53 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः

तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः ।

देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ।। 5.53.1।।

तस्येत्यादि । देशकालहितं देशकालोचितमिति विभीषणवचनविशेषणम् ।। 5.53.1।।



सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।

अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ।। 5.53.2।।

कपीनां किल लाङ्गूलमिष्टं भवति भूषणम् ।

तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ।। 5.53.3।।

दूतवध्या दूतवधः ।। 5.53.2,3।।



ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम् ।

समित्रज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः ।। 5.53.4।।

तत इति । समित्रेति । मित्राणि आप्ताः, समसुखदुःखा वा सहाया वा । ज्ञातयः भ्रात्रादयः । बान्धवाः सम्बन्धिनः । सुहृज्जनाः स्निग्धजनाः ।। 5.53.4।।



आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम् ।

लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ।। 5.53.5।।

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।।

वेष्टयन्ति स्म लाङ्गूलं जीर्णैः कार्पासकैः पटैः ।। 5.53.6।।

संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः ।

शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः ।

तैलेन परिषिच्याथ ते ऽग्निं तत्राभ्यपातयन् ।। 5.53.7।।

आज्ञापयदिति । प्रदीप्तेन लाङ्गूलेन युक्तो हनुमान् सचत्वरं सर्वं पुरं परिणीयतां परितो नीयताम् इत्याज्ञापयदित्यन्वयः ।। 5.53.57।।



लाङूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ।

रोषामर्षपरीतात्मा बालसूर्यसमाननः ।। 5.53.8।।

लाङ्गूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ।

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।। 5.53.9।।

स भूयः सङ्गतैः क्रूरै राक्षसैर्हरिसत्तमः ।

निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम् ।। 5.53.10।।

लाङ्गूलेनेति । अपातयत् लाङ्गूलभ्रामणेन अद्रावयदित्यर्थः ।। 5.53.810।।



कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ।

छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः ।। 5.53.11।।

न मे शक्ताः न मे पर्याप्ता इत्यर्थः । मम निग्रहे न समर्था इति यावत् ।। 5.53.11।।



यदि भर्तृहितार्थाय चरन्तं भर्तृशासनात् ।

बध्नन्त्येते दुरात्मानो न तु मे निष्कृतिः कृता ।। 5.53.12।।

यदीति । भर्तृहितार्थाय रामहितार्थाय । चरन्तं प्रवर्तमानम्, मामिति शेषः । भर्तृशासनात् रावणशासनात् यदि बध्नन्ति, तावता मे निष्कृतिः प्रतिक्रिया न कृता । इदं बन्धनमकिञ्चित्करमिति भावः ।। 5.53.12।।



सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ।

किं तु रामस्य प्रीत्यर्थं विषहिष्ये ऽहमीदृशम् ।। 5.53.13।।

रामस्य प्रीत्यर्थमिदं विषहिष्ये । रावणादिवधस्य स्वेनैव कर्तव्यत्वेन रामाभिमतत्वाद्राक्षसानामहमीदृशं बन्धनाकर्षणादिरूपं परिभवं सहिष्य इति भावः । रामस्य प्रीत्यर्थमित्यत्र च्छन्दोभङ्ग आर्षः ।। 5.53.13।।



लङ्का चारयितव्या वै पुनरेव भवेदिति ।

रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।। 5.53.14।।

अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये ।। 5.53.15।।

लङ्केति । लङ्का रात्रौ दुर्गकर्मविधानतः दुर्गकर्मविधानाद्धेतोः । न हि सुदृष्टा नैव सुदृष्टा । यद्वा दुर्गकर्मविधानतः नगरगुप्तिविशेषज्ञानपूर्वकमित्यर्थः । न दृष्टेति हेतोर्मया लङ्का पुनश्चारयितव्या भवेत् । विचरित्वा द्रष्टव्या भवेदित्यर्थः । अयं च प्रातःकालः न तूषःकालः । पातःकाले ऽपि तथा व्यवहारोपपत्तेः ।। 5.53.14,15।।



कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।

पीडां कुर्वन्तु रक्षांसि न मे ऽस्ति मनसः श्रमः ।। 5.53.16।।

काममिति । मनसः श्रम इत्यनन्तरमितिकरणं बोध्यम् ।। 5.53.16।।



ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम् ।

परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम् ।। 5.53.17।।

संवृताकारं गूढस्वभावम् । महाकपिमिति बुद्ध्या महत्त्वम् । कपिकुञ्जरमिति सजातीयश्रैष्ठ्यम् ।। 5.53.17।।



