57 Sarga सुन्दरकाण्डः

श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः

[आप्लुत्य च महावेगः पक्षवानिव पर्वतः ।]

सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम् ।

तिष्यश्रवणकादम्बमभ्रशैवालशाद्वलम् ।। 5.57.1 ।।

‘उत्पपात नभो हरिः’ इत्युक्तम् । तल्लङ्घनं रूपकेण चतुर्भिर्वर्णयति सचन्द्रेत्यादिना । कारण्डवः जलकुक्कुटः । कादम्बः कलहंसः । “कादम्बः कलहंसः स्यात्” इत्यमरः । अभ्रशैवालशाद्वल मेघस्य शैवालत्वेन पर्यन्तस्थशाद्वलत्वेन च रूपणम् ।। 5.57.1 ।।

पुलर्वसुमहामीनं लोहिताङ्गमहाग्रहम् ।

ऐरावतमहाद्वीपं स्वातीहंसविलोलितम् ।। 5.57.2 ।।

लोहिताङ्गः अङ्गारकः स एव महाग्रहः महाग्राहः यस्य तम् । ऐरावतस्याभ्रमातङ्गत्वेनाभ्रगामित्वात्तत्र सम्भवः । विलोलितम् अवगाढम् ।। 5.57.2।।

वातसङ्घातजातोर्मिचन्द्रांशुशिशिराम्बुमत् ।

भुजङ्गयक्षगन्धर्वप्रबुद्धकमलोत्पलम् ।। 5.57.3 ।।

हनुमान् मारुतगतिर्महानौरिव सागरम् ।

अपारमपरिश्रान्तः पुप्लुवे गगनार्णवम् ।। 5.57.4 ।।

वातसङ्घातजातोर्मय एव चन्द्राशवः तैः शीतलजलवत् । भुजङ्गादीनां कमलोत्पलत्वेन रूपणं तत्तद्वर्णभेदेन । अत्र गगनस्यार्णवत्वेन चन्द्रादीनां तदवयवकुमुदादित्वेन च रूपणात्सावयवरूपकम् । तस्य नौरिव इत्युपमया तिलतण्डुलवत्संसृष्टिः ।। 5.57.3,4 ।।

ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।

हरन्निव सनक्षत्रं गगनं सार्कमण्डलम् ।। 5.57.5 ।।

मारुतस्यात्मजः श्रीमान् कपिर्व्योमचरो महान् ।

हनुमान् मेघजालानि विकर्षन्निव गच्छति ।। 5.57.6 ।।

अथ तदेवोत्प्रेक्षया वर्णयति– ग्रसमान इवेत्यादिना ।। 5.57.5,6 ।।

पाण्डरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।

हरितारुणवर्णानि महाभ्राणि चकाशिरे ।। 5.57.7 ।।

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।

प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ।। 5.57.8 ।।

पाण्डरेति । व्यक्ताव्यक्तवाचित्वेन अरुणशब्दयोः कथंचिदपौनरुक्त्यमुन्नेयम् । यद्वा “अरुणः कृष्णलोहितः” इत्यमरशेषः । महाभ्राणि चकाशिरे, हनुमत्सम्पर्कादित्यर्थः । अन्यथा वाजपेयशरद्वर्णनवत् अभ्रवर्णनस्यासङ्गतत्वापातः । हनुमतस्तेजस्वीत्यनेन मेघानां नानावर्णत्वापत्तिः सूर्येन्दुसम्पर्कवत् ।। 5.57.7,8 ।।

विविधाभ्रघनापन्नगोचरो धवलाम्बरः ।

दृश्यादृश्यतनुर्वीरस्तदा चन्द्रायते ऽम्बरे ।। 5.57.9 ।।

विविधेष्वभ्रघनेषु मेघसङ्घातेषु । आपन्नगोचरः प्राप्तविषयः । लब्धमार्ग इति यावत् । धवलाम्बरः शुक्लवासाः । दृश्यादृश्यतनुः मेघान्तःप्रवेशनिष्क्रमणाभ्यामिति भावः । चन्द्रायते चन्द्र इवाचरति ।। 5.57.9 ।।

तार्क्ष्यायमाणो गगने बभासे वायुनन्दनः ।

दारयन् मेघवृन्दानि निष्पतंश्च पुनः पुनः ।। 5.57.10 ।।

नदन्नादेन महता मेघस्वनमहास्वनः ।

प्रवरान् राक्षसान् हत्वा नाम विश्राव्य चात्मनः ।। 5.57.11 ।।

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।

अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ।। 5.57.12 ।।

आजगाम महातेजाः पुनर्मध्येन सागरम् ।। 5.57.13 ।।

तार्क्ष्य इवाचरन् तार्क्ष्ययमाणः । उभयत्र ” उपमानादाचारे” ” कर्तुः क्यङ् स लोपश्च ” इति क्यङ् ।। 5.57.1013 ।।

पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान् ।

ज्यामुक्त इव नाराचो महावेगो ऽभ्युपागतः ।। 5.57.14 ।।

सुनाभं मैनाकम् ।। 5.57.14 ।।

स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ।

महेन्द्रमेघसङ्काशं ननाद हरिपुङ्गवः ।। 5.57.15 ।।

स पूरयामास कपिर्दिशो दश समन्ततः ।

नदन्नादेन महता मेघस्वनमहास्वनः ।। 5.57.16 ।।

किंचिदनुसंप्राप्तः मैनाकात्परं कंचित् प्रदेशं प्राप्तः ।। 5.57.15,16 ।।

स तं देशमनुप्राप्तः सुहृद्दर्शनलालसः ।

ननाद हरिशाद्रूलो लाङ्गूलं चाप्यकम्पयत् ।। 5.57.17 ।।

लालसः साभिलाषः । तं देशं सुद्धदावाससमीपप्रदेशम् ।। 5.57.17 ।।

तस्य नानद्यमानस्य सुपर्णचरिते पथि ।

फलतीवास्य घोषेण गगनं सार्कमण्डलम् ।। 5.57.18 ।।

नानद्यमानस्य पुनः पुनर्भृशं नदत इत्यर्थः । फलतीव दलतीव ।। 5.57.18 ।।

ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ।

पूर्वं संविष्ठिताः शूरा वायुपुत्रदिदृक्षवः ।। 5.57.19 ।।

महतो वायुनुन्नस्य तोयदस्येव गर्जितम् ।

शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।। 5.57.20 ।।

वातनुन्नस्य वातसङ्घट्टितस्य । घोषम् उरुवेगमिति, ऊरुवेगजन्यं घोषमित्यर्थः ।। 5.57.19,20 ।।

ते दीनमनसः सर्वे शुश्रुवुः काननौकसः ।

वानरेन्द्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।। 5.57.21 ।।

निशम्य नदतो नादं वानरास्ते समन्ततः ।

बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ।। 5.57.22 ।।

जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।

उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।। 5.57.23 ।।

सर्वथा कृतकार्यो ऽसौ हनूमान्नात्र संशयः ।

न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।। 5.57.24 ।।

ते दीनमनस इति । अनिष्टश्रवणशङ्कयेति भावः ।। 5.57.2124 ।।

तस्य बाहूरुवेगं च निनादं च महात्मनः ।

निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।। 5.57.25 ।।

तस्येति । निशम्य ज्ञात्वेत्यर्थः । यद्वा दृष्ट्वा चेत्यध्याहार्यम् । अन्यथा बाहूरुवेगं पदानन्वयात् ।। 5.57.25 ।।

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।

प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ।। 5.57.26 ।।

समुत्पेतुरित्युक्तं विवृणोतिते नगाग्रादिति । नगाग्रात् वृक्षाग्रात् । समपद्यन्त सङ्घीभूताः ।। 5.57.26 ।।

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ।

वासांसीव प्रशाखाश्च समाविध्यन्त वानराः ।। 5.57.27 ।।

गिरिगह्वरसंलीनो यथा गर्जति मारुतः ।

एवं जगर्ज बलवान् हनूमान् मारुतात्मजः ।। 5.57.28 ।।

प्रीता इति हेतुगर्भं विशेषणम् । यथा मनुष्याः दूरस्थस्वकीयानयनाय वासांसि धून्वन्ति तथा वानराश्चान्योन्याह्वानाय पुष्पितशाखाः गृहीत्वा प्रशाखाः प्रागग्रशाखाः समाविद्ध्यन्त पर्यभ्रामयन् ।। 5.57.27,28 ।।

