58 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।

हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ।। 5.58.1 ।।

ततस्तस्येत्यादि ।। 5.58.1 ।।

तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम् ।

जाम्बवान् कार्यवृत्तान्तमष्टच्छदनिलात्मजम् ।। 5.58.2 ।।

तमिति । कार्यवृत्तान्तं कार्यविषयवृत्तान्तम्, सीतादर्शनविषयवृत्तान्तम् ।। 5.58.2 ।।

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।

तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ।। 5.58.3 ।।

कथमिति । कथं केन प्रकारेण । कथं वृत्तः कीद्दग्व्यापारः ।। 5.58.3 ।।

तत्त्वतः सर्वमेतन्नः प्रबूहि त्वं महाकपे ।

श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम् ।। 5.58.4 ।।

तत्त्वत इति । तत्त्वकथनस्य प्रयोजनमाह श्रुतार्था इत्यादि ।। 5.58.4 ।।

यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान् ।

रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः ।। 5.58.5 ।।

स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।

प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ।। 5.58.6 ।।

यश्चेति । तत्र रामसन्निधौ यो ऽर्थो वक्तव्यः वक्तुमर्हः यच्च रक्षितव्यं गोप्तव्यं तत् । आत्मवान् बुद्धिमान् । भवान् व्याकरोतु ।। 5.58.5,6 ।।

प्रत्यक्षमेव भवतां महेन्द्राग्रात् खमाप्लुतः ।

उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः ।। 5.58.7 ।।

प्रत्यक्षमेवेति । इदं न वक्तव्यमेवेति भावः । आप्लुतः आप्लुतोस्मि । पारं, गन्तुमिति शेषः । समाहितः एकाग्रः । इत्येतद्भवतां प्रत्यक्षमेवेति सम्बन्धः ।। 5.58.7 ।।

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।

काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ।। 5.58.8।।

गच्छत इत्यादि । विघ्नरूपमिव, वस्तुतो न तथेति भावः । पश्यामीत्यादौ व्यत्ययेन लट् । शिखरं विघ्नरूपमिवाभवत् तत् पश्यामीति योजना ।। 5.58.8 ।।

स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ।। 5.58.9 ।।

स्थितमिति । मेने इति लिट्युत्तमपुरुषैकवचनं परोक्षत्वाद्य भावेपि च्छान्दसम् । अमनिषीत्यर्थः ।। 5.58.9 ।।

उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम् ।

कृता मे मनसा बुद्धिर्भेत्तव्यो ऽयं मयेति च ।। 5.58.10 ।।

प्रहतं च मया तस्य लांगूलेन महागिरेः ।

शिखरं सूर्यसङ्काशं व्यशीर्यत सहस्रधा ।। 5.58.11 ।।

व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ।

पुत्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।। 5.58.12 ।।

उपसङ्गम्येति । गमनदशायामुरसा पातयामासेति सूचितं विवृणोति भेतव्यो ऽयमित्यादिना ।। 5.58.1012 ।।

पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ।

मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। 5.58.13 ।।

पितृव्यं चेति । पितृव्यत्वे हेतुमाह सखायमिति । पितृसखत्वात् पितृव्यत्वव्यपदेश इत्यर्थः ।। 5.58.13 ।।

पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः ।

छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः ।। 5.58.14 ।।

श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः ।

चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः ।। 5.58.15 ।।

छन्दतः यथेच्छम् ।। 5.58.14,15 ।।

अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ।

मारुतेन तदा वत्स प्रक्षिप्तो ऽस्मि महार्णवे ।। 5.58.16 ।।

मोक्षणप्रकारमाह प्रक्षिप्तो ऽस्मि महार्णव इति ।। 5.58.16 ।।

रामस्य च मया साह्ये वर्तितव्यमरिन्दम ।

रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। 5.58.17 ।।

साह्ये साहाय्ये । साहाय्यकरणे हेतुमाह रामो धर्मभृतां श्रेष्ठ इति ।। 5.58.17 ।।

एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ।

कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।। 5.58.18 ।।

उद्यतम् उद्युक्तम् ।। 5.58.18 ।।

तेन चाहमनुज्ञातो मैनाकेन महात्मना ।

स चाप्यन्तर्हितः शैलो मानुषेण वपुष्मता ।

शरीरेण महाशैलः शैलेन च महोदधौ ।। 5.58.19 ।।

उत्तमं जवमास्थाय शेषं पन्थानमास्थितः ।

ततो ऽहं सुचिरं कालं वेगेनाभ्यगमं पथि ।। 5.58.20 ।।

ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।

समुद्रमध्ये सा देवी वचनं मामभाषत ।। 5.58.21 ।।

मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।

अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ।। 5.58.22 ।।

एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।

विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ।। 5.58.23 ।।

रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम् ।

लक्ष्मणेन सह भ्रात्रा सीतया च परन्तपः ।। 5.58.24 ।।

तस्य सीता हृता भार्या रावणेन दुरात्मना ।

तस्याः सकाशं दूतो ऽहं गमिष्ये रामशासनात् ।। 5.58.25 ।।

अनुज्ञातः, अस्मीति शेषः । वपुष्मता पुष्कलवपुषा । मानुषेण शरीरेणान्तर्हितः । शैलेन तु शरीरेण महोदधौ सागरोपरि, स्थित इति शेषः । ‘स वै दत्तवरः शैलो बभूवावस्थितस्तथा’ इति प्रथमसर्गोक्तेः । प्रतिप्रयाणे च ‘पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्’ इत्युक्तम् । ‘हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि’ इति रामेण चोक्तम् ।। 5.58.1925 ।।

कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।

अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ।। 5.58.26 ।।

आगमिष्यामि ते वक्त्रं सत्यं प्रतिश्रृणोमि ते ।। 5.58.27 ।।

एवमुक्ता मया सा तु सुरसा कामरूपिणी ।

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।। 5.58.28 ।।

कर्तुमिति । विषये सती स्वराज्ये वसन्ती ।। 5.58.2628 ।।

एवमुक्तः सुरसया दशयोजनमायतः ।

ततो ऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।

मत्प्रमाणानुरूपं च व्यादितं तु मुखं तया ।। 5.58.29 ।।

एवमुक्त इति । तत इति । अर्धगुणविस्तारः अत्रार्धशब्दः एकदेशवाची । किंचिदधिकविस्तारो ऽभवमित्यर्थः । एवमेवार्थः, प्रथमसर्गोक्तशतयोजनविस्तारस्तु विरुद्धः । तद्ग्रन्थः कल्पितश्चेत्युक्तम् । मत्प्रमाणेति । व्यादितं व्यात्तम् ।। 5.58.29 ।।

तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।

तस्मिन् मुहूर्ते च पुनर्बभूवाङ्गुष्ठमात्रकः ।। 5.58.30 ।।

अभिपत्याशु तद्वक्रं निर्गतो ऽहं ततः क्षणात् ।

अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः ।। 5.58.31 ।।

तद्दृष्ट्वेति । ह्रस्वत्वं विशेषयति अङ्गुष्ठमात्रक इति ।। 5.58.30,31 ।।

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।

समानय च वैदेहीं राघवेण महात्मना ।

सुखी भव महाबाहो प्रीता ऽस्मि तव वानर ।। 5.58.32 ।।

अर्थसिद्धयै इति । समानय संयोजय ।। 5.58.32 ।।

ततो ऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः ।। 5.58.33 ।।

ततो ऽन्तरिक्षं विपुलं प्लुतो ऽहं गरुडो यथा ।

छाया मे निगृहीता च न च पश्यामि किंचन ।। 5.58.34 ।।

सो ऽहं विगतवेगस्तु दिशो दश विलोकयन् ।

न किंचित्तत्र पश्यामि येन मे ऽपहृता गतिः ।। 5.58.35 ।।

ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ।

ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। 5.58.36 ।।

ततो ऽहमिति । साधु साध्वीति दीर्घश्छान्दसः ।। 5.58.3336 ।।

अधोभागे न मे दृष्टिः शोचता पातिता मया ।

ततो ऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। 5.58.37 ।।

अधोभागे नेति । सलिलेशयां सलिले स्थिताम् ।। 5.58.37 ।।

प्रहस्य च महानादमुक्तो ऽहं भीमया तया ।

अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। 5.58.38 ।।

क्वासि यन्ता महाकाय क्षुधिताया ममेप्सितः ।

भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। 5.58.39 ।।

अवस्थितं दृढभूतम् । असम्भ्रान्तम् अव्यग्रम् ।। 5.58.38,39 ।।

बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।

आस्य प्रमाणादधिकं तस्याः कायमपूरयम् ।

तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।। 5.58.40 ।।

तस्याः आस्यप्रमाणादधिकं यथा तथा कायम् आत्मदेहम् अपूरयम् अवर्धयम् । मयि वृद्धे साप्यवर्धिष्टेत्यर्थः ।। 5.58.40 ।।

