वेदान्तदीप: Ady 01 Pada 03

श्रीभगवद्रामानुजविरचित

वेदान्तदीप:

प्रथमाध्याये तृतीय: पाद:

१।३।१

६६  द्युभ्याद्यायतनं स्वशब्दात्आथर्वणे यस्मिन् द्यौ: पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतु: इत्यत्र द्युपृथिव्यादीनामायतनं किं जीव:, उत परमात्मेति संशय:। जीव इति पूर्व: पक्ष:, मन: प्रभृतीन्द्रियाधारत्वश्रुते:, उत्तरत्र नाडीसंबन्धात्, जायमानत्वश्रुतेश्च। राद्धान्तस्तु निरुपाधिकात्मत्वामृतसेतुत्वयो: परमात्मधर्मयो: श्रवणात्परमात्मैवायम्।  सर्वं नियन्तृतया आप्नोतीति ह्यात्मा।  अमृतस्य प्रापकतया सेतुश्च स एव।  नाडीसंबन्ध:, बहुधाजायमानत्वञ्च।  सन्ततं सिराभिस्तु लम्बत्याकोशसन्निभम्, अजायमानो बहुधा विजायते इत्यादिषु  सर्वसमाश्रयणीयत्वाय अजहत्स्वभावस्यैव परमात्मनोऽपि दृश्यत इति।  सूत्रार्थस्तुद्युपृथिव्यादीनामायतनं परमात्मा, स्वशब्दात्॥१॥

६७।  मुक्तोपसृप्यव्यपदेशाच्चतदा विद्वान्पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति। तथा विद्वान्नामरूपाद्विमुक्त: परात्परं पुरुषमुपैति दिव्यम् इति च बन्धान्मुक्तस्य प्राप्यतया व्यपदेशाच्चायं परमात्मा॥२॥

६८। नानुमानमतच्छब्दात्प्राणभृच्च आनुमानम्अनुमानगम्यं प्रधानम्।  यथा तद्वाचिशब्दाभावात् तदिह न गृह्यते। तथा प्राणभृदपीत्यर्थ:  अतश्चायं परमात्मा। ।३॥

६९।  भेदव्यपदेशात्अनीशया शोचति मुह्यमान:। जुष्टं यदा पश्यत्यन्यमीशम् इत्यादिना जीवाद्भेदेन व्यपदेशाच्चायं परमात्मा॥४॥

७०।  प्रकरणात्अथ परा यया तदक्षरमधिगम्यत इत्यादिना परमात्मन एव प्रकृतत्वात्॥५॥

७१।  स्थित्यदनाभ्यां च तयोरन्य: पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति  इति कर्मफलमनश्नत: परमात्मनो दीप्यमानतया स्थिते:, जीवस्य कर्मपरवशतया तत्फलादनाच्च परमात्मनो जीवात् भेदावगमात् अमृतसेतुर्द्युभ्वाद्यायतनं न जीव:  अदृश्यत्वादिगुणक इत्यनेन परमात्मत्वे स्थापितेऽपि, नाडीसंबन्धबहुधाजायमानत्वलिङ्गात्, याऽवान्तरप्रकरणविच्छेदाशङ्का, सा निराकृताद्युभ्वाद्यायतनमिति। वैश्वानरस्य त्रैलोक्यशरीरत्वादिना परमात्मत्वनिर्णय इति मध्ये वैश्वानरविद्या निरूपिता॥६॥ इति द्युभ्वाद्यधिकरणम्॥ १ ॥

 

 

७२। भूमा संप्रसादादध्युपदेशात् छान्दोग्ये यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इत्यत्र भूमशब्दनिर्दिष्टो निरतिशयवैपुल्यविशिष्टसुखस्वरूप: किं प्रत्यगात्मा, उत परमात्मेति संशय:। प्रत्यगात्मेति पूर्व: पक्ष:। तरति शोकमात्मवित् इति प्रक्रम्य नामादिपरम्परयोत्तरोत्तरभूयस्त्वेन प्रश्नप्रतिवचनाभ्यां प्रवृत्तस्यात्मोपदेशस्य प्राणशब्दनिर्दिष्टे प्रत्यगात्मनि समाप्तिदर्शनात्, प्रत्यगात्मन एव भूमसंशब्दनमिति निश्चीयते। राद्धान्तस्तुयद्यपि प्रश्नप्रतिवचनाभ्यामुत्तरोत्तरभूयस्त्ववचनं प्राणे पर्यवस्थितम्; तथापि प्राणवेदिनोऽतिवादित्वमुक्त्वाएष तु वा अतिवदति यस्सत्येनादिवदति इति तु शब्देनोपासकभेदं प्रतिपाद्य, तस्य सत्योपासकस्य पूर्वस्मादाधिक्योपदेशात्, सत्यशब्दाभिधेयं परं ब्रह्मैव भूमविशिष्टमिति। सूत्रार्थस्तु भूमगुणविशिष्टं परं ब्रह्मैव, संप्रसादादध्युपदेशात्संप्रसाद: – प्रत्यगात्मा, एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य इत्याद्युपनिषत्प्रसिद्धे:। एष तु वा अतिवदति इति प्रत्यगात्मनोऽधिकतयोपदेशात्। अतिवादित्वं हि स्वोपास्याधिक्य-वादित्वम्॥७॥

