64 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमित्सुन्दरकाण्डे चतुःषष्टितमः सर्गः

सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः ।

राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत् ।। 5.64.1 ।।

स प्रणम्य च सुग्रीवं राघवौ च महाबलौ ।

वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह ।। 5.64.2 ।।

स यथैवागतः पूर्वं तथैव त्वरितं गतः ।

निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह ।। 5.64.3 ।।

सुग्रीवेणेत्यादि । सहितैः स्नेहातिरेकेणान्योन्यं युक्तै । वानरैः सहितैरिति पाठः ।। 5.64.13 ।।

स प्रविष्टो मधुवनं ददर्श हरियूथपान् ।

विमदानुत्थितान् सर्वान् मेहमानान् मधूदकम् ।। 5.64.4 ।।

विमदानित्यत्र हेतुमाह मेहमानामिति । मेहमानान् मेहयतः, मूत्रयत इत्यर्थः । एतेन मूत्रणान्मधूनि जीर्णानीति गम्यते । अत एव विमदत्वम् । मधूनि च उदकानि च मधूदकमिति द्वन्द्वैकवद्भावः । उदकानि चात्र अनुपानत्वेन पीतानि । तदाह बाहटः “अनुपानं हिमं वारि यवगोधूमयोर्हितम् । दध्नि मद्ये बिसे क्षौद्रे कोष्णं पिष्टमयेषु च ।।” इति ।। 5.64.4 ।।

स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम् ।

उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम् ।। 5.64.5 ।।

स तानिति । करपुटाञ्जलिं करतलयोरञ्जलिम्, सम्यक् संयुक्तकरतलाञ्जलिमित्यर्थः ।। 5.64.5 ।।

सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः ।

अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः ।। 5.64.6 ।।

एभिः वानरैः अभिवारितः अभिवारितो ऽसीति यत् अत्रार्थे रोषो न कर्तव्यः । भवन्त इति पूजायां बहुवचनम् । न च हनुमदादिकमादाय बहुवचनम्, उत्तरश्लोके ऽपि युवराजस्त्वमित्युक्तेः । अज्ञानात् क्रोधात्, अज्ञानप्रयुक्तक्रोधादित्यर्थः । अभिवारितमिति

पाठे लिङ्गव्यत्यय आर्षः । केचित्तु अज्ञानात् क्रोधाच्च भवन्तः प्रतिषेधिता इत्येतत् परिवारितं परिवारणं प्रति रोषो न कर्तव्य इति योजयन्ति ।। 5.64.6 ।।

युवराजस्त्वमीशश्च वनस्यास्य महाबल ।

मौर्ख्यात् पूर्वं कृतो दोषस्तं भवान् क्षन्तुमर्हति ।। 5.64.7 ।।

क्रोधाद्वारणे कृते कुतो रोषो न कर्तव्यस्स्यादित्याशङ्क्य क्रोधस्याज्ञानकृतत्वादित्याह युवराज इति । दोषः निवारणरूपापराधः ।। 5.64.7 ।।

आख्यातं हि मया गत्वा पितृव्यस्य तवानघ ।

इहोपयातं सर्वेषामेतेषां वनचारिणाम् ।। 5.64.8 ।।

स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः ।

प्रहृष्टो न तु रुष्टो ऽसौ वनं श्रुत्वा प्रधर्षितम् ।। 5.64.9 ।।

प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः ।

शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः ।। 5.64.10 ।।

श्रुत्वा दधिमुखस्येदं वचनं श्लक्ष्णमङ्गदः ।

अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः ।। 5.64.11 ।।

आख्यात हीति । उपयातम् आगमनम् ।। 5.64.811 ।।

शङ्के श्रुतो ऽयं वृत्तान्तो रामेण हरियूथपाः ।

तत्क्षमं नेह नः स्थातुं कृते कार्ये परन्तपाः ।। 5.64.12 ।।

शङ्क इति । अयं वृत्तान्तः अस्मदागमनवृत्तान्तः ।। 5.64.12 ।।

पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः ।

किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः ।। 5.64.13 ।।

किं शेषं न किंचिदपि शिष्टमित्यर्थः । किन्तु मे गुरुः सुग्रीवो यत्र वर्तते तत्र गमनमेव शेषमित्यर्थः । किं शेषं गमनं तच्च सुग्रीवो यत्र मे गुरुः इति पाठे अस्माकं गमनं किंशेषं किंचिच्छेषम् । तच्च गमनशेषं च सुग्रीवो यत्र तत्र गमनमिति संबन्धः ।। 5.64.13 ।।

सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः ।

तथा ऽस्मि कर्ता कर्तव्ये भवद्भिः परवानहम् ।। 5.64.14 ।।

विनयपूर्वकं सर्वसंमेलनं समर्थयते सर्व इति । तथास्मि कर्ता आह्वानं करिष्यामीत्यर्थः । कर्तव्ये कार्ये । भवद्भिः अहं परवान्, भवद्भिर्यथा नियुक्तं तथा करिष्यामि । गन्तव्यमित्युक्ते गमिष्यामः स्थातव्यमित्युक्ते स्थास्यामः इत्यर्थः ।। 5.64.14 ।।

नाज्ञापयितुमीशो ऽहं युवराजो ऽस्मि यद्यपि ।

अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया ।। 5.64.15 ।।

ब्रुवतश्चाङ्गदश्यैवं श्रुत्वा वचनमव्ययम् ।

प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः ।। 5.64.16 ।।

युवराजत्वात् भवानेव कर्तव्याकर्तव्यनियन्तेत्यत आह नाज्ञापयितुमिति । ईशः स्वतन्त्रः । कृतकर्माणः कृतोपकाराः यूयं मया धर्षयितुम् अनादर्तुम्, परतन्त्रीकर्तुमिति यावत् । अयुक्तम् अयुक्ता इत्यर्थः । आर्षमव्ययमेतत् । शक्यमितिवत्सामान्योपक्रमान्नपुंसकैकत्वनिर्देश इत्यप्याहुः ।। 5.64.15,16 ।।

एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ ।

ऐश्वर्यमदमत्तो हि सर्वो ऽहमिति मन्यते ।। 5.64.17 ।।

अहमित मन्यते गर्विष्ठो भवतीति यावत् ।। 5.64.17 ।।

तव चेदं सुसदृशं वाक्यं नान्यस्य कस्यचित् ।

सन्नतिर्हि तवाख्याति भविष्यच्छुभयोग्यताम् ।। 5.64.18 ।।

सन्नतिः विनयः ।। 5.64.18 ।।

सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः ।

स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः ।। 5.64.19 ।।

त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम् ।

क्वचिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते ।। 5.64.20 ।।

कृतक्षणाः कृतावसराः, अवसरप्रतीक्षा इति यावत् ।। 5.64.19,20 ।।

एवं तु वदतां तेषामङ्गदः प्रत्यभाषत ।

बाढं गच्छाम इत्युक्त्वा खमुत्पेतुर्महाबलाः ।। 5.64.21 ।।

बाढमित्यङ्गीकारे । इतिशब्दः काकाक्षिन्यायेन पूर्वापरयोरन्वेति । एवं तेषां वदतां तेषु वदत्सु अङ्गदः बाढमिति प्रत्यभाषत । गच्छाम इत्युक्त्वापि उत्पपात ।। 5.64.21 ।।

उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः ।

कृत्वा ऽ ऽकाशं निराकाशं यन्त्रोत्क्षिप्ता इवाचलाः ।। 5.64.22 ।।

निराकाशं निरवकाशम् ।। 5.64.22 ।।

[अङ्गदं पुरतः कृत्वा हनुमन्तं च वानरम् ।]

ते ऽम्बरं सहसोत्पत्य वेगवन्तः प्लवङ्गमाः ।

विनदन्तो महानादं घना वातेरिता यथा ।। 5.64.23 ।।

अङ्गदे समनुप्राप्ते सुग्रीवो वानराधिपः ।

उवाच शोकोपहतं रामं कमललोचनम् ।। 5.64.24 ।।

समाश्वसिहि भद्र ते दृष्टा देवी न संशयः ।

नागन्तुमिह शक्यं तैरतीते समये हि नः ।। 5.64.25 ।।

ते ऽम्बरमिति । अत्र जग्मुरित्यध्याहार्यम् ।। 5.64.2325 ।।

न मत्सकाशमागच्छेत् कृत्ये हि विनिपातिते ।

युवराजो महाबाहुः प्लवतां प्रवरो ऽङ्गदः ।। 5.64.26 ।।

विनिपातिते विघ्निते ।। 5.64.26 ।।

यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः ।

भवेत् स दीनवदनो भ्रान्तविप्लुतमानसः ।। 5.64.27 ।।

अकृतकृत्यानाम् अकृतकार्याणाम् । ईदृशः मधुवनभङ्गरूपः । उपक्रमः उद्योगः । यदि स्यात्तदा ऽङ्गदो दीनवदनत्वादिविशिष्टो भवेत् ।। 5.64.27 ।।

