श्रीभाष्यम् 04-01-05 आसीनाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम्॥५॥

(अधिकरणार्थः – मोक्षार्थोपासनरूपं ध्यानं सापाश्रये आसीनस्यैव पुरुषस्य)

४७६. आसीनस्सम्भवात्

(अवान्तरसङ्गतिप्रदर्शनम्)

मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूपमित्युक्तम्।

(संसयगर्भितः पूर्वपक्षः)

तदनुतिष्ठन्नासीनश्शयानस्तिष्ठन् गच्छंश्च विशेषाभावात् अनियमेनानुतिष्ठेत् –

(सिद्धान्तार्थः सूत्रतः)

इति प्राप्ते उच्यते – आसीन: इति । आसीन उपासनमनुतिष्ठते; कुत:? सम्भवात् – आसीनस्यैव ह्येकाग्रचित्ततासम्भव:; स्थितिगत्यो: प्रयत्नसापेक्षत्वात्, शयने च निद्रासम्भवात्। पश्चार्धधारणप्रयत्ननिवृत्तये सापाश्रये आसीन: कुर्यात्॥ ७॥

(ध्यानकाले ऐकाग्र्यस्यावश्यकता)

४७७. ध्यानाच्च

निदिध्यासितव्य: (बृ.६.५.६) इति ध्यानरूपत्वादुपासनस्य, एकाग्रचित्तता अवश्यंभाविनी । ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितमेकचिन्तनमित्युक्तम् ॥८॥

(ध्याने ऐकाग्र्यस्य आवश्यकत्वदृढीकरणम्)

४७८. अचलत्वं चापेक्ष्य

निश्चलत्वं चापेक्ष्य पृथिव्यन्तरिक्षादिषु ध्यानवाचोयुक्तिर्दृश्यते  ध्यायतीव पृथिवी, ध्यायतीवान्तरिक्षं, ध्यायतीव द्यौ:, ध्यायन्तीवापो, ध्यायन्तीव पर्वता: (छा.७.६.२) इति। अत: पृथिवीपर्वतादिवदेकाग्रचित्ततया निश्चलत्वमुपासकस्यासीनस्यैव सम्भवेत् ॥९॥

(आसीनतायाः गीतास्मृतिसिद्धता)

४७९. स्मरन्ति १०

स्मरन्ति चासीनस्यैव ध्यानं  – शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मन: नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरम् तत्रैकाग्रं मन: कृत्वा यतचित्तेन्द्रियक्रिय: उपिवश्याऽसने युञ्ज्याद्योगमात्मविशुद्धये इति (भ.गी.६.११.१२) ॥१०॥

(उपासनयोग्यदेशकालविधेः ऐकाग्र्यमेव लक्ष्यम्)

४८०. यत्रैकाग्रता तत्राविशेषात् ११

एकाग्रतातिरक्तदेशकालविशेषाश्रवणादेकाग्रतानुकूलो यो देश: कालश्च, स एवोपासनस्य देश: कालश्च ।  समे शुचौ शर्करावह्निवालुकाविवर्जिते इति वचनमेकाग्रतैकान्तदेशमाह; न तु देशं नियच्छति, मनोऽनुकूले इति वाक्यशेषात्॥११॥

इति श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम्॥ ५॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.