शङ्खभेरीनिनादैस्तं घोयषयन्तः स्वकर्मभिः ।

राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम् ।। 5.53.18।।

स्वकर्मभिः आस्फोटनसिंहनादैरित्यर्थः । तां पुरीं घोषयन्तः । अत्यन्तसंयोगे द्वितीया । चारयन्ति स्म, तमिति शेषः ।। 5.53.18।।



अन्वीयमानो रक्षोभिर्ययौ सुखमरिन्दमः ।

हनुमांश्चारयामास राक्षसानां महापुरीम् ।। 5.53.19।।

चारयामास शोधयामास ।। 5.53.19।।



अथापश्यद्विमानानि विचित्राणि महाकपिः ।

संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ।। 5.53.20।।

चत्वरान् गृहबहिरङ्गणानि ।। 5.53.20।।



वीथीश्च गृहसंबाधाः कपिः श्रृङ्गाटकानि च ।

तथा रथ्योपरथ्याश्च तथैव गृहकान्तरान् ।

गृहांश्च मेघसङ्काशान् ददर्श पवनात्मजः ।। 5.53.21।।

श्रृङ्गाटकानि चतुष्पथानि । रथ्याः महावीथीः । उपरथ्याः अवान्तरवीथीः । गृहकान्तरान् गृहकाणि क्षुद्रगृहाणि, अन्तराणि प्रच्छन्नद्वाराणि अन्तर्द्वाराणीत्यर्थः । “तोरणो ऽस्त्री बहिर्द्वारं प्रच्छन्नद्वारमन्तरम्” इति वैजयन्ती । अक्लीबत्वमार्षम् ।। 5.53.21।।



चत्वरेषु चतुष्केषु राजमार्गे तथैव च ।

घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः ।। 5.53.22।।

स्त्रीबालवृद्धा निर्जग्मुस्तत्र तत्र कुतूहलात् ।

तं प्रदीपितलाङ्गूलं हनुमन्तं दिदृक्षवः ।। 5.53.23।।

चत्वरेष्विति । चत्वरेषु चतसृणां रथ्यानां संभेदेषु । चतुष्केषु चतुस्तम्भमण्डपेषु । चार एव चारीकः । स्वार्थे कप्रत्ययः । आर्षो दीर्घः ।। 5.53.22,23।।



दीप्यमाने ततस्तस्य लांगूलाग्रे हनूमतः ।

राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम् ।। 5.53.24।।

शंसुः शशंसुः । आर्षो द्विर्वचनाभावः ।। 5.53.24।।



यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः ।

लाङ्गूलेन प्रदीप्तेन स एष परिणीयते ।। 5.53.25।।

परिणीयते परितो नीयते ।। 5.53.25।।



श्रत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ।

वैदेही शोकसन्तप्ता हुताशनमुपागमत् ।। 5.53.26।।

उपागमत् उपासितवती ।। 5.53.26।।



मङ्गलाभिमुखी तस्य सा तदा ऽ ऽसीन्महाकपेः ।

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।। 5.53.27।।

तस्य हनुमतः । मङ्गलाभिमुखी अदाहपरा । प्रयता शुद्धिमती । “पवित्रः प्रयतः पूतः” इत्यमरः ।। 5.53.27।।



यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।

यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ।। 5.53.28।।

यद्यस्तीति । पतिशुश्रूषादिपदं तत्फलपरम् । शीतो भव, तेनेति शेषः । एकपत्नीत्वं पातिव्रत्यम् ।। 5.53.28।।



यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ।

यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।। 5.53.29।।

किंचिदनुक्रोश इति समस्तं पदम् । तस्य रामस्य । भाग्यशेषः इदानीं निरन्तरदुःखानुभवात् भाग्यप्रसक्तिरेव नास्तीति मन्यमानाया इदं वचनम् ।। 5.53.29।।



यदि मां वृत्तसम्पन्नां तत्समागमलालसाम् ।

स विजानाति धर्मात्मा शीतो भव हनूमतः ।। 5.53.30।।

मम पातिव्रत्यं यदि हनुमान् जानाति तदा शीतो भवेत्याह यदि मामिति ।। 5.53.30।।



यदि मां तारयेदार्यः सुग्रीवः सत्यसङ्गरः ।

अस्माद्दुःखाम्बुसंरोधाच्छीतो भव हनूमतः ।। 5.53.31।।

यदि मां तारयेदिति । मत्तारणे इदमेव ज्ञापकमिति भावः ।। 5.53.31।।



ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखो ऽनलः ।

जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः ।। 5.53.32।।

तत इति । ततः सीतोपगमात् । कपेरनलः कपिवालाग्निः मृगशावाक्ष्याः सीतायाः शुभं शंसन्निव प्रदक्षिणशिखो जज्वालेत्यन्वयः ।। 5.53.32।।



