वेदान्तदीप: Ady 04 Pada 04

वेदान्तदीप:

॥अथ चतुर्थाध्याये चतुर्थ: पाद:

५२४। सम्पद्याविर्भाव: स्वेन शब्दात् एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रुपेणाभिनिष्पद्यते, इति किं परं ज्योतिरूपसंपन्नस्य प्रत्यगात्मनः स्वरूपाविर्भाव: प्रतिपाद्यते, उत साध्येनान्येन रूपेण संबन्ध इति संशय:। स्वस्वरूपस्य सुषुप्त्यादौ निरानन्दत्व- दर्शनात्, स्वरूपमात्रस्य नित्याविर्भूतत्वाच्च साध्येन सुखैकान्तेन रूपेण संबध्यते। एवं च अभिनिष्पद्यते इति वचनं सङ्गच्छते। परं ज्योतिरूपसंपन्नस्य ह्यानन्दवत्त्वं श्रूयते रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति, एको ब्रह्मण आनन्द:, श्रोत्रियस्य चाकामहतस्य  इत्यादिषु । अतस्साध्येन रूपेणेति पूर्व: पक्ष:। राद्धान्तस्तु – स्वेन रूपेणाभिनिष्पद्यत इति विशेषणात्स्वरूपाविर्भाव एव। स्वरूपस्यापहतपाप्मत्वादिगुणकतया प्रजापतिवाक्योदितस्य कर्मकृतदेहसंबन्धतत्कृततिरोधानस्य परज्योतिरुपसंपत्त्या सूक्ष्मदेहविनिर्मुक्तस्यासङ्कुचितज्ञानादिगुणकस्वरूपाविर्भावात् स्वयाथात्म्या-नुभवपूर्वक आनन्दब्रह्मानुभवस्संपत्स्यत इति अभिनिष्पद्यत इति चोपपन्नम्। सूत्रार्थस्तु – परं ज्योतिरुपसंपद्य स्वस्वरूपाविर्भाव: प्रतिपाद्यते कुत:? स्वेनशब्दात् – साध्यस्यापि रूपस्य स्वासाधारणत्वेन स्वेनेति विशेषणं ह्यनर्थकम्॥१॥

स्वस्वरूपमात्रस्य अहं जानामि इति नित्याविर्भूतत्वेन, परंज्योतिरुपसंपद्य इत्यनर्थक- मित्याशङ्क्याह —

५२५। मुक्त: प्रतिज्ञानात – कर्मसंबन्धतत्कृतदेहादिविनिर्मुक्तस्वरूपमत्र, स्वेन रूपेणाभि निष्पद्यते इत्युच्यते। कथमिदमवगम्यते? एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इति कर्महेतुकदेहसंबन्ध- तत्कृतजागरिताद्यवस्थाविनिर्मुक्तस्वरूपस्यात्र वक्तव्यतया प्रतिज्ञानात्॥२॥

एवमपि स्वरूपमात्राविर्भावस्य पुरुषार्थत्वं न सिद्ध्यतीत्याशङ्क्याह –

५२६। आत्मा प्रकरणात् – देहादिविनिर्मुक्त: स्वरूपेणावस्थित आत्माऽपहतपाप्मत्वादि सत्यसङ्कल्पत्वपर्यन्तगुणक:, तस्य ह्याविर्भाव उच्यते; कुत:? प्रकरणात्; आत्माऽपहतपाप्मा, इति प्रकृत्य हि एतं त्वेव ते भूयोऽनुव्याख्यास्यामि इत्यादिनोच्यते, अतोऽपहतपाप्मत्वादिगुणक-स्वरूपस्य कर्माख्याविद्यातिरोहितस्य परंज्योतिरुपसंपद्य निवृत्ततिरोधानस्याविर्भाव: प्रतिपाद्यते।  