७३। धर्मोपपत्तेश्च स्वाभाविकामृतत्वस्वमहिमप्रतिष्ठितत्वसर्वात्मत्वसर्वोत्पत्तिहेतुत्वा-दीनां भूम्नि श्रूयमाणानां धर्माणां परस्मिन्नेव ब्रह्मण्युपपत्तेश्च भूमा परं ब्रह्मैव॥८॥ इति भूमाधिकरणम् ॥२॥

७४। अक्षरमम्बरान्तधृते:वाजिनां गार्गिप्रश्ने। स होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायम् इत्यत्राक्षरशब्दनिर्दिष्टं प्रधानम्? जीवो वा? उत परमात्मा? इति संशय:। प्रधानं, जीवो वा, न परमात्मेति पूर्व: पक्ष:। कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्युक्ते आकाशाधारतयोच्यमानमक्षरं प्रधानम्, जीवो वा, प्रधानस्य विकाराधारत्वाज्जीवस्याचिद्वस्त्वाधारत्वात् न परमात्मेति। राद्धन्तस्तुयदूर्ध्वं गार्गि दिव इत्यारभ्य, कालत्रयवर्तिन: कृत्स्नस्याधारतया निर्दिष्ट आकाशोऽव्याकृतमेव, न वायुमानाकाश:। तत: पश्चात्  कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इति पृष्टे तदाधारतयोच्यमानमेतदक्षरं न प्रधानं भवितुमर्हाति। नापि जीव:। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्यारभ्य प्रशासनात्सर्वाधारत्वश्रुते:। सूत्रार्थस्तुएतद्वै तदक्षरं गार्गि इति निर्दिष्टमक्षरं परमात्मा, अम्बरान्तधृते: – अम्बरंवायुमानाकाश:, अम्बरान्त:- अम्बरपारभूतम्, अम्बरकारणमितियावत्; कारणापत्तिरेव हि कार्यस्यान्त:। स चाम्बरान्त: अव्याकृतं प्रधानम्, तस्य धृते: – धारणात्।  अव्याकृतस्यापि धृतेरक्षरं परमात्मैवेत्यर्थ:॥९॥

एवं तर्हि जीवो भवितुमर्हाति, तस्य प्रधानधृत्युपपत्तेरित्याशङ्क्याह

७५।  सा च प्रशासनात् सा च  अम्बरान्तधृति:। एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ इति प्रशासनाच्छ्रूयते। प्रशासनम्प्रकृष्टं शासनम्, अप्रतिहताज्ञा।  न चाप्रतिहताज्ञया कृत्स्नस्य चिदचिदात्मकस्य जगतो धृतिर्जीवे उपपद्यते; अतो न जीव:॥१०॥

७६।  अन्यभावव्यावृत्तेश्चअन्यभाव: – अन्यत्वम्। अस्याक्षरस्य परमपुरुषादन्यत्वं व्यावर्तयति वाक्यशेष:, । अदृष्टं द्रष्टृ इत्यादिना सर्वैरदृष्टमेतदक्षरं सर्वस्य द्रष्ट्रित्यादि प्रधानजीवासंभावनीयार्थप्रतिपादनात्॥११॥  इति अक्षराधिकरणम् ॥ ३ ॥

 

७७।  ईक्षतिकर्मव्यपदेशात्स:आथर्वणिकानां सत्यकामप्रश्ने य: पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत इत्यारभ्य। स सामभिरुन्नीयते ब्रह्मलोकं, स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षत इत्यत्र, ध्यायतीक्षतिकर्मतया व्यपदिष्ट: परमपुरुष: किं हिरण्यगर्भ:, उत परब्रह्मभूत: पुरुषोत्तम इति संशय:  हिरण्यगर्भ इति पूर्व: पक्ष:। पूर्वत्रैकमात्रं प्रणवमुपासीनस्य मनुष्यलोकप्राप्तिं फलं, द्विमात्रमुपासीनस्यान्तरिक्षलोकप्राप्तिं च फलमभिधायानन्तरं य: पुनरेतं त्रिमात्रेण इति त्रिमात्रं प्रणवमुपासीनस्य फलत्वेनोच्यमानब्रह्मलोकस्थपुरुषेक्षणकर्मभूतश्चतुर्मुख एवेति विज्ञायते, मनुष्यलोकान्तरिक्षलोकसाहचर्यात् ब्रह्मलोकोऽपि क्षेत्रज्ञलोक इति निश्चयात्।

