वेदान्तदीप: Ady 04 Pada 01

वेदान्तदीप:

चतुर्थाध्याये प्रथम: पाद:

४७०। आवृत्तिरसकृदुपदेशात्ब्रह्मविदाप्नोति परम्, तमेवं विद्वानमृत इह भवति इत्यादि वेदान्तविहितं वेदनं  किं सकृत्कृतमेव शास्त्रार्थ:, उतासकृदावृत्तमिति संशय:। सकृत्कृतम् एवेति पूर्व: पक्ष: यो वै तत्परमं ब्रह्मवेद ब्रह्मैव भवति इत्यादौ वेदनस्यैव मुक्त्युपायत्व- प्रतिपादनात्, सकृत्कृतेऽपि वेदने शास्त्रार्थनिर्वृत्ते:, तस्यासकृदावृत्तौ प्रमाणाभावात्। राद्धान्तस्तु यस्तद्वेद यत्सवेद मयैतदुक्त इत्युपक्रम्य अनु एतां भगवो देवतां शाधि यां देवतामुपास्स इत्येकस्मिन्वाक्ये विद्युपास्योर्व्यतिकरेण प्रयोगदर्शनात्। समानार्थेषु ब्रह्मविदाप्नोति परम्, आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य: इत्यादिषु ध्यानविद्योर्व्यतिकरदर्शनाच्च, ध्यानोपासनादि शब्दवाच्यमसकृदावृत्तं स्मृतिसन्तानरूपं वेदनमेव शास्त्रार्थ इति निश्चीयते। सूत्रार्थस्तु – आवृत्तिरसकृत्  ब्रह्मप्राप्तिसाधनं वेदनमसकृदावृत्तमेव शास्त्रार्थ:। वेदनं – ध्यानशब्दवाच्यमित्यर्थ:। कुत:? उपदेशात् – ओमित्येवं ध्यायथात्मानम्, निचाम्य तं मृत्युमुखात्प्रमुच्यते, आत्मानमेव लोकमुपासीत, आत्मा वा अरे द्रष्टव्य इत्यादिना उपासनोपसंहारोपदेशात्। उपासनं चाविच्छिन्नस्मृतिसन्तानरूपमिति पूर्वमेवोक्तम्॥१॥

४७१। लिङ्गाच्च – लिङ्गं – स्मृति:। स्मर्यते चायमर्थ: मां ध्यायन्त उपासत, तेषामहं समुद्धर्ता मृत्युसंसारसागरात्, ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते, तद्रूपप्रत्यये चैका सन्ततिश्चान्यनिस्पृहा, तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निष्पाद्यते तथा इति॥२॥ इति आवृत्त्यधिकरणम्॥

४७२। आत्मेति तूपगच्छन्ति ग्राहयन्ति – किमुपास्यं ब्रह्मोपासितुरन्यत्वेनानुसन्धेयम्, उतात्मत्वेनेति संशय: । अधिकं तु भेदनिर्देशात्, अधिकोपदेशात् इत्यादिषूपासितुः उपास्यस्यार्थान्तरत्वेन एवोपपादनाद्यथावस्थितस्यैवोपास्यत्वाच्चान्यत्वेन उपास्यं इति पूर्व: पक्ष:। राद्धान्तस्तुत्वं वा हमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते इति पूर्वे उपासितार उपास्यमात्मत्वेनोपगच्छन्ति। अत आत्मेत्येवोपास्यम्। तानुपासितॄन्प्रत्यर्थान्तरभूतस्यापि ब्रह्मण उपासितुरात्मत्वं ग्राहयन्ति शास्त्राणि आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा वेद यस्यात्मा शरीरं आत्मानमन्तरो यमयति आत्माऽन्तर्याम्यमृत इत्यारभ्योपासिता परमात्मनश्शरीरम्, परमात्मा चोपासितुरात्मेति प्रतिपादनेन, तथा सर्वं  खल्विदं ब्रह्म तज्जलान् इति सन्मूलास्सोम्येमास्सर्वाप्रजास्सदायतनास्सत्प्रतिष्ठा:, ऐतदात्म्यमिदं सर्वम् इति च तदायत्तस्वरूपस्थितिप्रवृत्तिताप्रतिपादनेन च। एवमुपासितु: स्वात्मनोऽप्यात्मत्वाद्ब्रह्मणो यथावस्थितस्वात्मशरीरकब्रह्मानुसन्धानेऽहमित्येवानुसन्धेयम्। यथा मनुष्योऽहमस्मीति स्वशरीरस्य स्वप्रकारतैकस्वभावतया प्रकारिणि स्वात्मनि पर्यवसानम्, तथा स्वात्मनोऽहं प्र्त्ययोऽहं शब्दश्च न केवलस्वात्मविषयौ, परमात्मशरीरतया तद्विविशेषणत्वेनैव स्वात्मनोऽवस्थानात्। सूत्रमपि व्याख्यातम्॥३  इति आत्मत्वोपासनाधिकरणम्

