वेदान्तदीप: Ady 03 Pada 02

वेदान्तदीप:

॥अथ तृतीयाध्यायस्य द्वितीय: पाद:

३१५। सन्ध्ये सृष्टिराह हि – स्वप्नमधिकृत्य श्रूयते, तत्र रथा रथयोगा पन्थानो भवन्त्यथ रथान्रथयोगान्पथस्सृजतत इत्यारभ्य, अथ वेशान्तान्पुष्करिण्यस्स्रवन्त्यस्सृजते हि कर्ता, इति। किं स्वाप्नानामर्थानां स्रष्टा जीव एव, उत परमात्मेति संशय:, स्वप्नदृशो जीवस्य सन्निधानात् , हि कर्ता इति स एव परामृश्यते। जीवस्यापि सत्यसङ्कल्पत्वं प्रजापतिवाक्योदितं इति स एव स्रष्टेति पूर्व: पक्ष: राद्धान्तस्तु – जीवस्य सत्यसङ्कल्पत्वं स्वाभाविकमपि संसारदशायां परमपुरुषसंकल्पात्तिरोहितमिति न जीवस्य सत्यसङ्कल्पमात्रेण स्रष्टृत्वमुपपद्यते, अत: परमपुरुष एव सकलेतरपुरुषानुभवाविषयान् तत्तत्पुरुषमात्रेणानुभाव्यान् तत्तत्कालावसानान् स्वाप्नानर्थान् सृजति, सूत्रार्थस्तु – सन्ध्ये – स्वप्ने श्रूयमाणा रथादिसृष्टि: स्वप्नदृशा जीवेन कृता। कुत:? आह हि – हि कर्ता इति प्रकृतस्य तस्यैव परामर्शादित्यर्थ:॥१॥

३१६। निर्मातारं चैके पुत्रादयश्च – एनमेव जीवं निर्मातारं स्वाप्ना(नाम)र्थानामेके शाखिनोऽधीयते, एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण:, इति। अत्र कामशब्द- निर्दिष्टा: काम्यमानतया पुत्रादय एव, च शब्दोऽवधारणे, अत्र हि, सर्वान् कामान् इति कामशब्देन प्रस्तुतात्, शतायुष: पुत्रपौत्रान्वृणीष्व, इति विविनक्ति॥२॥

३१७। मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् – तुशब्दात्पक्षो विपरिवर्तते, न जीवेन सृष्टं स्वाप्नमर्थजातम्; अपि तु ईश्वरमायामात्रं – सकलेतरपुरुषानुभवाविषयं तदेकानुभाव्यं तत्कालावसानमाश्चर्यरूपमर्थजातमीश्वरस्सृजतीत्यर्थ:। जीवस्य (स्वत:) सत्यसङ्कल्पत्वादे: कृत्स्नस्य संसारदशायामनभिव्यक्तस्वरूपत्वात्, तस्य हि सङ्कल्पमात्रेण स्रष्टृत्वं नोपपद्यते। कामं कामं पुरुषो निर्मिमाण: इति च परमपुरुषमेव निर्मातारमाह। एषु सुप्तेषु जागर्ति, तस्मिल्लोकाश्श्रितास्सर्वे तदु नात्येति कश्चन, इत्युपक्रमोपसंहारयो: परमपुरुषासाधारणधर्मप्रतीते:। हि कर्ता इति च तेनैकार्थ्यात् परमपुरुषमेवाह॥३॥

स्वाभाविकं चेज्जीवस्य सत्यसङ्कल्पत्वादिकम्, कथं नाभिव्यज्यत इत्यत्राह –

३१८। पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ – तुशब्दश्शङ्कानिवृत्यर्थ:, परमपुरुषाभिध्यानादस्य स्वाभाविकं रूपमनादिकर्मप्रवाहेण कृतापराधतया तिरोहतम्। ततो ह्यस्य बन्धविपर्ययौ – तत: परमपुरुषसङ्कल्पादेव हि अस्य – जीवस्य बन्धविपर्ययौ – संसारमोक्षौ श्रूयते- को ह्येवान्यात्क: प्राण्यात्, यदेष आकाश आनन्दो न स्यात्, एष ह्येवानन्दयाति, परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादौ॥४॥

तिरोधानप्रकारमाह –

३१९। देहयोगाद्वा सोऽपि – सोऽपि – तिरोधानभाव: देहयोगाद्वा भवति। वाशब्दो विकल्पार्थ:, व्यवस्थितश्च विकल्प:। देवमनुष्यादिदेहाकारपरिणताचिद्योगात्सृष्टिवेलायाम्, नामरूपविभागानर्हा सूक्ष्मदशापन्नाचिद्योगेन प्रलयकाले॥५॥

३२०।  सूचकश्च हि श्रुतेराचक्षते तद्विद: – इतश्च स्वाप्ना रथादयो न जीवसङ्कल्पकृता:। यतस्स्वप्नश्शुभाशुभयोस्सूचक इति श्रुतेरवगम्यते, यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यतिसमृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने, अथ स्वप्ने पुरुषं कृष्णं कृष्णदन्तम् इत्यादिषु, स्वप्नाध्यायविदश्चाचक्षते, जीवसङ्कल्पकृतत्वे हि सूचकत्वं न  संभवति। स्वसङ्कल्पकृतत्वे हि शुभानामेव सूचकानर्थान् सृष्ट्वा तानेव पश्येत्, अतस्स्वाप्नानामर्थानां परमपुरुष एव स्रष्टा ॥६॥  इति सन्ध्याधिकरणम्

३२१। तदभावो नाडीषु तच्छ्रुतेरात्मनि – नाड्य: पुरीतत् ब्रह्म च सुषुप्तिस्थानत्वेन श्रूयन्ते। किमेषां विकल्प:, उत समुच्चय इति संशय:। विकल्प इति पूर्व: पक्ष:आसु तदा नाडीषु सृप्तो भवति, ताभि: प्रत्यवसृप्य पुरीतति शेते, सता सोम्य तदा सम्पन्नो भवति, इति त्रयाणां नैरपेक्ष्यप्रतीते:, राद्धान्तस्तु – प्रासादखट्वापर्यङ्कवत् कार्यभेदेन समुच्चये संभवति  पाक्षिकबाध-गर्भविकल्पो न युक्त इति समुच्चयो न्याय्य:। तत्र पर्यङ्कस्थानीयं ब्रह्म, यत: पर्यङ्कवत्साक्षाद्ब्रह्म सुषुप्तिस्थानम्। सूत्रार्थस्तु – तदभाव: – स्वप्नाभाव:, सुषुप्तिरित्यर्थ:। सुषुप्तिर्नाडीष्वात्मनि च, चकारात्पुरीतति च।तच्छ्रुते:-त्रयाणां सुषुप्तिस्थानत्वश्रुते:, उक्तेन न्यायेन समुच्चयो न्याय्य इत्यभिप्राय:॥७॥

३२२। अत: प्रबोधोऽस्मात् – अस्मात् – ब्रह्मण: प्रबोधश्रुतिरत एवोपपद्यते। सत आगम्य विदुस्सत आगच्छामहे इति श्रूयते॥८॥  इति तदभावाधिकरणम्

३२३। एव तु कर्मानुस्मृतिशब्दविधिभ्य: – किं सुषुप्त एव प्रबोधकाले उत्तिष्ठति, उत स वा अन्यो वेत्यनियम इति संशय:, सुषुप्तस्य सर्वोपाधिविनिर्मुक्तस्य ब्रह्मणि संपन्नस्य मुक्तादविलक्षणत्वेन प्राचीनशरीरसंबन्धभावात्स एवेति नियमो न संभवतीति पूर्व: पक्ष:। सुषुप्तस्य ब्रह्मज्ञानाभावेन पूर्वकृतस्य कर्मण: तेनैवोपभोक्तव्यत्वात्, सोऽहमिति प्रत्यभिज्ञानात्, त इह व्याघ्रो वा सिंहो वा इत्यारभ्य, यद्यद्भवन्ति तथा भवन्ति इति शब्दात्, मोक्षसाधनविध्यानर्थक्याच्च स एवोत्तिष्ठतीति राद्धान्त:, न चासौ शरीरेन्द्रियसंबन्धविनिर्मुक्त:, अपि तु करणकलेबरप्रवर्तनायासात् आश्वासाय ब्रह्मण्यपीत: पुनराश्वस्त: प्रवर्तनायोत्तिष्ठति, सूत्रमपि व्याख्यातम्॥९॥ इति कर्मानुस्मृतिशब्दविध्यधिकरणम्॥३॥

३२४। मुग्धेऽर्धसंपत्ति: परिशेषात् – किं मूर्छामरणादर्थान्तरमुत मरणमेवेति संशय:। सर्वेन्द्रियप्राणव्यापारोपरते: मरणमेवेति पूर्व: पक्ष:। आकारवैरूप्येण सूक्ष्मप्राणास्तित्वावगमात् (गते:) मरणेऽ(णाया)र्धसंपत्तिरिति सिद्धान्त:। सूत्रार्थस्तु – मुग्धे – मूर्छिते पुरुषे याऽवस्था, सा मरणायार्धसंपत्ति:, कुत:? परिशेषात् – प्राणादिसर्वव्यापारोपरते: न जागराद्यवस्था, न च गतप्राणा, आकारवैलक्षण्येन सूक्ष्मप्राणास्तित्वावगते:,  मूर्छितस्यैव कस्यचित्पुनर्जीवनदर्शनाच्च न मरणमिति परिशेषान्मरणायार्धसंपत्तिः इत्यवगम्यते॥१०  इति मुग्धाधिकरणम्

