्य सीता वचनं कपेश्च दिशश्च सर्वाः प्रदिशश्च वीक्ष्य ।

स्वयं प्रहर्षं परमं जगाम सर्वात्मना राममनुस्मरन्ती ।। 5.31.18।।

तत इति । सुकेशी नीलसूक्ष्मकेशी, वक्रिम्णः पूर्वमुक्तत्वात् ।। 5.31.1718।।

सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्यबुद्धिम् ।

ददर्श पिङ्गाधिपतेरमात्यं वातात्मजं सूर्यमिवोदयस्थम् ।। 5.31.19।।

इत्यार्षे श्रीरीमायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकत्रिंशः सर्गः ।। 5.31।।

सेति । पार्श्वम् आकाशं भूमिं चावेक्षमाणा । अधस्तादित्यनेन यथा भूमिं भित्त्वा कश्चिन्नरः रामनामानि कीर्तयेत्तथा ऽन्यत्रापीत्यपिना संभावनोच्यते । शिंशुपावृक्षस्याधस्तात्तिर्यगूर्ध्वमिति वा । तमचिन्त्यबुद्धिं ददर्श । तद्वपुरवलोकनात्पूर्वं तस्य हृदयमेवं परिच्छिनत्ति स्म । इह लङ्कायां प्रविश्यावरोधाराममध्यप्रवेशेनायं निपुणतरमतिरिति निश्चितवतीत्यर्थः । पिङ्गाधिपतेरमात्यं स्वरविशेषेणायं वानरः, तत्रापि न स्वतन्त्रः, किन्तु स्वसजातीयस्य राज्ञः कस्यचिदमात्यो ऽयम्, तद्राज्यकार्यमेतद्धस्तगतमिति निश्चितवती । वातात्मजं रामप्राणहेतुभूतमत्प्राणनहेतुत्वेन सर्वप्राणिप्राणनहेतुत्वेन वायुपुत्रो ऽयमित्यवगतवती । सूर्यमिवोदयस्थं रामदिवाकरस्योदयसूचकमुदयगिरिस्थमरुणमिव स्थितम् । सूरः सूर्यः । “सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः” इत्यमरः । “सूरसूतो ऽरुणो ऽनुरुः” इत्युक्तेस्सूरस्य सम्बन्धी सूर्यः । दिगादित्वाद्यत् । भवतापि सम्बन्धः विशेष एव । यद्वा सूर्यशब्देन तत्संबन्ध्यरुणो लक्ष्यते । “सूर्यो ऽरुणे च सूर्ये च” इति निघण्टुरस्तीत्याहुः । औचित्यादत्र सूर्यो ऽरुणः ।। 5.31.19।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डाव्याख्याने एकत्रिंशः सर्गः ।। 5.31।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.