राद्धान्तस्तुपरात्परं पुरिशयं पुरुषमीक्षते इतीक्षतिकर्मतया निर्दिष्टपुरुषविषये श्लोके। तमोङ्कारेणैवायनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परञ्च इति निरुपाधिकशान्तत्वामृतत्वादिव्यपदेशात्परमात्मैवायमिति निश्चीयते।  एवं परमात्मत्वे निश्चिते ब्रह्मलोकशब्दश्च तत्स्थानमेवाभिदधाति इत्यवगम्यते। तद्विषयतयोदाहृते च श्लोके  यत्तत्कवयो वेदयन्ते।  (तद्विष्णो: परमं पदं सदा पश्यन्ति सूरय:) इत्येवमादिभिस्सूरिभिर्दृश्यत्ववचनं तदेव द्रढयति।  सूत्रार्थस्तु  –  ईक्षतिकर्म स: – परमात्मा, ध्यायतीक्षत्योरेकविषयत्वेन ध्यायतिकर्माऽपि स एवेत्यर्थ:, व्यपदेशात्तद्विषयकतया  शान्तमजरममृतमभयं परं चेति परमात्मधर्माणां व्यपदेशात्॥१२॥  इति ईक्षतिकर्माधिकरणम्॥४॥

 

७४। दहर उत्तरेभ्य:छान्दोग्ये अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन् अन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् इत्यत्र हृदयपुण्डरीकमध्यवर्ती दहराकाशश्श्रूयमाण: किं भूतकाश:, उत जीव:, अथ परमात्मेति संशय:। प्रथमं तावद्भूताकाश                 इति  युक्तमाश्रयितुमिति पूर्व पक्ष:, आकाशशब्दस्य भूताकाशे प्रसिद्धिप्राचुर्यात् आकाशान्तर्वर्तिनोऽन्यस्य अन्वेष्टव्यताप्रतीतेश्च। राद्धान्तस्तु किं तदत्र विद्यते यदन्वेष्टव्यम् इति चोदिते यावान्वा अयमाकाश:  इत्यारभ्य एतत्सत्यं ब्रह्मपुरम् इत्यन्तेन दहराकाशस्यातिमहत्त्वसर्वाश्रयत्वाजरत्वसत्यत्वाद्यभिधाय अस्मिन्कामास्समाहिता इत्याकाशान्तर्वर्तिनोऽन्वेष्टव्या: कामा इति प्रतिपाद्य, कोऽयं दहराकाशशब्दनिर्दिष्ट😕 के तदाश्रया: कामा😕 इत्यपेक्षायाम् एष आत्मापहतपाप्मा इत्यारभ्य, सत्यसङ्कल्प: इत्यन्तेन आकाशशब्दनिर्दिष्ट: आत्मा, कामाश्चापहतपाप्मत्वादयस्तद्विशेषणभूता इति प्रतिपादयद्वाक्यं अपहतपाप्मत्वादिविशिष्टपरमात्मानमाह।  उपक्रमे चान्वेष्टव्यतया प्रतिज्ञात: आकाश: आत्मा, एतद्विशेषणभूता: अपहतपाप्मत्वादय: कामा इति वाक्यं ज्ञापयत् अथ य इहात्मानमनुविद्य व्रजन्त्येतांश्च सत्यान्कामान् तेषां सर्वेषु लोकेषु कामचारो भवति इत्युपसंहरति।  अतोऽयं दहराकाशः अपहतपाप्मत्वादिविशिष्ट: परमात्मेति निश्चीयते, न भूताकाशादिरिति। एवं तर्ह्यस्मिन्वाक्ये, अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय इति प्रत्यगात्मप्रतीते:, तस्य चोत्तरत्र प्रजापतिवाक्ये अपहतपाप्मत्वादिगुणकत्वावगमात् प्रत्यगात्मैव दहराकाश इति पूर्वपक्षी मन्यते। राद्धान्ती तु  प्रत्यगात्मा कर्मपरवशतया जागरितस्वप्नसुषुप्त्याद्यवस्थाभि: तिरोहितापहतपाप्मत्वादिक: परमात्मानमुपसंपन्न: तत्प्रसादादाविर्भूतगुणक: प्रजापतिवाक्ये प्रतिपादित:। दहराकाशस्त्वतिरोहितनिरुपाधिकापहतपाप्मत्वादिक: प्रत्यगात्मन्यसंभावनीयजगद्विधरण-समस्तचिदचिद्वस्तुनियमनाद्यनन्तगुणक: प्रतिपन्न इति नायं प्रत्यगात्मा दहराकाश:, अपि तु परमात्मैवेति मन्यते।          सूत्रार्थस्तु दहराकाश: परं ब्रह्म, उत्तरेभ्य: – उत्तरवाक्यगतेभ्यः अपहतपाप्मत्वादिपरमात्मासाधारणधर्मेभ्यो हेतुभ्य:॥१३॥