न च मां साधु बुबुधे मम वा निकृतं कृतम् ।। 5.58.41 ।।

अयं कामरूपीति माम्, साधु सम्यक्, न बुबुधे न ज्ञातवती । मम कृतं निकृतं मया कृतां निकृतिं वा न बुबुधे ।। 5.58.41 ।।

ततो ऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।

तस्या हृदयमादाय प्रपतामि नभःस्थलम् ।। 5.58.42 ।।

निकृतिमेव दर्शयति ततो ऽहमिति ।। 5.58.42 ।।

सा विसृष्टभुजा भीमा पपात लवणाम्भसि ।

मया पर्वतसङ्काशा निकृत्तहृदया सती ।। 5.58.43 ।।

विसृष्टभुजा विसृष्टसन्धिकभुजा ।। 5.58.43 ।।

श्रृणोमि खगतानां च सिद्धानां चारणैः सह ।

राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ।। 5.58.44 ।।

श्रृणोमीति । हतेत्यनन्तरमितिकरणं बोध्यम् ।। 5.58.44 ।।

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।

गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् ।। 5.58.45 ।।

दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी ।

अस्तं दिनकरे याते रक्षसां निलयं पुरम् ।

प्रविष्टो ऽहमविज्ञातो रक्षोभि र्भीमविक्रमैः ।। 5.58.46 ।।

तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा ।

अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः ।। 5.58.47 ।।

जिघांसन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ।

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।। 5.58.48 ।।

कृत्यमात्ययिकं स्मरन् प्राणान्तिकं तत्कर्म विचिन्तयन्नित्यर्थः ।। 5.58.4548 ।।

प्रदोषकाले प्रविशं भीतया ऽहं तयोदितः ।

अहं लङ्कापुरी वीर निर्जिता विक्रमेण ते ।। 5.58.49 ।।

यस्मात्तस्माद्विजेतासि सर्व रक्षांस्यशेषतः ।। 5.58.50 ।।

भीतयेत्यादि । भीतया तया नार्या । अशेषत इत्यनन्तरमितिकरणं द्रष्टव्यम् ।। 5.58.49,50 ।।

तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।

रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् ।। 5.58.51 ।।

ततः सीतामपश्यंस्तु रावणस्य निवेशने ।

शोकसागरमासाद्य न पारमुपलक्षये ।। 5.58.52 ।।

सर्वरात्रं सर्वां रात्रिम् । “अहःसर्व” इत्यादिना समासान्तो ऽच् । अत्यन्तसंयोगे द्वितीया । तत्र लङ्कायाम् । विचिन्वन् अनन्तरं रावणान्तःपुरमपि गतः सन् सुमध्यमां नापश्यम् ।। 5.58.51,52 ।।

शोचता च मया दृष्टं प्राकारेण समावृतम् ।

काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम् ।। 5.58.53 ।।

विकृष्टेन विप्रकृष्टेन अतिदीर्घेणेति यावत् ।। 5.58.53 ।।

स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।। 5.58.54 ।।

बहुपादपम् अनेकपादपप्रमाणमिति प्राकारविशेषणम् ।। 5.58.54 ।।

अशोकवनिकामध्ये शिंशुपापादपो महान् ।

तमारुह्य च पश्यामि काञ्चनं कदलीवनम् ।। 5.58.55 ।।

शिंशुपा पादपः, अस्तीति शेषः ।। 5.58.55 ।।

अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम् ।

श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।। 5.58.56 ।।

तदेकवासःसंवीतां रजोध्वस्तशिरोरुहाम् ।

शोकसन्तापदीनाङ्गीं सीतां भर्तृहिते स्थिताम् ।। 5.58.57 ।।

राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ।

मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।। 5.58.58 ।।

शिंशुपावृक्षात् शिंशुपावृक्षस्य । श्यामां यौवनमध्यस्थाम् । तदेकवासस्संवीतां येन वाससा हृता तेनैकवाससा संवीताम् । यद्वा तेन तत्कालदृष्टेन पूर्वदृष्टेन एकेन वाससा संवीताम्, वेषान्तरनिस्स्पृहामित्यर्थः । मानसिकत्वकायिकत्वभेदेन शोकसन्तापयोर्भेदः ।। 5.58.5658 ।।

