01 Sarga सुन्दरकाण्डः

।। श्रीमते रामानुजाय नमः ।।

|| सुन्दरकाण्डः ||

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः

तत्त्वज्ञानसमुच्चयो घनदयासारस्य सारो महान्निष्कर्षः कमलानिवासचरणद्वन्द्वानुरागस्मृतेः ।

अक्लेशः परिपाक एष जगतामक्षय्यपुण्यावलेरस्माकं निधिरक्षयो विजयते श्रीमान् शठारिर्गुरुः ।।1 ।।

श्रीरामायणभूषायै प्रवृत्तो रामभक्तितः । व्याख्यां सुन्दरकाण्डस्य तिलकं कलयाम्यहम् ।।2 ।।

ततो रावणनीतायास्सीतायाश्शत्रुकर्शनः ।

इयेष पदमन्वेष्टुं चारणाचरिते पथि ।। 5.1.1 ।।

उक्तं परत्वासाधारणं समस्तकल्याणगुणाकरत्वं किष्किन्धाकाण्डे । अत्र सर्वसंहर्तृत्वमुच्यते, वक्ष्यति हि तत् “ब्रह्मा स्वयंभूः” इत्यादिना ।। यद्वा पूर्वस्मिन् काण्डे सर्वथा मित्रसंरक्षणं कार्यमित्युक्तम् । अत्र दूतेन पतिव्रतया चैवं वर्तितव्यमित्यर्थः प्रतिपाद्यते । यद्वा पूर्वत्र सर्वरक्षणप्रवृत्तस्य विष्णोराचार्यरूपपुरुषकारलाभ उक्तः । अधुना आचार्यकृत्यमुच्यते । तत्र प्रथमे सर्गे शिक्षणीयशिष्यान्वेषणमुपपाद्यते–तत इत्यादि । ततः जाम्बवत्प्रोत्साहनानन्तरम् । चारणाः सङ्घचारिणो देवगायकाः तैराचरिते पथि आकाशे रावणनीतायास्सीतायाः पदं स्थानमन्वेष्टुमियेष । शत्रुकर्शनः तदन्वेषणविरोधिनिरसनसमर्थः । यद्वा चारणाचरिते पथि गत्वा सीतीयाः पदमन्वेष्टुमियेष । यद्वा यथापाङ्क्तमेवान्वयः । आकाशे ऽपि पदन्यासान्वेषणसमर्थो ऽयमिति बुद्धिचातुर्यातिशय उच्यते । अनेन शिष्यस्थानान्वेषणपरगुरुस्वरूपमुच्यते । ततः मुद्राप्रदानपूर्वकभगवदनुज्ञालाभानन्तरम् । शत्रुकर्शनः”गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ।” इत्युक्तरीत्या अज्ञाननिवर्तनशीलो गुरुः । चारयन्ति आचारयन्ति धर्मानिति चारणाः पूर्वाचार्याः तैराचरिते पथि “महाजनो येन गतस्स पन्थाः” इत्युक्तसदाचारे, स्थित इति शेषः । रावयति असत्प्रलापान्कारयतीति रावणः अविवेकः, तेन नीतायाः स्ववशं प्रापितायाः सीतायाः अनादिभगवत्परतन्त्रचेतनस्य । सीताशब्देनायोनिजत्वोक्तेः स्त्रीलिङ्गेन पारतन्त्र्योक्तेश्च “स्त्रीप्रायमितरत्सर्वम्” इति ह्युक्तम् । पदं स्थानं संसारमण्डलमन्वेष्टुम्, सात्त्विकसंभाषणादिचिह्नं वा । तथोक्तम् “विष्णोः कटाक्षश्चाद्वेष आभिमुख्यं च सात्त्विकैः । सम्भाषणं षडेतानि त्वाचार्यप्राप्तिहेतवः” इति । यद्वा पदं व्यवसायमन्वेष्टुं कस्य चेतनस्य भगवत्प्राप्तावध्यवसाय इत्यन्वेष्टुम् इयेष । “पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु” इत्यमरः । अत्रैकादशसहस्रश्लोका गताः । द्वादशसहस्रस्यादिमो ऽयं श्लोकः । अत्र गायत्र्याः द्वादशमक्षरं प्रयुक्तं तदवलोकनीयं विद्वद्भिः ।। 5.1.1।।

दुष्करं निष्प्रतिद्वन्द्वं चिकीर्षन्कर्म वानरः ।

समुदग्रशीरोग्रीवो गवां पतिरिवा ऽ ऽबभौ ।। 5.1.2 ।।

दुष्करमिति । निष्प्रतिद्वन्द्वं यथा भवति तथा दुष्करं चिकीर्षन् समुदग्रशिरोग्रीवः समुन्नतशिरोग्रीवः गवां पतिः वृषभः ।। 5.1.2।।

अथ वैडूर्यवर्णेषु शाद्वलेषु महाबलः ।

धीरस्सलिलकल्पेषु विचचार यथासुखम् ।। 5.1.3।।

अथेति । शाद्वलानां सलिलकल्पत्वं वैडूर्यवर्णतया ।। 5.1.3।।

द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन् ।

मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी ।। 5.1.4।।

द्विजानिति । केसरीव बभाविति शेषः ।। 5.1.4।।

नीललोहितमाञ्जिष्ठपत्रवर्णैस्सितासितैः ।

स्वभावविहितैश्चित्रैर्धातुभिः समलङ्कृतम् ।। 5.1.5।।

कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः ।

यक्षकिन्नरगन्धर्वैर्देवकल्पैश्च पन्नगैः ।। 5.1.6।।

स तस्य गिरिवर्यस्य तले नागवरायुते ।

तिष्ठते कपिवरस्तस्य ह्रदे नाग इवाबभौ ।। 5.1.7।।

नीलेति, अत्र यच्छब्दो ऽध्याहार्यः । यदेवंविधं तलं तत्र तिष्ठन्नित्यन्वयः । पत्रवर्णैः पत्रश्यामैः । “पलाशो हरितो हरित्” इति हलायुधः । सितासितैः कल्माषैः । स्वभावविहितैः स्वतस्सिद्धैः ।। 5.1.57।।

स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे ।

भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम् ।। 5.1.8।।

स सूर्यायेति । स्वयम्भुवे चतुर्मुखाय । भूतेभ्यः देवयोनिभ्यः ।। 5.1.8 ।।

अञ्जलिं प्राङ्मुखः कृत्वा पवनायात्मयोनये ।

ततो ऽभिववृधे गन्तुं दक्षिणो दक्षिणां दिशम् ।। 5.1.9 ।।

अञ्जलिमिति । आत्मयोनये स्वकारणभूताय । दक्षिणः समर्थः । हनुमान् प्राङ्मुखः सन् आत्मयोनये पवनाय अञ्जलिं कृत्वा ततो दक्षिणां दिशं गन्तुं ववृध इत्यन्वयः । हिः पादपूरणे । अञ्जलिं प्राङ्मुखः कुर्वन्निति पाठस्त्वयुक्तः, शतृप्रत्ययेन प्राङ्मुखत्वविशेष्टाञ्जलिकरणदक्षिणदिग्गमनोद्योगयेरेककालिकत्वप्रतीत्या विरोधात् । नहि प्राङ्मुखस्यैव सत्तो दक्षिणदिग्गमनोद्योगो युज्यते ।। 5.1.9 ।।