७९।  गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च अस्मिन्दहराकाशे सर्वासां प्रजानामजानतीनां अहरहर्या गतिश्श्रूयते, यश्च दहराकाशावमर्शरूपैतच्छब्दसमानाधिकरणतया प्रयुक्तो ब्रह्मलोकशब्द:, ताभ्यां दहराकाश: परं ब्रह्मेत्यवगम्यते। तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुरेवमेवेमास्सर्वा: प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढा: इति। तथा हि दृष्टम्तथा ह्यन्यत्र परस्मिन्ब्रह्मण्येवं रूपं गमनं दृष्टम्एवमेव खलु सोम्येमास्सर्वा: प्रजास्सति संपद्य न विदुस्सति संपत्स्यामह इति।  तथा ब्रह्मलोकशब्दश्च परस्मिन्ब्रह्मण्येव दृष्ट: – एष ब्रह्मलोकस्सम्राडिति होवाच इति  लिङ्गं चमा भूदन्यत्र दर्शनम्, अस्मिन् प्रकरणे सर्वासां प्रजानां श्रूयमाणमहरहर्गमनं, ब्रह्मलोकशब्दश्च दहराकाशस्य परमात्मत्वे पर्याप्तं लिङ्गम्।  च शब्दोऽवधारणे।  एतदेव पर्याप्तमित्यर्थ:॥१४॥

८०।  धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धे:अस्य धृत्याख्यस्य परमात्मनो महिम्नोऽस्मिन् दहराकाशे उपलब्धेरयं परमात्मा।  धृति: – जगद्विधरणं परमात्मनो महिमेत्यन्यत्रावगम्यते। एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदाय इति। सा च अस्मिन्दहराकाश उपलभ्यते। अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय इति॥१५॥

८१।  प्रसिद्धेश्चको ह्येवान्यात्क: प्राण्यात् यदेष आकाश आनन्दो न स्यात्, सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते  इत्यादिष्वाकाशशब्दस्य परस्मिन्ब्रह्मणि प्रसिद्धे: आकाशशब्द एव परमात्मधर्मविशेषितो भूतकाशशङ्कां निवर्तयतीत्यर्थ:॥१६॥

८२। इतर परामर्शात्स इति चेन्नासंभवात्परमात्मन इतर: जीव:; अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय इति जीवस्य परामर्शात्स एव दहराकाश इति चेत् तन्न, पूर्वोक्तानां गुणानां तस्मिन्नसंभवात्॥१७॥

८३।  उत्तराच्चेदाविर्भूतस्वरूपस्तुउत्तरात्प्रजापतिवाक्यात् अपहतपाप्मत्वादिगुणको जीवोऽवगम्यत इति चेत् तन्न; जागरिताद्यवस्थाभिरनादिकालप्रवृत्ताभि: पुण्यपापरूपकर्ममूलाभि: तिरोहितगुणक: परब्रह्मोपासनजनिततदुपसंपत्त्या आविर्भूतस्वरूपोऽसौ जीवस्तत्र प्रजापतिवाक्येऽपहतपाप्मत्वादिगुणक: कीर्तित:  दहराकाशस्त्वतिरोहितस्वरूपः अपहतपाप्मत्वादिगुणक इत्यस्मिन्दहराकाशे न जीवशङ्का॥१८॥

दहरवाक्ये जीवपरामर्श: किमर्थमिति चेत्, तत्राह

८४।  अन्यार्थश्च परामर्श:अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यत इति परंज्योतिस्स्वरूपदहराकाशोपसंपत्त्याऽस्य जीवस्यानृततिरोहितस्वरूपस्य स्वरूपाविर्भावो भवतीति दहराकाशस्य जगद्विधरणादिवज्जीवस्वरूपाविर्भावापादन-रूपसंपद्विशेषप्रतिपादनार्थो जीवपरामर्श:॥१९॥

