47 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः

सेनापतीन् पञ्च स तु प्रमापितान् हनूमता सानुचरान् सवाहनान् ।

समीक्ष्य राजा समरोद्धतोन्मुखं कुमारमक्षं प्रसमैक्षताग्रतः ।। 5.47.1।।

सेनापतीनित्यादि । समीक्ष्य विज्ञाय ।। 5.47.1।।

स तस्य दृष्ट्यर्पणसंप्रचोदितः प्रतापवान् काञ्चनचित्रकार्मुकः ।

समुत्पपाताथ सदस्युदीरितो द्विजातिमुख्यैर्हविषेव पावकः ।। 5.47.2।।

ततो महद्बालदिवाकरप्रभं प्रतप्तजाम्बूनदजालसंततम् ।

रतं समास्थाय ययौ स वीर्यवान् महाहरिं तं प्रति नैर्ऋतर्षभः ।। 5.47.3।।

द्विजातिमुख्यैः हविषा उदीरितः अभिवर्धितः पावक इवेत्यन्वयः ।। 5.47.23।।

ततस्तपःसंग्रहसञ्चयार्जितं प्रतप्तजाम्बूनदजालशोभितम् ।

पताकिनं रत्नविभूषितध्वजं मनोजवाष्टाश्ववरैः सुयोजितम् ।। 5.47.4।।

ततो महदित्यनेनोक्तं विस्तरेणाह ततस्तपस्संग्रहेत्यादिना । तपस्सङ्ग्रहसञ्चयार्जितं तपोनुष्ठनसमूहसम्पादितम् ।। 5.47.4।।

सुरासुराधृष्यमसङ्गचारिणं रविप्रभं व्योमचरं समाहितम् ।

सतूणमष्टासिनिबद्धबन्धुरं यथाक्रमावेशितशक्तितोमरम् ।। 5.47.5।।

समाहितं सज्जीकृतम् । अष्टासिनिबद्धबन्धुरम् अष्टासिभिर्निबद्धम् अत एव बन्धुरं सुन्दरम् । “बन्धुरं सुन्दरे नम्रे” इति विश्वः । यद्वा अष्टासिभिर्निबद्धं बन्धुरं यस्य स तथा । बन्धुरं फलकासङ्घाट इत्याहुः । अन्ये घण्टा इत्यप्याहुः । तदानीम् अष्टासिश्चासौ निबद्धबन्धुरश्चेति समासः । यथाक्रमावेशितशक्तितोमरं पङ्क्तितया स्थापितशक्तितोमरम् ।। 5.47.5।।

विराजमानं प्रतिपूर्णवस्तुना सहेमदाम्ना शशिसूर्यवर्चसा ।

दिवाकराभं रथमास्थितस्ततः स निर्जगामामरतुल्यविक्रमः ।। 5.47.6।।

प्रतिपूर्णवस्तुना समग्रोपकरणेन । शरधनुः कवचादीन्युपकरणानि । प्रतिपूर्णमस्तिनेति पाठे अस्तिना घनेनेत्यर्थः । हेमदाम्ना हेममयाश्वादिबन्धनरज्जुना । शशिसूर्यवर्चसा दामसु किञ्चित्सितवर्णं किञ्चित्सूर्यवत्पीतवर्णमित्यर्थः । प्रतिपूर्णवस्तुना शशिसूर्यवर्चसा हेमदाम्ना च विराजमानमित्यन्वयः । यद्वा क्वचिच्छशिवर्चसा क्वचित्सूर्यवर्चसा च विराजमानमित्यन्वयः । वितानादिषु शशिवर्चसा हेममयरथाङ्गेषु सूर्यवर्चसा । दिवाकराभमित्याकाशचारित्वे दृष्टान्तः । अतो न रविप्रभमित्यनेन पुनरुक्तिः । तच्छब्दद्वयं च पूर्वानुस्मरणार्थम् ।। 5.47.6।।

