39 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंश सर्गः

मणिं दत्त्वा ततः सीता हनुमन्तमथाब्रवीति ।

अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः ।। 5.39.1।।

मणिमित्यादि । अभिज्ञातं सम्यक् ज्ञातम् ।। 5.39.1।।

मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति ।

वीरो जनन्या मम च राज्ञो दशरथस्य च ।। 5.39.2।।

स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम ।

अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम् ।। 5.39.3।।

त्रयाणामिति “अधीगर्थदयोशां कर्मणि” इति षष्ठी । विवाहकाले शिरोमणिदातृत्वात्पित्रोः ग्रहीतृत्वाच्च मम स्मरणमिति भावः । पाणिग्रहणोत्सवे मम श्वशुराभ्यां प्रथमं शिरोभूषणतया एष दत्तः । अतः त्रीनस्मान् युगपत् स्मरिष्यतीत्यर्थ इत्याह कश्चित् । तदनुचितम् । “मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे । वधूकाले तथा बद्धमधिकं मूर्ध्नि शोभते” इत्युपरि वक्ष्यमाणत्वाद्विवाहकाले रामजनन्या अनागमनाच्च ।। 5.39.23।।

त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ।

हनुमन् यत्नमास्थाय दुःखक्षयकरो भव ।

तस्य चिन्तयतो यत्नो दुःखक्षयकरो भवेत् ।। 5.39.4।।

त्वमिति । कार्यनिर्योगे कार्यसङ्घटने । प्रमाणं व्यवस्थापकः । चिन्तयतस्तस्य, तवेति शेषः ।। 5.39.4।।

स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः ।

शिरसा ऽ ऽवन्द्य वैदेहीं गमनायोपचक्रमे ।। 5.39.5।।

ज्ञत्वा संप्रस्थितं देवी वानरं मारुतात्मजम् ।

बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत् ।। 5.39.6।।

स तथेति । आवन्द्येति पदच्छेदः ।। 5.39.5,6।।

कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ ।। 5.39.7।।

सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वाररान् ।

ब्रूयास्त्वं वानरश्रेष्ठ कुशलं धर्मसंहितम् ।। 5.39.8।।

कुशलमिति । ब्रूया इति । धर्मसंहितं धर्मसहितम् । धर्मपुरस्सरम् कुशलं ब्रूया इत्यर्थः ।। 5.39.78।।.

यथा स च महाबाहुर्मां तारयति राघवः ।

अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि ।। 5.39.9।।

दुःखाम्बुसंरोधात् । अम्बूनि संरुध्यन्ते अनेनेत्यम्बुसंरोधः जलधिः । समाधातुं राममनुकूलयितुम् ।। 5.39.9।।

जीवन्तीं मां यथा रामः सम्भावयति कीर्तिमान् ।

तत्तथा हनुमन् वाच्यं वाचा धर्ममवाप्नुहि ।। 5.39.10।।

जीवन्तीं सम्भावयति जीवन्तीं करोतीत्यर्थः । तत्तथा अव्ययमेतत् । वचनस्य प्रयोजनमाह वाचेति । वाचा धर्मं वाचिकधर्मम् ।। 5.39.10।।

नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा त्वयेरिताः ।

वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये ।। 5.39.11।।

मत्सन्देशयुता वाचस्त्वत्तः श्रुत्वैव राघवः ।

पराक्रमविधिं वीरो विधिवत् संविधास्यति ।। 5.39.12।।

सीताया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

शिरस्यञ्जलिमाधाय वाक्यमुत्तरब्रवीत् ।। 5.39.13।।

क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः ।

यस्ते युधि विजित्यारीन् शोकं व्यपनयिष्यति ।। 5.39.14।।

नहि पश्यामि मर्त्येषु नासुरेषु सुरेषु वा ।

यस्तस्य क्षिपतो बाणान् स्थातुमुत्सहतो ऽग्रतः ।। 5.39.15।।

तमेव धर्ममुपपादयति द्वाभ्याम् नित्यमित्यादि ।। 5.39.1115।।

अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम् ।

सहि सोढुं रणे शक्तस्तव हेतोर्विशेषतः ।। 5.39.16।।

पर्जन्यम् इन्द्रम् । “पर्जन्यौ रसदब्देन्द्रौ” इत्यमरः ।। 5.39.16।।

स हि सागरपर्यन्तां महीं शासितुमीहते ।

त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि ।। 5.39.17।।

स हीति । त्वन्निमित्त इति । जयः, भविष्यतीति शेषः ।। 5.39.17।।

तस्य तद्वचनं श्रुत्वा सम्यक् सत्यं सुभाषितम् ।

जानकी बहुमेने ऽथ वचनं चेदमब्रवीत् ।। 5.39.18।।

सम्यक् सोपपत्तिकम् । सत्यं परमार्थम् । सुभाषितं श्रुतिमधुरम् ।। 5.39.18।।

ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः ।

भर्तृस्नेहान्वितं वाक्यं सौहार्दादनुमानयत् ।। 5.39.19।।

यदि वा मन्यसे वीर वसैकाहमरिन्दम ।

कस्मिंश्चित् संवृते देशे विश्रान्तः श्वो गमिष्यसि ।। 5.39.20।।

मम चेदल्पभाग्यायाः सान्निध्यात्तव वानर ।

अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत् ।। 5.39.21।।

गते हि हरिशार्दूल पुनरागमनाय तु ।

प्राणानामपि सन्देहो मम स्यान्नात्र संशयः ।। 5.39.22।।

वचनं चेदमब्रवीदित्युक्तं विवृणोति ततस्तमिति । भर्तृस्नेहान्वितम् आत्मनि यो भर्तुः स्नेहस्तेनान्वितम् । स्वविषयभर्तृस्नेहप्रकाशकमिति यावत् । अनुमानयदन्वमानयत् ।

वक्ष्यमाणोक्तिरूपं संमानवचनमब्रवीदित्यर्थः ।। 5.39.1922।।

तवादर्शनजः शोको भूयो मां परितापयेत् ।

दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर ।। 5.39.23।।

तवेति । दुःखाद्दुःखापरामृष्टां पूर्वदुःखादधिकेन दुःखेन स्पृष्टाम् । दीपयन्निव वर्धयन्निवेत्यर्थः ।। 5.39.23।।

अयं च वीर सन्देहस्तिष्ठतीव ममाग्रतः ।

सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर ।। 5.39.24।।

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् ।

तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ ।। 5.39.25।।

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने ।

शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा ।। 5.39.26।।

अयमिति । अयं बवक्ष्यमाणः, तिष्ठतीव मूर्तीभूत इत्यर्थः ।। 5.39.2426।।

तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे ।

किं पश्यसि समाधानं त्वं हि कार्यविदां वरः ।। 5.39.27।।

समाधानं परिहारम् ।। 5.39.27।।

काममस्य त्वमेवैकः कार्यस्य परिसाधने ।

पर्याप्तः परवीरघ्न यशस्यस्ते फलोदयः ।। 5.39.28।।

अहमेव साधयिष्यामीत्याशङ्क्याह काममिति । हे परवीरघ्न त्वम् अस्य कार्यस्य सर्वराक्षसवधपूर्वकमत्प्रापणरूपस्य परिसाधने कामं पर्याप्तः शक्तः । एवं चेत्फलोदयः शक्तिसमृद्धिः । ते यशस्यः तव यशस्करः । न तु ममेति भावः ।। 5.39.28।।

बलैः समग्रैर्यदि मां रावणं जित्यसंयुगे ।

विजयी स्वपुरीं यायात् तत्तु मे स्याद्यशस्करम् ।। 5.39.29।।

तर्हि तव किं यशस्यामित्याकाङ्क्षायामाह बलैरिति । जित्य जित्वा । मां, गृहीत्वेति शेषः । यायात्, राम इति च शेषः ।। 5.39.29।।

शरैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः ।

मां येद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् ।। 5.39.30।।

एतन्न केवलं मम, रामस्यापीत्याह शरैरिति ।। 5.39.30।।

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।

भवेदाहवशूरस्य तथा त्वमुपपादय ।। 5.39.31।।

तदिति । तस्य अनुरूपं विक्रान्तं यथा भवेत्तथा उपपादय कुरु ।। 5.39.31।।

तदर्थोपहितं वाक्यं सहितं हेतुसंहितम् ।

निशम्य हनुमान् शेषं वाक्यमुत्तरमब्रवीत् ।। 5.39.32।।

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः ।

सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः ।। 5.39.33।।

स वानरसहस्राणां कोटीभिरभिसंवृतः ।

क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः ।। 5.39.34।।

अर्थोपहितम् अर्थयुक्तम् । सहितम् परस्परसङ्गतम् । हेतुसंहितं युक्तियुक्तम् । शेषं पूर्वमनुक्तम् उत्तरं वाक्यमब्रवीत् ।। 5.39.3234।।