प्लवङ्गप्रवरैर्दृष्टः प्लवने कृतनिश्चयः ।

ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु ।। 5.1.10।।

प्लवङ्गेति ।। रामवृद्ध्यर्थं रामप्रयोजनार्थम् ।। 5.1.10।।

निष्प्रमाणशरीरस्सन् लिलङ्घयिषुरर्णवम् ।

बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम् ।। 5.1.11।।

निष्प्रमाणशरीरः निर्मर्यादशरीरः ।। बाहुभ्यामित्युक्तिर्वानरस्य चतुर्भिः सञ्चारात् ।। 5.1.11।।

स चचालाचलश्चापि मुहूर्तं कपिपीडितः ।

तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ।। 5.1.12।।

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।

सर्वतः संवृतश्शैलो बभौ पुष्पमयो यथा ।। 5.1.13।।

तेन चोत्तमवीर्येण पीड्यमानस्स पर्वतः ।

सलिलं सम्प्रसुस्राव मदं मत्त इव द्विपः ।। 5.1.14।।

स चचालेति । चापीत्येकमव्ययमप्यर्थकम् । अशातयत् अगच्छत् । स्वर्थे णिच् ।। 5.1.1214।।

पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः ।

रीतिर्निर्वर्तयामास कगाञ्चनाञ्जनराजतीः ।। 5.1.15।।

पीड्यमान । रीतीः रेखाः काञ्चनाञ्जनरजतगर्भासु शिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ।। 5.1.15।।

मुमोच च शिलाश्शैलो विशालास्समनश्शिलाः ।

मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ।। 5.1.16।।

मुमोचेति । समनश्शिलाः धातुविशेषसहिताः । मध्यमेनार्चिषा मध्यमया ज्वालया, पार्श्वज्वाला हि न धूमनिवर्तिका ।। 5.1.16।।

गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः ।

गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः ।। 5.1.17।।

गिरिणेति । विकृतैः विकृतिमद्भिः, दैन्यव्यञ्जकैरित्यर्थः ।। 5.1.17।।

स महासत्त्वसन्नादश्शैलपीडानिमित्तजः ।

पृथिवीं पूरयामास दिशश्चोपवनानि च ।। 5.1.18।।

स इति । सत्त्वसन्नादः भूतसन्नादः ।। 5.1.18।।

शिरोभिः पृथुभिस्सर्पा व्यक्तस्वस्तिकलक्षणैः ।

वमन्तः पावकं घोरं ददंशुर्दशनैश्शिलाः ।। 5.1.19।।

शिरोभिरिति ।। स्वस्तिकं नाम फणोपरि दृश्यमानार्धचन्द्रकम् । ददंशुरिति । दंशनं कोपव्यापारः ।। 5.1.19।।

तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः ।

जज्वलुः पावकोद्दीप्ता बिभिदुश्च सहस्रधा ।। 5.1.20।।

ता इति । बिभिदुः भिन्नाः ।। 5.1.20।।

यानि चौषधजालानि तस्मिन् जातानि पर्वते ।

विषघ्नान्यपि नागानां न शकुश्शमितुं विषम् ।। 5.1.21।।

यानीति । अत्र तानीत्यध्याहार्यम् । शमितुं शमयितुम् ।। 5.1.21।।

भिद्यते ऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ।। 5.1.22।।

भिद्यत इत्यर्धमेकम् । उत्पेतुरित्यनुषज्यते ।। 5.1.22।।

त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैस्सह ।

पानभूमिगतं हित्वा हैममासवभाजनम् ।

पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ।। 5.1.23।।

लेह्यानुच्चावचान् भक्ष्यान् मांसानि विविधानि च ।

आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून् ।। 5.1.24।।

त्रस्ता इत्यादिसार्दश्लोकद्वमेकान्वयम् । आसवभाजनं मद्यपात्रम् । पात्राणि भोजनपात्राणि । आर्षभाणि चर्माणि ऋषभचर्मपिनद्धानि खेटकानि । त्सरुः मुष्टिबन्धनम् ।। 5.1.23,24।।

कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः ।

रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे ।। 5.1.25।।

कृतेति । कृतकण्ठगुणाः कृतकण्ठस्रजः । क्षीबाः मत्ताः । रक्ताक्षाः मधुपानात् । पुष्कराक्षाः स्वभावत इत्यर्थः ।। 5.1.25।।

हारनूपुरकेयूरपारिहार्यधराः स्त्रियः ।

विस्मितास्सस्मितास्तस्थुराकाशे रमणैस्सह ।। 5.1.26।।

हारेति । पारिहार्यं वलयम् । तस्थुः तस्थुश्च ।। 5.1.26।।

दर्शयन्तो महाविद्यां विद्याधरमहर्षयः ।

सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम् ।। 5.1.27।।

दर्शयन्तः प्रयोजयन्तः । महाविद्याम् अणिमाद्यष्टमहासिद्धिम् । विद्याधरमहर्षयः विद्याधराः महर्षय इवेत्युपमितसमासः । “उपमितं व्याघ्रादिभिः सामान्याप्रयोगे” इत्यनुशासनात् । विद्याधरश्रेष्ठा इत्यर्थः । विद्याधरा महर्षयश्चेति द्वन्द्वसमासो न युक्तः, इति विद्याधराः श्रुत्वेत्युपरितनश्लोके विद्याधराणामेवोपादानात् ।। 5.1.27।।

शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मानम् ।

चारणानां च सिद्धानां स्थितानां विमले ऽम्बरे ।। 5.1.28।।

एष पर्वतसङ्काशो हनूमान् मारुतात्मजः ।

तितीर्षति महावेगस्समुद्रं मकरालयम् ।। 5.1.29।।

रामार्थं वानरार्थं च चिकार्षन् कर्म दुष्करम् ।

समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति ।। 5.1.30।।

इति विद्याधराः श्रुत्वा वचस्तेषां महात्मनाम् ।

तमप्रमेयं ददृशुः पर्वते वानरर्षभम् ।। 5.1.31।।

दुधुवे च स रोमाणि चकम्पे चाचलोपमः ।

ननाद सुमहानादं सुमहानिव तोयदः ।। 5.1.32 ।।

समुद्रं तितीर्षतीत्युक्तम् । तस्य प्रयोजनकथनायोक्तमनुवदति रामार्थमिति ।। 5.1.3032 ।।

आनुपूर्व्येण वृत्तं च लाङ्गूलं रोमभिश्चितम् ।

उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम् ।। 5.1.33।।

तस्य लाङ्गूलमाविद्धमात्तवेगस्य पृष्ठतः ।

ददृशे गरुडेनेव ह्रियमाणो महोरगः ।। 5.1.34।।

आनुपूर्व्येणेति । आनुपूर्व्येण वृत्तं क्रमेण वृत्तम् ।। 5.1.3334।।

बाहू संस्तम्भयामास महापरिघसन्निभौ ।

ससाद च कपिः कट्यां चरणौ संचुकोच च ।। 5.1.35।।

लङ्घनोद्योगकालिकावस्थां वर्णयति बाहू इत्यादिना । बाहू संस्तम्भयामास निश्चलीचकार । कट्यां ससाद शरीरं संचुकोचेत्यर्थः । चरणौ संचुकोच च ।। 5.1.35।।