सामया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।

एकवेणीधरा दीना भर्तृचिन्तापरायणा ।। 5.58.59 ।।

भूमिशय्या विवर्णाङ्गी पझिनीव हिमागमे ।

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।

कथंचिन्मृगशावाक्षी तूर्णमासादिता मया ।। 5.58.60 ।।

सामयेति । आमयः खेदः तेन सह वर्तत इति सामया । मर्तव्ये मरणे । “कृत्यल्युटो बहुलम्” इति साधुः ।। 5.58.59,60 ।।

तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।

तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ।। 5.58.61 ।।

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।

शृणोम्यधिकगम्भीरं रावणस्य निवेशने ।। 5.58.62 ।।

पश्यन् परामृशन् ।। 5.58.61,62 ।।

ततो ऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन् ।

अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ।। 5.58.63 ।।

ततो रावणदाराश्च रावणश्च महाबलः ।

तं देशं समनुप्राप्त यत्र सीता ऽभवत् स्थिता ।। 5.58.64 ।।

तद् दृष्ट्वा ऽथ वरारोहा सीता रक्षोमहाबलम् ।

सङ्कुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ।। 5.58.65 ।।

गहने पर्णगूढप्रदेशे । ‘पर्णघने निलीनः’ इत्यधस्तादप्युक्तेः ।। 5.58.6365 ।।

वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।

त्राणं किंचिदपश्यन्तीं वेपमानां तपस्विनीम् ।। 5.58.66 ।।

परमोद्विग्नाम् अतीवोद्भ्रान्तहृदयाम् । ततस्ततः वीक्षमाणां नानादिक्षु वीक्षमाणाम् । त्राणमित्यनुषज्यते ।। 5.58.66 ।।

तामुवाच दशग्रीवः सीतां परमदुःखिताम् ।

अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति ।। 5.58.67 ।।

अवाक्छिराः अवनतमूर्द्धा । प्रपतितः, भूमाविति शेषः ।। 5.58.67 ।।

यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ।

द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव ।। 5.58.68 ।।

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।

उवाच परमक्रुद्धा सीता वचनमुत्तमम् ।। 5.58.69 ।।

राक्षसाधम रामस्य भार्यममिततेजसः ।

इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।

अवाच्यं वदतो जिह्वा कथं न पतिता तव ।। 5.58.70 ।।

द्वौ मासौ अन्तरम् अवधिः । ततः पास्यामीति योज्यम् ।। 5.58.6870 ।।

किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ।

अपहृत्यागतः पाप तेनादृष्टो महात्मना ।। 5.58.71 ।।

न त्वं रामस्य सदृशो दास्ये ऽप्यस्य न युज्यसे ।

यज्ञीयः सत्यवादी च रणश्लाघी च राघवः ।। 5.58.72 ।।

किंचिद्वीर्यं कुत इत्यत्राह यो मामिति । भर्तुरसन्निधौ तेन भर्त्रा अदृष्टः सन् यो मामपहृत्यागतः तस्य तव किंचिद्वीर्यमिति योज्यम् ।। 5.58.71,72 ।।

जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।

जज्वाल सहसा कोपच्चितास्थ इव पावकः ।। 5.58.73 ।।

जानक्येति । घोरत्वसिद्धये चितास्थ इत्युक्तम् ।। 5.58.73 ।।

विवर्त्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ।

मैथिलीं हन्तुमारब्धः स्त्रीभिर्हा हा कृतं तदा ।। 5.58.74 ।।

आरब्धः, रावण इति शेषः । हा हा कृतं हा हेत्येतत्कृतम् ।। 5.58.74 ।।

स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः ।

वरा मण्डोदरी नाम तया स प्रतिषेधितः ।। 5.58.75 ।।

उक्तश्च मधुरां वाणीं तया स मदानार्दितः ।

सीतया तव किं कार्यं महेन्द्रसमविक्रम ।। 5.58.76 ।।

[मया सह रमस्वाद्य मद्विशिष्टा न जानकी ।]