पितृपैतामहं चैतत् पूर्वकैरभिरक्षितम् ।

न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः ।। 5.64.28 ।।

पितृपैतामहमिति । पिता चासौ पितामहश्च । पित्रा ब्रह्मणा ऋक्षरजसे दत्तं पितृपैतामहम् । प्लवगेश्वरः अङ्गदः ।। 5.64.28 ।।

कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत ।

दृष्टा देवी न सन्देहो न चान्येन हनूमता ।। 5.64.29 ।।

न ह्यन्यः कर्मणो हेतुः साधने ऽस्य हनूमतः ।

हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम ।

व्यवसायश्च वीर्यं च सूर्य तेज इव ध्रुवम् ।। 5.64.30 ।।

कौसल्येति । हे राम कौसल्या सुप्रजाः सुप्रजावती । “नित्यमसिच् प्रजामेधयोः” इत्यसिच्प्रत्ययः । एवं देव्यवस्थानज्ञानेन भवतस्सत्तालाभादिदानीं कौसल्या सुप्रजावती, अभूदिति शेषः ।। 5.64.29,30 ।।

जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः ।

हनुमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा ।। 5.64.31 ।।

मा भूश्चिन्तासमायुक्तः सम्प्रत्यमितविक्रम ।। 5.64.32 ।।

यत्र कार्ये । नेता मन्त्री । बलेश्वरः सेनापतिः । अधिष्ठाता संरक्षक इत्यर्थः । तस्य कार्यस्य । गतिः सिद्धिः । अन्यथा विपरीता न भवेत् । संप्रति चिन्तासंयुक्तो मा भूः ।। 5.64.31,32 ।।

ततः किलकिलाशब्दं शुश्रावासन्नमम्बरे ।

हनुमत्कर्मदृप्तानां नर्दतां काननौकसाम् ।

किष्किन्धामुपयातानां सिद्धिं कथयतामिव ।। 5.64.33 ।।

सिद्धिं कथयतामिव । उत्साहेनेति शेषः ।। 5.64.33 ।।

ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः ।

आयताञ्चितलाङ्गूलः सो ऽभवद्धृष्टमानसः ।। 5.64.34 ।।

आजग्मुस्ते ऽपि हरयो रामदर्शनकांक्षिणः ।

अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम् ।। 5.64.35 ।।

आयताञ्जितलाङ्गूलः आयतः दीर्घीकृतः अञ्चितः माल्यवच्छृङ्गे समास्थापितः ।। 5.64.34,35 ।।

ते ऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदा ऽन्विताः ।

निपेतुर्हरिराजस्य समीपे राघवस्य च ।। 5.64.36 ।।

प्रहृष्टाः सञ्जातपुलकाः ।। 5.64.36 ।।

हनुमांश्च महाबाहुः प्रणम्य शिरसा ततः ।

नियतामक्षतां देवीं राघवाय न्यवेदयत् ।। 5.64.37 ।।

[दृष्टा देवीति हनुमद्वदनादमृतोपमम् ।

आकर्ण्य वचनं रामो हर्षमाप सलक्ष्मणः ।। ]

निश्चितार्थस्ततस्तस्मिन् सुग्रीवः पवनात्मजे ।

लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत ।। 5.64.38 ।।

प्रीत्या च रममाणो ऽथ राघवः परवीरहा ।

बहुमानेन महता हनुमन्तमवैक्षत ।। 5.64.39 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमित्सुन्दरकाण्डे चतुःषष्टितमः सर्गः ।। 5.64 ।।

नियतामिति । अक्षतत्वेप्यनियतत्वे वैयर्थ्यम् नियतत्वेपि क्षतत्वे च तथा । ततः आवश्यकमुभयं संग्रहेण दर्शयति । अस्मिन्सर्गे सार्धैकोनचत्वारिंशच्छ्लोकाः ।। 5.64.3739 ।।

इति श्रीगेविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुष्षष्टितमः सर्गः ।। 5.64 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.