वेदान्तदीप: Ady 03 Pada 01

वेदान्तदीप:

॥अथ तृतीयाध्यायस्य प्रथम पाद:

२८८। तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त: प्रश्ननिरूपणाभ्याम – देही देहान्तरगमने देहकारणभूतैर्भूतसूक्ष्मैस्संयुक्तो गच्छति, नेति संशय:, न संयुक्तो गच्छतीति पूर्व: पक्ष:, देहारम्भाय तत्र तत्र भूतसूक्ष्माणां सुलभत्वात्, राद्धान्तस्तु – पञ्चाग्निविद्यायां, वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति प्रश्नप्रतिवचने आम्नायेते। देहारम्भिका आपस्त्रिवृत्करणेन भूतान्तरसंसृष्टा: द्युलोकपर्जन्यपृथिवीपुरुषरूपाग्निषु जीवेन सह प्रविष्टा: पञ्चम्यामाहुतौ योषिदग्निप्रवेशवेलायां पुरुषशब्दाभिलपनीया भवन्तीति प्रतीयते, पुरुषाकारतां भजन्त इत्यर्थ:, अतो भूतसूक्ष्मैस्संपरिष्वक्त एव गच्छतीति, सूत्रार्थस्तु – तदन्तरप्रतिपत्तौ – संज्ञामूर्ति- MKप्तिरित्यत्रमूर्तिशब्देन देह: प्रस्तुतस्तच्छब्देन परामृश्यते, देहान्तरप्रतिपत्तौ।  रंहति संपरिष्वक्त: — जीवो भूतसूक्ष्मैस्संपरिष्वक्तो गच्छति, कुत: प्रश्ननिरूपणाभ्यां – पञ्चाग्निविद्यान्तर्गतप्रश्नप्रतिवचनाभ्यां तथाऽवगम्यत इत्यर्थ:॥१॥

कथमविशेषेणाप्शब्देन सर्वेषामभिधानमित्याशङ्क्याह —

२८९। त्र्यात्मकत्वात्तु भूयस्त्वात् – तु शब्दश्शङ्कानिवृत्त्यर्थ:, अपां त्रिवृत्करणेन त्र्यात्मकत्वादाप इति भूतान्तरसंसृष्टा आपोऽभिधीयन्ते। अपां भूयस्त्वात् – आधिक्यादप्छब्देनाभिधानम्॥२॥

२९०। प्राणगतेश्च – इतश्च भूतसूक्ष्मैस्संयुक्तो याति, तमुत्क्रामन्तं प्राणोऽनूत्क्रामति प्राणामनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति, इति प्राणानाम् – इन्द्रियाणां जीवेन सह गमनश्रुते: इन्द्रियाणां देहाश्रयत्वेन देहोऽपि भूतसूक्ष्मरूपेण गच्छतीति गम्यते, स्मर्यते च, मनष्षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति इत्यादिना॥३॥

२९१। अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं इति मरणवेलायां वागादीनामग्न्यादिष्वप्ययश्रुतेर्जीवेन सह गमनश्रुतिरन्यथा नेयेति चे(त्त)न्न, भाक्तत्वात् – तत्र वागादिशब्दानाम्, वागाद्यभिमानिदेवतासु हि तत्र वागादयश्शब्दा:, ओषधीर्लोमानि वनस्पतीन्केशा इत्यनपियद्भिर्लोमादिभिस्सह पाठात्॥४॥

२९२। प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्ते: – प्रथमे – द्युलोकाग्निहोमे अपामश्रवणात् आपो भूतान्तरसंसृष्टा गच्छन्तीति वक्तुं न शक्यते, तत्र हि, तस्मिन्नेतस्मिन्नग्नौ देवाश्श्रद्धां जुह्वति इति श्रद्धैव होम्यत्वेन श्रूयत इति चेन्न, ता: – आप एव हि श्रद्धाशब्देनोच्यन्ते प्रतिवचनस्य प्रश्नानुगुण्योपपत्ते:, वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इत्यपां पुरुषवचस्त्वप्रकारे पृष्टे स एव हि प्रतिवक्तव्य:। अतश्श्रद्धाशब्देन ता आप एवोच्यन्ते, श्रद्धा वा आप: इति श्रूयते॥५॥

