47 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे सप्तचत्वारिंशः सर्गः र्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः । व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा ।। 4.47.1 ।। अथ दक्षिणेतरदिग्गतवानरागमनं सप्तचत्वारिंशे दर्शनार्थं त्वित्यादि । यथोक्तं देशम् ।। 4.47.1 ।। सरांसि सरितः कक्षानाकाशं नगराणि च । नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः ।। 4.47.2 ।। सुग्रीवेण समाख्याताः सर्वे वानरयूथपाः । प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान् ।। 4.47.3 ।। तदेव […]

46 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्वं वै मण्डलं भुवः ।। 4.46.1 ।। अथ रामाय सुग्रीवेण स्वस्य सर्वभूमण्डलज्ञानमूलकथनं षट्चत्वारिंशे गतेष्वित्यादि ।। 4.46.1 ।। सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ ।। 4.46.2 ।। प्रणतात्मवान् प्रणतदेहवान् ।। 4.46.2 ।। यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् । […]

45 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः । समस्तानब्रवीद्भूयो रामकार्यार्थसिद्धये । एवमेतद्विचेतव्यं यन्मया परिकीर्तितम् ।। 4.45.1 ।। अथ प्रेषितानां वानराणां सन्नाह उच्यते पञ्चचत्वारिंशे सर्वांश्चेत्यादि । सर्वानाहूय ततः समस्तान् सङ्घीभूतान् प्लवगान् अब्रवीत् । यद्वा सम इतिच्छेदः । समः सर्वत्र पक्षपातरहितः । एतत्पूर्वोक्तं एवम् अस्मदुक्तप्रकारेण इत्यब्रवीदिति सम्बन्धः ।। 4.45.1 ।। तदुग्रशासनं भर्तुर्विज्ञाय हरिपुङ्गवाः । […]

44 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चतुश्चत्वारिंशः सर्गः विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान् । स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थो ऽर्थसाधने ।। 4.44.1 ।। अथ निश्चितकार्यसाधनसमार्थ्याय हमुमते अङ्गुलीयकदानं चतुश्चत्वारिंशे विशेषेण त्वित्यादि । हनुमति विषये अर्थं वक्ष्यमाणार्थम् उक्तवान् । विशेषार्थकथने हेतुमाह स हीति । अर्थसाधने विषये निश्चितार्थः ।। 4.44.1 ।। अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम् । सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ।। 4.44.2 […]

43 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे त्रिचत्वारिंशः सर्गः ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । वीरं शतवलिं नाम वानरं वानरर्षभः ।। 4.43.1 ।। उवाच राजा धर्मज्ञः सर्ववानरसत्तमम् । वाक्यमात्महितं चैव रामस्य च हितं तथा ।। 4.43.2 ।। वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । वैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ।। 4.43.3 ।। अतोत्तरदिशि शतवलिप्रेषणं त्रिचत्वारिंशे ततः सन्दिश्येत्यादि ।। 4.43.13 ।। […]

42 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे द्विचत्वारिंशः सर्गः अथ प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम् । अब्रवीन्मेघसङ्काशं सुषेणं नाम यूथपम् ।। 4.42.1 ।। अथ पश्चिमदिशि वानरयोजनं द्विचत्वारिंशे अथेत्यादि ।। 4.42.1 ।। तारायाः पितरं राजा श्वशुरं भीमविक्रमम् । अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च ।। 4.42.2 ।। ताराया इति । प्राञ्जलित्वादिकथनार्थमब्रवीदिति अतो न पौनरुक्त्यम् ।। 4.42.2 ।। मरीचिपुत्रं मारीचमर्चिष्मन्तं महाकपिम् । वृतं […]

41 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम् । दक्षिणां प्रेषयामास वानरानभिलक्षितान् ।। 4.41.1 ।। अथ दक्षिणदिशि वानरप्रेषणमेकचत्वारिंशे ततः प्रस्थाप्येत्यादि । अभिलक्षितान् दृष्टापदानान् ।। 4.41.1 ।। नीलमग्निसुतं चैव हनुमन्तं च वानरम् । पितामहसुतं चैव जाम्बवन्तं महाबलम् ।। 4.41.2 ।। सुहोत्रं च शरारिं च शरगुल्मं तथैव च । गजं गवाक्षं गवयं सुषेणमृषभं तथा ।। […]

40 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे चत्वारिंशः सर्गः अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः । उवाच नरशार्दूलं रामं परबलार्दनम् ।। 4.40.1 ।। अथ सीतान्वेषणाय पूर्वस्यां दिशि सुग्रीवेण विनतप्रेषणं चत्वारिंशे अथ राजेत्यादि ।। 4.40.1 ।। आगता विनिविष्टाश्च बलिनः कामरूपिणः । वानरा वारणेन्द्राभा ये मद्विषयवासिनः ।। 4.40.2 ।। त इमे बहुविक्रान्तैर्हरिभिर्भीमविक्रमैः । आगता वानरा घोरा दैत्यदानवसन्ननिभाः ।। 4.40.3 ।। आगता […]

39 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः । बाहुभ्यां सम्परिष्वज्य प्रत्युवाच कृताञ्जलिम् ।। 4.39.1 ।। अथ सर्ववानरसेनासमागम एकोनचत्वारिंशे इति ब्रुवाणमित्यादि ।। 4.39.1 ।। यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेत्क्विचित् । आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः ।। 4.39.2 ।। चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम् । त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परन्तप ।। 4.39.3 […]

38 Sarga किष्किन्धाकाण्डः

श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्किष्किन्धाकाण्डे अष्टात्रिंशः सर्गः प्रतिगृह्य च तत्सर्वमुपायनमुपाहृतम् । वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत् ।। 4.38.1 ।। विसर्जयित्वा स हनीन् शूरांस्तान्कृतकर्मणः । मेने कृतार्थमात्मानं राघवं च महाबलम् ।। 4.38.2 ।। स लक्ष्मणो भीमबलं सर्ववानरसत्तमम् । अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं सम्प्रहर्षयन् । किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते ।। 4.38.3 ।। तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.