65 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः

ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम् ।

प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम् ।। 5.65.1 ।।

तत इति ।। 5.65.1 ।।

युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च ।

प्रवृत्तिमथ सीतायाः प्रवक्तुमुपचक्रमुः ।। 5.65.2 ।।

प्रवृत्तिं वार्ताभ् ।। 5.65.2 ।।

रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम् ।

रामे समनुरागं च यश्चायं समयः कृतः ।

एतदाख्यान्ति ते सर्वे हरयो रामसन्निधौ ।। 5.65.3 ।।

वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत् ।। 5.65.4 ।।

क्व सीता वर्तते देवी कथं च मयि वर्तते ।

एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः ।। 5.65.5 ।।

रामस्य गदितं श्रुत्वा हरयो रामसन्निधौ ।

चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम् ।। 5.65.6 ।।

रोधं निरोधम् । यश्चायं समयः कृः, मासद्वयादूर्ध्वं हनिष्यामीति यः सङ्केतो रावणेन कृत इत्यर्थः । मासशब्दः पक्षपर इत्युक्तं प्राक् । तमिति शेषः ।। 5.65.36 ।।

श्रुत्वा तु वचनं तेषां हनुमान् मारुतात्मजः ।

प्रणम्य शिरसा देव्यै सीतायै तां दिशं प्रति ।

उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा ।। 5.65.7 ।।

श्रुत्वा त्वित्यादि । प्रणामश्च सीतायाः स्मरणकृत इति बोध्यम् । सीताया दर्शनं यथेति । येन प्रकारेण सीतादर्शनं जातं तेन प्रकारेणोवाचेत्यन्वयः ।। 5.65.7 ।।

समुद्रं लङ्घयित्वा ऽहं शतयोजनमायतम् ।

अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया ।। 5.65.8 ।।

दिदृक्षया न तु श्रोतुमिच्छया मार्गमाण इत्यर्थः ।। 5.65.8 ।।

तत्र लङ्केति नगरी रावणस्य दुरात्मनः ।

दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे ।। 5.65.9 ।।

तत्र लङ्घने कृते सति ।। 5.65.9 ।।

तत्र दृष्टा मया सीता रावणान्तःपुरे सती ।

संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम् ।। 5.65.10 ।।

दृष्टा मे राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ।

राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने ।। 5.65.11 ।।

हे राम रामा सीता त्वयि मनोरथं स्वाभिलाषम् संन्यस्य जीवन्ती, त्वदभिलाषेण धृतजीवितेत्यर्थः ।। 5.65.10,11 ।।

दुःखमासाद्यते देवी तथा ऽदुःखोचिता सती ।। 5.65.12 ।।

दुःखमित्यर्धम् । आसाद्यते आसीदिति । आर्षो यत् ।। 5.65.12 ।।

रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता ।

एकवेणीधरा दीना त्वयि चिन्तापरायणा ।। 5.65.13 ।।

अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे ।

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।

देवी कथंचित् काकुत्स्थ त्वन्मना मार्गिता मया ।। 5.65.14 ।।

इक्ष्वकुवंशविख्यातिं शनैः कीर्तयता ऽनघ ।

सा मया नरशार्दूल विश्वासमुपपादिता ।। 5.65.15 ।।

एकवेणीधरा त्रिधाविभागं विना बद्धः केशपाशः एकवेणीत्युच्यते । अधःशय्या स्थण्डिलशायिनी । मर्तव्ये मरणे कृतनिश्चया ।। 5.65.1315 ।।

ततः सम्भाषिता देवी सर्वमर्थं च दर्शिता ।

रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता ।। 5.65.16 ।।

सर्वमर्थं च दर्शिता सुग्रीवसख्यप्रभृतिसर्वमर्थं च बोधिता ।। 5.65.16 ।।

नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि ।। 5.65.17 ।।

एवं मया महाभागा दृष्टा जनकनन्दिनी ।

उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ ।। 5.65.18 ।।

समुदाचारः परपुरुषाचिन्तकत्वादिः । त्वयि भक्तिश्च, वर्तत इति शेषः । तपसा अनशनेन ।। 5.65.17,18 ।।