२९३। अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीते: – आप: पुरुषवचसो भवन्ति। श्रद्धां जुह्वतीति द्युलोकादिष्वाप एव हि गच्छन्तीति श्रूयते न तत्परिष्वक्तो जीव:। अत: प्रश्नप्रतिवचनयो: जीवस्याश्रुतत्वात्तत्परिष्वक्तो जीवो गच्छतीति न शक्यते वक्तुमिति चेत्, तन्न, इष्टादिकारिणां प्रतीते: – उत्तरत्र, अथ इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति, इत्यादौ इष्टादिकारिणां जीवानां द्युलोकादिगमनपुनरावृत्तिप्रकारवचने द्युलोकाग्निसम्बन्धस्याप्छब्द-वाच्यस्य सोममापन्नस्य प्रत्यभिज्ञानादत्राप इति तत्संयुक्तो जीव एवोच्यते॥६॥

आकाशाच्चन्द्रमसमेष सोमो राजा तद्देवानामन्नं तं देवा भक्षयन्ति इति धूमादिना गतस्य देवैर्भक्ष्यमाणत्वश्रवणात्, जीवस्याद्मनदनीयत्वाच्च न जीवस्तत्रोक्त इत्याशङ्क्याह –

२९४। भाक्तं वाऽनात्मवित्त्वात्तथा हि दर्शयतिवा शब्दश्शङ्काव्यावृत्त्यर्थ: – तं देवा भक्षयन्ति इति भक्ष्यत्ववचनं भाक्तम् – केवलेष्टादिकारिणामनात्मवित्त्वाद्देवोपकरणत्वाभिप्रायम्, अनात्मविद: केवलेन्द्रादिदेवयाजिनो हि देवान्प्राप्य तदुपकरणं भवन्ति, तथा हि दर्शयति श्रुति:, यथा पशुरेवं देवानां इति, अतो भूतसूक्ष्मैस्संपरिष्वक्तो जीवो रंहति॥७॥ इति तदन्तरप्रतिपत्त्यधिकरणम्॥

२९५। कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवं – धूमादिना गतो निवर्तमानो जीव: सानुशयो निवर्तते, उत नेति संशय:। नेति पूर्व: पक्ष:। अनुशयो हि भुक्तशिष्टं कर्म। याव त्संपातमुषित्वा, प्राप्यान्तं कर्मण: इत्यादिश्रुतिभ्य: कृत्स्नस्य कर्मणोऽनुभूतताप्रतीते: नानुशयवान्निवर्तते, राद्धान्तस्तु – तद्य इह रमणीयचरणा अभ्याशो यत्ते रमणीयां योनिमापद्येरन्, ब्राह्मणयोनिं क्षत्रिययोनिं वैश्ययोनिं वा, अथ इह कपूयचरणा अभ्याशो यत्ते कपूयां योनिमापद्येरन्, श्वयोनिं सूकरयोनिं वा चण्डालयोनिं वा इति रमणीयचरणा ब्राह्मणादियोनिं, कपूयचरणा: – कुत्सितकर्मण: श्वसूकरादियोनिं प्रतिपद्यन्त इति श्रुते:, प्राप्यान्तं कर्मण इत्यादिश्रुति: फलप्रदानप्रवृत्तकर्मविषयेति सानुशयो निवर्तते, सूत्रार्थस्तु – कृतात्यये – कृतस्य पूर्वकर्मणोऽत्यये, अनुशय: भुक्तशिष्टकर्म, तद्वान्निवर्तते। कुत:? दृष्टस्मृतिभ्याम् – श्रुतिस्मृतिभ्यामवगम्यते, तद्य इह रमणीयचरणा: इत्यादिश्रुति:, तत: परिवृत्तौ कर्मफलशेषेण जातिं रूपम् इत्यादिका स्मृति:, यथेतमनेवं च – आरोहणप्रकारेण प्रकारान्तरेण च निवर्तन्ते, चन्द्रमसस्थानादाकाशमित्यारोहणक्रमेण अवरोहन्ति, वायुधूमाभ्रादिना प्रकारान्तरेण च॥८॥