इति सम्पद्याविर्भावाधिकरणम्

५२७। अविभागेन दृष्टत्वात् – किमयं मुक्त: आविर्भूतस्वरूप: प्रत्यगात्मा परं ब्रह्म स्वात्मनो विभक्तमनुभवति, उत स्वात्मनोऽप्यात्मतयाऽविभागेन अहं ब्रह्मास्मि इतीति संशय:निरञ्जन: परमं साम्यमुपैति, सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति, इदं ज्ञान मुपाश्रित्य मम सार्धम्यमागता: इति श्रुतिस्मृतिभ्य: विभक्तमनुभवतीति पूर्व: पक्ष: । राद्धान्तस्तु — सर्वं खल्विदं ब्रह्म, ऐतदात्म्यमिदं सर्वम्तत्त्वमसि, इत्यादिना सामानाधिकरण्येन : पृथिव्यां तिष्ठन्यस्याऽत्मा शरीरम् इत्यादिषु सर्वस्य चिदचिद्वस्तुनो ब्रह्मशरीरत्वरूपब्रह्मप्रकारतया तत्तद्वस्तुबुद्धिशब्दास्तत्पर्यन्तविषया इत्यवगम्य आत्मेति तूपगच्छन्ति इति न्यायेन स्वात्मनोऽपि आत्मतया अहं ब्रह्मास्मीत्युपासनेन यथावस्थितपरमात्मात्मकस्वात्मनो दृष्टत्वात् मुक्त: स्वात्मनोऽप्यात्मभूतं ब्रह्म अहं ब्रह्मास्मीत्यविभागेनैवानुभवति। सूत्रार्थस्तु – अहं ब्रह्मास्मि इत्यविभागेनैव ब्रह्मानुभवति मुक्त:, स्वात्मनोऽप्यात्मतयोपासनेन यथावस्थितपरमात्मात्मक-स्वरूपस्य दृष्टत्वात्, साधर्म्यश्रुतिस्तु परमात्मशरीरभूतस्य प्रत्यगात्मनोऽपहतपाप्मत्वादि गुणैस्तत्साधर्म्यं प्रतिपादयति। सोऽश्नुते सर्वनान्कामान् सह, ब्रह्मणाविपश्चिता इति ब्रह्मशरीरतया ब्रह्मप्रकारभूतत्वात्स्वात्मभूतेन ब्रह्मणा सह तद्गुणाननुभवतीति वदति। काम्यन्ते इति कामा: — कल्याणगुणा:, कल्याणगुणविशिष्टं ब्रह्मानुभवतीत्यर्थ:॥४॥ अविभागेन दृष्टत्वाधिकरणम्

५२८। ब्राह्मेण जैमिनिरुपन्यासादिभ्य: – किं जीवस्य स्वाभाविकं रूपमहतपाप्मत्वादिगुणकम्, उत चैतन्यमात्रम्, उतोभयमिति संशय:, अपहतापाप्मत्वादिगुण्ाकमिति प्रथम: पक्ष:, आत्माऽपहतपाप्मा, इति प्रतिपादनात्। चैतन्यमात्रमिति द्वितीय: पक्ष:, एवं वा अरेऽय मात्माऽनन्तरोऽबाह्य: कृत्स्न: प्रज्ञानघन एव, विज्ञानघन एव इत्यवधारणात्। राद्धान्तस्तु – ज्ञानस्वरूपस्यैवापहतपाप्मत्वादिगुणकत्व-प्रतिपादनादविरोधाच्चोभयं स्वरूपम् । न च विज्ञानघन एव इत्यवधारणं गुणान्तरासहम्, यथा सैन्धवघनस्य, रसघन एव इत्यवधारणेऽपि रसाश्रयद्रव्यं रूपस्पर्शादिगुणान्तरं च सहते; रसघन एव इत्यवधारणं तु रसवद्द्रव्यान्तरस्वभावव्यावृत्तिपरम्; द्रव्यान्तराणां हि स्वैकदेशे भिन्नरसवत्त्वम्, सैन्धवघनस्य तु सर्वत्रैकरसवत्त्वम्, एवमत्राप्यचिद्वस्तुव्यावृत्त- स्वस्वभावस्य सगुणस्यात्मन: स्वप्रकाशतावधारणं विज्ञानघन एव इति क्रियते। सूत्रार्थस्तु – ब्राह्मेण – अपहतपाप्मत्वादिना स्वरूपाविर्भाव:, अपहतपाप्मत्वादयो दहरवाक्ये ब्रह्मगुणाश्श्रुता:, उपन्यासादिभ्य:- तेषां ब्रह्मगुणानां प्रत्यगात्मन्यपि, य आत्माऽपहतपाप्मा इत्यादिनोपन्यासात्। आदिशब्दात्, जक्षत्क्रीडन्रममाण:, इत्यादिभ्योऽपि सत्यसङ्कल्पत्वादयोऽवगम्यन्त इति जैमिनिराचार्यो मन्यते॥५॥

