22 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे द्वाविंशः सर्गः एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा । उवाच रक्षसां मध्ये खरः खरतरं वचः ।। 3.22.1 ।। अथ खरस्य युद्धोद्योगो द्वाविंशे एवमित्यादि । आधर्षितः अवमानितः । खरः दारुणः । खरतरं परुषतरम् ।। 3.22.1 ।। तवावमानप्रभवः क्रोधो ऽयमतुलो मम । न श्क्यते धारयितुं लवणाम्भ इवोत्थितम् ।। 3.22.2 ।। लवाणाम्भः लवणसमुद्राम्मः उत्थितं पर्वण्युल्बणम् ।। […]
21 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकविंशः सर्गः स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः । उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ।। 3.21.1 ।। मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः । त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ।। 3.21.2 ।। अथ खरप्रोत्साहनमेकविंशे स पुनरित्यादि । अनर्थार्थं सर्वराक्षसविनाशार्थम् ।। 3.21.1,2 ।। भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः । घ्नन्तो ऽपि न निहन्तव्या न न […]
20 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे विंशः सर्गः ततः शूर्पणखा घोरा राघवाश्रममागता । रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ।। 3.20.1 ।। ते रामं पर्णशालायामुपविष्टं महाबलम् । ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च ।। 3.20.2 ।। तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम् । अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ।। 3.20.3 ।। अथ चतुर्दशराक्षसवधो विंशे ततः शूर्पणखेत्यादि ।। […]
19 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे एकोनविंशः सर्गः तां यथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसन्तप्तः खरः पप्रच्छ राक्षसः ।। 3.19.1 ।। अथ खरवधमूलभूतः खरक्रोध उच्यते एकोनविंशे तामित्यदि । भगिनीं ज्येष्ठाम् । “अक्तिका भगिनी ज्येष्ठा” इत्यमरः ।। 3.19.1 ।। उत्तिष्ठ तावदाख्याहि प्रमोहं जहि सम्भ्रमम् । व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ।। 3.19.2 ।। उत्तिषठेति । प्रमोहो विसञ्ज्ञता […]
18 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे अष्टादशः सर्गः ततः शूर्पणखां रामः कामपाशावपाशिताम् । स्वच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत् ।। 3.18.1 ।। अथ खरक्रोधहेतुः शूर्पणखाविरुपकरणमष्टादशे तत इत्यादि । ततः तत्र पर्णशालायाम् । अथ शूर्पणखावचनानन्तरम् । स्वच्छया स्पष्टार्थया । श्लक्ष्णया मृद्व्या । काम एव पाशः तेनावपाशितां सञ्जातपाशां बद्धामित्यर्थः ।। 3.18.1 ।। कृतदारो ऽस्मि भवति भार्येयं दयिता मम । त्वद्विधानां तु […]
17 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे सप्तदशः सर्गः । अरण्यकाण्डः ।।।। श्लोकसहितव्याख्यानम् ।। (17सर्गतः 48सर्गपर्यन्तम्) कृताभिषेको रामस्तु सीता सौमित्रिरेव च । त्ित्र त्त्र त्र तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम् ।। 3.17.1 ।। एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुपवर्ण्य ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचिच्चैत्रमासे प्रसक्तं भाविसकलराक्षसवधनिदानत्वेन शूर्पणखावृत्तान्तमुक्षिपति सप्तदशे कृताभिषेक इत्यादि । ततः अभिषेकानन्तरभाविकृत्यानन्तरम् । आश्रमं तपोवनम् । “तपोवने मठे ब्रह्मचर्यादावाश्रमो ऽस्त्रियाम्” इति बाणः ।। […]
16 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे षोडशः सर्गः वसतस्तस्य तु सुखं राघवस्य महात्मनः । शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते ।। 3.16.1 ।। अथ भाविशूर्पणखादर्शनाद्यनर्थसूचकतया हेमन्तवर्णनं प्रस्तौति वसत इत्यादि । इष्टः तपस्विनां तपः साधनायेष्टः । रामस्य तु खारादिराक्षसविजयमूलशूर्पणखागमनहेतुतयेष्टः ।। 3.16.1 ।। स कदाचित्प्रभातायां शर्वर्यां रघुनन्दनः । प्रययावभिषेकार्थं रम्यां गोदावरीं नदीम् ।। 3.16.2 ।। प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् । […]
15 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे पञ्चदशः सर्गः ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् । उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ।। 3.15.1 ।। अथ शेषभूतस्य शेष्यभिमतकैङ्कर्यमेव कर्तव्यमिति दर्शयति पञ्चदशे तत इत्यादि । सौमित्रिं “रामं दशरथं विद्धि” इत्यादि सुमित्रानियोगेन रामकैङ्कर्योद्युक्तं दीप्ततेजसं कैङ्कर्योचितदेशलाभेन सन्तुष्टमित्यर्थः । व्यालाः दुष्टसर्पाः ।। 3.15.1 ।। आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा । अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ।। […]
14 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्दशः सर्गः अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः । आससाद महाकायं गृध्रं भीमपराक्रमम् ।। 3.14.1 ।। अथ गृध्रराजसमागमश्चतुर्दशे अथ पञ्चवटीमित्यादि ।। 3.14.1 ।। तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ।। 3.14.2 ।। वटस्थम् अगस्त्योपदिष्टवटस्थम् । पक्षिमिति छान्दसं रूपम् । को भवानिति ब्रुवाणौ सन्तौ राक्षसं मेनाते, राक्षसं […]
13 Sarga अरण्यकाण्डः
श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे त्रयोदशः सर्गः राम प्रीतो ऽस्मि भद्रं ते परितुष्टो ऽस्मि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ।। 3.13.1 ।। एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते, कथाया अपर्यवसानात् । अथ खरवधायागस्त्येनानुज्ञातस्य रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे रामेत्यादि । ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वयः ।। 3.13.1 ।। अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा […]