21 Sarga सुन्दरकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः

तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः ।

आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः ।। 5.21.1।।

तस्येत्यादि ।। 5.21.1।।

दुःखार्ता रुदती सीता वेपमाना तपस्विनी ।

चिन्तयन्ती वरारोहा पतिमेव पतिव्रता ।

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता ।। 5.21.2।।

निवर्तय मनो मत्तः स्वजने क्रियतां मनः ।

न मां प्रार्थयितुं युक्तं सुसिद्धिमिव पापकृत् ।। 5.21.3।।

दुःखार्तेत्यादि । तृणमिति । रावणस्य साक्षात्संभाषणानर्हत्वात्तृणव्यवधानकरणम् । प्रत्युवाचेति पुनरभिधानं वचनप्रकारविशेषकथनार्थम् । दुःखार्ताया अपि शुचिस्मितत्वाभिधानं वस्तुस्वभावेन सस्मितवत् प्रतीयमानत्वात् ।। 5.21.23।।

अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् ।

कुलं संप्राप्तया पुण्यं कुले महति जातया ।। 5.21.4।।

अकार्यमिति । एकः पतिर्यस्यास्सा एकपत्नी तया । “नित्यं सपत्न्यादिषु” इति ङीप् ।। 5.21.4।।

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी ।

राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् ।। 5.21.5।।

एवमिति । पृष्ठतः कृत्वा अनादृत्येर्थः ।। 5.21.5।।

नाहमौपयिकी भार्या परभार्या सती तव ।

साधुधर्मवेक्षस्व साधु साधुव्रतं चर ।। 5.21.6।।

नाहमिति । सती अहं तव औपयिकी युक्ता भार्या न किन्तु परिहार्या । साधूनां सतां धर्मं साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । साधु सम्यक् चर ।। 5.21.6।।

यथा तव तथा ऽन्येषां दारा रक्ष्या निशाचर ।

आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् । 4.21.7 ।।

आत्मानमुपमां कृत्वा यथा तव दारा रक्ष्यास्तथा ऽन्येषां दारा रक्ष्याः । तस्मात् स्वेषु दारेषु रम्यताम् ।। 5.21.7।।

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रितम् ।

नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ।। 5.21.8।।

अतुष्टम् अतृप्तम् । निकृतिप्रज्ञम् निकृतौ शाठ्ये प्रज्ञा यस्य तम् । पराभवम् । आयुरैश्वर्यादिक्षयरूपम् ।। 5.21.8।।

इह सन्तो न वा सन्ति सतो वा नानुवर्तसे ।

तथाहि विपरीता ते बुद्धिराचारवर्जिता ।। 5.21.9।।

इह अतिविशाले ऽपि दुर्जनसङ्कुले देशे । सन्तः त्वामनर्थान्निवारयन्तः । न सन्ति वा न सन्ति किम्? सन्त्येव । श्रीविभीषणप्रभृतीनां सम्भवान्न सन्तीति कथं वक्तुं शक्यम्? सतो वा नानुवर्तसे । “तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया । उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ।।” इत्युक्तरीत्या प्रणिपातमन्तरेण न ते उपदिशन्ति। त्वं च तत्पादेषु कदाचिदपि न प्रणतवानसि। कथमिदं भवती जानातीत्याशङ्क्याह तथाहीति। तथाहि विपरीता ते बुद्धिः तव बुद्धिवैपरीत्यमेव तव शिष्टाननुवर्तनं सूचयतीत्यर्थः। परबुद्धेरप्रत्यक्षत्वात् कथं मदीया बुद्धिस्त्वया ज्ञायत इत्यत्राह आचारवर्जितेति। आचारवर्जिता, तव दुरनुष्ठानमेव तव बुद्धिं द्योतयतीति भावः।। 5.21.9 ।।

वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः ।

राक्षसानामभावाय त्वं वा न प्रतिपद्यसे ।। 5.21.10।।

अकृतात्मानमासाद्य राजानमनये रतम् ।

समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ।। 5.21.11।।

तथेयं त्वां समासाद्य लङ्का रत्नौघसङ्कुला ।

अपराधात्तवैकस्य नचिराद्विनशिष्यति ।। 5.21.12।।

वच इति । पूर्वश्लोके रावणस्याभाव उपन्यस्तः । अनेन राक्षसाभावपक्ष उपन्यस्यते । मिथ्याप्रणीतात्मा मिथ्यास्निग्धात्मा, स्नेहीति भावयन्निवेति यावत् । त्वं विचक्षणैः साधुभिरुक्तं पथ्यं हितं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा । राक्षसेषु स्नेहं भावयन् तद्विनाशमेव हृदि कृत्वा साधुवचनं न श्रृणोषीत्यर्थः ।। 5.21.1012।।

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः ।

अभिनन्दन्ति भूतानि विनाशे पापकर्मणः ।। 5.21.13।।

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः ।

दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ।। 5.21.14।।

रावणादीर्घदार्शिन इत्यत्र रावणेति संबुद्धिः । निकृताः त्वया वञ्चिताः ।। 4.21.1314।।

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा ।

अनन्या राघवेणाहं भास्करेण प्रभा यथा ।। 5.21.15।।

शक्येति । अनेन रावणोक्तप्रलोभनानामुत्तरमुच्यते । ऐश्वर्येण अन्तःपुरस्त्रीणामीश्वरत्वेन । धनेन आभरणादिना वा । लोभयितुं वञ्चयितुम् । अहं न शक्या । अत्र हेतुमाह अनन्येति । अहं नित्यानपायिनी । राघवेण रघुकुलावतीर्णेन विष्णुना अनन्या अविभक्ता । यत्र यत्र कुले विष्णुरवतरति तत्र तत्रावतीर्णा लक्ष्मीरित्यर्थः । तृतीयया तत्परतन्त्रा चास्मीति द्योत्यते । न केवलं तस्य परतन्त्रा ऽहम्, प्रत्युत तस्याप्यतिशयावहेति दृष्टान्तेन द्योतयति भास्करणेति । प्रभा हि भास्करस्याप्यतिशयमावहति, तथैव हि मारीचो भवन्तं प्रति निवेदितवान् “अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा” इति । किं तद्धितवचनमपि मोहेन विस्मृतो ऽसीति तत्त्वमाह ।। 5.21.15।।

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् ।

कथं नामोपधास्यामि भुजमन्यस्य कस्यचित् ।। 5.21.16।।

उपधायेति । लोकनाथस्य सर्वैर्ब्रह्मादिदेवगणैः स्वस्वपदप्राप्तये नाथ्यमानस्य याच्यमानस्य । “नाथृ याञ्चायाम्”इति धातुः । तस्य रामस्य । सत्कृतं भुजं दक्षिणं भुजमित्यर्थः उपधाय उपधानीकृत्य । तेन तत्परिष्वक्तत्वं गम्यते । एवं श्लाघिता ऽहम् अन्यस्य ततो भोगं याचमानस्य कस्यचिदनामदेयस्य क्षुद्रस्य त्वादृशः भुजम् असत्कृतं कथं नामोपधास्यामि? न कथंचिदपीत्यर्थः ।। 5.21.16।।

अहमौपयिकी भार्या तस्यैव वसुधापतेः ।

व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः ।। 5.21.17।।

अहं तु शीलवयोवृत्ता तस्यैव तुल्यशीलवयोवृत्तस्य वसुधापतेः औपयिकी उचिता भार्या । “ह्रीश्च ते लक्ष्मीश्च पत्न्यौ”इति भूमिनाथस्याहं लक्ष्मीदेव्युचितेति हृदयम् । कथमिव? व्रतस्नातस्य वेदव्रतैः स्नातस्य । धीरस्य धीमतः ब्राह्मणस्य । विदितात्मनः आत्मज्ञानवतः विद्येव योगाभ्यासरूपविद्येव ।। 5.21.17।।

साधु रावण रामेण मां समानय दुःखिताम् ।

वने वाशितया सार्धं करेण्वेव गजाधिपम् ।। 5.21.18।।

पथिचोरं पानीययाचकवद्रावणमर्थयते साध्विति । साधु रावण मद्वियोगेन त्वत्क्रौर्यमधिकं जातमिति भावः । एवमुत्कटक्रौर्यं प्रति याचनात् स्वस्यातिशयो व्यज्यते । रामेण सर्वाङ्गसुन्दरेण । मां तस्यानन्यार्हाम्, तद्वियोगे जीवितं धारयितुमशक्ताम् “नच सीता” इत्यादि । समानय सङ्गमय । तत्र हेतुः दुःखितामिति । करेण्वागजवध्वा । वाशितया यौवनं गतया । “वाशिता युवतिः प्रोक्ता कलभः करिपोतकः” इति वचनात् । यद्वा वासितयेति पाठः । वने वासितया बद्धया । अत्र विभक्तिव्यत्यासः कार्यः, वने वासितां करेणुं गजाधिपेनेवेति । वस्तुतस्तु यथान्यास एवान्वेति । रामेण सङ्गमनं नाम रामाह्वानम् । नहि पुनरपि रामस्थानं तेन नेतुमीष्टे. किंत्वित्र राममाहूय समर्पणमेव । अत एव करेण्वा गजाधिपमित्युक्तम् ।। 4.21.18।।

मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता ।

वधं चानिच्छता घोरं त्वया ऽसौ पुरुषर्षभः ।

विदितः स हि धर्मज्ञः शरणागतवत्सलः ।। 5.21.19।।

तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।

प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ।। 5.21.20।।

मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ।। 5.21.21।।

एवं रावणे जननीत्वप्रतिपत्तिं विहाय कानिचिदसङ्गतानि जल्पति, देवी खिन्ना सती को ऽयमस्य स्वभावः कथमस्य को ऽप्युपदेष्टा सेत्स्यतीति इह सन्तो न वा सन्तीत्यादिना विचिन्त्य दयावती स्वयमेवोपदिशति मातृत्वप्रयुक्तवात्सल्येन– मित्रमिति । रामं शरणं गच्छेत्युक्ते तन्न रावणस्सहेत दुर्मानितया, आत्मसद्बुद्ध्यनुसारेण मित्रमित्याह । किंच शरणागतं स्वस्याधीनं मन्यते देवी देवश्च । अत एव रामो वक्ष्यति “मित्रभावेन संप्राप्तं न त्यजेयं कथंचन” इति । इयं च तथा ऽ ऽह मित्रमिति । रामः मित्रं कर्तुं युक्तमित्यर्थः । मित्रशब्दापेक्षया औपयिकमिति नपुंसकनिर्देशः । स्थानं परीप्सता मार्गचोरस्यापि भूमौ पदानि स्थापयित्वा चौर्यं कर्तव्यम् । तवापि यदि स्थानमभीप्सितं तर्हि तमेव भजेत्यर्थः । शरणागतिदैन्यादपि । मरणमेव वरमिति यदि मन्यसे तदानीं तद्भजनं कर्तव्यमित्याह वधं चानिच्छता घोरम् । तव सम्यङ् मरणं न दास्यति त्वां संस्थाप्य त्वत्समक्षं त्वत्सन्तानजान् हिंसित्वा ततस्ते चित्रवधं करिष्यति, तं यदि नेच्छसि तदा प्रपत्तव्य इत्यर्थः । त्वया तत्प्रतीकारावलोकनेन त्वया ऽवश्यं तच्छरणागतिः कर्तव्या । एवं स रक्षक इत्यत्र किं प्रमाणम्? तत्राह असौ निरन्तरप्रत्ययेनास्या रामः प्रत्यक्ष इव भासते । रावणस्यापि मायामृगानुसरणसमये तदाकारदर्शनजभयेन वृक्षेवृक्षे च पश्यामि’ इत्युक्तरीत्या पुरःस्थित इव भासते । पुरषर्षभः मत्कृतापराधेन कथं मामङ्गीकरिष्यतीत्येवं त्वया न चिन्तनीयम्, आनुकूल्यलेशे सति सर्वमपराधं विस्मरिष्यति पुरुषधौरेयत्वात् । मित्रकरणप्रकारमाह प्रसादयस्वेति । त्वं चेत्यनेनाहमपि प्रसादयिष्यामीति सिद्धम् । प्रयतो भूत्वा मनःकालुष्यं त्यक्त्वेत्यर्थः । निर्यातयितुं प्रत्यर्पयितुम् ।। 5.21.1921।।

एवं हि ते भवेत् स्वस्ति सम्प्रदाय रघूत्तमे ।

अन्यथा त्वं हि कुर्वाणो वधं प्राप्यसि रावण ।। 5.21.22।।

एवमिति । सम्प्रदाय, स्थितायेति शेषः ।। 5.21.22।।

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम् ।

त्वद्विधं तु न संक्रुद्धौ लोकनाथः स राघवः ।। 5.21.23।।

उत्सृष्टम् इन्द्रमुक्तं वज्रम्, अन्तकश्च त्वद्विधं वर्जयेत् । राघवस्त्वद्विधं न वर्जयेदिति सम्बन्धः ।। 5.21.23।।

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् ।

शतक्रतुविसृष्टस्य निर्घोषमशनेरिव ।। 5.21.24।।

महास्वनं महानादम्, नादो नाम स्वरावयवविशेषः । ।। 5.21.24।।

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः ।

इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः ।। 5.21.25।।

रामलक्ष्मणलक्षणाः रामलक्ष्मणनामाङ्काः ।। 5.21.25।।

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः ।

असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः ।। 5.21.26।।

असम्पातम् अनवकाशम् ।। 5.21.26।।

राक्षसेन्द्रमहासर्पान् स रामगरुडो महान् ।

उद्धरिष्यति वेगेन वैनतेय इवोरगान् ।। 5.21.27।।

राक्षसेन्द्रमहासर्पानिति रूपकोक्तमेवोपमयाप्याह वैनतेय इति ।। 5.21.27।।

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः ।

असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः ।। 5.21.28।।

न चापि मम हस्तात्त्वां प्राप्तुमर्हतीत्युक्तस्योत्तरमाह अपनेष्यतीति ।। 5.21.28।।

जनस्थाने हतस्थाने निहते रक्षसां बले ।

अश्क्तेन त्वया रक्षः कृतमेतदसाधु वै ।। 5.21.29।।

जनस्थान इति । एतत् युद्धं विना चौर्येणापहरणम् ।। 5.21.29।।

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः ।

गोचरं गतयोर्भ्रात्रोरपनीता त्वया ऽधम ।। 5.21.30।।

नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया ।

शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ।। 5.21.31।।

गोचरं गतयोः बाह्यदेशं गतयोः ।। 5.21.3031।।

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् ।

वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ।। 5.21.32।।

तस्य ते असमर्थतया चोरवृत्तेस्तव ताभ्यां रामलक्ष्मणाभ्यां विग्रहे सति युद्धे सति । युगग्रहणं संयुगे जयग्रहणम् । अस्थिरम् असम्भावितम् । यद्वा युगग्रहणं युद्धारम्भः । अस्थिरम् अध्रुवम् । किंतु ताभ्यां प्रसह्य वधस्ते सिद्ध इति दृष्टान्तेनाह वृत्रस्येवेति । वृत्रस्य एकस्य बाहोर्द्वाभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव जय इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाह्वोरिव एकेन त्वया तयोर्द्वयोर्जयो न शक्य इत्यर्थः ।। 5.21.32।।

क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह ।

तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ।। 5.21.33।।

सः नाथ इति पदच्छेदः ।। 5.21.33।।

गिरिं कुबेरस्य गतो ऽपधाय वा सभां गतो वा वरुणस्य राज्ञः ।

असंशयं दाशरथेर्न मोक्ष्यसे महाद्रुमः कालहतो ऽशनेरिव ।। 5.21.34।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः ।। 5.21।।

गिरिमिति । अपधाय अपक्रम्य । कुबेरस्य गिरिं कैलासम् । “कैलासः स्थानमलका” इत्यमरः ।। 5.21.34।।

इति श्रीगौविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकविंशः सर्गः ।। 5.21।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.