८५। अल्पश्रुतेरिति चेत्तदुक्तम्दहरोऽस्मिन्नित्यल्पपरिमाणश्रुतिराराग्रोपमितस्य जीवस्यैवोपपद्यते, न तु सर्वस्माज्ज्यायसो ब्रह्मण इति चेत्, तत्र यदुत्तरं वक्तव्यम्, तत्पूर्वमेवोक्तम्। निचाय्यत्वादित्यनेन॥२०॥

८६। अनुकृतेस्तस्य च अनुकृति: – अनुकार:; तस्य परमात्मनोऽनुकाराद्धि जीवस्याविर्भूतस्वरूपस्यापहतपाप्मत्वादिगुणकत्वम्।  अतोऽनुकर्तु: जीवादनुकार्य: परब्रह्मभूतो दहराकाशः अर्थान्तरभूत एव।  तदनुकारश्च तत्साम्यापत्तिश्श्रूयते यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्।  तदा विद्वान्पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति इति॥२१॥

८७।  अपि स्मर्यते स्मर्यते च तदुपासनात्तत्साम्यापत्तिरूपानुकृतिर्जीवस्य, इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता:। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च इति॥२२॥ इति दहराधिकरणम् ॥५॥

८८।  शब्दादेव प्रमित:कठवल्लीष्वाम्नायते। अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति।  ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत्। उत्तरत्र च अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधूमक:। तथोपरिष्टात् अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट: इति। अत्राङ्गुष्ठप्रमितो जीवात्मा, उत परमात्मेति संशय:  जीवात्मेति पूर्व: पक्ष:अन्यत्र स्वीकृतस्पष्टजीवभावे पुरुषे अङ्गुष्ठप्रमितत्वश्रुते: प्राणाधिपस्सञ्चरति स्वकर्मभिरङ्गुष्ठमात्रो रवितुल्यरूप: इति। राद्धान्तस्तु  – तत्र स्वकर्मभिरिति जीवभावनिश्चयवदत्रापि, ईशानो भूतभव्यस्येति भूतभव्येशितृत्व दर्शनात् परमात्मैवेति। सूत्रार्थस्तु शब्दादेव प्रमित: – अङ्गुष्ठप्रमित: परमात्मैव, ईशानो भूतभव्यस्य इति भूतभव्येशितृत्वदर्शनात् परमात्मैवेति।  सूत्रार्थस्तु शब्दादेव प्रमित: – अङ्गुष्ठप्रमित: परमात्मैव, । ईशानो भूतभव्यस्येति परमात्मवाचिशब्दात्॥२३॥

कथमनवच्छिन्नस्य परमात्मनोऽङ्गुष्ठप्रमितत्वमित्याशङ्क्याह

८९।  हृद्यपेक्षया तु मनुष्याधिकारत्वात्उपासनार्थमुपासकहृदये वर्तमानत्वात्, उपासकहृदय स्याङ्गुष्ठमात्रत्वात् तदपेक्षयेदमङ्गुष्ठप्रमितत्वम्। मनुष्याणामेवोपासकत्वसंभावनया मनुष्यानधिकृत्य प्रवृत्तत्वाच्छास्त्रस्य मनुष्यहृदयापेक्षयेदमुक्तम्। स्थितं तावदुत्तरत्र समापयिष्यते॥२४॥  इति प्रमिताधिकरण पूर्वभाग:

 

९०। तदुपर्यपि बादरायणस्संभवात् मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेन देवादीनामपि ब्रह्मविद्यायामधिकारोऽस्ति नवेति चिन्त्यते। न देवादीनामधिकारः अस्तीति पूर्व: पक्ष: परिनिष्पन्ने ब्रह्मणि शब्दस्य प्रामाण्यसंभवेऽपि देवादीनां विग्रहादिमत्त्वे प्रमाणाभावात्, मन्त्रार्थवादानाम् (अपि) विधिशेषतया विग्रहादिसद्भावपरत्वाभावात्, विग्रहवन्निर्वर्त्याहरहरनुष्ठीयमानविवेकादिसाधनसप्तक संस्कृतमनोनिष्पाद्योपासननिर्वृत्तौ तेषां सामर्थ्याभावात्।