            ३२५। स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि – किं जीवस्येव तदन्तर्यामिण: परस्य ब्रह्मणोऽपि जागरादिस्थानप्रयुक्तदोषास्संभवन्ति। उत नेति संशय:,  : पृथिव्यां तिष्ठन् , आत्मनि तिष्ठन् , यश्चक्षुषि तिष्ठन्, यो रेतसि तिष्ठन्, इत्यादिना जीवस्येव सर्वावस्थास्ववस्थितिवचनात्, छन्दतोऽपि पूयशोणितादिमज्जनमपुरुषार्थ एवेति सर्वे दोषास्संभवन्तीति पूर्व: पक्ष:, राद्धान्तस्तु  अपहतपाप्मा विजर:, निरवद्यं निरञ्जनम्, सत्यकामस्सत्यसङ्कल्प:, यस्सर्वज्ञस्सर्ववित्, यो मामजमनादिं वेत्ति लोकमहेश्वरम्, पर: पराणां सकला यत्र क्लेशादयस्सन्ति परावरेशे, इत्यादि श्रुतिस्मृतिभ्यो निरस्तनिखिलदोषगन्धतासार्वज्ञ्य-सत्यसङ्कल्पत्वाद्युभयलक्षणस्वरूपावगते: परस्य ब्रह्मणस्सर्वत्रान्तर्यामितयाऽवस्थितस्यापि न दोषगन्धस्संभवति, अपि तु सर्वनियमनरूपलीलारस एव। सूत्रार्थस्तु – न स्थानतोऽपि परस्य पृथिव्यात्मादिष्वन्तर्यामितयाऽवस्थितस्यापि परस्य ब्रह्मण:, जीवस्य तत्रावस्थितस्य ये दोषा उक्ता:, ते न संभवन्ति, कुत:? उभयलिङ्गं सर्वत्र हि — हिर्हेतौ, यतस्सर्वत्र श्रुतिस्मृतिषु निरस्तनिखिलदोषत्वसमस्तकल्याणगुणात्मकत्वरूपोभयलिङ्गम् — उभयलक्षणं परं ब्रह्मावगतम्॥११॥

३२६। भेदादिति चेन्न प्रत्येकमतद्वचनात – यथा जीवस्य स्वतोऽपहतपाप्मत्वादि-गुणकस्यापि देवादिशरीरसंबन्धितयाऽवस्थाभेदादुक्तदोषसम्बन्धित्वम्, एवं परस्यापि, यस्य पृथिवी शरीरम् इति शरीरसंबन्धित्वावस्थाभेदात्ते दोषास्स्स्युरिति चेन्न, प्रत्येकं – प्रतिपर्यायम्, अतद्वचनात् – दोषासंबन्धित्ववचनात्, यस्य पृथिवी शरीरम् इत्यादिषु, एष आत्माऽन्तर्याम्यमृत, इत्यन्तर्यामिणो हि निर्दोषत्वमुच्यते। जीवस्य तु पराभिध्यानात्तत्स्वरूपं तिरोहितमित्युक्तम्, अतश्शरीरसंबन्धित्वेऽपि परस्यैते न दोषा:॥१२॥

३२७। अपि चैवमेके – अपि च – यदिदं जीवपरयोरेकस्मिन् शरीरे शरीरित्वेनावस्थितयो: दोषसंबन्धित्वं  तद्विपरीतत्वं चोक्तम्, एवमेके शाखिनस्स्वशब्देनाधीयते, द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते, तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति इति॥१३॥

मनुष्यादिशरीरेषु शरीरित्वमेव जीवस्य नामरूपभाक्त्वेन कर्मवश्यताहेतु:, तत्परस्याप्यविशिष्टं चेत्कथं परस्य ब्रह्मणोऽकर्मवश्यत्वेन कर्मफलानशनमुच्यत इत्यत आह –

३२८। अरूपवदेव हि तत्प्रधानत्वात् – मनुष्यादिशरीरेषु शरीरत्वेऽप्यरूपवदेव हि तत् – परं ब्रह्म कुत:? प्रधानत्वात् – निर्वाहकत्वात्। जीवस्य नामरूपभाक्त्वेन कर्मफलाशनं निर्वोढुं परस्य तत्तच्छरीरे शरीरित्वेनावस्थानम्, यथाह – यस्य पृथिवी शरीरम्, यस्यात्मा शरीरम्, आत्मानमन्तरो यमयति, अन्त: प्रविष्टश्शास्ता जनानां सर्वात्मा, आकाशो वै नामरूपयो र्निर्वहिता ते यदन्तरा तद्ब्रह्म इति। अत उभयलिङ्गमेव परं ब्रह्म॥१४॥

सत्यं ज्ञानमनन्तं ब्रह्म इति प्रकाशैकस्वरूपता ब्रह्मण उच्यते। कथमुभयलिङ्गत्वमित्यत आह। –

३२९। प्रकाशवच्चावैयर्थ्यात् – यथा, सत्यं ज्ञानम् इति वाक्यावैयर्थ्यात्प्रकाशो ब्रह्मण: स्वरूपमित्यवगम्यते। तथा, यस्सर्वज्ञस्सर्ववित्, परास्य शक्तिर्विविधैव श्रूयत इत्यादिवाक्य- अवैयर्थ्यात् कल्याणगुणाकरत्वं च ब्रह्मणस्स्वरूपमित्यवगम्यते। अत उभयलिङ्गमेव॥१५॥