स पूरयन् खं च महीं च साचलां तुरङ्गमातङ्गमहारथस्वनैः ।

बलैः समेतैः स हि तोरणस्थितं समर्थमासीनमुपागमत् कपिम् ।। 5.47.7।।

सः अक्षः । हिः प्रसिद्धौ ।। 5.47.7।।

स तं समासाद्य हरिं हरीक्षणो युगान्तकालाग्निमिव प्रजाक्षये ।

अवस्थितं विस्मितजातसंभ्रमः समैक्षताक्षो बहुमानचक्षुषा ।। 5.47.8।।

हरीक्षणः सिंहप्रेक्षणः । प्रजाक्षये अवस्थितं प्राणिनाशे प्रवृत्तम् । विस्मितश्चासौ जातसम्भ्रमश्च विस्मितजातसम्भ्रमः ।। 5.47.8।।

स तस्य वेगं च कपेर्महात्मनः पराक्रमं चारिषु पार्थिवात्मजः ।

विधारयन् स्वं च बलं महाबलो हिमक्षये सूर्य इवाभिवर्धते ।। 5.47.9।।

स जातमन्युः प्रसमीक्ष्य विक्रमं स्थिरं स्थितः संयति दुर्निवारणम् ।

समाहितात्मा हनुमन्तमाहवे प्रचोदयामास शरैस्त्रिभिः शितैः ।। 5.47.10।।

ततः कपिः तं प्रसमीभ्य गर्वितं जितश्रमं शत्रुपराजयोर्जितम् ।

अवैक्षताक्षः समुदीर्णमानसः स बाणपाणिः प्रगृहीतकार्मुकः ।। 5.47.11।।

स हेमनिष्काङ्गदचारुकुण्डलः समाससादाशुपराक्रमः कपिम् ।

तयोर्बभूवाप्रतिमः समागमः सुरासुराणामपि सम्भ्रमप्रदः ।। 5.47.12।।

स तस्येति । विधारयन् निर्धारयन् । विचारयन्निति च पाठः ।। 5.47.912।।

ररास भूमिर्न तताप भानुमान् ववौ न वायुः प्रचचाल चाचलः ।

कपेः कुमारस्य च वीक्ष्य संयुगं ननाद च द्यौरुदधिश्च चुक्षुभे ।। 5.47.13।।

ररासेति । न तताप भानुमान् । सूर्योदयः पूर्वं सूचितः सः न ततापेत्युच्यते ।। 5.47.13।।

ततः स वीरः सुमुखात् पतत्त्रिणः सुवर्णपुङ्खान् सविषानिवोरगान् ।

समाधिसंयोगविमोक्षतत्त्वविच्छरानथ त्रीन् कपिमूर्ध्न्यपातयत् ।। 5.47.14।।

समाधिसंयोगविमोक्षतत्त्ववित् समाधिः लक्ष्यवेदनं संयोगः शरसन्धानं विमोक्षः तद्विसर्गः तेषां तत्त्ववित् यथार्थवित् ।। 5.47.14।।

स तैः शरैर्मूर्ध्नि समं निपातितैः क्षरन्नसृग्दिग्धविवृत्तलोचनः ।

नवोदितादित्यनिभः शरांशुमान् व्यराजतादित्य इवांशुमालिकः ।। 5.47.15।।

रक्तसिक्तत्वे दृष्टान्तः नवोदितेति । शराचितत्वे दृष्टान्तः आदित्य इवांशुमालिक इति ।। 5.47.15।।

ततः स पिङ्गाधिपमन्त्रसत्तमः समीक्ष्य तं राजवरात्मजं रणे ।

उदग्रचित्रायुधचित्रकार्मुकं जहर्ष चापूर्यत चाहवोन्मुखः ।। 5.47.16।।

आपूर्यत व्यवर्धत ।। 5.47.16।।

स मन्दराग्रस्थ इवांशुमालिको विवृद्धकोपो बलवीर्यसंयुतः ।

कुमारमक्षं सबलं सवाहनं ददाह नेत्राग्निमरीचिभिस्तदा ।। 5.47.17।।

मन्दराग्रस्थः मन्दरो नाम भूमध्यपर्वतः । तदग्रे मध्याह्ने वर्तत इत्यौग्र्योक्तिः 5.47.17 ।।