            ४७३।    प्रतीके हि :

            ४७४। ब्रह्मदृष्टिरुत्कर्षात्मनो ब्रह्मेत्युपासीत इत्यादिषु प्रतीकोपासनेष्वप्यात्मत्वेनानुसन्धानं कर्तव्यम्, उत नेति संशय:मनोब्रह्मेत्युपासीत इति ब्रह्मोपासनत्वाविशेषादात्मेत्येवानुसन्धानमिति पूर्व: पक्ष:। राद्धान्तस्तु – न प्रतीके आत्मत्वानुसन्धानं कार्यम्। कुत:? न हि मन आदिरुपासितुरात्मा। न च तत्र ब्रह्मोपास्यम्, ब्रह्मदृष्ट्या मन आदिरुपास्य:। अपकृष्टे ह्युत्कृष्टदृष्टिरभ्युदयाय भवति, यथा भृत्यादौ राजदृष्टि:। सूत्रद्वयं व्याख्यातम्॥४,५॥  इति प्रतीकाधिकरणम्

४७५। आदित्यादिमतयश्चाङ्ग उपपत्ते: –  एवासौ तपति तमुद्गीथमुपासीत इत्यादिषु कर्माङ्गाश्रयोपासनेषु किमुद्गीथादौ आदित्यदृष्टि: कार्या, उतादित्यादौ उद्गीथादिदृष्टिरिति संशय:। कर्मण: फलसाधनतयोत्कर्षादादित्यादेर्देवतात्वेन तद्गुणत्वाच्चादित्यादावुद्गीथादिदृष्टि: कार्येति पूर्व: पक्ष:। राद्धान्तस्तु –  कर्मणोऽपि फलसाधनत्वमादित्यादिदेवताराधनद्वारेणेति आदित्यादेरेव उत्कर्षोपपत्तेरादित्यादिमतय एव कर्माङ्गोद्गीथादौ कार्या:, सूत्रं च व्याख्यातम्॥६॥ इति आदित्यादिमत्यधिकरणम्

४७६। आसीनस्संभवात् – किमिदं ब्रह्मोपासनमासीन: कुर्यात्, उतासीनश्शयान: तिष्ठन्गच्छन्वेत्यनियमेनेति संशय:। विशेषाश्रवणादनियमेनेति पूर्व: पक्ष:। राद्धान्तस्तु – आसीनस्यैवैकाग्रतासंभवादेकाग्रतामूलत्वाच्चोपासनस्य, आसीन: कुर्यात् । सूत्रमपि व्याख्यातम्॥७॥

४७७। ध्यानाच्च  – निदिध्यासितव्य इत्युपासनस्य ध्यानरूपत्वाच्चैकाग्रचित्तता अवश्यम्भाविनी। ध्यानं हि विजातीयप्रत्ययान्तराव्यवहितं  तैलधारावदविच्छिन्नस्मृति-सन्ततिरूपम्॥८॥