हनुमज्जनकश्चापि पुच्छानलयुतो ऽनिलः ।

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।। 5.53.33।।

दह्यमाने च लाङ्गूले चिन्तयामास वानरः ।। 5.53.34।।

हनुमदिति । अनिलश्च पुच्छानलयुतो ऽपि । प्रालेयानिलशीतलः हिममारुतवच्छीतलस्सन् । देव्याः सीतायाः स्वास्थ्यकरः सुखकरः ववौ । अस्मात्परं दह्यमाने च लाङ्गूल इति श्लोकः । अनयोः श्लोकयोर्मध्ये केचन श्लोकाः कतिपयकोशेषु दृश्यन्ते । बहुकोशेषु अदर्शनादर्थाधिक्याभावाच्च ते अनादरणीयाः ।। 5.53.33,34।।



प्रदीप्तो ऽग्निरयं कस्मान्न मां दहति सर्वतः ।

दृश्यते च महाज्वालः करोति न च मे रुजम् ।

शिशिरस्येव सम्पातो लाङ्गूलाग्रे प्रतिष्ठितः ।। 5.53.35।।

प्रदीप्त इति । रुजं पीडाम् । शिशिरस्येव सम्पातः शिशिरस्य चन्दनोशीरादेः सम्पातः सङ्घट्ट इव स्थितः । अत्यन्तशीतल इत्यर्थः । एतेन हेतुविशेषं न पश्यामीत्युक्तम् ।। 5.53.35।।



अथवा तदिदं व्यक्तं यद् दृष्टं प्लवता मया ।

रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ ।। 5.53.36।।

हेतुविशेषान्निश्चिनोति अथवेत्यादिना । प्लवता मया सरितां पतौ । आर्षं घिसंज्ञाकार्यम् । समुद्रमध्ये पर्वतः पर्वतरूपं यदाश्चर्यम् अद्भुतरूपं वस्तु दृष्टं तद्वदिदमग्नेः शैत्यं रामप्रभावात् सञ्जातं व्यक्तं निश्चितम् ।। 5.53.36।।



यदि तावत् समुद्रस्य मैनाकस्य च धीमतः ।

रामार्थं सम्भ्रमस्तादृक् किमग्निर्न करिष्यति ।। 5.53.37।।

एतदेवोपपादयति यदीति । सम्भ्रमः त्वरा । किमग्निर्न करिष्यति, सम्भ्रममिति शेषः । रामार्थं मैनाकस्य सम्भ्रमो यदि स्यादग्नेस्तादृशस्सम्भ्रमः कुतो न भविष्यतीत्यर्थः ।। 5.53.37।।



सीतायाश्चानृशंस्येन तेजसा राघवस्य च ।

पितुश्च मम सख्येन न मां दहति पावकः ।। 5.53.38।।

आनृशंस्येन दयया ।। 5.53.38।।



भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः ।। 5.53.39।।

स चिन्तयामास, अनन्तरकर्तव्यमिति शेषः ।। 5.53.39।।



उत्पपाताथ वेगेन ननाद च महाकपिः ।

पुरद्वारं ततः श्रीमान् शैलशृङ्गमिवोन्नतम् ।।

विभक्तरक्षस्सम्बाधमाससादानिलात्मजः ।। 5.53.40।।

चिन्तितमेवाह उत्पपातेति । पुरद्वारमिति । विभक्तरक्षस्सम्बाधं निवृत्तरक्षस्सञ्चारम् ।। 5.53.40।।



स भूत्वा शैलसङ्काशः क्षणेन पुनरात्मवान् ।

ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत् ।। 5.53.41।।

विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसन्निभः ।

वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।। 5.53.42।।

स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ।

रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः ।। 5.53.43।।

स इति । अवशातयत् अवाशातयत्, अच्यावयदित्यर्थः ।। 5.53.4143।।



स तान्निहत्वा रणचण्डविक्रमः समीक्षमाणः पुनरेव लङ्काम् ।

प्रदीप्तलाङ्गूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ।। 5.53.44।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रिपञ्चाशः सर्गः ।। 5.53।।

निहत्वा निहत्य । ल्यबभाव आर्ष । लाङ्गूलकृतार्चिमाली लाङ्गूले कृतज्वालामालः । अर्चिमाली तेजःपुञ्जवानादित्य इव प्रकाशत प्राकाशत । आनित्यत्वादडभावः । अर्चीतीकारान्तत्वमार्षम् ।। 5.53.44।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ।। 5.53।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.