ततः स बाणासनचित्रकार्मुकः शरप्रवर्षो युधि राक्षसाम्बुदः ।

शरान् मुमोचाशु हरीश्वराचले वलाहको वृष्टिमिवाचलोत्तमे ।। 5.47.18।।

ततः कपिस्तं रणचण्डविक्रमं विवृद्धतेजोबलवीर्यसंयुतम् ।

कुमारमक्षं प्रसमीक्ष्य संयुगे ननाद हर्षाद्घनतुल्यविक्रमः ।। 5.47.19।।

स बालभावाद्युधि वीर्यदर्पितः प्रवृद्धमन्युः क्षतजोपमेक्षणः ।

समाससादाप्रतिमं कपिं रणे गजो महाकूपमिवावृतं तृणैः ।। 5.47.20।।

स तेन बाणैः प्रसभं निपातितैश्कार नादं घननादनिस्वनः ।

समुत्पपाताशु नभः स मारुतिर्भुजोरुविक्षेपणघोरदर्शनः ।। 5.47.21।।

समुत्पतन्तं समभिद्रवद्बली स राक्षसानां प्रवरः प्रतापवान् ।

रथी रथिश्रेष्ठतमः किरन् शरैः पयोधरः शैलमिवाश्मवृष्टिभिः ।। 5.47.22।।

ततस्स बाणासनेति । बाणासनचित्रकार्मुकः बाणाः अस्यन्ते क्षिप्यन्ते ऽनेनेति बाणासनः बाणविमोक्षकचित्रकार्मुक इत्यर्थः ।। 5.47.1822।।

स तान् शरांस्तस्य हरिर्विमोक्षयंश्चचार वीरः पथि वायुसेविते ।

शरान्तरे मारुतवद्विनिष्पतन् मनोजवः संयति चण्डविक्रमः ।। 5.47.23।।

स तानिति । विमोक्षयन् शरीरे असंयोजयन् । लाघवातिशयेनेति भावः ।। 5.47.23।।

तमात्तबाणासनमाहवोन्मुखं खमास्तृणन्तं विशिखैः शरोत्तमैः ।

अवैक्षताक्षं बहुमानचक्षुषा जगाम चिन्तां च स मारुतात्मजः ।। 5.47.24।।

आस्तृणन्तम् आच्छादयन्तम् । विशिखैः विविधशिखैः । चिन्तां जगाम कथमेतादृशमेनं वधिष्यामीत्येवम् ।। 5.47.24।।