तस्य विक्रमसम्पन्नास्सत्त्ववन्तो महाबलाः ।

मनस्सङ्कल्पसंपाता निदेशे हरयः स्थिताः ।। 5.39.35।।

येषां नोपरि नाधस्तान्न तिर्यक् सज्जते गतिः ।

न च कर्मसु सीदन्ति महत्स्वमिततेजसः ।। 5.39.36।।

असकृत् तैर्महोत्साहैः ससागरधराधरा ।

प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः ।। 5.39.37।।

तस्येति । मनः सङ्कल्पसंपाताः मनोव्यापारतुल्यगमनाः । न सज्जते न विलम्बते ।। 5.39.3537।।

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः ।

मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसन्निधौ ।। 5.39.38।।

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः ।

नहि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः ।। 5.39.39।।

प्रत्यवरः हीनः । पूर्वं चतुर्णामेवात्र गतिरिति विचारप्रकारमात्रमुक्तम् । अत्र तु परमार्थः । यद्यपि बले हनुमानधिकः तथापि वेगे सुग्रीवसन्निहिता नीलादयः सर्वे तुल्या एवेति नानृतोक्तिः ।। 5.39.3839।।

तदलं परितापेन देवि शोको व्यपैतु ते ।

एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः ।। 5.39.40।।

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ ।

त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः ।। 5.39.41।।

तदलमिति । एकोत्पातेन एकयत्नेन ।। 5.39.4041।।

तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ ।

आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः ।। 5.39.42।।

सगणं रावणं हत्वा राघवो रघुनन्दनः ।

त्वामादाय वरारोहे स्वपुरं प्रतियास्यति ।। 5.39.43।।

तौ हीति विधमिष्यतः दहिष्यतः ।। 5.39.4243।।

तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी ।

नचिराद्द्रक्ष्यसे रामं प्रज्वलन्तिमिवानलम् ।। 5.39.44।।

निहते राक्षसेन्द्रे ऽस्मिन् सपुत्रामात्यबान्धवे ।

त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी ।। 5.39.45।।

क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि ।

रावणं चैव रामेण निहतं द्रक्ष्यसे ऽचिरात् ।। 5.39.46।।

तदिति । कालकाङ्क्षिणी भव दिवसगणनायां तत्परा भवेत्यर्थः । नचिरात् अचिरात् ।। 5.39.4446।।

एवमाश्वास्य वैदेहीं हनुमान् मारुतात्मजः ।

गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत् ।। 5.39.47।।

तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम् ।

लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम् ।। 5.39.48।।

नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान् ।

वानरान् वारणेन्द्राभान् क्षिप्र द्रक्ष्यसि सङ्गतान् ।। 5.39.49।।

पुनरब्रवीदिति दार्ढ्याय पुनरुक्तिः ।। 5.39.4749।।

शैलाम्बुदनिकाशानां लङ्कामलयसानुषु ।

नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः ।। 5.39.50।।

स तु मर्मणि घोरेण ताडितो मन्मथेषुणा ।

न शर्म लभते रामः सिंहार्दित इव द्विपः ।। 5.39.51।।

शैलाम्बुदेति । द्रक्ष्यसीति शेषः ।। 5.39.50,51।।

मा रुदो देवि शोकेन मा भूत् ते मनसो ऽप्रियम् ।

शचीव पत्या शक्रेण भर्त्रा नाथवती ह्यसि ।। 5.39.52।।

रामाद् विशिष्टः को ऽन्यो ऽस्ति कश्चित् सौमित्रिणा समः ।

अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ ।। 5.39.53।।

मा रुद्रः रोदनं मा कुरु ।। 5.39.52,53।।

नास्मिंश्चिरं वत्स्यसि देवि देशे रक्षोगणैरध्युषिते ऽतिरौद्रे ।

न ते चिरादागमनं प्रियस्य क्षमस्व मत्सङ्गमकालमात्रम् ।। 5.39.54।।

इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमत्सुन्दरकाण्डे एकोनचत्वारिंश सर्गः ।। 5.39।।

नास्मिन्निति । मत्सङ्गमकालमात्रं मम रामेण सङ्गमकालमात्रम् ।। 5.39.54।।

इति श्रीगेविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनचत्वारिंशः सर्गः ।। 5.39।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.