राद्धान्तस्तु जगत्सृष्टिप्रकरणेषु नामरूपव्याकरणश्रुत्यैव देवादीनां विग्रहादिमत्त्वं सिध्यति। देवादीनां देहेन्द्रियादिकरणमेव हि नामरूपव्याकरणम्, मन्त्रार्थवादयोश्च तदुपलब्धे:, तयोरनुष्ठेयप्रकाशनस्तुतिपरत्वेऽपि तदुपपत्तये तत्सद्भावे प्रमाणत्वाद्देवादीनां विग्रहादिमत्त्वसिद्धि:, नहि विग्रहादिमत्तया स्तुति: प्रकाशनं च तदभावे संभवति। अतस्सामर्थ्यसंभवादस्त्येवाधिकार:। सूत्रार्थस्तु तदुपर्यपि तेभ्य: – मनुष्येभ्य उपरि वर्तमानानां देवादीनामप्यधिकारोऽस्तियद्वा, तत्ब्रह्मोपासनम् उपरिदेवादिष्वपि संभवति, तेषामपि ब्रह्मस्वरूपतदुपासनप्रकारज्ञानतदर्थित्वतदुपादानसामर्थ्यसंभवात्। पूर्वोपार्जितज्ञानाविस्मरणात् ज्ञानसंभव: तापत्रयाभिहतिपूर्वकब्रह्मगुणज्ञानाच्चार्थित्वसंभव:; सृष्टिवाक्यमन्त्रार्थवादेषु विग्रहवत्त्वादिदर्शनात् सामर्थ्यसंभवश्चेति भगवान् बादरायणो मन्यते॥२५॥

९१।  विरोध: कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् कर्मणियागादौ, विग्रहवत्त्वे सति एकस्य युगपदनेकयागेषु सन्निधानानुपपत्तेर्विरोध: प्रसज्यत इति चेत्; तन्न, शक्तिमतां सौभरिप्रभृतीनां युगपदनेकशरीरप्रतिपत्तिदर्शनात्॥२६॥

९२।  शब्द इति चेन्नात: प्रभवात्प्रयक्षानुमानाभ्याम् विरोध इति वर्तते। माभूत्कर्मणि विरोध:, शब्दे तु वैदिके विरोध: प्रसज्यतेविग्रहवत्त्वे हि तेषां सावयवत्वेनोत्पत्तिविनाशयोगादुत्पत्ते: प्राग्विनाशादूर्ध्वं च वैदिकानामिन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादिति चेत्; तन्न, अत: प्रभवात् अत:- वैदिकादेव शब्दात् इन्द्रादे: प्रभवात्।  पूर्वपूर्वेन्द्रादौ विनष्टे वैदिकादिन्द्राद्याकृति-विशेषवाचिन: शब्दादिन्द्राद्याकृतिविशेषं स्मृत्वा तदाकारमपरमिन्द्रादिकं सृजति प्रजापतिरिति वैदिकस्य शब्दस्य न कश्चिद्विरोध:। न हि देवदत्तादिशब्दवदिन्द्रादिशब्दा व्यक्तिविशेषे सङ्केतपूर्वका: प्रवृत्ता:; अपि तु गवादिशब्दवदाकृतिविशेषवाचिन इति तेषामपि नित्य एव वाच्यवाचकभाव:  वैदिकादिन्द्रादिशब्दात् तदर्थविशेषं स्मृत्वा कुलालादिरिव घटादिकं प्रजापतिस्सृजतीति कुतोऽवगम्यते? प्रत्यक्षानुमानाभ्यांश्रुतिस्मृतिभ्यामित्यर्थ:  श्रुतिस्तावत् वेदेन रूपे व्याकरोत् सतासती प्रजापति:, तथा स भूरिति व्याहरत् स भूमिमसृजत इत्यादिका।  स्मृतिरपि सर्वेषां च स नामानि कर्माणि च पृथक् पृथक्।  वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे।  नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम्।  वेदशब्देभ्य एवादौ देवादीनां चकार स:  इत्यादिका ॥२७॥

९३। अत एव च  नित्यत्वम् यत: प्रजापति: वैदिकाच्छब्दादर्थाकारं स्मृत्वा तदाकारं सर्वं सृजति, अतश्च वसिष्ठविश्वामित्रादीनां मन्त्रसूक्तादिकृत्त्वेऽपि मन्त्रादिमयस्य वेदस्य नित्यत्वं तिष्ठत्येव। प्रजापतिर्हि नैमित्तिकप्रलयानन्तरं मन्त्रकृतो वृणीते। विश्वामित्रस्य सूक्तं भवतीत्यादि वेदशब्देभ्योऽनधीतमन्त्रादिदर्शनशक्तवसिष्ठाद्याकृतिविशेषं स्मृत्वा, वसिष्ठत्वादिपदप्राप्तये अनुष्ठितकर्मविशेषांश्चानुस्मृत्य, तदाकारविशेषान् तान्वसिष्ठादीन् सृजति; ते चानधीत्यैव वेदैकदेशभूतमन्त्रादीन् स्वरतो वर्णतश्चास्खलितान्पठन्ति।  तदेषां मन्त्रादिकृत्वेऽपि वेदनित्यत्वमुपपद्यते॥२८॥

