03 Sarga सुन्दरकाण्डः

श्रारामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः

स लम्बसिखरे लम्बे लम्बतोयदसन्निभे ।

सत्त्वमास्ताय मेधावी हनुमान्मारुतात्मजः ।। 5.3.1।।

निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः ।

रम्यकाननतोयाढ्यां पुरीं रावणपालिताम् ।। 5.3.2।।

शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम् ।

सागरोपमनिर्घोषां सागरानिलसेविताम् ।। 5.3.3।।

स लम्बेत्यादि । लम्बे लम्बाख्ये । लम्बशिखरे लम्बगिरिशिखरे इति चाहुः । यद्वा लम्बे लम्बमान इव स्थिते । लम्बशिखरे त्रिकूटशिखरे । सत्त्वं व्यवसायम् । धैर्यमिति यावत् । विवेश प्राप ।। 5.3.13।।

सुपुष्टबलसंघुष्टां यथैव विटपावतीम् ।

चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम् ।। 5.3.4।।

भुजगाचरितां गुप्तां शुभां भोगवतीमिव ।

तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम् ।। 5.3.5।।

मन्दमारुतसञ्चारां यथेन्द्रस्यामरावतीम् ।

शातकुम्भेन महता प्राकारेणाभिसंवृताम् ।। 5.3.6।।

किङ्किणीजालघोषाभिः पताकाभिरलङ्कृताम् ।

आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान् ।। 5.3.7।।

विटपावतीम् अलकाम् । निर्यूहो मत्तवारणः । पाण्डुरद्वारतोरणां पाण्डुरे द्वारतोरणे यस्यास्ताम् ।। 5.3.47।।

विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः ।। 5.3.8।।

विस्मयाविष्टहृदयः, अभूदिति शेषः ।। 5.3.8।।

जाम्बूनदमयैर्द्वारैर्वैडूर्यकृतवेदिकैः ।

वज्रस्फाटिकमुक्ताभिर्मणिकुट्टिमभूषितैः ।

तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः ।। 5.3.9।।

पुनर्हर्षहेतूनाह जाम्बूनदमयैरित्यादिना । जाम्बूनदमयैर्द्वारैरित्यादौ सहयोगे तृतीया । वज्रस्फटिकमुक्ताभिरित्यत्रापि कृतवेदिकैरिति सम्बध्यते । राजतामलपाण्डुरैः अवयवैः ।। 5.3.9।।

वैडूर्यकृतसोपानैः स्फाटिकान्तरपांसुभिः ।

चारुसञ्जवनोपेतैः खमिवोत्पतितैः शुभैः ।। 5.3.10।।

क्रौञ्चबर्हिणसंघुष्टैराजहंसनिषेवितैः ।

तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम् ।। 5.3.11 ।।

स्फाटिकान्तरपांसुभिः स्फटिकमयाङ्गणपांसुभिः । सञ्जवनं चतुश्शालम् ।। 5.3.10,11।।

वस्वोकसाराप्रतिमां तां वीक्ष्य नगरीं ततः ।

खमिवोत्पतितुं कामां जहर्ष हनुमान् कपिः ।। 5.3.12।।

तां समीक्ष्य पुरीं रम्यां राक्षसाधिपतेः शुभाम् ।

अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान् ।। 5.3.13।।

नेयमन्येन नगरी शक्या धर्षयितुं बलात् ।

रक्षिता रावणबलैरुद्यतायुधधारिभिः ।। 5.3.14।।

वस्वोकसारा अलका । यद्वा वस्वोकसारा पूर्वदिगवस्थिता शक्रपुरी । “वस्वोकसरा शक्रस्य पूर्वस्यां दिशि वै पुरी” इति पुराणवचनात् ।। 5.3.1214।।

कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः ।

प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि ।। 5.3.15।।

प्रसिद्धेयमिति । इयं लङ्का विदिता भवेत् ।। 5.3.15।।

विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः ।

ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत् ।। 5.3.16।।

समीक्ष्य तु महाबाहू राघवस्य पराक्रमम् ।

लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान् कपिः ।। 5.3.17।।

विवस्वत इति । गतिस्तु सुग्रीवस्य कुशपर्वणः केतुमालस्य मम चैव भवेत् । पूर्वं नीलादीनामेव गतिरुक्ता । अत्र त्वन्येषाभिमित्युक्तिश्चिन्ताप्राकारविशेषः ।। 5.3.16,17।।