तमभ्रघनसङ्काशमापतन्तं महाकपिम् ।

दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ।। 5.57.29 ।।

अभ्रधनसङ्काशम् अभ्रसमूहतुल्यम् ।। 5.57.29 ।।

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।

निपपात महेन्द्रस्य शिखरे पादपाकुले ।। 5.57.30 ।।

निपपात निर्भरमाक्रान्तवान् ।। 5.57.30 ।।

हर्षेणापूर्यमाणो ऽसौ रम्ये पर्वतनिर्झरे ।

छिन्नपक्ष इवाकाशात् पपात धरणीधरः ।। 5.57.31 ।।

ततस्ते प्रीतमनसः सर्वे वानरपुङ्गवाः ।

हनूमन्तं महात्मानं परिवार्योपतस्थिरे ।

परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।। 5.57.32 ।।

पपाततेति । अच्छिन्नपक्षस्य पातासम्भवाच्छिन्नपक्ष इत्युक्तम् ।। 5.57.31,32 ।।

प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ।

उपायनानि चादाय मूलानि च फलानि च ।

प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।। 5.57.33 ।।

प्रहृष्टवदनाः प्रसन्नमुखाः, आसन्निति शेषः । अरोगं कुशलिनमित्यर्थः । उपायनानि उपहारान् ।। 5.57.33 ।।

हनुमांस्तु गुरून् वृद्धान् जाम्बवत्प्रमुखांस्तदा ।

कुमारमङ्गदं चैव सो ऽवन्दत महाकपिः ।। 5.57.34 ।।

स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।

दृष्टा सीतेति विक्रान्तः संक्षेपेण न्यवेदयत् ।। 5.57.35 ।।

निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।

रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ।। 5.57.36 ।।

हनुमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान् ।। 5.57.37 ।।

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।

रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता ।। 5.57.38 ।।

एकवेणीधरा बाला रामदर्शनलालसा ।

उपवासपरिश्रान्ता जटिला मलिना कृशा ।। 5.57.39 ।।

हनुमांस्त्वित्यादि । कुमारमङ्गदं चेति, स्वामित्वादिति भावः ।। 5.57.3439 ।।

ततो दृष्टेति वचनं महार्थममृतोपमम् ।

निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ।। 5.57.40 ।।

भवन् अभवन् । अनित्यत्वादडभावः ।। 5.57.40 ।।

क्ष्वेलन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।

चक्रुः किलिकिलामन्ये प्रतिगर्जन्ति चापरे ।। 5.57.41 ।।

क्ष्वेलन्ति सिंहनादं कुर्वन्ति । नदन्ति अव्यक्तशब्दं कुर्वन्ति । गर्जन्ति वृषभनादं कुर्वन्ति । किलिकिलां स्वजात्युचितकिलिकिलाशब्दम् ।। 5.57.41 ।।

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।

अञ्चिता यतदीर्घाणि लांगूलानि प्रविव्यधुः ।। 5.57.42 ।।

केचिदिति । अञ्चितायतदीर्घाणि अत्र दीर्घपदसन्निधानादायतपदं स्थूलपरम् । प्रविव्यधुः लाङ्गूलान्युद्धृत्य भूमावताडयन्नित्यर्थः ।। 5.57.42 ।।

अपरे च हनूमन्तं वानरा वारणोपमम् ।

आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ।। 5.57.43 ।।

उक्तवाक्यं हनूमन्तमङ्गदस्तमथाब्रवीत् ।

सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ।। 5.57.44 ।।

अपरे चेति । संस्पृशन्ति आलिङ्गन्तीत्यर्थः ।। 5.57.43,44 ।।

सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते ।

यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ।। 5.57.45 ।।

[जीवितस्य प्रदाता नस्त्वमेको वानरोत्तम ।

त्वत्प्रसादात् समेष्यामः सिद्धार्था राघवेण ह ।।]

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।

दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।। 5.57.46 ।।

दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीतावियोगजम् ।

ततो ऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।। 5.57.47 ।।

परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ।

श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।। 5.57.48 ।।

दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।

तस्थुः प्राञ्जलयः सर्वे हनुमद्वदनोन्मुखाः ।। 5.57.49 ।।

तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः ।

उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ।। 5.57.50 ।।

सत्त्व इति । अवप्लुत्य विस्तीर्णमित्यङ्गदेतरव्यावृत्तिः । पुनरागत इत्यङ्गदव्यावृत्तिः ।। 5.57.4550 ।।

हनूमता कीर्तिमता यशस्विना तथा ऽङ्गदेनाङ्गदबद्धबाहुना ।

मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रिया ऽभवत् ।। 5.57.51 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने

इत्यार्षे श्रीरामायणे श्रीमद्वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तपञ्चाशः सर्गः ।। 5.57 ।।

कीर्तिमतेति हनुमद्विशेषणम् । यशस्विनेत्यङ्गदविशेषणम् । भृत्यकीर्त्या स्वामिनः कीर्तिः । अन्यथा पौनरुक्त्यात् । यद्वा बुद्धिमत्त्वजन्या कीर्तिः । शौर्यजन्यं यशः ।। 5.57.51 ।।

इति श्रीगोविन्तराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तपञ्चाशः सर्गः ।। 5.57 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.