श्रीभाष्यम् 01-03-21 ईक्षतिकर्माधिकरणम्

श्रीशारीरमीमांसाभाष्ये ईक्षतिकर्माधिकरणम्॥४॥

(अधिकरणार्थः – पुरुषमीक्षते इत्युक्तेक्षणक्रियाकर्मभूतः पुरुषशब्दवाच्योऽर्थः परमात्मैव, न समष्टिपुरुषः)

(त्रिमात्रप्रणवपुरुषविद्या – प्रश्न.उ. 5-5)

७७. ईक्षितकर्म व्यपदेशात्स: ॥ ११२ ॥

(विषयवाक्यप्रदर्शनम्)

आथर्वणिकास्सत्यकामप्रश्नेऽधीयते : पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्न:। यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते (प्रश्न..) इति।

(ध्यै धातोः ईक्षण धातोश्च अत्र समानकर्मकता)

अत्र ध्यायतीक्षतिशब्दावेकविषयौ, ध्यानफलत्वादीक्षणस्य, यथाक्रतुरस्मिल्लोके पुरुष: (छा..१४.) इति न्यायेन ध्यानविषयस्यैव प्राप्यत्वात्, परं पुरुषम् (प्रश्न..) इत्युभयत्र कर्मभूतस्यार्थस्य प्रत्यभिज्ञानाच्च।

(संशयाकारप्रदर्शनम्)

तत्र संशय्यते किमिह, परं पुरुषम् (प्रश्न..) इति निर्दिष्टो जीवसमष्टिरूपोऽण्डाधिपतिश्चतुर्मुख:, उत सर्वेश्वर: पुरुषोत्तम: – इति।

(सयुक्तिकः पूर्वपक्षः)

किं युक्तम्? समष्टिक्षेत्रज्ञ इति। कुत😕 स यो ह वैतद्भगवन् मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयति (प्रश्न..) इति प्रक्रम्यैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिमभिधाय, द्विमात्रमुपासीनस्य अन्तरिक्षलोकप्राप्तिमभिधाय, त्रिमात्रमुपासीनस्य प्राप्यतयाऽभिधीयमानो ब्रह्मलोकोऽन्तरिक्षात्परो जीवसमष्टिरूपस्य चतुर्मुखस्य लोक इति विज्ञायते, तद्गतेन चेक्ष्यमाणस्तल्लोकाधिपतिश्चतुर्मुख एव। एतस्माज्जीवघनात्परात्परम् (प्रश्न..) इति च देहेन्द्रियादिभ्य: पराद्देहेन्द्रियादिभिस्सह घनीभूताज्जीवव्यष्टिपुरुषाद्ब्रह्मलोकवासिनस्समष्टिपुरुषस्य चतुर्मुखस्य परत्वेनोपपद्यते। अतोऽत्र निर्दिश्यमान: पर: पुरुषस्समष्टिपुरुषश्चतुर्मुख एव। एवं चतुर्मुखत्वे निश्चिते अजरत्वादयो यथा कथञ्चिन्नेतव्या:

(सिद्धान्तारम्भः)

इति प्राप्ते प्रचक्षमहे ईक्षतिकर्मव्यपदेशात्स: ईक्षतिकर्म स: परमात्मा। कुत😕 व्यपदेशात् व्यपदिश्यते हीक्षतिकर्म परमात्मत्वेन। तथाहि ईक्षतिकर्मविषयतयोदाहृते श्लोके तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं च  (प्रश्न..) इति । परं शान्तमजरमभयममृतमिति हि परमात्मन एवैतद्रूपम्, एतदमृतमेतदभयमेतद्ब्रह्म (छा..१५.) इत्येवमादिश्रुतिभ्य:। एतस्माज्जीवघनात्परात्परम् (प्र..) इति च परमात्मन एव व्यपदेश: न चतुर्मुखस्य, तस्यापि जीवघनशब्दगृहीतत्वात्। यस्य हि कर्मनिमित्तं देहित्वं स जीवघन इत्युच्यते; चतुर्मुखस्यापि तच्छ्रूयते यो ब्रह्माणं विदधाति पूर्वम् (श्वे..१८) इत्यादौ।

(चतुर्मुखपरत्वे युक्तिः, तन्निरासश्च)

यत्पुनरुक्तमन्तरिक्षलोकस्योपरिनिर्दिश्यमानो ब्रह्मलोकश्चतुर्मुखलोक इति प्रतीयते, अतस्तत्रस्थश्चतुर्मुख इति; तदयुक्तम्, यत्तच्छान्तमजरममृतमभयम् (प्रश्न.) इत्यादिनेक्षतिकर्मण: परमात्मत्वे निश्चिते सति ईक्षितु: स्थानतया निर्दिष्टो ब्रह्मलोको न क्षयिष्णुश्चतुर्मुखलोको  भवितुमर्हाति।

(परमात्मस्थानपरत्वे अभ्युच्चायकयुक्तिः)

किञ्च यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकम् (प्रश्न..) इति सर्वपापविनिर्मुक्तस्य प्राप्यतयोच्यमानं न चतुर्मुखस्थानम्। अत एव चोदाहरणश्लोके इममेव ब्रह्मलोकमधिकृत्य श्रूयते यत्तत्कवयो वेदयन्ते (सुबा.) इति। कवय: सूरय:। सूरिभिर्दृश्यं च वैष्णवं पदमेव, तद्विष्णो: परमं पदं सदा पश्यन्ति सूरय: (प्रश्न..) इत्येवमादिभ्य:। न चान्तरिक्षात्परश्चतुर्मुखलोक: मध्ये स्वर्गलोकादीनां बहूनां सद्भावात्। अत: एतद्वै सत्यकाम परं चापरं ब्रह्म यदोङ्कारस्तस्माद्विद्वानेतेनैव अयनेनैकतरमन्वेति (सुबा.) इति प्रतिवचने यदपरं कार्यं ब्रह्म निर्दिष्टं तदैहिकामुष्मिकत्वेन द्विधा विभज्यैकमात्रप्रणवमुपासीनानामैहिकं मनुष्यलोकावाप्तिरूपं फलमभिधाय, द्विमात्रमुपासीनानां आमुष्मिकमन्तरिक्षशब्दोपलक्षितं फलं चाभिधाय, त्रिमात्रेण परब्रह्मवाचिना प्रणवेन परं पुरुषं ध्यायतां परमेव ब्रह्म प्राप्यतयोपदिशतीति सर्वं समञ्जसम्। अत ईक्षितकर्म परमात्मा॥

इति श्रीशारीरकमीमांसाश्रीभाष्ये ईक्षतिकर्माधिकरणम् ॥४॥

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.