12 Sarga सुन्दरकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः

स तस्य मध्ये भवनस्य मारुतिर्लतागृहांश्चित्रगृहान्निशागृहान् ।

जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ।। 5.12.1 ।।

स तस्येत्यादि । निशागृहान् । रात्रिनिवासयोग्यगृहान् । “गृहाः पुंसि च भूम्न्येव” इति पुँल्लिङ्गत्वम् । पश्यति अपश्यत् ।। 5.12.1 ।।

स चिन्तयामास ततो महाकपिः प्रियामपश्यन् रघुनन्दनस्य ताम् ।

ध्रुवं हि सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिला ।। 5.12.2 ।।

स इति । यथा यस्मात् कारणात् । विचिन्वतो मे मैथिली दर्शनं नैति तस्मात् म्रियते ममार । यद्वा अथवा नेति वाक्यं पठनीयम् । तदा अपश्यन्निति हेतुगर्भम् । अदर्शनात् मृता वा अथवा दर्शनं नैति । कुत्रचित् गहने प्रदेशे स्थिता वेत्यर्थः ।। 5.12.2 ।।

सा राक्षसानां प्रवरेण जानकी स्वशीलसंरक्षणतत्परा सती ।

अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ।। 5.12.3।।

सेति । प्रतिदुष्टकर्मणा अतिदुष्टकर्मणा । वीप्सायां प्रतिः । “प्रति प्रतिनिधौ वीप्सालक्षणादौ” इत्यमरः । परे उत्कृष्टे । आर्यपथे सन्मार्गे ।। 5.12.3।।

विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः ।

समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ।। 5.12.4।।

विरूपाणि न्यूनाधिकानि रूपाणि शरीरावयवाः यासां ताः । विकृताः विकृतवेषाः । विवर्चसो निस्तेजस्काः । महाननाः अतिविशालमुखाः । दीर्घाणि विरूपाणि दर्शनानि चक्षूंषि यासां ता । राक्षसराजयोषितः रावणस्याज्ञाकारिणीः स्त्रियः ।। 5.12.4।।

सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश्चिरम् ।

न मे ऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ।। 5.12.5।।

दृष्टमन्तःपुरं सर्वं दृष्टा रावणयोषितः ।

न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ।। 5.12.6।

सीतामिति । पौरुषं शत्रुविषयपराक्रमम् । चिरं कालं विहृत्य अतिक्रम्येत्यर्थः । एवम्भूतस्य मे सुग्रीवसमीपगा तत्समीपगामिनी गतिः मार्गः नास्ति । सुग्रीवसमीपगतिः लममायोग्येत्यर्थः । तत्र हेतुमाह सुतीक्ष्णेति । त इति शेषः ।। 5.12.5,6।।

किन्नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः ।

गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ।

अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् ।। 5.12.7।।

किंन्विति समान्येन निर्वेदोक्तिः । विशेषतश्चाह गत्वेति । इत्युक्त इति शेषः । वदस्व न इत्युक्तः किं प्रवक्ष्यामि । यद्वा किन्त्विति पाठः । पूर्ववदर्धत्रयमेकं वाक्यम् । किन्त्विति पूर्वस्माद्विशेषोक्तिः । मां वानराः वदस्वः नः इति वक्ष्यन्ति तदा अदृष्ट्वा किं प्रवक्ष्यामीति योजना ।। 5.12.7।।

ध्रुवं प्रायमुपैष्यन्ति कालस्य व्यतिवर्तने ।। 5.12.8।।

तर्हि अत्रैव कालविलम्बः क्रियतां तत्राह ध्रुवमिति । कालस्य व्यतिवर्तने अस्मदागमनकाले ऽतीते प्रायमुपैष्यन्ति, जाम्बवत्प्रभृतय इति शेषः ।। 5.12.8।।

किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः ।

गतं पारं समुद्रस्य वानराश्च समागताः ।। 5.12.9।।

समान्येन निर्वेदं प्रतिवक्ति किं वेति । समुद्रलङ्घनरूपं महत् कर्म कृतवन्तं मां ते किं वक्ष्यन्ति किमपि वक्ष्यन्ति । यद्वा मद्वृत्तान्तं प्रशंसन् जाम्बवान् तदुत्साहको ऽङ्गदस्तदुपशृण्वन्तो ऽन्ये च मां किं वा जुगुप्सितं वक्ष्यन्ति ।। “किं पृच्छायां जुगुप्सने” इत्यमरः ।। 5.12.9।।

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् ।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ।। 5.12.10।।