संहृत्य च भुजौ श्रीमान् तथैव च शिरोधराम् ।

तेजस्सत्त्वं तथा वीर्यमाविवेश स वीर्यवान् ।। 5.1.36।।

संहृत्येति । संहृत्य संकोच्य ।। 5.1.36।।

मार्गमालोकयन् दूरादूर्ध्वं प्रणिहितेक्षणः ।

रुरोध हृदये प्राणानाकाशमवलोकयन् ।। 5.1.37।।

पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः ।

निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन् महाबलः ।

वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत् ।। 5.1.38।।

यथा राघवनिर्मुक्तश्शरः श्वसनविक्रमः ।

गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम् ।। 5.1.39।।

मार्गमिति । प्राणान् उच्छ्वासरूपान् । प्राणनिरोधो व्योमोत्पतनार्थम् ।। 5.1.3739।।

नहि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम् ।

अनेनैव हि वेगेन गमिष्यामि सुरालयम् ।। 5.1.40।।

नहीति । हिशब्दः पादपूरणे ।। 5.1.40।।

यदि वा त्रिदिवे सीतां न द्रक्ष्याम्यकृतश्रमः ।

बद्ध्वा राक्षसराजानमानयिष्यामि रावणम् ।। 5.1.41 ।।

सर्वथा कृकार्यो ऽहमेष्यामि सह सीतया ।

आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम् ।। 5.1.42 ।।

एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः ।। 5.1.43।।

उत्पपाताथ वेगेन वेगवानविचारयन् ।

सुपर्णमिव चात्मानं मेने स कपिकुञ्जरः ।। 5.1.44।।

यदीति । अकृतश्रमः अप्राप्तश्रमः । पाक्षप्तराजावमित्यत्र टजभाव आर्षः । आनयिष्यामि आनेष्यामि ।। 5.1.4144।।

समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः ।

संहृत्य विटपान् सर्वान् समुत्पेतुस्समन्ततः ।। 5.1.45।।

समुत्पततीति । तस्मिन् हनुमति वेगात्समुत्पतति सति । नगरोहिणः शैलरुहा वृक्षाः विटपान् संहृत्य आदाय, समुत्पेतुरित्यर्थः ।। 5.1.45।।

स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः ।

उद्वहन्नूरुवेगेन जगाम विमले ऽम्बरे ।। 5.1.46।।

उरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः ।

प्रस्थितं दार्घमध्वानं स्वबन्धुमिव बान्धवाः ।। 5.1.47।।

संग्रहणोक्तं विवृणोति स मत्तेत्यादिना । कोयष्टिभकः कोयष्टिः ।। 5.1.46,47।।

तमूरुवेगोन्मथितास्सालाश्चान्ये नगोत्तमाः ।

अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम् ।। 5.1.48।।

सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः ।

हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः ।। 5.1.49।।

तमिति । तमूरुवेगेति पाठः । ऊरुवेगेन उन्मथिताः सालाः सावृक्षाः । अन्ये नगोत्तमाः अन्ये वृक्षश्रेष्ठाः ।सैन्याः सेनायां समवेताः पुरुषाः । “सेनायां समवेता ये सैन्यास्ते नैनिकाश्च ते” इत्यमरः ।। 5.1.48,49।।

सारवन्तो ऽथ ये वृक्षा न्यमज्जन् लवणाम्भसि ।

भयादिव महेन्द्रस्य पर्वता वरुणालये ।। 5.1.50।।

सारवन्तः स्तिरांशवन्तः । “सारो बले स्थिरांशे च ” इत्यमरः ।। 5.1.50।।

स नानाकुसुमैः कीर्णः कपिस्साङ्कुरकोरकैः ।

शुशुभे मेघसङ्काशः खद्योतैरिव पर्वतः ।। 5.1.51।।

स नानाकुसुमैरिति । मेघसङ्काशः स कपिरित्यन्वयः । खद्योतैः रात्राविति शेषः ।। 5.1.51।।

विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः ।

अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा ।। 5.1.52।।

विमुक्ता इति ।। अवशीर्यन्त अवाशीर्यन्त । आगमशासनस्यानित्यत्वादडभावः । स्थितवन्त इत्यर्थः । निवृत्ताः बन्धूननुगम्य निवृत्ताः । सुहृत्पक्षे सलिल सामीप्ये सप्तमी । “उदकान्तात् स्निग्धो बन्धुव्रजेत्” इत्युक्तेः ।। 5.1.52।।

लघुत्वेनोपन्नं तद्विचित्रं सागरे ऽपतत् ।

द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम् ।। 5.1.53।।

लघुत्वेनोपपन्नं लघुत्वेन युक्तम् ।। 5.1.53।।

ताराचितमिवाकाशं प्रबभौ स महार्णवः ।। 5.1.54।।

तारेत्यर्धमेकं वाक्यम् । ताराचितमिव आकाशं प्रबभौ स महार्णवः ।। 5.1.54।।

पुष्पौघेणानुबद्धेन नानावर्णेन वानरः ।

बभौ मेघ इवाकाशे विद्युद्गणविभूषितः ।। 5.1.55।।

तस्य वेगसमाधूतैः पुष्पैस्तोयमदृश्यत ।

ताराभिरभिरामाभिरुदिताभिरिवाम्बरम् ।। 5.1.56।।

तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ ।

पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ ।। 5.1.57।।

पुष्पौघेणेति । अनुबद्धेन व्याप्तेन ।। 5.1.5557।।

पिबन्निव बभौ चापि सोर्मिजालं महर्णवम् ।

पिपासुरिव चाकाशं ददृशे स महाकपिः ।। 5.1.58।।

तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः ।

नयने विप्रकाशेते पर्वतस्ताविवानलौ ।। 5.1.59।।

पिबन्निवेति । अर्णवं पिबन्निव आकाशं पिपासुरिवेत्याभ्यामस्य महानुद्योगस्सूच्यते । लङ्घनवेगेन सहसा क्षीयमाणे सागरविस्तारे स पीयमान इव भवति एवमम्बरं च । ततो ऽतिवेगेन गच्छन् स महार्णवं पिबन्निव बभौ तथा आकाशमपीत्याहुः ।। 5.1.58,59।।

पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले ।

चक्षुषी संप्रकाशेते चन्द्रसूर्याविवोदितौ ।। 5.1.60।।

पिङ्गे पिङ्गलवर्णे । पिङ्गाक्षाणां वानराणां मुख्यस्य । परिमण्डले मण्डलाकारे चन्द्रसूर्याविवेत्यभूतोपमा ।। 5.1.60।।

मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ ।

सन्ध्यया समभिस्पृष्टं यथा तत्सूर्यमण्डलम् ।। 5.1.61 ।।

मुखमिति । तत्सूर्यमण्डलं सन्ध्यासूर्यमण्डलम् ।। 5.1.61 ।।

लाङ्गूलं च समाविद्धं प्लवमानस्य शोभते ।

अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः ।। 5.1.62 ।।

लाङ्गूलचक्रेण महान् शुक्लदंष्ट्रो ऽनिलात्मजः ।

व्यरोचतमाहाप्राज्ञः परिवेषीव भास्करः ।। 5.1.63।।

लाङ्गूलमिति । समाविद्धम् उन्नतीकृतम् ।। 5.1.6263।।

स्फिग्देशेनाभिताम्रेण रराज स महाकपिः ।

महता दारितेनेव गिरिर्गैरिकधातुना ।। 5.1.64।।

स्फिग्देशेन वालमूलप्रदेशेन ।। 5.1.64।।

तस्य वानरसिंहस्य प्लवमानस्य सागरम् ।

कक्षान्तरगतो वायुर्जीमूत इव गर्जति ।। 5.1.65।।

गर्जति अगर्जत् ।। 5.1.65।।

खे यथा निपतन्त्युल्का ह्युत्तरान्ताद्विनिःसृता ।

दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः ।। 5.1.66।।

खे यथेति । सानुबन्धा, सपुच्छा उल्का हि पुच्छयुक्ता निपतति ।। 5.1.66।।

पतत्पतङ्गसङ्काशो व्यायतः शुशुभे कपिः ।

प्रवृद्ध इव मातङ्गः कक्ष्यया बद्ध्यमानया ।। 5.1.67।।

पतदिति । पतङ्गः सूर्यः । व्यायतो दीर्घः । प्रवृद्ध इव दीर्घ इव, कक्ष्यायां बद्ध्यमानायां हि मातङ्गो दीर्घो भवति ।। 5.1.67।।