ततः शरैर्भिन्नभुजान्तरः कपिः कुमारवीरेण महात्मना नदन् ।

महाभुजः कर्मविशेषतत्त्वविद्विचिन्तयामास रणे पराक्रमम् ।। 5.47.25।।

अबालवद्बालदिवाकरप्रभः करोत्ययं कर्म महन्महाबलः ।

न चास्य सर्वाहवकर्मशोभिनः प्रमापणे मे मतिरत्र जायते ।। 5.47.26।।

इदमेवोपपादयति ततश्शरैरित्यादिना ।। 5.47.25,26।।

अयं महात्मा च महांश्च वीर्यतः समाहितश्चातिसहश्च संयुगे ।

असंशयं कर्मगुणोदयादयं सनागयक्षेर्मुनिभिश्च पूजितः ।। 5.47.27।।

पराक्रमोत्साहविवृद्धमानसः समीक्षते मां प्रमुखागतः स्थितः ।

पराक्रमो ह्यस्य मनांसि कम्पयेत् सुरासुराणामपि शीघ्रगामिनः ।। 5.47.28।।

न खल्वयं नाभिभवेदुपेक्षितः पराक्रमो ह्यस्य रणे विवर्धते ।

प्रमापणं त्वेव ममास्य रोचते न वर्धमानो ऽग्निरुपेक्षितुं क्षमः ।। 5.47.29।।

अतिसहः अतिसोढा । कर्मगुणोदयात् युद्धकर्मोत्कर्षाभिवृद्धेः ।। 5.47.2729।।

इति प्रवेगं तु परस्य तर्कयन् स्वकर्मयोगं च विधाय वीर्यवान् ।

चकार वेगं तु महाबलस्तदा मतिं च चक्रे ऽस्य वधे महाकपिः ।। 5.47.30।।

परस्य शत्रोः । प्रवेगम् तर्कयन् आलोचयन् । स्वकर्मयोगं विधाय युद्धक्रमं च सङ्कल्प्य । पूर्वमश्वान् हत्वा ततो रथं भङ्क्ष्यामीति निश्चित्येत्यर्थः ।। 5.47.30।।

स तस्य तानष्ट हयान् महाजवान् समाहितान् भारसहान् विवर्तने ।

जघान वीरः पथि वायुसेविते तलप्रहारैः पवनात्मजः कपिः ।। 5.47.31।।

विवर्तते सव्यापसव्यभ्रमणे ऽपि । भारसहान् रथभारसहान् ।। 5.47.31।।

ततस्तलेनाभिहतो महारथः स तस्य पिङ्गाधिपमन्त्रिनिर्जितः ।

प्रभग्ननीडः परिमुक्तकूबरः पपात भूमौ हतवाजिरम्बरात् ।। 5.47.32।।

तलेनाभिहतः अत एव पिङ्गाधिपमन्त्रिनिर्जितः, हनुमता निर्जित इत्यर्थः । प्रभग्ननीडः प्रभग्नरथाङ्गः । कूबरः युगन्धरः । वाजिरिति इकारान्तत्वमार्षम् ।। 5.47.32।।

स तं परित्यज्य महारथो रथं सकार्मुकः खड्गधरः खमुत्पतन् ।

तपोभियोगादृषिरुग्रवीर्यवान् विहाय देहं मरुतामिवालयम् ।। 5.47.33।।

ततः कपिस्तं विचरन्तमम्बरे पतत्त्रिराजानिलसिद्धसेविते ।

समेत्य तं मारुततुल्यविक्रमः क्रमेण जग्राह स पादयोर्दृढम् ।। 5.47.34।।

मरुतामालयमुत्पतन् ऋषिरिव, अभवदिति शेषः ।। 5.47.3334।।

स तं समाविध्य सहस्रशः कपिर्महोरगं गृह्य इवाण्डजेश्वरः ।

मुमोच वेगात् पितृतुल्यविक्रमो महीतले संयति वानरोत्तमः ।। 5.47.35।।

गृह्य इवेत्यत्र गुणाभाव आर्षः ।। 5.47.35।।

स भग्नबाहूरुकटीशिरोधरः क्षसन्नसृङ्निर्मथितास्थिलोचनः ।

स भग्रसन्धिः प्रविकीर्णबन्धनो हतः क्षितौ वायुसुतेन राक्षसः ।

महाकपिर्भूमितले निपीड्य तं चकार रक्षोधिपतेर्महद्भयम् ।। 5.47.36।।

प्रविकीर्णबन्धनः प्रवीकीर्णकक्ष्यादिबन्धनः । प्रभिन्नसन्धिरिति सन्धिबन्धभङ्गस्योक्तत्वात् ।। 5.47.36।।

महर्षिभिश्चक्रचरैर्महाव्रतैः समेत्य भूतैश्च सयक्षपन्नगैः ।

सुरैश्च सैन्द्रैर्भृशजातविस्मयैर्हते कुमारे स कपिर्निरीक्षितः ।। 5.47.37।।

निहत्य तं वज्रिसुतोपमप्रभं कुमारमक्षं क्षतजोपमेक्षणम् ।

तमेव वीरो ऽभिजगाम तोरणं कृतक्षणः काल इव प्रजाक्षये ।। 5.47.38।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ।। 5.47।।

चक्रचरैः ज्योतिश्चक्रचरैः,नभश्चक्रचरैर्वा ।। 5.47.37,38।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तचत्वारिंशः सर्गः ।। 5.47।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.