50 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः

तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम् ।

कोपेन महताऽविष्टो रावणो लोकरावणः ।। 5.50.1।।

शङ्काहतात्मा दध्यौ स कपान्द्रं तेजसावृतम् ।

किमेष भगवान्नन्दी भवेत् साक्षादिहागतः ।। 5.50.2।।

तमुद्वीक्ष्येत्यादि ।। 5.50.1,2।।

येन शप्तो ऽस्मि कैलासे मया सञ्चालिते पुरा ।

सो ऽयं वानरमूर्तिः स्यात् किंस्विद्बाणोपि वा ऽसुरः ।। 5.50.3।।

स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम् ।

कालयुक्तमुवाजेदं वचो विपुलमर्थवत् ।। 5.50.4।।

बाणः महाबलिसुतः । अनेन तेनापि किञ्चित् शप्तमिति गम्यते । अत्रेतिकरणं द्रष्टव्यम् ।। 5.50.34।।

दुरात्मा पृच्छ्यतामेष कुतः किं वा ऽस्य कारणम् ।

वनभङ्गे च को ऽस्यार्थो राक्षसीनां च तर्जने ।। 5.50.5।।

मत्पुरीमप्रधृष्यां वा ऽ ऽगमने किं प्रयोजनम् ।

आयोधने वा किं कार्यं त्वया कपे ।। 5.50.6।।

रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत् ।

समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे ।। 5.50.7।।

दुरात्मा पृच्छ्यतामिति । अस्य विवरणम् कुत इत्यादि । कुतः कस्माद्देशादागतः । किं वा ऽस्य कारणम् अस्य कः प्रेरकः । मत्पुरीम्, प्रतीति शेषः । आयोधने युद्धे । किं कार्यं किं प्रयोजनम् ।। 5.50.57।।

यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम् ।

तत्त्वमाख्याहि मा भूत्ते भयं वानर मोक्ष्यसे ।। 5.50.8।। ।

यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च ।

चाररूपमिदं कृत्वा प्रविष्टो नः पुरीमिमाम् ।

विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा ।। 5.50.9।।

यदि तावत्त्वमिन्द्रेणेत्यादि । यदि वैश्रवणस्येत्यादेः दूतो विजकाङ्क्षिणेत्यन्तस्य तत्त्वमाख्याहीति पूर्वेण संबन्धः ।। 5.50.89।।

न हि ते वानरं तेजो रूपमात्रं तु वानरम् ।। 5.50.10।।

तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे ।

अनृतं वदतश्चापि दुर्लभं तव जीवितम् ।

अथवा यन्निमित्तं ते प्रवेशो रावणालये ।। 5.50.11।।

न हीत्यादि । अथवेति । यन्निमित्तं कृत्वा ते प्रवेशः तन्निमित्तं कथयस्वेति पूर्वेण संबन्धः ।। 5.50.1011।।

एवमुक्तो हरिश्रेष्ठस्तदा रक्षोगणेश्वरम् ।। 5.50.12।।

अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा ।

धनदेन न मे सख्यं विष्णुना नास्मि चोदितः ।। 5.50.13।।

एवमुक्त इत्यादि । रक्षोगणेश्वरमित्यनेन प्रष्टारं प्रहस्तं पृष्ठतः कृतवानिति गम्यते ।। 5.50.12,13।।

जातिरेव मम त्वेषा वानरो ऽहमिहागतः ।

दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया ।। 5.50.14।।

वनं राक्षसराजस्य दर्शनार्थे विनाशितम् ।

ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः ।। 5.50.15।।

एषा वानरता । राक्षसेन्द्रस्य, तवेति शेषः ।। 5.50.14,15।।

रक्षणार्थं तु देहस्य प्रतियुद्धा मया रणे ।

अस्त्रपाशैर्न शक्यो ऽहं बद्धुं देवासुरैरपि ।। 5.50.16।।

प्रतियुद्धाः प्रतिप्रहृताः ।। 5.50.16।।

पितामहादेव वरो ममाप्येषो ऽभ्युपागतः ।

राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम् ।। 5.50.17।।

ममापीति तवेवेत्यर्थः । तर्हि कथं बद्धो ऽसीत्याशङ्क्याह राजानमिति ।। 5.50.17।।

विमुक्तो ह्यहमस्त्रेण राक्षसैस्त्वभिपीडितः ।

केनचिद्राजकार्येण संप्राप्तो ऽस्मि तवान्तिकम् ।। 5.50.18।।

दूतो ऽहमिति विज्ञेयो राघवस्यामितौजसः ।

श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो ।। 5.50.19।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चाशः सर्गः ।। 5.50।।

पीडितः बद्धस्सन् । अस्त्रेण विमुक्तः । हिशब्दो ऽवधारणे । ब्रह्मास्त्रस्य साधनान्तरासहत्वादिति भावः । अस्तु सर्वमेतन्मद्दर्शनार्थम्, मद्दर्शनं वा किमर्थम्? तत्राह केनचिदिति ।। 5.50.18,19।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चाशः सर्गः ।। 5.50।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.