तां रत्नवसनोपेतां गोष्ठागारावतंसकाम् ।

यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम् ।। 5.3.18।।

तां नष्टतिमिरां दीप्तैर्भास्वरैश्च महागृहैः ।

नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः ।। 5.3.19।।

अथ सा हरिशार्दूलं प्रविशन्तं महाबलम् ।

नगरी स्वेन रूपेण ददर्श पवनात्मजम् ।। 4.3.20।।

सा तं हरिवरं दृष्ट्वा लङ्का रावणपालिता ।

स्वयमेवोत्थिता तत्र विकृताननदर्शना ।। 4.3.21।।

पुरस्तात्कपिवर्यस्य वायुसूनोरतिष्ठत ।

मुञ्चमाना महानादमब्रवीत्पवनात्मजम् ।। 5.3.22।।

कस्त्वं केन च कार्येण इह़ प्राप्तो वनालय ।

कथयस्वेह यत्तत्त्वं यावत्प्राणा धरन्ति ते ।। 5.3.23।।

तां रात्नेत्यत्र ददर्शेत्यपकृष्यते । न त्वेकं वाक्यं श्लोकद्वयम्, तच्छब्दद्वयप्रयोगात्प्रथमे श्लोके स्त्रीसाम्योक्तेश्च ।। 5.3.1823।।

न शक्यं खल्वियं लङ्का प्रवेष्टुं वानर त्वया ।

रक्षिता रावणबलैरभिगुप्ता समन्ततः ।। 5.3.24।।

अथ तामब्रवीद्वीरो हनूमानग्रतः स्थिताम् ।

कथयिष्यामि ते तत्त्वं यन्मां त्वं परिपृच्छसि ।। 5.3.25।।

का त्वं विरूपनयना पुरद्वारे ऽवतिष्ठसि ।

किमर्थं चापि मां रुद्ध्वा निर्भिर्त्सयसि दारुणा ।। 5.3.26।।

हनुमद्वचनं श्रुत्वा लङ्का सा कामरूपिणी ।

उवाच वचनं क्रुद्धा परुषं पवनात्मजम् ।। 5.3.27।।

अहं हाक्षसराजस्य रावणस्य महात्मनः ।

आज्ञा प्रतीक्षा दुर्धर्षा रक्षामि नगरीमिमाम् ।। 5.3.28।।

न शक्या मामवज्ञाय प्रवेष्टुं नगरी त्वया ।

अद्य प्राणैः परित्यक्तः स्वप्स्यसे निहतो मया ।। 5.3.29।।

अहं हि नगरी लङ्का स्वयमेव प्लवङ्गम ।

सर्वतः परिरक्षामि ह्येतत्ते कथितं मया ।। 4.3.30।।

लङ्काया वचनं श्रुत्वा हनुमान् मारुतात्मजः ।

यत्नवान् स हरिश्श्रेष्ठः स्थितः शैल इवापरः ।। 5.3.31।।

स तां स्त्रीरूपविकृतां दृष्ट्वा वानरपुङ्गवः ।

आबभाषे ऽथ मेधावी सत्त्ववान् प्लवगर्षभः ।। 5.3.32।।

द्रक्ष्यामि नगरीं लङ्कां साट्टप्राकारतोरणाम् ।

इत्यर्थमिह संप्राप्तः परं कौतूहलं हि मे ।। 5.3.33।।

नेति । अभिगुप्ता समावृतेत्यर्थः । अतो न रक्षितेत्यनेन पुनरुक्तिः ।। 5.3.2433।।

वनान्युपवनानीह लंकायाः काननानि च ।

सर्वतो गृहमुख्यानि द्रष्टुमागमनं हि मे ।। 5.3.34।।

उपवनानि गृहोद्यानानि । काननानि शून्यारण्यानि ।। 5.3.34।।

तस्य तद्वचनं श्रुत्वा लंङ्का सा कामरूपिणी ।

भूय एव पुर्नवाक्यं बभाषे परुषाक्षरम् ।। 5.3.35।।

भूयः अतिशयेन परुषाक्षरमित्यन्वयः ।। 5.3.35।।

मामनिर्जित्य दुर्बुद्धे राक्षसेश्वरपालिताम् ।

न शक्यमद्य ते द्रष्टुं पुरीयं वानराधम ।। 5.3.36।।

मामिति । शक्यमित्येतदव्ययम् । तदाह कालिदासः “शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ।।” इति। पुरीरूपं वस्तु शक्यमिति शक्यपुर्योस्सामानाधिकरण्यं वा।। 5.3.36 ।।