३३०। आह तन्मात्रम्सत्यं ज्ञानम् इति वाक्यं ब्रह्मणो ज्ञानं स्वरूपमित्येतावन्मात्रमाह,  न पुन: कल्यागुणाकरत्वं निषेधति॥१६॥

३३१। दर्शयति चाथो अपि स्मर्यते – दर्शयति च वेदान्तवाक्यगणो निरस्तनिखिलदोषत्वं कल्याणगुणाकरत्वं च, निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम, तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं दैवतम् इत्यादिक: । स्मर्यते च, यो मामजमनादिं वेत्ति लोकमहेश्वरम्, अहं कृत्स्नस्य जगत: प्रभव: प्रलयस्तथा, मत्त: परतरं नान्यत् इत्यादिषु॥१७॥

३३२। अत एव चोपमा सूर्यकादिवत् – यतो ब्रह्मणो निरस्तनिखिलदोषत्व-कल्याणगुणाकरत्वेन उभयलिङ्गत्वात् पृथिव्यादिस्थानतोऽपि न तत्प्रयुक्तदोषगन्धसंभव:। अत एव शास्त्रेषु च जलसूर्यकाद्युपमा क्रियते, आकाशमेकं हि यथा घटादिषु पृथग्भवेत्, तथाऽत्मैको ह्यनेकस्थो जलाधारेष्विवांशुमान् इत्यादिषु॥१८॥

३३३। अम्बुवदग्रहणात्तु तथात्वम् – तु शब्दश्चोद्यं द्योतयति, अम्बुनीवाग्रहणात् –     यथाऽम्बुनि सूर्य: तत्रानवस्थित एव भ्रान्त्या तत्र स्थित इव गृह्यते, न तथा परमात्मा पृथिव्यादौ गृह्यते, : पृथिव्यां तिष्ठन् पृथिव्या अन्तर, इति परमार्थतस्स्थितो गृह्यते , अतो न तथात्वं न सूर्यस्येव तत्प्रयुक्तदोषगन्धाभाव: परमात्मन:, परमार्थतस्स्थितत्वात्॥१९॥

३३४। वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च –  परिहरति। पृथिव्यादिषु विषमेषु स्थानेषु स्थितस्यापि परमात्मन: तदन्तर्भावात् – तत्रावस्थानत: तत्प्रयुक्तवृद्धिह्रासभाक्त्वं जलाधारेष्विवांशुमान्, इति दृष्टान्तेन निर्वत्यते । कुतोऽवगम्यते एतावन्मात्रमिति;  उभयसामञ्जस्यादेवम्  उभयदृष्टान्तोपादानसामञ्जस्यादेवमवगम्यते। आकाशमेकं हि यथा घटादिषु पृथग्भवेत् इति घटकरकादिषु विषमेष्ववस्थितमाकाशं जलाधारेष्विवांशुमानिति चांशुमन्तं परमार्थतस्स्थितमनवस्थितं चोभयं दृष्टान्ततयोपादाय, तथाऽऽत्मैको ह्यनेकस्थ इति निगमनात् तत्तत्स्थानप्रयुक्तवृद्धिह्रासभाक्त्वनिवर्तनमात्रं विवक्षितमित्यवगम्यते, अन्यत्राऽपि दृष्टान्तदार्ष्टान्तिकयोः सर्वसाम्याभावेऽपि सिंह इव माणवक: इत्यादिषु दृष्टान्तोपादानदर्शनाच्चैवं अवगम्यते॥२०॥

अथात आदेशो नेति नेति इत्यादिना पूर्वप्रकृतस्य मूर्तामूर्तप्रपञ्चस्य ब्रह्मणो रूपत्वप्रतिषेधात् निष्प्रपञ्चं सन्मात्रमेव ब्रह्म, न पुनरुक्तस्वरूपमुभुयलिङ्गमित्याशङ्क्याह –

३३५। प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति भूय: – हीति हेतौ, द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च इत्यादिना स्थूलस्य सूक्ष्मस्य च प्रपञ्चस्य ब्रह्मणो रूपतया प्रमाणान्तराप्रज्ञातस्य अत्रैव रूपतयोपदिष्टस्य निषेधासंभवात् प्रकृतैतावत्त्वं हि ब्रह्मण: प्रतिषेधति, पूर्वप्रकृतैतावन्मात्रं न भवति ब्रह्मेति हि, अथात आदेशो नेति नेति इत्यत्र प्रतिपाद्यत इत्यर्थ:। ततो ब्रवीति च भूय: – तत: – पूर्वोक्ताद्भूयस्त्वं ब्रवीति च वाक्यशेष:, ह्येतस्मादिति नेत्यन्यत्परमस्ति, अथ नामधेयं सत्यस्य सत्यम् इति प्राणा वै सत्यं तेषामेष सत्यम् इति। नेति निर्दिष्टादेतस्माद्ब्रह्मणोऽन्यन्न ह्यस्ति । परब्रह्मणोऽन्यत्स्वरूपतो गुणतश्चोत्कृष्टं न ह्यस्तीत्यर्थ:। सत्यस्य सत्यम् इति ब्रह्मणो नामधेयम्। तस्य निर्वचनम् प्राणा वै सत्यं तेषामेष सत्यम् इति, प्राणसाहचर्याज्जीवात्मन: प्राणा:, ते हि वियदादिवदनुत्पाद्यत्वेन सत्यम्, तेभ्योऽप्येष सत्यम्। ते हि कर्मानुगुणदेहयोगेन जन्मवन्त: । तदप्यस्य नास्तीति तेषामेष सत्यम्, ज्ञानसङ्कोचविकासरूपविकारस्याप्यसंभवात्, अत: प्रमाणन्तराप्रज्ञातस्वरूपस्य ब्रह्मणो मूर्तामूर्तप्रपञ्चप्रकारतयोपदेशात्, पुनरपि प्रकारविशेषोपदेशात् च, अथात आदेशो नेति नेति इति पूर्वप्रकृतेयत्ता ब्रह्मण: प्रतिषिध्यत इत्यर्थ:॥२१॥