देवगन्दर्वकान्याभिर्यक्षकन्याभिरेव च ।

सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।। 5.58.77 ।।

समुत्पत्य, रावणसमीपं गतेति शेषः । मण्डोदरी मण्डनभूतोदरी । “मडि भूषायाम्” इत्यस्माद्धातोः पचाद्यच् । मन्दोदरी वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा मन्दत्वं चाल्पत्वम् । “मूढाल्पापटुनिर्भाग्या मन्दाः” इत्यमरः । सूक्ष्मोदरी इत्यर्थः । मन्दा स्थूलपिपीलिकेत्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः । ननु पूर्वं धान्यमालिन्या प्रतिषिद्ध इत्युक्तम् , संप्रति मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदम् । मैवम् । उभाभ्यामपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोदर्यादिनामपरिज्ञानं च हनुमतस्तदीयव्यवहारात् ।। 5.58.7577 ।।

ततस्ताभिः समेताभिर्नारीभिः स महाबलः ।

प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।। 5.58.78 ।।

ताभिः देवकन्याभिः । अनेन मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तम् ।। 5.58.78 ।।

याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ।

सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ।। 5.58.79 ।।

क्रूरैः क्रूरशब्दैः । सुदारुणैः अर्थतोपि क्रूरैः ।। 5.58.79 ।।

तृणवद्भाषितं तासां गणयामास जानकी ।

गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।। 5.58.80 ।।

तृणवत् गणयामासेत्यन्वयः ।। 5.58.80 ।।

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।

रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।। 5.58.81 ।।

वृथागर्जितनिश्चेष्टाः वृथगर्जितेन निर्व्यापाराः ।। 5.58.81 ।।

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।

परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ।। 5.58.82 ।।

ततस्ता इति । तूष्णीं रक्षतेति रावणोक्ता इति शेषः । परिक्षिप्य परिवार्य ।। 5.58.82 ।।

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।

विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।। 5.58.83 ।।

तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत् ।

आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।। 5.58.84 ।।

जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ।

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।। 5.58.85 ।।

रक्षसां च विनाशाय भर्तुरस्या जयाय च ।। 5.58.86 ।।

सुदुःखिता प्रशुशोच, उत्तरोत्तरं दुःखितवतीत्यर्थः ।। 5.58.8386 ।।

अलमस्मात् परित्रातुं राघवाद्राक्षसीगणम् ।

अभियाचाम वैदेहीमेतद्धि मम रोचते ।। 5.58.87 ।।

यस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।

सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ।। 5.58.88 ।।

अलं शक्ता । “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्” इत्यमरः । परित्रातुम्, एषेति शेषः ।। 5.58.87,88 ।।

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। 5.58.89 ।।

अपराधिजनप्राणत्राणे हेतुमाह प्रणिपातेति ।। 5.58.89 ।।

ततः सा ह्रीमती बाला भर्तुर्विजयहर्षिता ।

अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।। 5.58.90 ।।

ततः त्रिजटावाक्यानन्तरम् । भर्तुर्विजयहर्षिता त्रिजटाकथितस्वप्नसूचितरामविजयहर्षिता । तत् त्रिजटास्वप्नवाक्यम् । शरणं हि व इत्यत्रेतिकरणं द्रष्टव्यम् ।। 5.58.90 ।।

तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।

चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः ।। 5.58.91 ।।

न च मे निर्वृतम् किन्तु दुःखितमित्यर्थः ।। 5.58.91 ।।

सम्भाषणाथ च मया जानक्याश्चिन्तितो विधिः ।

इक्ष्वाकूणां हि वशस्तु ततो मम पुरस्कृतः ।। 5.58.92 ।।

श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ।

प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।। 5.58.93 ।।

कस्त्वं केन कथं चेह प्राप्तो वानरपुङ्गव ।

का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।। 5.58.94 ।।

तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रवं वचः ।

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।

सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः ।। 5.58.95 ।।

तस्य मां विद्धि भृत्यं त्वं हनुमन्तमिहागतम् ।

भर्त्रा ऽहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ।। 5.58.96 ।।

इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।

अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ।। 5.58.97 ।।

तदिच्छामि त्वया ऽ ऽज्ञप्तं देवि किं करवाण्यहम् ।

रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ।। 5.58.98 ।।

एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।

आह रावणमुत्साद्य राघवो मां नयत्विति ।। 5.58.99 ।।

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।

राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ।। 5.58.100 ।।

अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः ।

मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ।। 5.58.101 ।।

विधिः उपायः ।। 5.58.92101 ।।

इत्यक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।

प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह ।। 5.58.102 ।।

इत्युक्त्वेति । वाचा मां संदिदेशेति । स्वरामैकवेद्यं प्रागुक्तं काकासुरवृत्तान्तं तिलकनिर्माणादिकं च सन्दिष्टवतीत्यर्थः ।। 5.58.102 ।।