ततः स कपिशार्दूलस्तामुवाच निशाचराम् ।

दृष्ट्वा पुरीमिमां भद्रे पुनर्यास्ये यथागतम् ।। 5.3.37।।

तत इति । यास्ये यास्यामि । इत्युवाचेति सम्बन्धः ।। 5.3.37।।

ततः कृत्वा महानादं सा वै लङ्का भयावहम् ।

तलेन वानरश्रेष्ठं ताडयामास वेगिता ।। 5.3.38।।

वेगिता साञ्जातवेगा ।। 5.3.38।।

ततः स कपिशार्दूलो लङ्कया ताडितो भृशम् ।

ननाद सुमहानादं वीर्यवान् पवनात्मजः ।। 5.3.39।।

ततः संवर्तयामास वामहस्तस्य सो ऽङ्गुलीः ।

मुष्टिना ऽभिजघानैनां हनूमान् क्रोधमूर्च्छितः ।। 5.3.40।।

स्त्री चेति मन्यमानेन नातिक्रोधस्स्वयं कृतः ।। 5.3.41।।

सा तु तेन प्रहारेण विह्वलाङ्गी निशाचरी ।

पपात सहसा भूमौ विकृताननदर्शना ।। 5.3.42।।

ततस्तु हनुमान् प्राज्ञस्तां दृष्ट्वा विनिपातिताम् ।

कृपां चकार तेजस्वी मन्यमानः स्त्रियं तु ताम् ।। 5.3.43।।

ततो वै भृशसंविग्ना लङ्का सा गद्गदाक्षरम् ।

उवाचागर्वितं वाक्यं हनुमान्तं प्लवङ्गमम् ।। 5.3.44।।

संवर्तयामास सङ्कोचयामास ।। 5.3.3944।।

प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ।

समये सौम्य तिष्ठन्ति सत्त्ववन्तो महाबलाः ।। 5.3.45।।

प्रसीदेति । समये स्त्रीवधवर्जनव्यवस्थायाम् । सत्त्ववन्तः धैर्यवन्तः ।। 5.3.45।।

अहं तु नगरी लङ्का स्वयमेव प्लवङ्गम ।

निर्जिता ऽहं त्वया वीर विक्रमेण महाबल ।। 5.3.46।।

इदं तु तथ्यं वै ब्रुवन्त्या मे हरीश्वर ।

स्वयंभुवा पुरा दत्तं वरदानं यथा मम ।। 5.3.47।।

अहं त्वित्यर्धं भिन्नं वाक्यम्, एकवाक्यत्वे ऽहंशब्दस्य पुनरुक्तिः ।। 5.3.46,47।।

यदा त्वां वानरः कश्चिद्विक्रमाद्वशमानयेत् ।

तदा त्वया हि विज्ञेयं रक्षसां भयमगतम् ।। 5.3.48।।

स हि मे समयस्सौम्य प्राप्तो ऽद्य तव दर्शनात् ।

स्वयम्भूविहितस्सत्यो न तस्यास्ति व्यतिक्रमः ।। 5.3.49।।

सीतानिमित्तं राज्ञस्तु रावणस्य दुरात्मनः ।

राक्षसां चैव सर्वेषां विनाशः समुपागतः ।। 5.3.50।।

तत्प्रविश्य हरिश्रेष्ठ पुरीं रावणपालिताम् ।

विधत्स्व सर्वकार्याणि यानि यानीह वाञ्छसि ।। 5.3.51 ।।

वरदानस्वरूपमाह– यदेति । अत्र रावणस्य दिग्विजये नन्दिकेश्वरादिभिर्लङ्कायाः कृते विनाशशापे दत्ते सा ब्रह्माणं गत्वा प्रार्थयामास । विनाशो मे मा भूदिति । स च तस्यै वरमदात्, तव सद्यो विनाशो न भविष्यति यदा तु वानरस्त्वामभिभविष्यति तदा तु विनाशो भविष्यतीति कथोन्नीयते ।। 5.3.4851।।

प्रविश्य शापोपहतां हरीश्वरः शुभां पुरीं राक्षसमुख्यपालिताम् ।

यदृच्छया त्वं जनकात्मजां सतीं विमार्ग सर्वत्र गतो यथासुखम् ।। 5.3.52 ।।

इत्यार्षे श्रारामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे तृतीयः सर्गः ।। 5.3।।

प्रविश्येति शापो नन्दिकेश्वरादिकृतः । यदृच्छयेत्यस्य गत इति सम्बन्धः । यदृच्छाया ऽत्र प्राप्तस्त्वमित्यर्थः ।। 5.3.52।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने तृतीयः सर्गः ।। 5.3।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.