ननु च वस्तुत: प्रत्यक्षेण निर्विशेषसन्मात्रमेव गृह्यते। तदतिरिक्तं भ्रान्त्या प्रतीयमानं  सविशेषरूपमनूद्य, नेति नेति इति निषिध्यत इत्यत्राह –

३३६। तदव्यक्तमाह हि – ब्रह्मण: प्रमाणान्तराप्रज्ञाततां द्रढयति । तत् ब्रह्म न केनापि प्रमाणेन व्यक्तम्। तथा आह हि श्रुति: संदृशे तिष्ठति रूपमस्य, इत्यादिका॥२२॥

३३७। अपि संराधने प्रत्यक्षानुमानाभ्याम् – अपि च संराधन एवोपलभ्यते; संराधनं – सम्यक्प्रीतियुक्तं भजनम्, उपासनमिति यावत्। उपासनरूपतत्प्रीणनेन विना केनापि नोपलभ्यत इति श्रुतिस्मृतिभ्यामवगम्यते।  नायमात्मा प्रवचनेन लभ्यो मेधया बहुना श्रुतेन, यमेवैष वृणुते तेन लभ्य:, नाहं वेदैर्न तपसा दानेन चेज्यया भक्त्या त्वनन्यया शक्य: इति हि श्रुतिस्मृती। अत: केनापि प्रमाणेनानभिव्यक्तस्वरूपत्वाद्ब्रह्मण:, द्वे वाव ब्रह्मणो रूपे, इत्यादिना ब्रह्मण: प्रकारतयोपदिष्टं जगदैश्वर्यं, नेति नेति इति न निषिध्यते। किन्तु प्रकृतेयत्तामात्रं निषिध्यते॥२३॥

३३८।  प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् – इतश्च ज्ञानानन्दवज्जगदैश्वर्यमपि ब्रह्मणो रूपम्। येषां वामदेवादीनां संराधनरूपकर्मण्यभ्यासात्प्रकाशश्च सञ्जात: – दर्शनम् सञ्जातम्। तेषां दर्शने प्रकाशादिवत्। ज्ञानादेरिव जगदैश्वर्यस्याप्यवैशेष्यं प्रतीयते। तद्धैतत्पश्यन्नृषिर्वामदेव: प्रतिपेदे अहं मनुरभवं सूर्यश्च अहं कक्षीवान् इत्यादौ॥२४॥

३३९। अतोऽनन्तेन तथा हि लिङ्गम – अतोऽनन्तेन कल्याणगुणगणेन योगो ब्रह्मणस्सिद्धि:, तथा सत्युभयलिङ्गमेव ब्रह्म॥२५॥  इति उभयलिङ्गाधिकरणम्

३४०। उभयव्यपदेशात्त्वहिकुण्डलवत्द्वे वाव ब्रह्मणो रूपे, इत्यादिनोपदिष्टमचिद्वस्तुनो ब्रह्मरूपत्वं किं ब्रह्मस्वरूपस्यैवाचिद्रूपेणपरिणामाद्भवति, उत परस्मिन्ब्रह्मण्यचिद्वस्तुनि चैकजातियोगात्, अथ जीववद्ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनेति संशय:, भिन्नत्वाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथम: पक्ष:। तथा तु सति ब्रह्मणो निर्दोषत्वादिकं बाध्येतेत्येकजातियोगेनेति द्वितीय: पक्ष:। एवं सति आत्मैवेदं सर्वम्, ब्रह्मैवेदं सर्वम् इति ब्रह्मस्वरूपस्यैव सर्वशब्दवाच्यत्व- व्यपदेशबाधस्स्यात्, नह्येकैव गोव्यक्ति: खण्डो गौ:, मुण्डो गौ:, पूर्णशृङ्गो गौरित्यादिसर्वगोव्यक्तिवाचक-शब्दैरभिधीयते, अतो जीवस्येव ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनोऽपि ब्रह्मांशत्वमिति राद्धान्त:, सूत्रार्थस्तु — तुशब्दोऽवधारणे, अहे: कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैव अचिद्रूपेणावस्थानम्। कुत:? नानात्वैकत्वोभयव्यपदेशात्॥२६॥