५२९। चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमि: – चैतन्यमात्रेण स्वरूपाविर्भाव:, विज्ञानघन एव इति तदात्मकत्वावधारणादित्यौडुलोमिराचार्यो मन्यते॥६॥

५३०। एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायण: – एवं – विज्ञानस्वरूपस्यैव, स्वप्रकाशस्वरूपस्यैव पूर्वेषाम् अपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तानामपि आत्माऽपहतपाप्मा इत्युपन्यासात् सद्भावावगमादुभयो: स्वरूपयोरविरोधं भगवान्बादरायणो मन्यते। उभयश्रुत्यवगतस्येतरविरोधाभावान्नान्यतरबाधे प्रमाणमस्तीत्यभिप्राय: ॥७॥ इति ब्राह्माधिकरणम्॥

५३१। सङ्कल्पादेव तच्छ्रुते: – परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते, उत्तम: पुरुष: तत्र पर्येति जक्षत्क्रीडन्रममाणस्स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा इत्यादिराम्नायते। किमेते ज्ञात्यादयो मुक्तस्य सङ्कल्पादेव भवन्ति। उत प्रयत्नान्तरसव्यपेक्षात्सङ्कल्पादिति संशय:। लोके राजादीनां सत्यसङ्कल्पत्वेन व्यवह्रियमाणानामपि कार्ये प्रयत्नान्तरसापेक्षत्वदर्शनान्मुक्तस्यापि तथैव सापेक्षत्वादिति पूर्व: पक्ष:। सङ्कल्पादेव इत्यवधारणं विज्ञानघन एव इतिवद्भविष्यतीति।  राद्धान्तस्तु – सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति इत्यवधारणान्नान्यापेक्षत्वम् । न चेह सत्यकामत्वाद्युपन्यासवत् मुक्तस्यान्यन्यापेक्षत्वे प्रमाणमस्ति। लोके सत्यसङ्कल्पत्वाभावादेव प्रयत्नान्तरापेक्षत्वम्;  न हि परमपुरुषव्यतिरिक्त: कश्चित्सत्यसङ्कल्पोऽस्ति। मुक्तश्च तत्प्रसादात् तत्साम्यमुपगतस्तथैव। सूत्रमपि व्याख्यातम्॥८॥

५३२। अत एव चानन्याधिपति: – अत: – श्रुतेरेव मुक्तोऽनन्याधिपतिश्च, अनन्याधिपतित्वं – कर्माधीनत्वम्। अपहतपाप्मा सत्यसङ्कल्प: इति श्रूयते, अतो अनन्याधिपति:॥९॥   इति सङ्कल्पाधिकरणम्

५३३। अभावं बादरिराह ह्येवम्  – किं मुक्तस्य शरीरेन्द्रियाद्यस्ति, उत न, अथ यथासङ्कल्पमस्ति च नेति संशय: वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं प्रियाप्रिये स्पृशत इति मुक्तस्याशरीरत्व श्रवणान्नास्त्येवेति एक: पक्ष: एकधा भवति त्रिधा भवति इति सशरीरत्वश्रुते: अशरीरत्वश्रुति: कर्मकृतशरीरविषयेति शरीरेन्द्रियाद्यस्त्येवेति द्वितीय: पक्ष:। राद्धान्तस्तु – मनसैतान्कामान्पश्यन्रमते एते ब्रह्मलोके इत्यशरीरस्यैव भोगश्रुते: एकधा भवति त्रिधा भवति, इति श्रुतेश्च यथासङ्कल्पमस्ति च न चेति। सूत्रार्थस्तु — शरीराभावं बादरिर्मेने; एवमाह हि श्रुति: अशरीरं वाव सन्तं इति॥१०॥