४७८। अचलत्वं चापेक्ष्य – निश्चलत्वं चापेक्ष्य ध्यानवाचोयुक्ति: पृथिव्यादिषु दृश्यते। ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं ध्यायतीव द्यौ: इत्यादिका। अतो ध्यायत: पृथिव्यादिवदचलत्वं  आसीनस्यैव संभवति  ॥९॥

४७९। स्मरन्ति –  स्मरन्ति चासीनस्यैव ध्यानम् उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये इति॥१०॥

४८०। यत्रैकाग्रता तत्राविशेषात् – यस्मिन्देशे यस्मिंश्च काले मनस एकाग्रता, तत्र देशे काले चोपासनं कार्यम् । शर्करादिरहिते मनोनुकूले शुचौ देशे इत्येतदतिरिक्तविशेषाग्रहणात्। यथा देशकालयोरेकाग्रतायामविशेष:, न तथा स्थितिगत्यादौ, आसीनस्य तु विशेषोऽस्तीत्यभिप्राय:॥११॥ इति आसीनाधिकरणम्

४८१।  आप्रयाणात्तत्रापि हि दृष्टम् – तदिदमपवर्गसाधनमुपासनमेकस्मिन्नहनि कार्यम्, उत प्रत्यहमाप्रयाणादनुवर्तनीयमिति संशय:। एकस्मिन्नेवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम्। यावदायुषम् इति तु वचनं विधिशब्दस्याभावाद्विद्याया: फलेनोपसंहारपरमिति पूर्व: पक्ष:। राद्धान्तस्तु – आप्रयाणादनुवर्तनीयम्। कुत:? तत्रापि हि दृष्टं स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते इति। अप्राप्तत्वेनानुवादत्वासंभवाद्विधिरेवायमिति॥१२॥ इति आप्रयाणाधिकरणम्

४८२।  तदधिगम उत्तर पूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् – विदुष उत्तर पूर्वाघयोरश्लेषविनाशौ किं संभवत:, उत नेति संशय:नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि इति भोगादेव कर्मक्षयश्रवणादश्लेषविनाशश्रुति: कथञ्चिद्विद्यास्तुत्यर्थतया नेयेति पूर्व: पक्ष:। राद्धान्तस्तु  द्वयोश्शास्त्रयोर्भिन्नविषयत्वेन विरोधाभावात्संभवत एव। कर्मणां फलजननसामर्थ्यं द्रढयति, नाभुक्तं क्षीयत इति। एवमेवंविदि पापं कर्म न श्लिष्यते, एवं  हास्य सर्वे पाप्मान: प्रदूयन्ते इति च श्रुतिर्विद्यायास्तत्सामर्थ्यनिवारणशक्तिविषयेति। यथाऽप्तेजसोश्शीतजनन-तन्निवारणशक्तिविषये प्रमाणेन विरुध्येते इति। सूत्रमपि व्याख्यातम्॥१३॥ इति तदधिगमाधिकरणम् ॥ ७ ॥

४८३।  इतरस्याप्येवमसंश्लेष: पाते तु – किमसंश्लेषविनाशौ पुण्यकर्मणोऽपि समानौ, उत नेति संशय:, पुण्यकर्मफलस्य सुखरूपत्वेन विदुषोऽनिष्टत्वाभावान्न समानाविति पूर्व: पक्ष:। राद्धान्तस्तु मुमुक्षोर्मोक्षविरोधित्वेनानिष्टत्वसाम्यादश्लेषविनाशौ समानावेव। सूत्रार्थस्तु  – इतरस्य  पुण्यस्याप्यनिष्ट फलत्वसाम्यादेवम् अश्लेषविनाशौ, विद्यानुगुणस्य तु वृष्ट्यन्नारोग्यादिफलस्य शरीरपातादूर्ध्वं अनिष्टत्वादश्लेष:॥१४॥  इति इतराधिकरणम्