करोति सफलं जन्तोः कर्म यत्तत्करोति सः ।

तस्मादनिर्वेदकृतं यत्नं चेष्टे ऽहमुत्तमम् ।। 5.12.11 ।।

चिरं निर्वेद कार्यहानिः स्यादिति मत्वा अनिर्वेदमवलम्बते अनिर्वेद इति । अनिर्वेद उत्साहः तत्कृतं तत्प्रयुक्तं यत्नम् । चेष्टे, करोमीत्यर्थः । यत्करोति जन्तुरिति सिद्धम् । जन्तोस्सम्बन्धि तत्सर्वं कर्म सः अनिर्वेद एव सफलं करोतीत्यन्वयः ।। 5.12.10,11।।

भूयस्तावद्विचेष्यामि देशान् रावणपालितान् ।

आपानशाला विचितास्तथा पुष्पगृहाणि च ।। 5.12.12।।

आपानेति । एता विचिताः अथापि पुनर्विचेष्यामीत्यनुषज्यते ।। 5.12.12।।

चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ।

निष्कुटान्तररथ्याश्च विमानानि च सर्वशः ।। 5.12.13।। [भूयस्तत्र विचेष्यामि न यत्र विचयः कृतः ।]

निष्कुटाः गृहारामाः, अन्तररथ्याः अवान्तरवीथ्यः ।। 5.12.13।।

इति संचिन्त्य भुयो ऽपि विचेतुमुपचक्रमे ।

भूमीगूहांश्चैत्यगृहान् गृहातिगृहकानपि ।। 5.12.14।।

भूमीगृहान् भूमीबिलगृहान् । चैत्यगृहान् चतुष्पथमण्डपान् । गृहातिगृहकान् गृहानतीत्य दूरे स्वैरविहारार्थं निर्मितान् गृहान् ।। 5.12.14।।

उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः पुनः ।

अपावृण्वंश्च द्वाराणि कपाटान्यवघाटयन् ।। 5.12.15।।

उत्पतन्निपतन् पूर्वमुच्चस्थानान्यधिरुह्य ततो ऽवरोहन् । अवघाटयन् पाटयन् ।। 5.12.15।।

प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि ।

सर्वमप्यवकासं स विचचार महाकपिः ।। 5.12.16।।

चतुरङ्गुलमात्रो ऽपि नावकाशः स विद्यते ।

रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः ।। 5.12.17।।

निष्पतन् निर्गच्छन् । प्रपतन्नुत्पतन् बिलगृहादीनि नीचस्थानानि प्रथममधिरुह्य ततः समुद्गच्छन् ।। 5.12.16,17।।

प्राकारान्तररथ्याश्च वेदिकाश्चैत्यसंश्रयाः ।

दीर्घिकाः पुष्करिण्यश्च सर्वं तेनावलोकितम् ।। 5.12.18।।

राक्षस्यो विविधाकारा विरूपा विकृतास्तथा ।

दृष्टा हनुमता तत्र न तु सा जनकात्मजा ।। 5.12.19।।

रूपेणाप्रतिमा लोके वरा विद्याधरस्त्रियः ।

दृष्टा हनुमता तत्र न तु राघवनन्दिनी ।। 5.12.20।।

नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः ।

दृष्टा हनुमता तत्र न तु सीता सुमध्यमा ।। 5.12.21 ।।

प्राकारान्तरथ्याः प्राकारमध्यवर्तिवीथ्यः । वेदिकाश्चैत्यसंश्रयाः चैत्यवृक्षमूलपीठिकाबन्धाः ।। 5.12.1821 ।।

प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः ।

दृष्टा हनुमता तत्र न सा जनकनन्दिनी ।।। 5.12.22 ।।

सो ऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः ।

विषसाद मुहुर्धीमान् हनुमान् मारुतात्मजः ।। 5.12.23।।

उद्योगं वानरेन्द्राणां प्लवनं सागरस्य च ।

व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ।। 5.12.24।।

अवतीर्य विमानाच्च हनुमान् मारुतात्मजः ।

चिन्तामुपजगामाथ शोकोपहतचेतनः ।। 5.12.25।।

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वादशः सर्गः ।। 5.12 ।।

प्रमथ्य प्रसह्य । बलाद्धृता नागकन्या इत्यभिधानादत्र बन्दीकृतानां ग्रहणम् । पूर्वश्लोके ऊढानां नागकन्यानामित्यपुनरुक्तिः ।। 5.12.2225।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वादशः सर्गः ।। 5.12 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.