५३४। भावं जैमिनिर्विकल्पामननात् – शरीरादिभावं जैमिनिर्मेने,  कुत:? विकल्पामाननात् – विविध: कल्प: – विकल्प:, एकधा भवति त्रिधा भवति इत्यादिना मुक्तस्य हि विविधं कल्पनमाम्नायते; आत्मन एकरूपस्याच्छेद्यस्य वैविध्यासंभवाच्छरीरद्वारेणैव हि विज्ञायते वैविध्यम्॥११॥

५३५। द्वादशाहवदुभयविधं बादरायणोत: – अत: – उभयश्रुतेरिच्छात:, उभयविधम्- शरीरवत्त्वमशरीरत्वं च भगवान् बादरायणो मेने, द्वादशाहवत् – यथा द्वादशाह उभयश्रुतेस्सत्रमहीनं च, द्वादशाहमृद्धिकामा उपेयु: इति सत्रं भवति । द्वादशाहेन प्रजाकामं याजयेत्,  इत्यहीनम्॥१२॥

५३६। तन्वभावे सन्ध्यवदुपपत्ते: – स्वेनैव सृष्टतनुप्रभृत्युपकरणाभावे परमपुरुष सृष्टैरुपकरणै: भोगोपपत्तेस्सत्यसङ्कल्पोऽपि स्वयं न सृजति, सन्ध्यवत् – यथा स्वप्ने अथ रथान् इत्यारभ्य हि कर्ता इति, एष सुप्तेषु इत्यारभ्य तदुनात्येति कश्चन, इति चेश्वरसृष्टैरुपकरणैर्जीवो भुङ्क्ते; तथा मुक्तोऽपि लीलाप्रवृत्तश्वर सृष्टै: पितृलोकादिभिर्लीलारसं भुङ्क्ते॥१३॥

५३७। भावे जाग्रद्वत् – स्वसङ्कल्पसृष्टतनुप्रभृत्युपकरणसद्भावे जाग्रत्पुरुषभोगवन्मुक्तो लीलारसं भुङ्क्ते, परमपुरुषोऽपि दशरथवसुदेवादिपितृलोकादिकमात्मनस्सृष्ट्वा तैर्मनुष्यधर्म-लीलारसं भुङ्क्ते; तथा मुक्तश्च सत्यसङ्कल्पत्वात् परमपुरुषलीलान्तर्गतस्वपितृलोकादिकं स्वयमेव सृष्ट्वा तैर्लीलारसमनुभवति॥१४॥

नन्वात्माऽणुपरिमाण इत्युक्तम्; कथमनेकशरीरेष्वेकस्याणोरात्माभिमानसंभव इत्यत्राह —

५३८। प्रदीपवदावेशस्तथा हि दर्शयति – यथा प्रदीपस्यैकस्यैकदेशवर्तिनस्स्वया प्रभयाऽनेकदेशप्रवेश:;  तद्वदात्मनोऽप्येकदेशस्थस्य स्वप्रभारूपेण ज्ञानेन सर्वदेहेषु यथासङ्कल्पं आत्माभिमानानुगुणाव्याप्तिस्संभवति । यथैकस्मिन्देहे हृदयादिदेशे वर्तमानस्याणोरपि स्वस्मिन्देहे अहमित्यभिमानानुगुणव्याप्तिस्स्वप्रभारूपचैतन्येन, तद्वत्।  तथा दर्शयति हि श्रुति: — बालाग्रशतभागस्य शतधा कल्पितस्य च।  भागो जीवस्सविज्ञेयस्स चानन्त्याय कलपते इति।  प्रत्यागात्मनोऽणुत्वमेव स्वरूपमिति सूत्रकारमतम्, नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात्  इति परस्यैव महत्त्ववचनात्॥१५॥

ननु परं ब्रह्म प्राप्तस्यान्तरबाह्यज्ञानलोपं दर्शयति श्रुति: प्राज्ञेनात्मना सम्परिष्वक्तो बाह्यं किञ्चन वेद नान्तरम् इति। तत्कथं मुक्तस्य ज्ञानानन्त्यमुच्यत इत्यत्राह –