प्रजापतिप्रभृतिषु सर्वेषु तत्त्वेष्वव्याकृतपर्यन्तेषु अव्याकृतपरिणामरूपेषु शब्दमयेषु वेदेषु च विनष्टेष्वव्याकृतसृष्ट्यावृत्तौ कथं वेदस्य नित्यत्वमित्यत्र आह

९४।  समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात्म्सृतेश्चअव्याकृतसृष्ट्यावृत्तावपि सृज्यानां समाननामरूपत्वादेव न कश्चिद्विरोध:। आदिसर्गेऽपि हि परमपुरुष: पूर्वसंस्थानं जगत्स्मरन् तथैव सृजतिवेदांश्च पूर्वानुपूर्वीविशिष्टानाविष्कृत्य हिरण्यगर्भाय ददातीति। पूर्वसंस्थानमेव जगत्सृजतीति कथमवगम्यते? दर्शनात्स्मृतेश्च।  दर्शनंश्रुति:। अहोरात्राणि विदधद्विश्वस्य मिषतो वशी, सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्, दिवं च पृथिवीं चान्तरिक्षमथो सुवरिति, यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै इति च, स्मृतिरपियथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये। दृश्यन्ते तानि तान्येव तथा भावा युगादिषु। इति। एतदेव वेदस्य नित्यत्वं यत्पूर्वपूर्वोच्चारणक्रमविशेषं स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम्। परमपुरुषोऽपि स्वरूपस्वाराधनतत्फलयाथात्म्यावबोधिवेदं स्वस्वरूपवन्नित्यमेव पूर्वानुपूर्वीविशिष्टं स्मृत्वा आविष्करोति।  अतो देवादीनां ब्रह्मविद्याधिकारे न कश्चिद्विरोध:॥२९॥ इति देवताधिकरणम् ॥ ७॥

 

९५।  मध्वादिष्वसंभवादनधिकारं जैमिनि:छान्दोग्ये असौ वा आदित्यो देवमधु इत्युपक्रम्य। तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति इत्युक्त्वा, स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति इत्यादिना ऋग्यजुस्सामादिवेदोदितकर्म संपाद्य रसाधारतया मधुमयस्यादित्यस्य पूर्वदक्षिणपश्चिमोत्तरोर्ध्वांशान्वसुरुद्रादित्यमरुत्साध्यनाम्नां देवगणानां भोग्यत्वेनाभिधाय, तैर्भुज्यमानाकारेणादित्यांशानुपास्यानुपदिश्य, तानेवादित्यांशांस्तथा भूतान्प्राप्यानुपदिशति।  एवमादिषूपासनेषु वस्वादित्यादीनामधिकारोऽस्ति, नेति संशय:  नास्त्यधिकार इति पूर्व: पक्ष:, वस्वादीनामुपास्यान्तर्गतत्वेन कर्मकर्तृभावविरोधात्, प्राप्यस्य वसुत्वादे: प्राप्तत्वाच्च।  राद्धान्तस्तुब्रह्मण एव तदवस्थस्योपास्यादीनां सतां स्वावस्थब्रह्मानुसन्धानाविरोधात्कल्पान्तरे वसुत्वादे: प्राप्तत्वाविरोधाच्च वस्वादीनामधिकार: संभवतीति। सूत्रार्थस्तु मधुविद्यादिषु वस्वादीनामनधिकारं जैमिनिर्मन्यते। असंभवात्वस्वादीनामेव उपास्यानामुपासकत्वासंभवात्, वसुत्वादे: प्राप्तत्वादेव प्राप्यत्वासंभवाच्च॥३०॥

९६। ज्योतिषि भावाच्च तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् इति ज्योतिषिपरस्मिन् ब्रह्मणि देवमनुष्ययोरधिकारसाधारण्ये सत्यपि, ज्योतिषां ज्योति: – परं ब्रह्म देवा उपासते इति विशेषवचनं वस्वादीनां कर्मकर्तृभावविरोधात्तेषु तेषामनधिकारं द्योतयति।  देवा इति सामान्यवचनं च वस्वादिविशेषविषयमित्यवगम्यते, अन्येषामविरोधात्॥३१॥