उपरिष्टाच्छरीरेण च्छायया चावगाढया ।

सागरे मारुताविष्टा नौरिवासीत्तदा कपिः ।। 5.1.68।।

उपरिष्टादिति । नौर्जलावगाढेनाधोभागेन व्योमावगाढेन चेर्ध्वभागेन गच्छति । अयं च उपरिगतशरीरेणाधोजलावगाढच्छायया चैकाकारस्सन् मारुतपूरितकटा नौरिवासीत् ।। 5.1.68।।

यं यं देशं सुमुद्रस्य जगाम स महाकपिः ।

स स तस्योरुवेगेन सोन्माद इव लक्ष्यते ।। 5.1.69।।

यं यमिति । सोन्माद इव समुद्धर्ष इव, समुद्धतजल इत्यर्थः ।। 5.1.69।।

सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम् ।

अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः ।। 5.1.70।।

कपिवातश्च बलवान् मेघवातश्च निःसृतः ।

सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम् ।। 5.1.71।।

सागरस्येति । शैलवर्ष्मणां शैलतुल्यानाम् । “वर्ष्म देहप्रमाणयोः” इति सज्जनः ।। 5.1.70,71।।

विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि ।

पुप्लुवे कपिशार्दूलो विकिरन्निव रोदसी ।। 5.1.72।।

विकरन्निव विभजन्निव । रोदसी द्यावापृथिव्यौ ।। 5.1.72 ।।

मेरुमन्दरसङ्काशानुद्धतान् स महार्णवे ।

अतिक्रामन्महावेगस्तरङ्गान् गणयन्निव ।। 5.1.73।।

मेर्विति । अतिक्रामत् अत्यक्रामत् ।। 5.1.73।।

तस्य वेगसमुद्धूतं जलं सजलदं तदा ।

अम्बरस्थं विबभ्राज शारदाभ्रमिवाततम् ।। 5.1.74।।

तस्येति । तस्य हनूमतः । वेगेन ऊरुवातेन । समुद्धूतं समुत्तापतम् । सजलदं जलं जलदो जलं चोद्दूतमित्यर्थः ।। 5.1.74।।

तिमिनक्रझषाः कूर्मा दृश्यन्ते विवृतास्तदा ।

वस्त्रापकर्षणेनेव शरीराणि शरीरिणाम् ।। 5.1.75।।

प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः ।

व्योम्नि तं कपिशार्दूलं सुपर्ण इति मेनिरे ।। 5.1.76।।

तिमीति । तिमयो महामत्स्याः, नक्राः ग्राहाः, झषाः मकराः । विवृताः जलविभेदेन प्रकाशिताः ।। 5.1.75,76।।

दशयोजनविस्तीर्णा त्रिंशद्योजनमायता ।

छाया वानरसिंहस्य जले चारुतरा ऽभवत् ।। 5.1.77।।

दशयोजनविस्तीर्णेति । ननु त्रिंशद्योजनायतत्वे चतुर्थपदेपि लङ्काप्राप्तिः स्यात् मैनाकसंवादसुरसासंवादादिकं च विरुद्ध्येत । न हि बिम्बादधिकपरिमाणत्वं प्रतिबिम्बस्य सम्भवतीति न शङ्कनीयम्, छायाशब्दो हि नात्र प्रतिबिम्बपरः किन्त्वनातपपरः । प्रातरेव हि समुद्रतरणमुक्तम्, तदा तस्य छाया तथाप्रमाणा दृश्येतैव ।। 5.1.77।।

श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी ।

तस्य सा शुशुभे छाया वितता लवणाम्भसि ।। 5.1.78।।

शुशुभे स महातेजा महाकायो महाकपिः ।

वायुमार्गे निरालम्बे पक्षवानिव पर्वतः ।। 5.1.79।।

श्वेतभ्रेति अभ्रघनः अभ्रमूर्तिः ।। 5.1.78,79।।

येनासौ याति बलवान् वेगेन कपिकुञ्जरः ।

तेन मार्गेण सहसा द्रोणाकृत इवार्णवः ।। 5.1.80।।

येनेति । द्रोणी कटाहः ।। 5.1.80।।

आपाते पक्षिसङ्घानां पक्षिराज इव व्रजन् ।

हनुमान् मेधजालानि प्रकर्षन् मारुतो यथा ।। 5.1.81।।

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।

कपिना ऽ ऽकृष्यमाणानि महाभ्राणि चकाशिरे ।। 5.1.82 ।।

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।

प्रच्छन्नस्य प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.1.83।।

प्लवमानं तु तं दृष्ट्वा प्लवङ्गं त्वरितं तदा ।

ववर्षुः पुष्पवर्षाणि देवगन्धर्वदानवाः ।। 5.1.84।।

आपात इति । आपाते मार्गे ।। 5.1.8184।।

तताप न हि तं सूर्यः प्लवन्तं वानरोत्तमम् ।

सिषेवे च तदा वायू रामकार्यार्थसिद्धये ।। 5.1.85।।

ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा ।

जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसम् ।। 5.1.86।।

ततापेति । रामकार्यं सीतान्वेषणम् तदेवार्थः प्रयोजनं सिद्धये लाभाय, तद्धेतुभूतहनुमच्छ्रमनिवर्तनायेत्यर्थः ।। 5.1.85,86।।

नागाश्चतुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः ।

प्रेक्ष्य सर्वे कपिवरं सहसा विगतक्लमम् ।। 5.1.87।।

नागा इति । रक्षांसि दिक्पालकरक्षस्सम्बन्धीनि ।। 5.1.87।।

तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति ।

इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः ।। 5.1.88।।

तस्मिन्निति । मानार्थी बहुमानार्थी । स्वयं सागरत्वादिति भावः ।। 5.1.88।।

साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः ।

करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम् ।। 5.1.89।।

अहमिक्ष्वाकुनाथेन सगरेण विवर्द्धितः ।

इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति ।। 5.1.90।।

तथा मया विधातव्यं विश्रमेत यथा कपिः ।

शेषं च मयि विश्रान्तस्सुखेनातिपतिष्यति ।। 5.1.91।।

साहाय्यमिति । सर्ववाच्यः सर्वप्रकारेण निन्द्यः । विवक्षतां वक्तुमिच्छताम् ।। 5.1.8991।।

इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि ।

हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम् ।। 5.1.92।।

इतीति । हिरण्यनाभं हिरण्यश्रृङ्गम् नाभिशब्दो ह्यध्यक्षवाची, शृङ्गं च पर्वतस्याध्यक्षमेव । “नाभिरध्यक्षकस्तूर्योः”इति दर्पणः ।। 5.1.92।।