५३९।  स्वाप्ययसम्पत्योरन्यतरापेक्षमाविष्कृतं हि – नेदं मुक्तविषयम् सुषुप्तिमरणयोरन्यतरापेक्षम्, आविष्कृतं हि श्रुत्या सुषुप्तिमरणयोर्निस्संबोधत्वम्, मोक्षादशायां सर्वज्ञत्वं च, सुषुप्तौ तावत्, नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति इति, विनाशम् – अदर्शनमित्यर्थ:, मरणे च, एतेभ्यो भूतेभ्यस्समुत्थाय तान्येवानुविनश्यति, इति, विनश्यति न पश्यतीत्यर्थ:, मोक्षे तु,  स वा एष दिव्येन चक्षुषा मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके इति, सर्वं पश्य: पश्यति सर्वमाप्नोति सर्वश: इति च॥१६॥ इत्यभावाधिकरणम्॥५॥

५४०। जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च – किं मुक्तस्य भोग: निखिलहेयप्रत्यनीक- कल्याणैकतानसकलेतरविलक्षणानवधिकातिशयानन्दमहाविभूतिरूपपरब्रह्मानुभव एव? उत जगत्सृष्ट्यादिजगन्नियमनरूपलीलाऽपीति संशय:निरञ्जन: परमं साम्यमुपैति इत्यादिश्रुतेः जगन्नियमनरूपलीलापीति पूर्व: पक्ष:। राद्धान्तस्तु – यतो वा इमानि भूतानि जायन्तसदेव सोम्येदमग्र आसीत्, ब्रह्म वा इदमेक एवाग्र आसीत्आत्मा वा इदमेक एवाग्र आसीत्एको वै नारायण आसीत् इत्यादिषु परं ब्रह्मप्रकृत्यैव जगद्व्यापारश्श्रूयते। तत्र तत्र प्रकरणे न मुक्तस्य सन्निधिरप्यस्ति। अतो जगन्नियमनरूपधुरावर्जं  सोऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिता, एको ब्रह्मण आनन्द:, श्रोत्रियस्य चाकामहतस्य इत्यनवधिकातिशयानन्दब्रह्मानुभवे मुक्तस्य साम्यम्, ब्रह्म हि स्वस्य परस्य चानुभूयमानमविशेषेणानवधिकातिशयानन्दं भवति, आनन्दस्वरूपत्वाविशेषात्। सूत्रमपि व्याख्यातम्॥१७॥

५४१। प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्ते: – प्रत्यक्षं – श्रुति:,  तस्य सर्वेषु लोकेषु कामचारो भवतिइमांल्लोकान्कामान्नी कामरूप्यनुसञ्चरन्,  इत्यादिश्रुत्या मुक्तस्य जगद्व्योपारोपदेशात्सोऽपीति चेत्, तन्न; आधिकारिकमण्डलस्थोक्ते:, आधिकारिका: – परमपुरुषेण लोकनियमनाधिकारे नियुक्ता: हिरण्यगर्भादय:; मण्डलानि – तेषां लोका:; तत्स्थभोगेषु मुक्तस्य यदीच्छा वर्तते, तत्र तत्र यथाकामं परमपुरुषानुग्रहेण वर्तमानस्तत्रस्थान्भोगान्भुङ्क्ते इति तया श्रुत्योक्ते:।  कामान्नी, कामचारो भवति इति हि श्रूयते न नियुङ्क्त इति॥१८॥

उत्पत्त्यादिविकारवर्ती हेयमिश्रोऽत्यल्पश्च कथं मुक्तस्य भोगो भवति, यदिच्छातस्सर्वेषु लोकेषु कामचार उच्यत इत्यत्राह —