३४१।  प्रकाशाश्रयवद्वा तेजस्त्वात् – वाशब्दोऽनन्तरोक्तव्यावृत्त्यर्थ: । यथाप्रकाशतदाश्रययो: तेजस्त्वेनैकजातियोगादभिन्नत्वं भिन्नत्वञ्च, एवमचिद्ब्रह्मणोरपि॥२७॥

३४२। पूर्ववद्वा – वाशब्द: पक्षद्वयव्यावृत्त्यर्थ: । पूर्ववत् – यथा पूर्वत्र, अंशो नाना व्यपदेशात, प्रकाशादिवत्तु नैवं पर:, इत्यभुयव्यपदेशोपपत्तये, ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुण-शरीरवत् पृथक्सिद्ध्यनर्हाविशेषणतया जीवस्य ब्रह्मांशत्वमुक्तम्, एवमचिद्वस्तुनोऽपि। अचिद्वाचिशब्देनापि अचिद्वस्तुविशिष्टं ब्रह्मैवाभिधेयमिति। आत्मैवेदं सर्वं, ब्रह्मैवेदं सर्वम् इत्यभेदव्यपदेशोपपत्ति:। विशेषणविशेष्ययोस्स्वरूपस्वभावभेदज्ञापनाय विशेषणविशे(ष्यौ)ष्ययो: निष्कृष्य भेदेन व्यपदेशश्चोपपद्यते, क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्य:, इति ब्रह्मणो निर्दोषत्वञ्च॥२८॥

३४३। प्रतिषेधाच्च वा एष महानज आत्माऽजरोऽमर:, नास्य जरयैतज्जीर्यति…. विजरो विमृत्यु:, इत्यादिभि: ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यभावेनैवांशांशिभाव इत्यर्थ:॥२९॥ इति अहिकुण्डलाधिकरणम्

३४४। परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्य: – यतो वा इमानि इत्यादिना जगज्जन्मादि-कारणतया निर्दिष्टात्परस्माद्ब्रह्मणोऽपि परं तत्त्वं किञ्चिदस्ति, नेति संशय:। इतोऽपि परमस्तीति पूर्व: पक्ष:। अथ आत्मा सेतु:, इत्यस्य सेतुत्वव्यपदेशात्, एतं सेतुं तीर्त्वा इत्यस्य तरितव्यत्वोपदेशाच्चातोऽन्यदप्यस्तीति गम्यते, चतुष्पाद्ब्रह्म, षोडशकलम् इति परिमितत्व-व्यपदेशाच्चापरिमितमन्यदस्तीति प्रतीयते, अमृतस्यैष सेतु: इति प्रापकत्वश्रुतेश्चानेन प्राप्यमन्यदस्तीति प्राप्यप्रापकरूपसंबन्धात्प्रतीयते, तथा, तेनेदं पूर्णं पुरुषेण सर्वम्, ततो यदुत्तरतरम्, इति पुरुषशब्दनिर्दिष्टाद्ब्रह्मण उत्तरतरत्वेन भेदव्यपदेशाच्चान्यत्परमस्ति। राद्धान्तस्तु – न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति नेति निर्दिष्टात् मूर्तामूर्तरूपाद्ब्रह्मणोऽन्यत्परं नास्तीति परतत्त्वनिषेधात् कारणात् ब्रह्मणोऽन्यत्परं नास्ति, सेतुत्वव्यपदेशस्तु एषां लोकानामसम्भेदाय इति सर्वलोकासङ्करकरत्वकृत:, एतं सेतुं तीर्त्वा इति तरतिरपि, वेदान्तं तरतीतिवत्प्राप्तिवचन:, चतुष्पाद्ब्रह्म, षोडशकलम् इत्युन्मानव्यपदेशोऽपि, वाक्पाद:, चक्षु: पाद:, इतिवदुपासनार्थ: संभवति चापरिमितस्यापि तत्तद्देशसंबन्धितयोन्मितत्वानुसन्धानम्, अमृतस्यैष सेतु: इति स्वस्यैवामृतस्य स्वयमेव प्रापकमुच्यते, यमेवैष वृणुते तेन लभ्य: इत्यादिश्रुते:, ततो यदुत्तरतरम् इत्यपि, तेनेदं पूर्णम् इति निर्दिष्टात्पुरुषादन्यस्य न परत्वमाह। अपि तु, तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था: विद्यतेऽयनाय, इति पूर्वप्रतिज्ञातं पुरुषवेदनस्यामृतत्वहेतुत्वमन्यस्य चापथत्वं सहेतुकमुपसंहरति। यस्मात्परं नापरमस्ति किञ्चित्, इत्यारभ्य, तेनेदं पूर्णं पुरुषेण सर्वम् इति पुरुषस्य सर्वस्मात्परत्वं ज्यायस्त्वमन्यस्य परत्वाभावं च प्रतिपाद्य, ततो हेतो: यदुत्तरतं पुरुषतत्त्वं तदेवारूपमनामयम् एतद्विदुरमृतास्ते भवन्ति, अथेतरे दु:खमेवापियन्ति इति पूर्वप्रतिज्ञातमेवोपसंहृतम्। परमत: जन्माद्यस्य यत: इत्यारभ्य, अतोऽनन्तेन तथा हि लिङ्गम् इत्यन्तेन प्रतिपादितान्निखिल-जगदेककारणात्सर्वान्तरात्मनो निरस्तनिखिलदोष गन्धानवधिकातिशय- अनन्तकल्यागुणाकरात् परस्माद्ब्रह्मण: परमपि किञ्चिदस्तीति कश्चिन्मन्यते, कुत:? सेतून्मानसंबन्धभेदव्यपदेशेभ्य:, व्याख्याताश्चैते॥३०॥