त्वमिहासुरसङ्घानां पातालतलवासिनाम् ।

देवराज्ञा गिरश्रेष्ठ परिघः सन्निवेशितः ।। 5.1.93।।

त्वमिति । परिघः अर्गलम् । “परिघो मुद्गरे ऽर्गले ” इति दर्पणः ।। 5.1.93।।

त्वमेषां जातवीर्याणां पुनरेवोत्पतिष्यताम् ।

पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि ।। 5.1.94।।

परिघत्वमेवाह त्वमेषामिति ।। 5.1.94।।

तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैल वर्द्धितुम् ।

तस्मात्संचोदयामि त्वामुत्तिष्ठ गिरिसत्तम ।। 5.1.95।।

स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान् ।

हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः ।। 5.1.96।।

तिर्यगिति । शक्तिः अस्तीति शेषः ।। 5.1.95,96।।

अस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः ।

मम हीक्ष्वाकवः पूज्याः परं पूज्यतमास्तव ।। 5.1.97।।

अस्येति । इक्ष्वाकोः कुले वंशे वर्तते शुश्रूषत इति इक्ष्वाकुकुलवर्ती तस्य पूज्यतमास्तव मत्सम्बन्धादिति भावः । यद्वा त्वदुपकारकवायुपुत्रमुद्दिश्य ।। 5.1.97।।

कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत् ।

कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत् ।। 5.1.98।।

सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि ।

अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः ।। 5.1.99।।

कुर्विति । कार्यं प्रयोजनं विश्रान्त्यादि । कर्तव्यं कार्यमकृतं सतां मन्युं कोपम् उदारयेत् प्रेरयेत् उत्पादयेत् ।। 5.1.98,99।।

चामीकरमहानाभ देवगन्धर्वसेवित ।

हनुमांस्त्वयि विश्रान्तस्ततश्शेषं गमिष्यति ।।

[स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्] ।। 5.1.100।।

चामीकरोति । चमीकरमहानाभ स्वर्णमयमहाशृङ्ग ।। 5.1.100।।

काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम् ।

श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि ।। 5.1.101 ।।

काकुत्स्थस्येति । काकुत्स्थस्यानृशंस्यं रामस्य सीताविषयां दयाम् ।। 5.1.101 ।।

हिरण्यनाभो मैनाको निशम्य लवणाम्भसः ।

उत्पपात जलात्तूर्णं महाद्रुमलतायुतः ।। 5.1.102 ।।

स सागरजलं भित्त्वा बभूवाभ्युत्थितस्तदा ।

यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः ।। 5.1.103।।

स महात्मा मुहूर्तेन पर्वतस्सलिलावृतः ।

दर्शयामास शृङ्गाणि सागरेण नियोजितः ।। 5.1.104।।

हिरण्यनाभ इति । निशम्य, वचनमिति शेषः ।। 5.1.102104।।

शातकुम्भनिभैश्श्रृङ्गैस्सकिन्नरमहोरगैः ।

आदित्योदयसङ्काशैरालिखद्भिरिवाम्बरम् ।। 5.1.105।।

शातकुम्भेति । शातकुम्भनिभैः स्वर्णसदृशैः आदित्योदयसङ्काशैः आदित्योदयतुल्यैरित्यर्थः । शृङ्गैरुपलक्षितः शृङ्गाणि दर्शयामासेति योजना ।। 5.1.105।।

तप्तजाम्बूनदैश्शृङ्गैः पर्वतस्य समुत्थितैः ।

आकाशं शस्त्रसङ्काशमभवत् काञ्चनप्रभम् ।। 5.1.106।।

जातरूपमयैः शृङ्गैर्भ्राजमानैस्स्वयंप्रभैः ।

आद्त्यशतसङ्काशस्सो ऽभवद्गिरिसत्तमः ।। 5.1.107।।

तप्तेति । शस्त्रसङ्काशं नीलमित्यर्थः । “शस्त्रमायुधलोहयोः” इति विश्वः ।। 5.1.106,107।।

तमुत्थितमसङ्गेन हनुमानग्रतः स्थितम् ।

मध्ये लवणतोयस्य विघ्नो ऽयमिति निश्चितः ।। 5.1.108।।

स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः ।

उरसा पातयामास जीमूतमिव मारुतः ।। 5.1.109।।

तमिति । निश्चितः निश्चितवान् । कर्तरि निष्ठा ।। 5.1.108,109।।

स तदा पातितस्तेन कपिना पर्वतोत्तमः ।

बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च ।। 5.1.110।।

जहर्ष विसिष्मिये ।। 5.1.110।।

तमाकाशगतं वीरमाकाशे समुपस्थितः ।

प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम् ।

मानुषं धारयन् रूपमात्मनश्शिखरे स्थितः ।। 5.1.111 ।।

दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम ।

निपत्य मम श्रृङ्गेषु विश्रमस्व यथासुखम् ।। 5.1.112 ।।

राघवस्य कुले जातैरुदधिः परिवर्द्धितः ।

स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः ।। 5.1.113।।

तमिति । प्रीतः प्रीतिद्योतकव्यापारः ।। 5.1.111113।।

कृते च प्रतिकर्तव्यमेष धर्मस्सनातनः ।

सो ऽयं त्वत्प्रतिकारार्थी त्वत्तः सम्मानमर्हति ।। 5.1.114।।

त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।

तिष्ठ त्वं कपिशार्दूल मयि विश्रम्य गम्यताम् ।। 5.1.115।।

कृते इति । कृते उपकारे त्वत्प्रतिकारार्थी त्वदातिथ्यकरणापेक्षी । त्वत्तः संमानमर्हतीति त्वया तत्कृतातिथ्यपरिग्रह एवास्य संमानमित्यर्थः ।। 5.1.114,115।।

योजनानां शतं चापि कपिरेष समाप्लुतः ।

तव सानुषु विश्रान्तश्शेषं प्रक्रमतामिति ।। 5.1.116।।

चोदनाप्रकारमाहयोजनानामिति । प्रक्रमतामिति प्रचोदित इति पूर्वेणान्वयः ।। 5.1.116।।

तदिदं गन्धवत् स्वादु कन्दमूलफलं बहु ।

तदास्वाद्य हरि श्रेष्ठ विङन्तो ऽनुगमिष्यसि ।। 5.1.117।।

तदिति । तत्प्रसिद्धम् । कन्दः करहाटः । मूलं पादः । तत्तस्मात् ।। 5.1.117।।

अस्माकमपि सम्बन्धः कपिमुख्य त्वया ऽस्ति वै ।

प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः ।। 5.1.118।

वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।

तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ।। 5.1.119।।

अतिथिः किल पूजार्हः प्राकृतो ऽपि विजानता ।।

धर्मं जिज्ञासमानेन किं पुनस्त्वादृशो महान् ।। 5.1.120।।

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।।

पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ।। 5.1.121 ।।

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।

तस्मात्त्वं पूजनीयो मे श्रृणु चाप्यत्र कारणम् ।। 5.1.122 ।।

अस्माकमिति । प्रख्यात इति सम्बन्धविशेषणम् । महागुणानां परिग्रहां यस्मिन्स तथा ।। 5.1.118122 ।।

पूर्वं कृतयुगे तात पर्वताः पक्षिणो ऽभवन् ।

ते हि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ।। 5.1.123।।

ततस्तेषु प्रयातेषु देवसङ्घाः सहर्षिभिः ।

भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ।। 5.1.124।।

ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः ।

पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशुः ।। 5.1.125।।

स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।

ततो ऽहं सहसा क्षिप्तः श्वसनेन महात्मना ।। 5.1.126।।

संबन्धं विवृणोति पूर्वमित्यादिना । पक्षिणः पक्षवन्तः । हिः पादपूरणे ।। 5.1.123126।।

अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम ।

गुप्तपक्षसमग्रश्च तव पित्रा ऽभिरक्षितः ।। 5.1.127।।

ततो ऽहं मानयामि त्वां मान्यो हि मम मारुतः ।

त्वया मे ह्येष सम्बन्धः कपिमुख्य महागुणः ।। 5.1.128।।

तस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।

प्रीतिं प्रीतमानाः कर्तुं त्वमर्हसि महाकपे ।। 5.1.129।।

श्रमं मोक्षय पूजां च गृहाण कपिसत्तम ।

प्रीतिं च बहु मन्यस्व प्रीतो ऽस्मि तव दर्शनात् ।। 5.1.130।।

एवमुक्तः कपिश्रष्ठस्तं नगोत्तममब्रवीत् ।। 5.1.131 ।।

अस्मिन्निति । समग्रः समग्रपक्षः, गुप्तसमग्रपक्षश्च यथा भवामि तथा अभिरक्षितो ऽस्मीत्यर्थः ।। 5.1.127131।।

प्रीतो ऽस्मि कृतमातिथ्यं मन्युरेषो ऽपनीयताम् ।

त्वरिते कार्यकालो मे अहश्चाप्यतिवर्तते ।

प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरे ।। 5.1.132 ।।

प्रीतोस्मीति । कृतमातिथ्यं तव दर्शनादिनेति भावः । मन्युः कोपः, मत्कृता पूजा गृहीतेति कोपो निरस्यतामित्यर्थः । कार्यकालः त्वरते शीघ्रं गच्छेति मां प्रेरयति । अहश्चाप्यतिवर्तते, अत्र विलम्बः क्रियते चेदिदमहो ऽतिवर्तते इत्यर्थः । इह समुद्रे

अन्तरे मध्ये मया न स्थातव्यमिति वानरसन्निधौ प्रतिज्ञा कृता ।। 5.1.132 ।।

इत्युक्त्वा पाणिना शैलमालभ्य हरिपुङ्गवः ।

जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव ।। 5.1.133।।

स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।

पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ।। 5.1.134।।

इत्युक्त्वेति । प्रहसन्निव प्रसन्नमुख इवेत्यर्थः ।। 5.1.133,134।।

अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ।

पितुः पन्थानमास्थाय जगाम विमले ऽम्बरे ।। 5.1.135।।

भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन् ।

वायुसूनुर्निरालम्बे जगाम विमले ऽम्परे ।। 5.1.136।।

अथेति । हित्वा शैलमहार्णवौ मूर्तिमन्तौ तौ हित्वेत्यर्थः । अनेन शैलवत्समुद्रो ऽपि मूर्तिमत्तया तत्रादृश्यतेति सूचितम् ।। 5.1.135,136।।

तद् द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।

प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ।। 5.1.137।।

देवताश्चाभवन् हृष्टास्तत्रस्तास्तस्य कर्मणा ।

काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ।। 5.1.138।।

उवाच वचनं धीमान् परितोषात् सगद्गदम् ।

सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः ।। 5.1.139।।

हिरण्यनाभ शैलेन्द्र परितुष्टो ऽस्मि ते भृशम् ।

अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम् ।। 5.1.140।।

तद्द्वितीयमिति । द्वितीयं समुद्रलङ्घनापेक्षया द्वितीयं तत्पर्वतजयरूपं कर्म । 5.1.137140 ।।

साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः ।

क्रमतो योजनशतं निर्भयस्य भये सति ।। 5.1.141।।

रामस्यैष ह दूत्येन याति दाशरथेर्हरिः ।

सत्क्रियां कुर्वतां तस्य तोषितो ऽस्मि दृढं त्वया ।। 5.1.142।।

ततः प्रहर्षमगमद्विपुलं पर्वतोत्तमः ।

देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम् ।। 5.1.143।।

स वै दत्तवरः शैलो बभूवावस्थितस्तदा ।

हनुमांश्च मुहूर्तेन व्यतिचक्राम सागरम् ।। 5.1.144।।

ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।

अब्रुवन् सूर्यसङ्काशां सुरसां नागमातरम् ।। 5.1.145।।

अयं वातात्मजः श्रीमान् प्लवते सागरोपरि ।

हनुमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर ।। 5.1.146।।

राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम् ।

दंष्ट्रा करालं पिङ्गाक्षं वक्त्रं कृत्वा नभस्समम् ।। 5.1.147।।

बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम् ।

त्वां विजेष्यत्युपायेन विषादं वा गमिष्यति ।। 5.1.148।।

एवमुक्ता तु सा देवी दैवतैरभिसत्कृता ।

समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः ।। 5.1.149।।

विकृतं च विरूपं च सर्वस्य च भयावहम् ।

प्लवमानं हनूमन्तमावृत्येदमुवाच ह ।। 5.1.150।।

मम भक्ष्यः(क्षः) प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ ।

अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम् ।। 5.1.151 ।।

एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः ।

प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत् ।। 5.1.152 ।।

रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम् ।

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।। 5.1.153।।

साह्यमिति । भये सति समुद्रलङ्घने ऽस्य किं भविष्यतीत्यस्माकं भये सतीत्यर्थः ।।

5.1.141153 ।।

अन्यकार्यविषक्तस्य बद्धवैरस्य राक्षसैः ।

तस्य सीता हृता भार्या रावणेन यशस्विनी ।। 5.1.154।।

अन्येति । अन्यकार्यविषक्तस्य मारीचमृगग्रहणव्यासक्तस्य ।। 5.1.154।।

तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।

कर्तुमर्हसि रामस्य साह्यं विषयवासिनी ।। 5.1.155।।

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ।। 5.1.156।।

तस्या इति । विषयवासिनी रामराज्यवासिनी ।। 5.1.155,156।।

एवमुक्ता हनुमता सुरसा कामरूपिणी ।

अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम ।। 5.1.157।।

एवमिति । नातिवर्तेन्मां ममाननमप्रविश्य न गच्छेत् । अतिवर्तेदित्यत्र परस्मैपदमार्षम् । अत्र इतिकरणं द्रष्टव्यम् । अब्रवीन्नातिवर्तेन्मां कश्चिदेषवरो ममेत्यस्यानन्तरं तद्दृष्ट्वा व्यादितं वक्त्रं वायुपुत्रः सुबुद्धिमानित्यादिश्लोका द्रष्टव्याः । मध्ये तं प्रयान्तमित्यादयः केचन श्लोकाः प्रक्षिप्ताः असङ्गताश्च, शतयोजनायतत्वे वानरैर्लङ्कावासिभिश्च ज्ञातः स्यादिति विरोधात् । त इमे प्रत्रिप्तश्लोकाः :”तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् । बलं जिज्ञासमाना वै नागमाता हनूमतः । प्रविश्य वदनं मे ऽद्य गन्तव्यं वानरोत्तम । वर एष पुरा दत्तो मम धात्रेति सत्वरा । व्यादाय विपुलं वक्त्रं स्थिता सा मारुतेः पुरः । एवमुक्तः सरसया क्रुद्धो वारपुङ्गवः । अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे । इत्युक्त्वा सरसां क्रुद्धो दशयोजनमायतः । दशयोजनविस्तारो बभूव हनुमांस्तदा । तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम् । चकार सुरसा चास्यं विशद्योजनमायत् । हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजमायतः । चकार सुरसा वक्त्रं चत्वारिशत्तथोच्छ्रितम् । बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः । चकार सुरसा वक्त्रं षष्टियोजनमायतम् । तथैव हनुमान्वीरस्सप्ततीयोजनोच्छ्रितः । चकार सुरसा वक्त्रमशीतीयोजनोच्छ्रितम् । हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः । चकार सुरसा वक्त्रं शतयोजनामायतम्” इति ।। 5.1.157।।

