42 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः

ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च ।

बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः ।। 5.42.1।।

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।

रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ।। 5.42.2।।

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।

तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ।। 5.42.3।।

स ता दृष्ट्वा महाबाहूर्महासत्त्वो महाबलः ।

चकार सुमहद्रूपं राक्षसीनां भयावहम् ।। 5.42.4।।

ततः पक्षीत्यादि ।। 5.42.14।।

ततस्तं गिरिसङ्काशमतिकायं महाबलम् ।

राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ।। 5.42.5।।

को ऽयं कस्य कुतो वा ऽयं किंनिमित्तमिहागतः ।

कथं त्वया सहानेन संवादः कृत इत्युत ।। 5.42.6।।

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।

संवादमसितापाङ्गे त्वया किं कृतवानयम् ।। 5.42.7।।

ततस्तमित्यादि । उतशब्दो वार्थे । “उताप्यर्थविकल्पपयोः” इत्यमरः । संवादो वा कथं कृत इति पप्रच्छुरिति पूर्वेण सम्बन्धः । कः किन्नामकः । कस्य कस्य सम्बन्धी पुरुषः । कुतः कस्माद्देशादागतः । किन्निमित्तं किं प्रयोजनमुद्दिश्य । संवादं किं कृतवान् किमुद्दिश्य कृतवान् । सर्वस्यापि पप्रच्छुरिति पूर्वेणान्वयः ।। 5.42.57।।

अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गसुन्दरी ।

रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ।। 5.42.8।।

यूयमेवाभिजानीत यो ऽयं यद्वा करिष्यति ।

अहिरेव ह्यहेः पादान् विजानाति न संशयः ।। 5.42.9।।

अहमप्यस्य भीता ऽस्मि नैनं जानामि कोन्वयम् ।

वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ।। 5.42.10।।

अथाब्रवीदित्यादि । अयं यः यादृशः । यद्वा कार्यं करिष्यति तद्यूयमेवाभिजानीतेति संबन्धः । नैनं जानामीति । “विवाहकाले रतिसंप्रयोगे प्राणात्यये सर्वधनापहारे । (विप्रस्य) मित्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ।।” इति स्मरणादसत्योक्तिः।। 5.42.810 ।।

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।

स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ।। 5.42.11।।

रावणस्य समीपे तु राक्षस्यो विकृताननाः ।

विरूपं वानरं भीममाख्यातुमुपचक्रमुः ।। 5.42.12।।

अशोकवनिकामध्ये राजन् भीमवपुः कपिः ।

सीतया कृतसंवादस्तदिष्ठत्यमितविक्रमः ।। 5.42.13।।

न च तं जानकी सीता हरिं हरिणलोचना ।

अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छिति ।। 5.42.14।।

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।

प्रेषितो वा ऽपि रामेण सीतान्वेषणकाङ्क्षया ।। 5.42.15।।

वैदेह्या इति । दिशः दिक्षु, वनस्य पार्श्वेष्वित्यर्थः । विद्रुताः विलीनाः । निवेदितुं निवेदयितुम् ।। 5.42.1115।।

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।

नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ।। 5.42.16।।

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।

यत्र सा जानकी सीता स तेन न विनाशितः ।। 5.42.17।।

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।

अथवा कः श्रमस्तस्य सैव तेनाभिरक्षिता ।। 5.42.18।।

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।

प्रवृद्धः शिंशुपावृक्षः स च तेनाभिरक्षितः ।। 5.42.19।।

प्रमृष्टं भग्नमित्यर्थः ।। 5.42.1619।।

तस्योग्ररूपस्योग्र त्वं दण्डमाज्ञातुमर्हसि ।

सीता संभाषिता येन तद्वनं च विनाशितम् ।। 5.42.20।।

मनःपरिगृहीतां तां तव रक्षोगणेश्वर ।

कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ।। 5.42.21।।

तस्येति । हे उग्र । त्वम् आज्ञातुम् आज्ञापयितुम् ।। 5.42.2021।।

राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः ।

हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ।। 5.42.22।।

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिन्दवः ।

दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ।। 5.42.23।।

संवर्तितेक्षणः परिवर्तितेक्षणः ।। 5.42.2223।।

आत्मनः सदृशाञ्छूरान् किङ्करान्नाम राक्षसान् ।

व्यादिदेश महातेजा निग्रहार्थं हनूमतः ।। 5.42.24।।

नाम प्रसिद्धौ । किंकर इति प्रसिद्धानित्यर्थः ।। 5.42.24।।

तेषामशीतिसाहस्रं किङ्कराणां तरस्विनाम् ।। 5.42.25।।

किंकराणां सङ्ख्यां निर्दिशति तेषामिति ।। 5.42.25।।

निर्ययुर्भवनात् तस्मात्कूटमुद्गरपाणयः ।

महोदरा महादंष्ट्रा घोररूपा महाबलाः ।

युद्धाभिमनसः सर्वे हनुमद्ग्रहणोन्मुखाः ।। 5.42.26।।

निर्युरिति । सर्व इति विशेष्यम् । कूटो नाम अयस्कारकूटसदृश आयुधविशेषः । मुद्गरः द्रुघणः ।। 5.42.26।।

