32 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः

ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा ।

वेष्टितार्जुनवस्त्रं तं विद्युत्सङ्घातपिङ्गलम् ।। 5.32.1।।

सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम् ।

फुल्लाशोकोत्कराभासं तप्तचामीकरेक्षणम् ।। 5.32.2।। [साथ दृष्ट्वा हरिश्रेष्ठं विनीतवदवस्थितम् ।]

मैथिली चिन्तयामास विस्मयं परमं गता ।

अहो भीममिदं रूपं वानरस्य दुरासदम् ।

दुर्निरीक्ष्यमिति ज्ञात्वा पुनरेव मुमोह सा ।। 5.32.3।।

विललाप भृशं सीता करुणं भयमोहिता ।

रामरामेति दुःखार्ता लक्ष्मणेति च भामिनी ।। 5.32.4।।

ततः शाखान्तरे लीनमित्यादि श्लोकद्वयमेकान्वयम् । दृष्ट्वा पूर्वं सामान्यतो दृष्ट्वा भयाच्चलितमानसा सती विशेषतो ददर्श । वेष्टितार्जुनवस्त्रं वेष्टितधवलवस्त्रम् । तं पूर्वोक्तम् ।। 5.32.14।।

रुरोद बहुधा सीता मन्दं मन्दस्वरा सती ।। 5.32.5।।

सा तं दृष्ट्वा हरिश्रेष्ठं विनीतबदुपस्थितम् ।

मैथिली चिन्तयामास स्वप्नो ऽयमिति भामिनी ।। 5.32.6।।

रुरोदेत्यर्द्धम् । मन्दं राक्षस्यः श्रुत्वा किमिदमिति विचारयिष्यन्तीति भयेनेति भावः ।। 5.32.56।।

सा वीक्षमाणा पृथुभुग्नवक्त्रं शाखामृगेन्द्रस्य यथोक्तकारम् ।

ददर्श पिङ्गधिपतेरमात्यं वातात्मजं बुद्धिमतां वरिष्ठम् ।। 5.32.7।।

सेति । वीक्षमाणा विचारयन्ती । ददर्श पुनरनुकूलो ऽयं स्यादिति ददर्शेत्यर्थः । भुग्नवक्त्रं वक्रमुखम् । यथोक्तकारम् आज्ञाकरम् ।। 5.32.7।।

सा तं समीक्ष्यैव भृशं विसंज्ञा गतासुकल्पेव बभूव सीता ।

चिरेण संज्ञा प्रतिलभ्य भूयो विचिन्तयामास विशालनेत्रा ।। 5.32.8।।

सा तमिति । विसंज्ञा मूर्च्छिता । गतासुकल्पा मृतप्राया । इवशब्दो वाक्यालङ्कारे । चिरेण संज्ञां प्रतिलभ्य कालेनैव प्रबोधकेन प्रबुद्धवतीत्यर्थः । विकृतवानरवेषदर्शनेन मूर्च्छिता पुनः कालेन प्रबुद्धेत्यर्थः ।। 5.32.8।।

स्वप्ने मया ऽयं विकृतो ऽद्य दृष्टः शाखामृगः शास्त्रगणैर्निषिद्धः ।

स्वस्त्यस्तु रामाय सलक्ष्मणाय तथा पितुर्मे जनकस्य राज्ञः ।। 5.32.9।।

स्वप्ने इति । स्वप्ने वानरदर्शनं बन्धुविनाशकरमिति भावः ।। 5.32.9।।

स्वप्नो ऽपि नायं नहि मे ऽस्ति निद्रा शोकेन दुःखेन च पीडितायाः ।

सुखं हि मे नास्ति यतो ऽस्मि हीना तेनेन्दुपूर्णप्रतिमाननेन ।। 5.32.10।।

एवं दर्शनस्य स्वप्नत्वं संभाव्य पुनर्याथार्थ्यमाह स्वप्नो ऽपीति । स्वप्नाभावे हेतुमाह नहि मे ऽस्ति निद्रेति । निद्राभावे हेतुः शोकेनेत्यादिः । एवं प्रतिबन्धकेन निद्राभावमुक्त्वा सुखरूपहेत्वभावाच्च न निद्रेत्याह सुखं हीति । इन्दुपूर्णप्रतिमाननेन पुर्णेन्दुप्रतिमाननेन ।। 5.32.10।।

रामेति रामेति सदैव बुद्ध्या विचिन्त्य वाचा ब्रुवती तमेव ।

तस्यानुरूपां च कथां तमर्तमेव प्रपश्यामि तथा श्रृणोमि ।। 5.32.11।।

रामेति । सदैव बुद्ध्या विचिन्त्य तमेव राममेव वाचा ब्रुवती । तस्यानुरूपां विचिन्तितस्याभिवदनस्यानुरूपां कथां तथा श्रृणोमि । तमर्थं कथार्थमेवं प्रपश्यामि । एवम् उक्तप्रकारेण जानामीत्यन्वयः । तदर्थामिति पाठे अयमर्थः । तस्यानुरूपां रामकीर्तनस्यानुरूपाम् । तदर्थां स रामो ऽर्थो ऽभिधेयो यस्याः ताम् ।। 5.32.11।।

अहं हि तस्याद्य मनोभवेन संपीडिता तद्गतसर्वभावा ।

विचिन्तयन्ती सततं तमेव तथैव पश्यामि तथा शृणोमि ।। 5.32.12।।

उक्तमर्थं विवृणोति अहं हीति ।। 5.32.12।।

मनोरथः स्यादिति चिन्तयामि तथापि बुद्ध्या च वितर्कयामि ।

किं कारणं तस्य हि नास्ति रूपं सुव्यक्तरूपश्च वदत्ययं माम् ।। 5.32.13।।

प्रथमम् इदं रामनामकथयितृदर्शनं मनोरथः अभिलाषमात्रमिति चिन्तयामि । तथापि तथा चिन्तायां सत्यामपि बुद्ध्या वितर्कयामि । मनोरथो न भवतीति विचारयामि । किं कारणमिति चेत् तस्य मनोरथस्य रूपं नास्ति । अयं वानरस्तु सुव्यक्तरूपश्च मां वदति च । तस्मान्मनोरथो न भवेदेवेत्यर्थः ।। 5.32.13।।

नमो ऽस्तु वाचस्पतये सवज्रिणे स्वयम्भुवे चैव हुताशनाय च ।

अनेन चोक्तं यदिदं ममाग्रतो वनौकसा तच्च तथा ऽस्तु नान्यथा ।। 5.32.14।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे द्वात्रिंशः सर्गः ।। 5.32।।

अनेनोक्तं सत्यमस्त्विति देवताः प्रार्थयते नम इति । हुताशनाय च अग्नये च ।। 5.32.14।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने द्वात्रिंशः सर्गः ।। 5.32।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.