[तं प्रयान्तं समुद्वीक्ष्य सुरसा वाक्यमब्रवीत् ।

बलं जिज्ञासमाना वै नागमाता हनूमतः ।।1 ।।

प्रविश्य वदनं मे ऽद्य गन्तव्यं वानरोत्तम ।

वर एष पुरा दत्तो मम धात्रेति सत्वरा ।।2 ।।

व्यादाय वक्त्रं विपुलं स्थिता सा मारुतेः पुरः ।

एवमुक्तः सुरसया क्रुद्धो वानरपुङ्गवः ।।3।।

अब्रवीत् कुरु वै वक्त्रं येन मां विषहिष्यसे ।

इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः ।। 5।।

दशयोजनविस्तारो बभूव हनुमांस्तदा ।

तं दृष्ट्वा मेघसङ्काशं दशयोजनमायतम् ।।5।।

चकार सुरसा चास्यं विंशद्योजनमायतम् ।

तां दृष्ट्वा विस्तृतास्यां तु वायुपुत्रः सुबुद्धिमान् ।।6।।

हनूमांस्तु ततः क्रुद्धस्त्रिंशद्योजमायतः ।

चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम् ।।7।।

बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः ।

चकार सुरसा वक्त्रं षष्टियोनमायतम् ।।8।।

तथैव हनुमान् वीरः सप्ततीयोजनोच्छ्रितः ।

चकार सुरसा वक्त्रमशीतीयोजनायतम् ।।9।।

हनुमानचलप्रख्यो नवतीयोजनोच्छ्रितः ।

चकार सुरसा वक्त्रं शतयोजनमायतम् ।।10।।]

तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् ।

[दीर्घजिह्वं सुरसया सुघोरं नरकोपमम् ।]

सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठमात्रकः ।। 5.1.158।।

सो ऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः ।

अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत् ।। 5.1.159।।

प्रकृतं विलिख्यते– तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः सुबुद्धिमान् । सुसंक्षिप्यात्मनः कायं बभूवाङ्गुष्ठामात्रकः ।। 5.1.158,159।।

प्रविष्टो ऽस्मि हि ते वक्त्रं दाक्षायणि नमो ऽस्तु ते ।

गमिष्ये यत्र वैदेही सत्यश्चासीद्वरस्तव ।। 5.1.160।।

तं दृष्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव ।

अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम् ।। 5.1.161।।

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।

समानयस्व वैदेहीं राघवेण महात्मना ।। 5.1.162।।

तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।

साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम् ।। 5.1.163।।

स सागरमनाधृष्यमभ्येत्य वरुणालयम् ।

जगामाकाशमाविश्य वेगेन गरुडोपमः ।। 5.1.164।।

प्रविष्टोस्मीति । दक्षस्यापत्यं दाक्षायणी, तत्त्वं च पूर्वं वरप्रदानकथनसमये तयैव कथितमित्यनुवादात् कल्प्यते ।। 5.1.160164।।

सेविते वारिधाराभिः पतगैश्च निषेविते ।

चरिते कैशिकाचार्यैरैरावतनिषेविते ।। 5.1.165।।

सिंहकुञ्जरशार्दूलपतगोरगवाहनैः ।

विमानैः संपतद्भिश्च विमलैः समलङ्कृते ।। 5.1.166।।

वज्राशनिसमाघातैः पावकैरुपशेभिते ।

कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलङ्कृतै ।। 5.1.167।।

वहता हव्यमत्यर्थं सेविते चित्रभानुना ।

ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते ।। 5.1.168।।

महर्षिगणगन्धर्वनागयक्षसमाकुले ।

विविक्ते विमले विश्वे विश्वावसुनिषेविते ।। 5.1.169।।

देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे ।

विताने जीवलोकस्य वितते ब्रह्मनिर्मिते ।। 5.1.170।।

बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः ।

जगाम वायुमार्गे तु गरुत्मानिव मारुतिः ।। 5.1.171 ।।

प्रदृश्यमानस्सर्वत्र हनुमान् मारुतात्मजः ।

भेजे ऽम्बरं निरालम्बं लम्बपक्ष इवाद्रिराट् ।। 5.1.172 ।।

प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी ।

मनसा चिन्तयामास प्रवृद्धा कामरूपिणी ।। 5.1.173।।

आकाशगमनमतिदुष्करमित्यमुमर्थं कथयितुम् आकाशस्वरूपं वर्ण्यते–सेवित इत्यादिना श्लोकसप्तकेन । कैशिकाचार्यैः कैशिके रागविशेषे आचार्यैः विद्याधरविशेषैरित्यर्थः । वज्राशनिसमाघातैः पावकैः वज्राशनिसमाघातैर्हेतुभिर्जातैः पावकैः । हव्यं वहता देवेभ्यो हव्यवाहनार्थं गतेन चित्रभानुना वह्निना । विश्वे विश्वगते, व्यापक इत्यर्थः । देवराजगजाक्रान्ते ऐरावतभिन्नदिग्गजाक्रान्ते । विताने वितानतुल्ये । वितत इति वितानविशेषणम् ।। 5.1.165173।।

अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता ।

इदं हि मे महत्सत्त्वं चिरस्य वशमागतम् ।। 5.1.174।।

अद्येति । दीर्घस्य कालस्य दीर्घकाले गेत सति अद्य आशिता आशित्री भुक्तवती भविष्यामि ।। 5.1.174।।

इति संचिन्त्य मनसा छायामस्य समाक्षिपत् ।

छायायां गृह्यमाणायां चिन्तयामास वानरः ।। 5.1.175।।

इतीति । समाक्षिपत् सम्यग्गृहीतवती ।। 5.1.175।।

समाक्षिप्तो ऽस्मि सहसा पङ्गूकृतपराक्रमः ।

प्रतिलोमेन वातेन महानौरिव सागरे ।। 5.1.176।।

तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः ।

ददर्श स महत्सत्त्वमुत्थितं लवणाम्भसि ।। 5.1.177।।

तदृष्ट्वा चिन्तयामास मारुतिर्विकृताननम् ।

कपिराजेन कथितं सत्त्वमद्भुतदर्शनम् ।। 5.1.178।।

समाक्षिप्त इति । पङ्गूकृतपराक्रमः कुण्ठितगतिः । प्रतिलोमेन प्रतिकूलेन ।। 5.1.176178।।

छायाग्राहि महावीर्यं तदिदं नात्र संशयः ।

स तां बुद्ध्वा ऽर्थतत्त्वेन सिंहिकां मतिमान् कपिः ।

व्यवर्धत महाकायः प्रावृषीव बलाहकः ।। 5.1.179।।

तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः ।

वक्त्रं प्रसारयामास पातालान्तरसन्निभम् ।। 5.1.180।।

छायाग्राहीति । तदिदं छायाग्राहि कपिराजेन कथितं नात्र संशय इति योजना ।। 5.1.179,180।।