३४५। सामान्यात्तु – तुशब्द: पक्षं व्यावर्तयति। सेतुत्वव्यपदेशस्तावत् तस्मात्परं नावगमयति, सेतुसामान्यात् – सादृश्याज्जगद्विधृतिरूपात् ब्रह्मणस्तथाव्यपदेश इति श्रुतिरेव सेतुशब्दं व्याचष्टे- अथ आत्मा सेतुर्विधृतिरेषां लोकानामसंभेदाय इति, यद्यत्स्वभावा लोका: सृष्टास्तत्तत्स्वभावासङ्कराय सर्वान् लोकानयमेव सेतुवद्बिभर्तीति सेतुरित्यर्थ:॥३१॥

३४६। बुध्यर्थ: पादवत् – चतुष्पाद्ब्रह्म,  पादोऽस्य विश्वाभूतानि इत्युन्मानव्यपदेशस्तथाऽनु- सन्धानार्थ:, वाक्पाद:, चक्षु: पाद: इतिवत्॥३२॥

अपरिमितस्वरूपस्य अनुसन्धानार्थतयाऽपि कथं परिमितत्वमित्यत आह –

३४७। स्थानविशेषात्प्रकाशादिवत् – प्रतिपन्नवागादिस्थानविशेषसंबन्धात् तत्तत्स्थानसंबन्धित्वेनावच्छिद्य अनुसन्धानं युज्यते, यथा प्रकाशादेर्विततस्यापि वातायनघटादौ॥३३॥

३४८। उपपत्तेश्चअमृतस्यैष सेतु: इत्यमृतस्य स्वस्य स्वयमेव प्रापक इति सेतुत्वव्यपदेशोपपत्तेश्चान्यत्परमस्तीति कल्पनं न युज्यते, नायमात्मा प्रवचनेन लभ्यो मेधया बहुना श्रुतेन, यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनूं स्वाम् इति हि श्रूयते॥३४॥

३४९। तथाऽन्यप्रतिषेधात्तेनेदं पूर्णं पुरुषेण सर्वं, ततो यदुत्तरतरम् इति पुरुषादन्यस्य न परत्वमाह। तस्येशे कश्चन, ह्येतस्मादिति नेत्यन्यत्परमस्ति, यस्मात्परं नापरमस्ति किञ्चित् यस्मान्नाणीयो ज्यायोस्ति कश्चित्, यस्मादपरं नास्ति किञ्चिदित्यर्थ: । एवमादिषु पुरुषादन्यस्य परत्वप्रतिषेधात् । ततो यदुत्तरतरम् इति तु, यत: पुरुषतत्त्वमेवोत्तरतरम्; ततो हेतो: यदुत्तरतरं पुरुषतत्त्वम्, तदेवारूपमनामयमित्यादिना व्याख्यातम्। एतद्विदुरमृतास्ते भवन्ति इति, तमेव विदित्वाऽतिमृत्युमेति नान्य: पन्था विद्यतेऽयनाय इति प्रतिज्ञातमेवोपसंहृतम् । तस्येशे कश्चन तस्य नाम महद्यश:, इति च पुरुषतत्त्वमेव वदति। अनन्तरम्, अद्भ्यस्सम्भूतो हिरण्यगर्भ इत्यष्टौ, इति पुरुषतत्त्ववाचिनैकवाक्यत्वावगमात्; अम्भस्य पारे, यमन्तस्समुद्रे कवयोऽवयन्ति, इति च प्रक्रमात्॥३५॥

३५०। अनेन सर्वगतत्वमायामशब्दादिभ्य: – अनेन – ब्रह्मणा सर्वस्य व्याप्तत्वं, तेनेदं पूर्णं पुरुषेण सर्वम्, अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण: स्थित:, नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनिं परिपश्यन्ति धीरा:, इत्यायामशब्देभ्य: सर्वव्याप्तिवाचिशब्देभ्योऽवगम्यते। एवमवगम्यमानमेतस्मात्परं वारयतीत्यर्थ: । आदिशब्दात्, आत्मैवेदं सर्वम् इत्यादयो गृह्यन्ते। अत:, यतो वा इमानि इत्यादिनाऽवगतजगन्निमित्तोपादानकारणाद्ब्रह्मणोऽन्यत्परं न विद्यते॥३६॥ इति पराधिकरणम्॥

३५१। फलमत उपपत्ते: – किं वेदोदितं यागदानहोमादिकमुपासनाख्यं च, यजेत, उपासीत इति कामिनो मुमुक्षोश्च कर्तव्यतया श्रूयमाणं कर्मैव अपूर्वद्वारेण भोगापवर्गरूपफलदम्, उत तत्तदाराधनै: प्रीत: परमपुरुष एव फलद इति संशय:, कर्मैवेति पूर्व: पक्ष:, लोके मर्दनादे: कृष्यादेश्च कर्मण एव साक्षात्परम्परया वा फलप्रदत्वदर्शनात्, वेदे च, यजेत स्वर्गकाम:, आत्मानमेव लोकमुपासीत, इति कामिनो मुमुक्षोश्च कर्तव्यतया श्रूयमाणं कर्म तत्तत्फलसाधनतयाऽवगतं क्षणिकमप्यपूर्वद्वारेण भोगापवर्गरूपसर्वफलप्रदम्, राद्धान्तस्तु – कर्तव्यतयाऽवगतस्य यागादेरुपासनस्य च , यज देवपूजायाम इत्यादिनाऽवगतधात्वर्थस्वाभाव्यात्, वायुमेव स्वेन भागधेयेनोपधावति एवैनं भूतिं गमयति, इति वाक्यशेषाच्च, इष्टापूर्तं बहुधा जातं जायमानं विश्वं बिभर्ति भुवनस्य नाभि:, तदेवाग्निः तद्वायुस्तत्सूर्यस्तदु चन्द्रमा:, तया श्रद्धया युक्तस्तस्याराधनमीहत, लभते तत: कामान्मयैव विहितान्हि तान्, अहं हि सर्वयज्ञानां भोक्ता प्रभुरेव , स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानव:, तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम्, इत्यादिश्रुतिस्मृतिभ्यश्च, परमपुरुष एव कर्मभिरुपासनेन चाराधितो भोगापवर्गरूपफलप्रद:, लोके च कृष्यादिकर्मभिस्सस्यादिकमुत्पाद्य, तेन भृत्यद्वारेण साक्षाद्वा राजानमभ्यर्च्य, तत एवापेक्षितानि लभन्ते। अत: परमपुरुष एव फलप्रद:।

सूत्रार्थस्तु – फलमत उपपत्ते:, अत: – परस्मादब्रह्मण एव कर्मभिरुपासनेन चाराधितात् भोगापवर्गरूपफलम्, कुत:? उपपत्ते: – कर्म हि क्षणध्वंसि न कालान्तरभाविफलायालम् । स हि सर्वज्ञस्सर्वशक्ति: परमकारुणिको महोदार: अनादिरनन्तश्च सर्वेश्वर: स्वाराधनरूपेण कर्मणा आराधित: फलप्रद इत्युपपद्यते॥३७॥

३५२। श्रुतत्वाच्च वा एष महानज आत्मा अन्नादो वसुदान:, एष ह्येवानन्दयाति, इति भोगापवर्गरूपं फलमयमेव ददातीति हि श्रूयते॥३८॥

३५३।धर्मं जैमिनिरत एव – यागदिकमुपासनात्मकं च धर्ममेव फलप्रदं जैमिनिराचार्यो मन्यते। अत एव – उपपत्तेश्श्रुतत्वाच्चेत्यर्थ:, लोके कृष्यादेर्मर्दनादेश्च कर्मण एव साक्षात्परम्परया वा फलदायित्वदर्शनात् वेदेऽपि तथैव युक्तमित्युपपत्ति:, उपपद्यते चापूर्वद्वारेण साधनत्वम्, यजेत स्वर्गकाम:, ब्रह्मविदाप्नोति परम् इति कामिन: कर्तव्यतया कर्मविधानान्यथानुपपत्त्या कर्मैवापूर्वद्वारेण फलसाधनमित्यवगम्यते॥३९॥

३५४। पूर्वं तु बादरायणो हेतुव्यपदेशात् – तु शब्द: पक्षव्यावृत्त्यर्थ:, पूर्वोक्तं परमपुरुषस्यैव फलप्रदत्वं भगवान् बादरायणो मन्यते, कुत:? हेतुव्यपदेशात्, वायुमेव स्वेन भागधेयेनोपधावति एवैनं भूतिं गमयति, इति वाय्वाद्यात्मना अवस्थितस्य परमपुरुष स्यैवफलप्रदत्वव्यपदेशात्, यो वायौ तिष्ठन् इति च वाय्वाद्यात्मना स एव व्यवस्थितश्श्रूयते, तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमा:, इति च। तत्परित्यागेनापूर्वस्य फलसाधनत्वकल्पने श्रुतहानमश्रुतकल्पनं च, विध्यपेक्षितफलसाधनत्वप्रकारे वाक्यशेषेणावगते सति न फलसाधनत्वप्रकार कल्पनं न्याय्यम् । यथैव हि रात्रिसत्रादिष्वधिकारी न कल्प्यत इत्यर्थ: ॥४० इति फलाधिकरणम्

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे तृतीयस्याध्यायस्य द्वितीय पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.