२९६।  चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनि: – रमणीयाचरणा इति रमणीयाचारस्य स्मृतिविहितस्य ब्राह्मण्यादिप्राप्तिसाधनत्वश्रवणात् न सकर्मा प्रत्यवरोहतीति चेत्। तन्न, चरणश्रुति: कर्मोपलक्षणार्थेति कार्ष्णाजिनिः आचार्यो मन्यते, पुण्यस्यैव कर्मणस्सुखप्राप्ति-साधनत्वात्॥९॥

२९७।  आनर्थक्यमिति चेन्न तदपेक्षत्वात् – स्मृतिविहितस्याचारस्याकिञ्चित्करत्वेनानर्थक्यं प्रसज्यत इति चेत्, न, तदपेक्षत्वात् – आचारापेक्षत्वात्सुखसाधनभूतपुण्यकर्मण:। सन्ध्याहीनोऽशुचिर्नित्यमनर्हास्सर्वकर्मसु इति सर्वं हि पुण्यकर्माचारापेक्षमेवेति कार्ष्णाजिनेर्मतम्॥१०॥

२९८। सुकृतदुष्कृते एवेति तु बादरि: – तुशब्द: पूर्वमतव्यावृत्त्यर्थ:, रमणीयचरणा: कपूयचरणा:, इति चरणशब्देन सुकृतदुष्कृते एव कर्मणी प्रतिपाद्येते। पुण्यं कर्माचरतीति चरते: कर्मणि प्रसिद्धे:, न लक्षणा न्याय्येति बादरिर्मन्यते, इदमेव सूत्रकाराभिप्रेतम्, तुशब्देन, पूर्वमताद्व्यावृत्ते: सुकृतदुष्कृते एव इति व्यावर्तनात्, आनर्थक्यमिति चेन्न तदपेक्षत्वात् इति तु स्वीकृतम्॥११॥  इति कृतात्ययाधिकरणम्

२९९। अनिष्टादिकारिणामपि श्रुतम् – विहिताकरणप्रतिषिद्धसेवारता:, पापकर्माणोऽपि धूमादिना चन्द्रमसं गत्वा निवर्तन्ते, उत नेति संशय:, गत्वैव निवर्तन्त इति पूर्व: पक्ष:, ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ति इति सर्वेषामविशेषेण चन्द्रगमनश्रुते:, राद्धान्तस्तु – अथ इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इति धूमादिना चन्द्रगमनस्य पुण्यकर्मफलत्वश्रवणात्तद्रहिता: पापकर्माणो न गच्छन्तीति। ये वै के इति वचनं सर्वेषां पुण्यकर्मणां चन्द्रगमनविषयम्। सूत्रार्थस्तु – अनिष्टादिकारिणामपि च श्रुतम्, अनिष्टादिकारिणामपि – इष्टापूर्ताद्यकुर्वतां पापिनामपि चन्द्रगमनमस्ति, ये वै के चास्माल्लोकात्प्रयन्ति इति योऽविशेषेण श्रुतम्॥१२॥

३००। संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात – इयांस्तु विशेष:। संयमने – यमशासने पापफलमनुभूय, इतरेषां – पापिनां चन्द्रारोहावरोहौ। कुत:? तद्गतिदर्शनात् – पापिनां यमसदनगतिदर्शनात्, वैवस्वतं सङ्गमनं जनानाम् इत्यादौ॥१३॥

३०१। स्मरन्ति – सर्वे चैते वशं यान्ति यमस्य भगवन्किल, इति पराशरादयस्स्मरन्ति च॥१४॥

३०२। अपि सप्त – सप्तापि – पापकर्मणां गन्तव्यत्वेन सप्तापि रौरवादि नरकान् स्मरन्ति॥१५॥

ननु सप्तसु लोकेषु गच्छतां कथं यमसदनप्राप्ति:? तत्राह।

३०३। तत्रापि तद्व्यापारादविरोध: – सप्तस्वपि रौरवादिलोकेषु यमव्यापारादेव गमनाद्यमवश्यताया अविरोध:, अत: पापिनां यमयातना अनुभूय चन्द्रारोहावरोहाववर्जनीयौ॥१६॥