घनराजीव गर्जन्ती वानरं समभिद्रवत् ।। 5.1.181 ।।

घनराजीवेति । समभिद्रवत् समभ्यद्रवत् ।। 5.1.181 ।।

स ददर्श ततस्तस्या विवृतं सुमहन्मुखम् ।

कायमात्रं च मेधावी मर्माणि च महाकपिः ।। 5.1.182।।

स ददर्शेति । कायमात्रं देहप्रमाणम् ।। 5.1.182।।

स तस्या विवृते वक्त्रे वज्रसंहननः कपिः ।

संक्षिप्य मुहुरात्मानं निष्पपात महाबलः ।। 5.1.183।।

आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः ।

ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा ।। 5.1.184।।

स इति । मुहुस्संक्षिप्य संनिकर्षानुगुणं सङ्कुच्य ।। 5.1.183,184।।

ततस्तस्या नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः ।

उत्पपाताथ वेगेन मनस्संपातविक्रमः ।। 5.1.185।।

तत इति । ततः तेन रूपेण मनस्संपातविक्रमः मनोवेगतुल्यगतिः ।। 5.1.185।।

तां तु दृष्ट्या च धृत्या च दाक्षिण्येन निपात्य च ।

स कपिप्रवरो वेदाद्ववृधे पुनरात्मवान् ।। 5.1.186।।

तामिति । दृष्ट्या दूरादेव दर्शनेन । धृत्या अस्य नियमनजननधार्ष्ट्येन । दाक्षिण्येन पाटवेन ।। 5.1.186।।

हृतहृत् सा हनुमता पपात विधुरा ऽम्भसि ।

तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम् ।

भूतान्याकाशचारीणि तमूचुः प्लवगोत्तमम् ।। 5.1.187।।

हृतहृदिति । विधुरा आर्ता ।। 5.1.187।।

भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम् ।

साधयार्थमभिप्रेतमरिष्टं प्लवतां वर ।। 5.1.188।।

यस्य त्वेतानि चत्वारि वानरेन्द्र चथा तव ।

धृतिर्दृष्टिर्मतिर्दाक्ष्यं स्वकर्मसु न सीदति ।। 5.1.189।।

भीममित्यादि । अरिष्टं शुभं यथा भवति तथा । यस्य सिंहिकारूपसत्त्वस्य । दृष्टिः आयतिक्षमसूक्ष्मेक्षणम् । मतिः अर्थतत्त्वनिश्चयः । क्रियावत्त्वं दाक्ष्यम् । यथा तव तथा यस्य चत्वारि सन्ति तत्त्वया हतम् । तान्येव चत्वार्याह धृतिरिति । या धृतिः स्वकर्मसु स्वानुकूलकार्येषु नावसीदति या दृष्टिर्नावसीदति या मतिर्नावसीदति यद्दाक्ष्यं नावसीदति एतानि चत्वारि यसय सन्ति तत्त्वया हतमिति यजना ।। 5.1.188,189।।

स तैः सम्भावितः पूज्यः प्रतिपन्नप्रयोजनः ।

जगामाकाशमाविश्य पन्नगाशनवत्कपिः ।। 5.1.190।।

स इति. संभावितः पूजितः । प्रतिपन्नप्रयोजनः प्राक्प्रतिभासितकार्यसारः, स च स्त्रीत्वे दोषे समानेपि सुरसाया जयप्रतिपत्तिः सिंहिकाया वधप्रतिपत्तिश्च ।। 5.1.190।।

प्राप्तभूयिष्ठपारस्तु सर्वतः प्रतिलोकयन् ।

योजनानां शतस्यान्ते वनराजिं ददर्श सः ।। 5.1.191।।

प्राप्तेति । प्राप्तभूयिष्ठपारः प्राप्तप्रायतीरः ।। 5.1.191।।

ददर्श च पतन्नेव विविधद्रुमभूषितम् ।

द्वीपं शाकामृगश्रेष्ठो मलयोपवनानिच ।। 5.1.192 ।।

ददर्शेति । मलयोपवनानि लङ्कामलय इति दक्षिणतीरे स्थितमलयः तस्योपवनानि ।। 5.1.192।।

सागरं सागरानूपं सागरावनूपजान् द्रुमान् ।

सागरस्य च पत्नीनां मुखान्यपि विलोकयन् ।। 5.1.193।।

स महामेघसङ्काशं समीक्ष्यात्मानमात्मवान् ।

निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम् ।। 5.1.194।।

सागरमिति । सागरस्य पत्नीनां नदीनां त्रिकूटोत्पन्नानाम् । आत्मानं स्वशरीरम् । मतिं चकार मेन इति यावत् ।। 5.1.193,194।।

कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः ।

मयि कौतूहलं कुर्युरिति मेने महाकपिः ।। 5.1.195।।

कथं मेन इत्यत्राहकायवृद्धिमिति ।। 5.1.195।।

ततः शरीरं संत्रिप्य तन्महीधरसन्निभम् ।

पुनः प्रकृतिमापेदे वीतमोह इवात्मवान् ।। 5.1.196।।

तत इति । पुनः प्रकृतमिमापेदे पुनर्निजाकारं प्राप्तवान् ।। 5.1.196।।

तद्रूपमतिसंक्षिप्य हनुमान् प्रकृतौ स्थितः ।

त्रीन् क्रमानिव विक्रम्य बलिवीर्यहरो हरिः ।। 5.1.197।।

उक्तं शरीरसंक्षेपं दृष्टान्तार्थमनुवदति–तद्रूपमिति ।। 5.1.197।।

स चारुनानाविधरूपधारी परं समासाद्य समुद्रतीरम् ।

परैरशक्यः प्रतिपन्नरूपः समीक्षितात्मा समवेक्षितार्थः ।। 5.1.198।।

स चार्विति । प्रतिपन्नरूपः प्रतिपन्नस्वभावशरीरः, अभूदिति शेषः । समीक्षितात्मा समीक्षितदेहः । समवेक्षितार्थः निरूपितकार्यः । पूर्वोक्तोपसंहारश्लोक एषः ।। 5.1.198।।

ततस्स लम्बस्य गिरेस्समृद्धे विचित्रकूटे निपपात कूटे ।

सकेतकोद्दालकनालिकेरे महाद्रिकूटप्रतिमो महात्मा ।। 5.1.199।।

तत इति । लम्बस्य लम्बमानस्येव स्थितस्य, अविज्ञाताग्रस्येत्यर्थः । विचित्रकूटे विविधाश्चर्यसमूहे । “कूटस्त्वस्त्रियां पुञ्जपालयोः” इति दर्पणः । उद्दालकाः श्लेष्मातकाः ।। 5.1.199।।

ततस्तु संप्राप्य समुद्रतीरं समीक्ष्य लङ्कां गिरिवर्यमूर्ध्नि ।

कपिस्तु तस्मिन्निपपात पर्वते विधूय रूपं व्यथयन्मगद्विजान् ।। 5.1.200।।

व्यथयन् मृगद्विजानित्यादिविशेषं वक्तुमुक्तमर्थमनुवदति– ततस्त्विति । समुद्रतीरं तीरोपर्याकाशम् । विधूय रूपं पूर्वरूपं विहाय । वृत्तमुपजातिः ।। 5.1.200।।

स सागरं दानवपन्नगायुतं बलेन विक्रम्य महोर्मिमालिनम् ।

निपत्य तीरे च महोदधेस्तदा ददर्श लङ्काममरावतीमिव ।। 5.1.201।।

।। इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे प्रथमः सर्गः ।। 5.1।।

अस्मिन् सर्गे सार्द्धैकाधिकद्विशतश्लोकाः ।। 5.1.201 ।।

इति श्रीगोविराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने प्रथमः सर्गः ।। 5.1 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.