66 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्षष्टितमः सर्गः

एवमुक्तो हनुमता रामो दशरथात्मजः ।

तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः ।। 5.66.1 ।।

तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः ।

नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत् ।। 5.66.2 ।।

एवमित्यादि ।। 5.66.1,2 ।।

यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला ।

तथा ममापि हृदयं मणिरत्नस्य दर्शनात् ।। 5.66.3 ।।

यथा वत्सला वत्से स्नेहवती धेनुः । वत्सस्य स्नेहाद्वत्सविषयकस्नेहात् । स्रवत्येव द्रवत्येव । तथा मणिरत्नस्य मणिश्रेष्ठस्य दर्शनान्मम हृदयं द्रवति ।। 5.66.3 ।।

मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे ।

वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते ।। 5.66.4 ।।

मणेरागतिमाहमणिरत्नमिति । मे श्वशुरेण जनकेन । वधूकाले वधूप्रतिग्रहकाले, विवाहकाल इत्यर्थः । यथा शोभते तथा बद्धमित्यन्वयः ।। 5.66.4 ।।

अयं हि जलसम्भूतो मणिः सज्जनपूजितः ।

यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता ।। 5.66.5 ।।

जनकेनापि कुतस्तल्लब्धम् ? तत्राह अयं हीति ।। 5.66.5 ।।

इमं दृष्ट्वा मणिश्रेष्ठं यथा तातस्य दर्शनम् ।

अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः ।। 5.66.6 ।।

अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः ।

अस्याद्य दर्शनेनाहं प्राप्तां तामिव चिन्तये ।। 5.66.7 ।।

किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः ।

पिपासुमिव तोयेन सिञ्चन्ति वाक्यवारिणा ।। 5.66.8 ।।

‘मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति’ इति सीतयोक्तप्रकारेण स्मरति इममिति । इमं दृष्ट्वा तातस्य दशरथस्य । वैदेहस्य जनकस्य । दर्शनमद्यावगतः प्राप्तोस्मि । तदा ताभ्यां तस्या मूर्ध्नि बद्धत्वादिति भावः । इह वैदेहग्रहणं सीताजनन्या अप्युपलक्षणम् । सीतावाक्ये ‘वीरो जनन्या मम च’ इत्युक्तेः । तत्र त्रयाणां संस्मरिष्यतीति त्रयग्रहणं बहुमात्रोपलक्षणम् । इह वैदेहस्यापि स्मरणोक्तेः ।। 5.66.68 ।।

इतस्तु किं दुःखतरं यदिमं वारिसम्भवम् ।

मणिं पश्यामि सौमित्रे वैदेहीमागतं विना ।। 5.66.9 ।।

चिरं जीवति वैदेही यदि मासं धरिष्यति ।

क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम् ।। 5.66.10 ।।

नय मामपि तं देशं यत्र दृष्टा मम प्रिया ।

न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च ।। 5.66.11 ।।

इतस्त्विति । आगतं मणिमित्यन्वयः ।। 5.66.911 ।।

कथं सा मम सुश्रोणी भीरुभीरुः सती सदा ।

भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम् ।। 5.66.12 ।।

शारदस्तिभिरोन्मुक्तो नूनं चन्द्र इवाम्बुदैः ।

आवृतं वदनं तस्या न विराजति राक्षसैः ।। 5.66.13 ।।

भीरुभीरुः अत्यन्तभीरुः ।। 5.66.12,13।।

किमाह सीता हनुंस्तत्त्वतः कथयाद्य मे ।

एतेन खलु जीविष्ये भेषजेनातुरो यथा ।। 5.66.14 ।।

तत्त्वतः, सङ्कोचेन न किंचित् गोपनीयमिति भावः ।। 5.66.14 ।।

मधुरा मधुरालापा किमाह मम भामिनी ।

मद्विहीना वरारोहा हनुमन् कथयस्व मे ।।

[दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी ] ।। 5.66.15 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षट्षष्टितमः सर्गः ।। 5.66 ।।

मधुरा सुन्दरी । मधुरालापा, येन तद्वचनानुवादेपि भवद्वचनं मधुरं भवतीत्यर्थः ।। 5.66.15 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षट्षष्टितमः सर्गः ।। 5.66 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.