इति प्राप्त उच्यते-

३०४। विद्याकर्मणोरिति तु प्रकृतत्वात् – तु शब्द: पक्षव्यावृत्यर्थ:, न च पापकर्मणामर्चिरादिना ब्रह्मगमनं, धूमादिना चन्द्रगमनं च संभवति, तयोर्विद्याकर्मणो: फलत्वात्, कथमिदमवगम्यते तत्फलत्वम्? इति प्रकृतत्वात्, इत्थं प्रकृतत्वात्, विद्याकर्मणी हि प्रकृत्य तत्फलत्वेन गतिद्वयं प्रतिपाद्यते, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति  इति। अथ इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इति च, पापिनां विद्यारहितत्वेन ब्रह्मगमनाभाववत् पुण्यकर्मरहितत्वेन चन्द्रगमनमपि न संभवतीत्यर्थ:॥१७॥

पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति इति पञ्चमाहुत्या देहारम्भश्रवणात् तस्याश्चन्द्र-गमनपूर्वकत्वेन पापिनामपि देहारम्भाय चन्द्रगमनमवश्यं भावीत्यत आह-

३०५। तृतीये तथोपलब्धे: – केवलपापकर्माण:, तृतीयस्थानम्। न तृतीये स्थाने देहारम्भाय पञ्चमाहुत्यपेक्षाऽस्ति, तथोपलब्धे:, वेत्थ यथा केनासौ लोको संपूर्यते, इति द्युलोकस्याप्राप्ता क इति प्रश्नस्य प्रतिवचने, अथैतयो: पथोर्न कतरेण तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेत्येतत्तृतीयं स्थानं तेनासौ लोको संपूर्यत इति तृतीयस्य स्थानस्य द्युलोकाप्राप्तिश्रवणात्तस्य देहारम्भे पञ्चमाहुत्यनपेक्षत्वं ह्युपलभ्यते॥१८॥

३०६। स्मर्यतेऽपि लोके – पुण्यकर्मणामपि केषांचिद्द्रौपद्यादीनां देहारम्भे पञ्चमाहुत्यन- पेक्षत्वं तस्य शिष्टलोकेऽपि च स्मर्यते॥१९॥

३०७। दर्शनाच्च – श्रुतावपि दृश्यते केषाञ्चिद्देहारम्भे पञ्चमाहुत्यनपेक्षत्वं, तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जं इति स्वेदजोद्भिज्जयोर्देहारम्भे पञ्चमाहुत्यनपेक्षत्वम्॥२०॥

आण्डजं जीवमुद्भिज्जमित्यत्र स्वेदजस्य ग्रहणं न दृश्यत इत्याशङ्क्याह –

३०८।  तृतीयशब्दावरोध: संशोकजस्य – आण्डजं जीवजमुद्भिज्जमित्यत्र तृतीयेनोद्भिज्जशब्देन संशोकजस्य स्वेदजस्यावरोध: – संग्रह इत्यर्थ:। अत: केवलपापकर्मणां चन्द्रारोहावरोहौ न संभवत:  ॥२१॥ इति अनिष्टादिकार्यधिकरणम्

३०९। तत्स्वाभाव्यापत्तिरुपपत्ते: – धूमादिना चन्द्रमसं प्राप्तस्य प्रत्यवरोहप्रकार आम्नायते। यथेतं आकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवति अभ्रं भूत्वा मेधो भवति मेघो भूत्वा प्रवर्षति इति । अत्राकाशादिभाव:, किं देवमनुष्यादिभाववदाकाशादिशरीरत्वम्, उत तत्सादृश्यापत्तिरेवेति संशय:, आकाशादिशरीरत्वमिति पूर्व: पक्ष:, श्रद्धावस्थस्य सोमराजभाववत्। तत्र हि तच्छरीरत्वमेवोच्यते, राद्धान्तस्तु – आकाशादिप्राप्तौ सुखदु:खानुभवाभावात् तत्सादृश्यापत्तिरेव, सुखदु:खानुभवाय हि सोमादिशरीरत्वम्, सूत्रार्थस्तु — तत्स्वाभाव्यापत्ति:  आकाशादिसादृश्यापत्ति:। उपपत्ते: – सुखदु:खानुभवाभावोपपत्ते:॥२२॥ इति तत्स्वाभाव्यापत्त्यधिकरणम्