अभिज्ञानं च मे दत्तं यथा वृत्तं तवान्तिके ।

चित्रकूटे महाप्राज्ञ वायसं प्रति राघव ।। 5.65.19 ।।

अभिज्ञानं चिह्नभूतं वाक्यम्, तवान्तिके पूर्वं यथा येन प्रकारेण जातं तथा दत्तमित्यर्थः । तदेव दर्शयति चित्रकूट इति, सदस्यवक्तव्यत्वात् सूचनोक्तिः ।। 5.65.19 ।।

विज्ञाप्यश्च नरव्याघ्रो रामो वायुसुत त्वया ।

अखिलेनेह यद् दृष्टमिति मामाह जानकी ।। 5.65.20 ।।

अखिलेनेति । रावणागमनादिकमित्यर्थः ।। 5.65.20 ।।

अयं चास्मै प्रदातव्यो यत्नात् सुपरिरक्षितः ।

ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः ।। 5.65.21 ।।

अयं चास्मा इत्यादि । सुग्रीवस्योपश्रृण्वतः सुग्रीवे समीपे श्रृण्वति सति । एवम् एष चूडामणिरित्यारभ्य रक्षसां वशमागतेत्यन्तवक्ष्यमाणप्रकारेण । वचनानि रामं प्रति मयोक्तवचनानि । ब्रुवता त्वया ।। 5.65.21 ।।

एष चूडामणिः श्रीमान् मया सुपरिरक्षितः ।

मनःशिलायास्तिलको गण्डपार्श्वे निवेशितः ।। 5.65.22 ।।

त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि ।

एष निर्यातितः श्रीमान् मया ते वारिसम्भवः ।। 5.65.23 ।।

एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ ।

जीवितं धारयिष्यामि मासं दशरथात्मज ।

ऊर्ध्वं मासान्न जीवयं रक्षसां वशमागता ।। 5.65.24 ।।

अयं मणिरित्यर्थः । प्रदातव्यः ।। 5.65.2224 ।।

इति मामब्रवीत्सीता कृशाङ्गी धर्मचारिणी ।

रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना ।। 5.65.25 ।।

मृगीवोत्फुल्ललोचना, त्रासातिशयादिति भावः ।। 5.65.25 ।।

एतदेव मया ऽ ऽख्यातं सर्वं राघव यद्यथा ।

सर्वथा सागरजले सन्तारः प्रविधीयताम् ।। 5.65.26 ।।

सन्तीर्यते ऽनेनेति सन्तारः सेतुः ।। 5.65.26 ।।

तौ जाताश्वासौ राजपुत्रौ विदित्वा तच्चाभिज्ञानं राघवाय प्रदाय ।

देव्या चाख्यातं सर्वमेवानुपूर्व्याद्वाचा सम्पूर्णं वायुपुत्रः शशंस ।। 5.65.27 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चषष्टितमः सर्गः ।। 5.65 ।।

ताविति । पूर्ववद्वैश्वदेवीवृत्तम् । समुद्रतरणे सुरसानिरसनादिकम् अक्षवधलङ्कादहनादिकं सजातीयेभ्यः पूर्वमुक्तमपि प्रभुसन्निधावात्मश्लाघायां पर्यवस्येदिति नोक्तमिति ध्योयम् । स्ववृत्तान्तं सर्वमाख्यातवानिति सामान्येन वक्तुं युक्तत्वे ऽप्यङ्गदसन्निधौ प्रपञ्चनं गोप्यविशेषगोपनार्थम् । अत्र त्वप्रपञ्चनम् अकथनीयाकथनार्थं चेति ज्ञेयम् । अस्मिन्सर्गे सार्धसप्तविंशतिश्लोकाः ।। 5.65.27।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चषष्टितमः सर्गः ।। 5.65 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.