४८४। अनारब्धकार्ये एव तु पूर्वे तदवधे:  – विद्योत्पत्ते: पूर्वकृतयो: पुण्यपापयोरविशेषेण विनाश:, उतानारब्धकार्ययोरेवेति संशय:सर्वे पाप्मान: प्रदूयन्त इति विशेषाभावादविशेषेणेति पूर्व: पक्ष:। राद्धान्तस्तु – तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्य इत्युत्पन्नविद्यस्यापि शरीरमोक्षावधित्वश्रुते: सर्वविनाशे शरीरस्थित्यनुपपत्तेश्चानारब्धकार्ययोरेव विनाश:। सूत्रं च व्याख्यातम्॥१५॥ इति अनारब्धकार्याधिकरणम्

१०

४८५।  अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् – अग्निहोत्राद्याश्रमधर्म: किं विदुषोऽनुष्ठेय:, उत नेति संशय:। सुकृतदुष्कृतयोरश्लेषविनाशाभिधानादाश्रमधर्मस्यापि सुकृतत्वसाम्येन कार्याश्लेषादननुष्ठेय इति पूर्व: पक्ष:। राद्धान्तस्तु – आश्रमधर्मस्य तु विद्योत्पत्तिरेव कार्यमिति तत्कार्यायैवानुष्ठेय:। दृश्यते हि तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति इत्यादिना विद्योत्पत्ति- कार्यत्वम्। विद्या चाप्रयाणादहरहरभ्यासाधेयातिशयोत्पाद्यैव । सूत्रं च व्याख्यातम्॥१६॥

यद्यग्निहोत्रादि साधुकृत्या विद्योत्पत्त्यर्था; पूर्वकृता च साधुकृत्या अनुभूतफला प्रारब्धफला च, सुहृदस्साधु कृत्याम् इत्यस्य विषय: क इत्याशङ्क्याह –

४८६।  अतोऽन्याऽपि ह्येकेषामुभयो: – अत:  अग्निहोत्रादिसाधुकृत्याया: अन्याऽपि विद्याधिगमात् पूर्वोत्तरयो: पुण्यकर्मणोरुभयोश्च कारीर्यादिका वृष्ट्यन्नाद्यर्थतया विदुषाऽनुष्ठिता विद्योत्पत्ते: पूर्वं कृताऽनादिकालप्रवृत्ता च प्रबलकर्मान्तरप्रतिबद्धफला साधुकृत्याऽस्ति हि। अत एकेषां शाखिनां सुहृदस्साधुकृत्यां इति वचनं तद्विषयम्। विद्ययाऽश्लेषविनाशश्रुतिश्च तद्विषया॥१७॥

४८७। यदेव विद्ययेति हि –  उक्तं ह्युद्गीथविद्याया: क्रतो: कर्मान्तरप्रतिबन्धाभाव: फलमिति। अत: प्रतिबद्धफलसाधुकृत्यस्यैव सुहृत्संक्रमणम्॥१८॥ इति अग्निहोत्राधिकरणम् १०

११

४८८। भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते। – इतरे – आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसान एव विनश्येते, उत तच्छरीरावसाने शरीरान्तरावसानेवेत्यनियम इति संशय:। यावन्न विमोक्ष्य अथ संपत्स्य इति संपत्तेश्शरीरविमोक्षविलम्बमात्रश्रुते: तच्छरीरावसान इति पूर्व: पक्ष:। राद्धान्तस्तु – प्रारब्धफलयो: कर्मणो: भोगैनैव क्षपयितव्यत्वाभिप्रायेण यावन्न विमोक्ष्ये अथ संपत्स्य इत्युच्यते न शरीरमात्रम्। कर्म विषयौ हि बन्धमोक्षौ। अत: प्रारब्धफले पुण्यपापे यावता शरीरेण समापनीये, तावता क्षपयित्वा अथ संपद्यत इत्यनियम एव। सूत्रं च व्याख्यातम्॥१९॥ इति इतरक्षपणाधिकरणम् ११॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य प्रथम: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.