ततस्तस्यै प्रणम्याहं राजपुत्र्यैः समाहितः ।

प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ।। 5.58.103 ।।

उत्तरं पुनरेवेदं निश्चित्य मनसा तया ।

हनुमन् मम वृत्तान्तं वक्तुमर्हसि राघवे ।। 5.58.104 ।।

यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।

सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ।। 5.58.105 ।।

परिक्रामं पर्यक्रामम् । इहाभ्युद्गतमानसः इहाभ्युद्गते इहाभ्यागमने मानसं यस्य स तथा ।। 5.58.103105 ।।

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।

न मां द्रक्ष्यति काकुत्स्थो म्रिये सा ऽहमनाथवत् ।। 5.58.106 ।।

एतत् उपयानं यद्यन्यथा भवेत् यदि नोपेयातामित्यर्थः । तदा द्वौ मासौ मम जीवितम् ततः परं न जीवमीत्यर्थः । न मां द्रक्ष्यति मासद्वयाभ्यन्तरे मां न द्रक्ष्यति चेत् तदा म्रिय इति योज्यम् । मासशब्दो ऽत्र पक्षपरः । “पक्षा वै मासाः” इति श्रुतेः ।। 5.58.106 ।।

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।

उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ।। 5.58.107 ।।

ततो ऽवर्धत मे कायस्तदा पर्वतसन्निभः ।

युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ।। 5.58.108 ।।

तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।

प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ।। 5.58.109 ।।

मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।

ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ।। 5.58.110 ।।

राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना ।

वानरेण ह्यविज्ञाय तव वीर्यं महाबल ।। 5.58.111 ।।

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।

वधमाज्ञापय क्षिप्रं यथा ऽसौ विलयं व्रजेत् ।। 5.58.112 ।।

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।

राक्षसाः किङ्करा नाम रावणस्य मनोनुगाः ।। 5.58.113 ।।

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।

मया तस्मिन् वनोद्देशे परिघेण निषूदितम् ।। 5.58.114 ।।

तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।

निहतं च महत्सैन्यं रावणायाचचक्षिरे ।। 5.58.115 ।।

उत्तरम् अनन्तरम् । अनन्तरम् अनन्तरकर्तव्यम्, उत्तरकार्यमित्यर्थः ।। 5.58.107115 ।।

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।

तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः ।

ललामभूतो लङ्कायाः स वै विध्वंसितो मया ।। 5.58.116 ।।

ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत् ।

राक्षसैर्बहुभिः सार्धं घोररूपैर्भयानकैः ।। 5.58.117 ।।

तमहं बलसम्पन्नं राक्षसं रणकोविदम् ।

परिघेणातिघोरेण सूदयामि सहानुगम् ।। 5.58.118 ।।

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान् महाबलान् ।। 5.58.119 ।।

ततो मे बुद्धिरुत्पन्ना वक्ष्यमाणकार्यविषयेत्यर्थः । तादृशं बुद्धिकार्यमाह चैत्येत्यादिना । चैत्यप्रासादं नगरमध्यस्थप्रासादम् । ललामभूतः अलङ्कारभूतः ।। 5.58.116119 ।।

पदातिबलसम्पन्नान् प्रेषयामास रावणः ।

परिघेणैव तान् सर्वान्नयामि यमसादनम् ।। 5.58.120 ।।

मन्त्रिपुत्रान् हताञ्छ्रुत्वा समरे लघुविक्रमान् ।

पञ्च सेनाग्रगाञ्छूरान् प्रेषयमास रावणः ।। 5.58.121 ।।

तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम् ।

ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ।। 5.58.122 ।।

बहुभी राक्षसैः सार्धं प्रेषयामास रावणः ।

तं तु मन्दोदरीपुत्रं कुमारं रणपण्डितम् ।। 5.58.123 ।।

सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।

चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ।

तमक्षमागतं भग्नं निशम्य स दशाननः ।। 5.58.124 ।।

तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।

व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ।। 5.58.125 ।।

तच्चाप्यहं बलं सर्वं तं च राक्षसपुङ्गवम् ।

नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।। 5.58.126 ।।

महतापि महाबाहुः प्रत्ययेन महाबलः ।

प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।। 5.58.127 ।।

सो ऽविषह्यं हि मां बुद्ध्वा स्वबलं चावमर्दितम् ।

ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः ।। 5.58.128 ।।

रज्जुभिश्चाभिबध्नन्ति ततो मां तत्र राक्षसाः ।

रावणस्य समीपं च गृहीत्वा मामुपानयन् ।। 5.58.129 ।।

दृष्ट्वा सम्भाषितश्चाहं रावणेन दुरात्मना ।

पृष्टश्च लङ्कागमनं राक्षसानां च तं वधम् ।। 5.58.130 ।।

तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ।। 5.58.131 ।।

पदातिबलसम्पन्नान् पदातिप्रभृतिसैन्यसंपन्नान् ।। 5.58.120131 ।।

अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।

मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ।। 5.58.132 ।।

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।

सो ऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ।। 5.58.133 ।।

अस्याहमित्यादि । अस्याः सीतायाः । विसन्धिरार्षः ।। 5.58.132,133 ।।

सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत् ।

धर्मार्थकामसहितं हितं पथ्यमुवाच च ।। 5.58.134 ।।

वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।

राघवो रणविक्रान्तो मित्रत्वं समुपागतः ।। 5.58.135 ।।

तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।

तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ।। 5.58.136 ।।

मया च कथितं तस्मै वालिनश्च वधं प्रति ।

तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ।। 5.58.137 ।।

कारकम् अर्थसाहित्यात्पथ्यम् इहोपकारकं चेत्यर्थः ।। 5.58.134137 ।।

वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।

चक्रे ऽग्निसाक्षिकं सख्यं राघवः सहलक्ष्मणः ।। 5.58.138 ।।

तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।

वानराणां महाराजः कृतः स प्लवता प्रभुः ।। 5.58.139 ।।

तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।

तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ।

क्षिप्रमानीयतां सीता दीयतां राघवाय च ।। 5.58.140 ।।

यावन्न हरयो वीरा विधमन्ति बलं तव ।। 5.58.141 ।।

वानराणां प्रभावो हि न केन विदितः पुरा ।

देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः ।। 5.58.142 ।।

सुग्रीवश्चेत्यादिना सुग्रीवोक्तं कियदनूद्य संप्रति शेषं स्वयं वक्ता सन्नाह वालिनेति ।। 5.58.138142 ।।