३१०। नातिचिरेण विशेषात् – आकाशवायुधूमाभ्रमेघवर्षप्राप्तौ किं तत्र तत्र नातिचिरं तिष्ठति, उतानियम इति संशय:, अनियम इति पूर्व: पक्ष:, नातिचिरेणेति विशेषवचनाभावात्, राद्धान्तस्तु – उत्तरत्र व्रीह्यादिभावे, अतो वै खलु दुर्निष्प्रपतरम् इति विशिष्य चिरेण गमनवचनं तत: प्राचीनेष्वचिरगमनं द्योतयतीत्याकाशादि यावद्व्रीह्यादिभावप्राप्ति नातिचिरं तिष्ठतीति, सूत्रमपि व्याख्यातम् ॥२३॥ इति नातिचिराधिकरणम्

३११।  अन्याधिष्ठिते पूर्ववदभिलापात् – अवरोहन्तो जीवा: व्रीह्यादिभावेन जायन्त इति श्रूयते मेघो भूत्वा प्रवर्षति, इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते इति। ते किं व्रीह्यादिशरीरा जायन्ते, उतान्यै: क्षेत्रज्ञैर्व्रीह्यादिशरीरैरधिष्ठितान्व्रीह्यादीनाश्लिष्यन्तीति संशय:। जायन्त इति वचनाद्व्रीह्यादिशरीरभोक्तारो जायन्त एवेति पूर्व: पक्ष:। राद्धान्तस्तु  व्रीह्यादिजन्महेतुभूतकर्मविशेषाश्रवणाद्व्रीह्यादिसंश्लेषमात्रमेव। जायन्त इति जन्मवचनं औपचारिकम्, ब्राह्मणादिशरीरभावे हि, रमणीयचरणा: कपूयचरणा: इति जन्महेतुभूतं पुण्यपापरूपं कर्म श्रूयते, सूत्रार्थस्तु – अन्याधिष्ठिते  – अन्यक्षेत्रज्ञाधिष्ठिते व्रीह्यादौ संश्लेषमात्रम्, कुत:? पूर्ववदभिलापात् – आकाशादिभाववत्केवलव्रीह्यादि-भावाभिलापात्। जन्महेतुभूतकर्मानभिलापात् इत्यर्थ:॥२४॥

३१२। अशुद्धमिति चेन्न शब्दात् – यद्यपि व्रीह्यादिभावेन जायन्त इत्यत्र जन्महेतुभूतं कर्म न श्रुतम्, तथापि पूर्वश्रुतमिष्टादिकर्माग्नीषोमीयादिहिंसागर्भत्वेनाशुद्धम् –  हिंसात्वेनाशुचि व्रीह्यादिजन्मनोऽपि हेतुर्भवतीति चेत्; न, अहिंसात्वशब्दात् — पशोर्हि संज्ञपनस्य स्वर्गावाप्तिसाधनभाववादिशब्द: श्रूयते – हिरण्यशरीर ऊर्ध्वस्स्वर्गं लोकमेति, वा एतन्म्रियसे रिष्यसि इत्यादि:॥२५॥

३१३।  रेतस्सिग्योगोऽथ – इतश्च व्रीह्यादिसंश्लेषमात्रम्, व्रीह्यादिभावानन्तरं रेतस्सिग्योगश्श्रूयते, यो यो ह्यन्नमत्ति यो रेतस्सिञ्चति तद्भूय एव भवति इति, अत्र हि पुरुषसंश्लेषमात्रमेव श्रुतम्: एवमेव व्रीह्यादिभावेऽपीत्यर्थ:॥२६॥

३१४। योनेश्शरीरम् – योनिप्राप्ते: पश्चादेवावरोहतो जीवस्य शरीरप्राप्ति:, तत्रैव सुखदु:खोपभोगात्, तत: प्रागाकाशादिषु तत्तत्संश्लेषमात्रमेवेत्यभिप्राय:॥२७॥ इति अन्याधिष्ठिताधिकरणम्॥

इति श्री भगवद्रामानुजविरचिते श्री वेदान्तदीपे तृतीयाध्यायस्य प्रथम: पाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.