63 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिषष्टितमः सर्गः

ततो मूर्ध्ना निपतितं वानरं वानरर्षभः ।

दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह ।। 5.63.1 ।।

उत्तिष्ठोत्तिष्ठ कस्मात् त्वं पादयोः पतितो मम ।

अभयं ते भवेद्वीर सर्वमेवाभिधीयताम् ।। 5.63.2 ।।

[किं सम्भ्रमाद्धितं कृत्स्रं ब्रूहि यद्वक्तुमर्हसि ।

कच्चिन्मधुवने स्वस्ति श्रोतुमिच्छामि वानर ।। ]

स तु विश्वासितस्तेन सुग्रीवेण महात्मना ।

उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखो ऽब्रवीत् ।। 5.63.3 ।।

तत इत्यादि । उद्विग्नहृदयः भीतहृदयः । मातुलस्यापि पादपतनं स्वामित्वानुसारेण ।। 5.63.13 ।।

नैवर्क्षरजसा राजन्न त्वया नापि वालिना ।

वनं निसृष्टपूर्वं हि भक्षितं तच्च वानरैः ।। 5.63.4 ।।

नैवेति । न निसृष्टपूर्वं यथेच्छभोगाय न दत्तपूर्वम् । वानरैः अङ्गदप्रमुखैः । अन्यथा सुग्रीववाक्ये अङ्गदानुवादविरोधात् । भक्षितमिति वनैकदेशमधुपटलविषयम् ।। 5.63.4 ।।

एभिः प्रधर्षिताश्चैव वानरा वनरक्षिभिः ।

मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च ।। 5.63.5 ।।

एभिरिति । अचिन्तयित्वा अगणयित्वा । मधूनीति फलानामुपलक्षणम् । भक्षयन्ति पिबन्ति चेत्युक्तेः । यद्वा मधून्येव भक्षयन्ति भक्षवत्कुर्वन्तीत्यर्थः ।। 5.63.5 ।।

शिष्टमत्रापविध्यन्ति भक्षयन्ति तथा ऽपरे ।

निवार्यमाणास्ते सर्वे भ्रूवौ वै दर्शयन्ति हि ।। 5.63.6 ।।

शिष्टम् अवशिष्टं मधुपटलम् । अत्र मधुवने । अपविध्यन्ति ध्वंसयन्ति । भक्षयन्ति मधुपटलमित्यर्थः ।। 5.63.6 ।।

इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः ।

वारयन्तो वनातस्मात् क्रुद्वैर्वानरपुङ्गवैः ।। 5.63.7 ।।

ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभः ।

संरक्तनयनैः क्रोधाद्धरयः प्रविचालिताः ।। 5.63.8 ।।

पाणिभिर्निहताः केचित् केचिज्जानुभिराहताः ।

प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ।। 5.63.9 ।।

एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि ।

कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ।। 5.63.10 ।।

एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् ।

अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा ।। 5.63.11 ।।

किमयं वानरो राजन् वनपः प्रत्युपस्थितः ।

कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ।। 5.63.12 ।।

एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना ।

लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ।। 5.63.13 ।।

हिशब्दः पादपूरणे । सम्प्रधर्षणचिह्नस्य दृश्यमानत्वाभिप्रायेण प्रसिद्धिपरो वा ।। 5.63.713 ।।

आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः ।

अङ्गदप्रमुखैर्वीरैर्भक्षितं मधु वानरैः ।। 5.63.14 ।।

विचित्य दक्षिणामाशामागतैर्हरिपुङ्गवैः ।। 5.63.15 ।।

आर्येत्यादि । अङ्गदप्रमुखैरिति अत्र विशिष्यानुवादाद्दधिमुखवाक्ये वानरपुङ्गवैरित्यत्रापि विशेषपरत्वं बोध्यम् ।। 5.63.14,15 ।।

नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः ।

आगतैश्च प्रमथितं यथा मधुवनं हि तैः ।। 5.63.16 ।।

धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ।। 5.63.17 ।।

वनं प्रमथितं भग्नम् । धर्षितम् आक्रान्तम् । मधु च भक्षितम् । यथा येन कारणेन । एषामकृतकृत्यानामीदृश उपक्रमो न स्यादिति मन्य इति योजना ।। 5.63.16,17 ।।

वनं यदाभिपन्नास्ते साधितं कर्म वानरैः ।

दृष्टा देवी न सन्देहो न चान्येन हनूमता ।

न ह्यन्यः साधने हेतुः कर्मणो ऽस्य हनूमतः ।। 5.63.18 ।।

कार्यसिद्धिर्मतिश्चैव तस्मिन् वानरपुङ्गवे ।

व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम् ।। 5.63.19 ।।

जाम्बवान् यत्र नेता स्यादङ्गदश्च महाबलः ।

हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। 5.63.20 ।।

अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल ।

वारयन्तश्च सहितास्तथा जानुभिराहताः ।। 5.63.21 ।।

एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह ।

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः ।। 5.63.22 ।।

दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः ।

अभिगम्य तथा सव ? पिबन्ति मधु वानराः ।। 5.63.23 ।।

कृतकृत्यत्वं विशेषयति वनमित्यादिना ।। 5.63.1823 ।।

न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ।

वनं दत्तवरं दिव्यं धर्षयेयुर्वनौकसः ।। 5.63.24 ।।

ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः ।

श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम् ।

प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ।। 5.63.25 ।।

न चेति । वनमिति । मधुवनधर्षणमेव सीतादर्शने लिङ्गमिति भावः । दत्तवरं दिव्यमित्यनेन ऋक्षरजसे ब्रह्मणा दत्तमित्यवगम्यते ।। 5.63.24,25 ।।

श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च ।

वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ।। 5.63.26 ।।

प्रीतो ऽस्मि सो ऽहं युद्भुक्तं वनं तैः कृतकर्मभिः ।

मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ।। 5.63.27 ।।

श्रुत्वेति । द्वितीयसुग्रीवशब्दस्य शोभनग्रीव इत्यवयवार्थो विवक्षितः । क्रियाभेदेनापुनरुक्तिर्वा ।। 5.63.26,27 ।।

इच्छामि शीघ्रं हनुमत्प्रधानान् शाखामृगांस्तान् मगृहराजदर्पान् ।

द्रष्टुं कृतार्थान् सह राघवाभ्यां श्रोतुं च सीताधिगमे प्रयत्नम् ।। 5.63.28 ।।

इच्छामीति । हनुमत्प्रधानान् हनुमत्प्रमुखान् । कृतार्थान् कृतकृत्यान् । प्रयत्नं प्रयासम् । तेभ्यः श्रोतुमिच्छामीत्यन्वयः ।। 5.63.28 ।।

प्रीतिस्पीताक्षौ सम्प्रहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थौ वानराणां च राजा ।

अङ्गैः संहृष्टैः कर्मसिद्धिं विदित्वा बाह्वोरासन्नां सो ऽतिमात्रं ननन्द ।। 5.63.29 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिषष्टितमः सर्गः ।। 5.63 ।।

अथ प्रत्युपकारार्थं सुग्रीवः स्वोद्योगसाफल्यदर्शनात् भृशं ननन्देत्याह प्रीतिस्फीताक्षाविति । प्रीत्या सन्तोषेण । संप्रहृष्टौ, रोमस्विति शेषः । हृषितरोमाणावित्यर्थः । “हृषेर्लोमसु” इति विकल्पादिडभावः । एवम् अङ्गैः संहृष्टैरित्यत्रापि द्रष्टव्यम् । कर्मसिद्धिं बाह्वोरासन्नां हस्तप्राप्ताम्, । विदित्वा निश्चित्येत्यर्थः । जागतं वैश्वदेवीवृत्तम् । “पञ्चश्वैश्छिन्ना वैश्वदेवी ममौ यौ ” इति लक्षणात् । अस्मिन्सर्गे एकोनत्रिंशच्छ्लोकाः ।। 5.63.29 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिषष्टितमः सर्गः ।। 5.63 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.