ते कपीन्द्रं समासाद्य तोरणस्थमवस्थितम् ।

अभिपेतुर्महावेगाः पतङ्गा इव पावकम् ।। 5.42.27।।

अवस्थितं युद्धाय सन्नद्धमित्यर्थः ।। 5.42.27।।

ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः ।

आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ।। 5.42.28।।

परिघैः परिघपातनैः । काञ्चानाङ्गदैः काञ्चनपटैः ।। 5.42.28।।

मुद्गरैः पट्टिशैः शूलैः प्रासतोमरशक्तिभिः ।

परिवार्य हनूमन्तं सहसा तस्थुरग्रतः ।। 5.42.29।।

मुद्गरैरिति । पट्टिशो नाम लोहदण्डः तीक्ष्णधारः क्षुरोपम आयुधविशेषः । अत्रेत्थंभूतलक्षणे तृतीया । प्रासः कुन्तः । तोमरः आयुधविशेषः । ।। 5.42.29।।

हनुमानपि तेजस्वी श्रीमान् पर्वतसन्निभिः ।

क्षितावाविध्य लांगूलं ननाद च महास्वनम् ।। 5.42.30।।

श्रीमानिति तात्कालिकहर्षकृतकान्तिरुच्यते ।। 5.42.30।।

स भूत्वा सुमहाकायो हनुमान् मारुतात्मजः ।

धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन् ।। 5.42.31।।

धृष्टमिति क्रियाविशेषणम् ।। 5.42.31।।

तस्यास्फोटितशब्देन महता सानुनादिना ।

पेतुर्विहङ्गा गगनादुच्चैश्चेदमघोषयत् ।। 5.42.32।।

तस्येत्यादि । सानुनादिना सप्रतिध्वनिना । यद्वा अनुनादिनः पर्वतगुहादयः तत्सहितेन । यद्वा सानुषु प्रतिध्वनिं कुर्वता । उच्चैश्चेदमघोषयदिति । स हनुमान् इदं वक्ष्यमाणं वचनमुच्चैरघोषयत् ।। 5.42.32।।

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।

राजा जयति सुग्रीवो राघवेणाभिपालितः ।। 5.42.33।।

घोषणवचनमाह जयतीत्यादि । अभिपालितः वालिवधेन ।। 5.42.33।।

दासो ऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः ।

हनुमान् शत्रुसैन्यानां निहन्ता मारुतात्मजः ।। 5.42.34।।

अक्लिष्टकर्मण इत्यनेन स्वदास्यं न कर्मकृतम्, किन्तु स्वरूपप्रयुक्तमित्युच्यते ।। 5.42.34।।

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।

शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ।। 5.42.35।।

प्रतिबलं समानबलम् । प्रहरतः, राक्षसानिति शेषः । प्रहारमात्रेण वा हनुमद्विशेषणम् ।। 4.42.35।।

अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम् ।

समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ।। 5.42.36।।

अर्दयित्वेति । मिषतां पश्यताम् । अनादरे षष्ठी ।। 542.36।।

तस्य सन्नादशब्देन ते ऽभवन् भयशङ्किताः ।

ददृशुश्च हनूमन्तं सन्ध्यामेघमिवोन्नतम् ।। 5.42.37।।

सन्ध्यामेघमिवेति रक्तवर्णत्वात् ।। 5.42.37।।

स्वामिसन्देशनिश्शङ्कास्ततस्ते राक्षसाः कपिम् ।

चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ।। 5.42.38।।

स तैः परिवृतः शूरैः सर्वतः स महाबलः ।

आससादायसं भीमं परिघं तोरणाश्रितम् ।।

स तं परिघमादय जघान रजनीचरान् ।। 5.42.39।।

ततस्तत इति । अनेनास्य समीपं सहसा गन्तुमशक्ता इत्यवगम्यते ।। 5.42.38,39।।

स पन्नगमिवादाय स्फुरन्तं विनतासुतः ।

विचचाराम्बरे वीरः परिगृह्य च मारुतिः ।। 5.42.40।।

[सूदयामास वज्रेण दैत्यानिव सहस्रदृक्]

स हत्वा राक्षसान् वीरान् किङ्करान् मारुतात्मजः ।

युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपाश्रितः ।। 5.42.41।।

स पन्नगमिति सपरिवत्वमात्रे दृष्टान्तः । परिगृह्य, परिघमिति शेषः । स्फुरन्तं पन्नगमादाय विनतासुत इव स वीरो मारुतिः परिघं परिगृह्याम्बरे विचचारेति सम्बन्धः ।। 5.42.4041।।

ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ।

निहतान् किङ्करान् सर्वान् रावणाय न्यवेदयन् ।। 5.42.42।।

स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।

समादिदेशाप्रतिमं पराक्रमे प्रहस्त पुत्रं समरे सुदुर्जयम् ।। 5.42.43।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्विचत्वारिंशः सर्गः ।। 5.42।।

तस्मात् भयान्मुक्ताः दूरस्थाः इत्यर्थः ।। 5.42.42,43।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्विचत्वारिंशः सर्गः ।। 5.42।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.