५४२। विकारावर्ति तथा हि स्थितिमाह – च शब्दोऽवधारणे उत्पत्त्यादिविकारेषु न वर्तत इति विकारावर्ति परं ब्रह्मैव, निर्धूतनिखिलविकारं निखिलहेयप्रत्यनीककल्याणैकतानं निरतिशयानन्दं परब्रह्मसविभूति, सकलकल्याणगुणं मुक्तस्य भोग्यम्; तद्विभूत्यन्तर्गतत्वेन विकारवर्तिनां लोकानामपि मुक्तभोग्यत्वम् । तथाहि परस्मिन्ब्रह्मणि मुक्तस्यानुभवितृत्वेन स्थितिमाह श्रुति: –  यदा ह्येवैष एतस्मिन्नद्दश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवतिरसो वै :, रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति ब्रह्मनिष्ठो ब्रह्मैव लब्ध्वाऽऽनन्दी भवति इत्यर्थ: । ब्रह्म हि निरतिशयकल्याणानन्तगुणकमनन्तमहाविभूति च। तत्र सविभूतिकब्रह्मानुभवाय विभूत्येकदेशभूतलोकेषु सञ्चरतस्तत्र तत्र कामचारो भवतीत्युच्यते॥१९॥

५४३। दर्शयतश्चैवं प्रत्यक्षानुमाने – उत्पत्त्यादिजगन्नियमनं परस्यैव; मुक्तस्य तु परब्रह्मानुभव एव भोग इत्युक्तमेवार्थं प्रत्यक्षानुमाने – श्रुतिस्मृती दर्शयत:  तस्माद्वा एतस्मादात्मन आकाशस्संभूत:भीषाऽस्माद्वात: पवत, एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतै तिष्ठत:, इत्यादिका श्रुति:; स्मृतिरपि अहं सर्वस्य प्रभव:, प्रलयस्तथाविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्, मत्तस्सर्वं प्रवर्ततेसोऽभिध्याय शरीरात्स्वात् सिसृक्षुर्विविधाः प्रजाः, प्रशासितारं सर्वेषाम्, इत्यादिका परविषया ।  अथाकामयमानो योऽकामो निष्काम आप्तकाम आत्मकाम:,  इत्यादिका श्रुति:। स्मृतिरपि  प्रियो हि ज्ञानिनोऽत्यर्थमहम्, आस्थितस्स हि युक्तात्मा मामेवानुत्तमां गतिम्, वासुदेवस्सर्वमिति महात्मा सुदुर्लभ:,  मां योऽव्यभिचारेण भक्तियोगेन सेवते। गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य शाश्वतस्य धर्मस्य सुखस्यैकान्तिकस्य इत्यादिका मुक्तविषया॥२०॥

५४४। भोगमात्र साम्यलिङ्गाच्चसोऽश्नुते सर्वान्कामान् सह ब्रह्मणा विपश्चिता,  इति मुक्तस्य ब्रह्मानुभवभोगमात्रब्रह्मसाम्यवचनाल्लिङ्गाच्च जगद्व्यापारवर्जमिति निश्चीयते॥२१॥

५४५। अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् – अस्य मुक्तस्यानावृत्तिश्शब्दादवगम्यते; यथा यतो वा इमानि भूतानि जायन्ते, सोऽकामयत, बहु स्यां प्रजायेयेति, : पृथिवीमन्तरो यमयति, आत्मानमन्तरो यमयति इति शब्दात्परमपुरुषस्य स्रष्टृत्वं नियन्तृत्वं चावगम्यते; तथा  एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्त खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसंपद्यते पुनरावर्ततेमामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम्, नाप्नुवन्ति महात्मानस्संसिद्धिं परमां गता: आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन, मामुपेत्य तु कौन्तेय पुनर्जन्म विद्यते,  इदं ज्ञानमुपाश्रित्य मम साधर्ममागता:, सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च। इति शब्दादेवैनं कदाचिदपि नावर्तयतीत्यवगम्यते। सूत्रावृत्तिश्शास्त्रपरिसमाप्तिं द्योतयतीति सर्वं समञ्जसम्॥२२॥ इति जगद्व्यापारवर्जाधिकरणम्।

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य चतुर्थ: पाद:

समाप्तश्चाध्याय:

शास्त्रं परिसमाप्तम्॥

श्रीमते रामानुजाय नम:

इति शम्॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.