इति वानरराजस्त्वामाहेत्यभिहितो मया ।

मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ।। 5.58.143 ।।

तेन वध्यो ऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।

मत्प्रभावमविज्ञाय रावणेन दुरात्मना ।। 5.58.144 ।।

ततो विभीषणो नाम तस्य भ्राता महामतिः ।

तेन राक्षसराजो ऽसौ याचितो मम कारणात् ।। 5.58.145 ।।

इदं वचस्सुग्रीवोक्तमेव मयोक्तमित्याह इतीति ।। 5.58.143145 ।।

नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।

राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ।। 5.58.146 ।।

नैवमिति । कर्तव्यमिति शेषः । राजशास्त्रम् राजधर्मशास्त्रम् ।। 5.58.146 ।।

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।

दूतेन वेदितव्यं च यथार्थं हितवादिना ।। 5.58.147 ।।

सुमहत्यपराधे ऽपि दूतस्यातुलविक्रम ।

विरूपकरणं दृष्टं न वधो ऽस्तीति शास्त्रतः ।। 5.58.148 ।।

विभीषणेनैवमुक्तो रावणः संदिदेश तान् ।

राक्षसानेतदेवास्य लाङ्गूलं दह्यतामिति ।। 5.58.149 ।।

ततस्तस्य वचः श्रुत्वा पुच्छं समन्ततः ।

वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ।। 5.58.150 ।।

वेदितव्यं वक्तव्यमित्यर्थः ।। 5.58.147150 ।।

राक्षसाः सिद्धसन्नाहास्ततस्ते चण्डविक्रमाः ।

तदा ऽदह्यन्त मे पुच्छं निघ्नन्तः काष्ठमुष्टिभिः ।

बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः ।। 5.58.151 ।।

यन्त्रितस्य आवृतस्य ।। 5.58.151 ।।

ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम् ।

अघोषयन् राजमार्गे नगरद्वारमागताः ।। 5.58.152 ।।

ततो ऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ।। 5.58.153 ।।

विमोचयित्वा तं बन्धं प्रकृतिस्थः स्थितः पुनः ।

आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ।

ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।। 5.58.154 ।।

तत इति । नगरद्वारमागतास्सन्तः राजमार्गे अघोषयन्निति योजना ।। 5.58.152154 ।।

पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ।

दहाम्यहमसम्भ्रान्तो युगान्ताग्निरिव प्रजाः ।। 5.58.155 ।।

विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ।

लङ्कायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी ।। 5.58.156 ।।

दहता च मया लङ्कां दग्धा सीता न संशयः ।

रामस्य हि महत् कार्यं मयेदं वितथीकृतम् ।। 5.58.157 ।।

इति शोकसमाविष्टश्चिन्तामहमुपागतः ।। 5.58.158 ।।

पुच्छेन चेति । अट्टं वलभिः ।। 5.58.155158 ।।

अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।

जानकी न च दग्धेति विस्मयोदन्तभाषिताम् ।। 5.58.159 ।।

विस्मयोदन्तभाषितां भाषितविस्मयोदन्ताम्, उक्ताद्भुतवार्तामित्यर्थः । विस्मयवृत्तान्तव्यवहृतामिति वा ।। 5.58.159 ।।

ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।

अदग्द्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ।। 5.58.160 ।।

निमित्तैश्चोपलक्षिता शकुनादिभिश्च सीता न दग्धेति ज्ञातेत्यर्थः ।। 5.58.160 ।।

दीप्यमाने तु लाङ्गूले न मां दहति पावकः ।

हृदयं च प्रहृष्टं मे वाताः सुरभिगन्धिनः ।। 5.58.161 ।।

हृदयं प्रहृष्टम्, आसीदिति शेषः । सुरभिगन्धिनः, आसन्निति शेषः ।। 5.58.161 ।।

तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः ।

ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ।। 5.58.162 ।।

हृष्टार्थैः दृष्टफलैः । निमित्तैः शकुनैः । कारणैः नेत्रस्फुरणादिभिः । महागुणैः फलव्याप्तैः । सिद्धार्थैः अबाधितार्थैः । तत्र हेतुत्वेन ऋषिपदोपादानम् ।। 5.58.162 ।।

पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।। 5.58.163 ।।

पुनरित्यर्धमेकं वाक्यम् । विसृष्टः प्रेषितो ऽस्मि ।। 5.58.163 ।।

ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ।

प्रतिप्लवनमारेभे युष्मद्दर्शनकाङ्क्षया ।। 5.58.164 ।।

तत्र लङ्कासमीपे । सामीप्ये सप्तमी । तत्र वर्तमानम् अरिष्टं पर्वतम् ।। 5.58.164 ।।

ततः पवनचन्द्रार्कसिद्धगन्धर्वसेवितम् ।

पन्थानमहमाक्रम्य भवतो दृष्टवानिह ।। 5.58.165 ।।

तत इति । भवतो दृष्टवानिह । भवतः युष्मान् । इह समुद्रतीरे ।। 5.58.165 ।।

राघवस्य प्रभावेन भवतां चैव तेजसा ।

सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्टितम् ।। 5.58.166 ।।

एतत्सर्वं मया तत्र यथावदुपपादितम् ।

अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति ।। 5.58.167 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ।। 5.58 ।।

राघवस्येति । भवतां चैव तेजसा भवदनुग्रहेणेत्यर्थः । सुग्रीवस्य च कार्यार्थम्, स्वामिकार्यस्यावश्यकर्तव्यत्वादिति भावः । कार्यार्थं कार्यवस्तु । क्लीबत्वमार्षम् । अस्यानुवादवाक्यविस्तरस्य प्रयोजनं वानराणां श्रवणकुतूहलातिशयप्रकाशनम् । अस्मिन् सर्गे सार्धषट्षष्ट्युत्तरशतश्लोकाः ।। 5.58.166,167 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ।। 5.58 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.