९७। भावं तु बादरायणोऽस्ति हितु शब्द: पक्षं व्यावर्तयति।  वस्वादीनां मधुविद्यादिषु अधिकारसद्भावं भगवान्बादरायणो मन्यते। अस्ति हि वस्वादीनामेवोपास्यत्वं प्राप्यत्वं च।  इदानीं वसूनामेव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्वसंभवात्प्राप्यत्वं संभवति।  स्वात्मनां ब्रह्मभावानुसन्धानसंभवादुपास्यत्वं च संभवति। य एतामेवं ब्रह्मोपनिषदं वेद इति हि कृत्स्नाया मधुविद्याया: ब्रह्मविद्यात्वमवगम्यते॥३२॥  इति मध्वधिकरणम् ॥ ८ ॥

 

९८।  शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति, नेति संशय:  अस्तीति पूर्व: पक्ष:, – अर्थित्वसामर्थ्यसंभवात्। शूद्रस्यानग्निविद्यत्वेऽपि मनोवृत्तिमात्रत्वात् उपासनस्य संभवति हि सामर्थ्यम्। ब्रह्मस्वरूपतदुपासनप्रकारज्ञानं चेतिहासपुराणश्रवणादेव निष्पद्यते। अस्ति हि शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा। श्रावयेच्चतुरोवर्णान्कृत्वा ब्राह्मणमग्रत इति। तथा तत्रैव विदुरादीनां ब्रह्मनिष्ठत्वं दृश्यते। उपनिषत्स्वपि। आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथा इति शूद्रशब्देनामन्त्र्य ब्रह्मविद्योपदेशदर्शनाच्छूद्रस्यापीहाधिकारस्सूच्यते। राद्धान्तस्तु उपासनस्य मनोवृत्तिमात्रत्वेऽपि अनधीतवेदस्य शूद्रस्य उपासनोपायभूतज्ञानासंभवात्, न सार्मथ्यसंभव:। कर्मविधिवत् उपासनाविधयोऽपि त्रैवर्णिकविषयाध्ययनगृहीतस्वाध्यायोत्पन्नज्ञानमेव उपासनोपायतया स्वीकुर्वते। इतिहासादयोऽपि स्वाध्यायसिद्धमेव ज्ञानमुपबृंहयन्तीति ततोऽपि नास्य ज्ञानलाभ:। श्रवणानुज्ञा तु पापक्षयादिफला।  विदुरादीनां तु भवान्तरवासनया ज्ञानलाभाद्ब्रह्मनिष्ठत्वम्। शूद्रेत्यामन्त्रणमपि न चतुर्थवर्णत्वेन; अपि तु ब्रह्मविद्यावैकल्याच्छुगस्य संजातेति।  अतो न शूद्रस्याधिकार:                       सूत्रार्थस्तुब्रह्मविद्यावैकल्येन हंसोक्तानादरवाक्यश्रवणात्तदैवाचार्यं प्रत्याद्रवणाच्चाचार्येण तस्य शुश्रूषोर्विद्याऽलाभकृता शुक्सूच्यते। हि शब्दो हेतौ।  यस्मादस्य शुक्सूच्यते, अतश्शोचनाच्छूद्र इति कृत्वा आचार्यो रैक्व: जानश्रुतिं शूद्रेत्यामन्त्रयते; न जातियोगेनेत्यर्थ:॥३३॥

९९।  क्षत्रियत्वगतेश्च अस्य शुश्रूषो: क्षत्रियत्वावगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम्।  प्रकरणप्रक्रमे हि बहुदायी इत्यादिना दानपतित्वबहुतरपक्वान्नदायित्वक्षत्तृप्रेषणबहुग्रामादिप्रदानैरस्य जानश्रुतेश्शुश्रूषो: क्षत्रियत्वं प्रतीतम्॥३४॥

१००।  उत्तरत्र चैत्ररथेन लिङ्गात्उपरिष्टाच्चास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते। अथ ह शौनकं च कापेयमभिप्रतारिणं च इत्यादिना।  अभिप्रतारी हि चैत्ररथ: क्षत्रिय:। अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते। प्रकरणान्तरे हि कापेयसहचारिण: चैत्ररथत्वं क्षत्रियत्वञ्चावगतम्। एतेन वै चैत्ररथं कापेया अयाजयन् इति, तस्माच्चैत्ररथो नामैक: क्षत्रपतिरजायतेति च। अतोऽस्यां विद्यायामन्वितो ब्राह्मणादितरो जानश्रुतिरपि क्षत्रियो भवितुमर्हाति॥३५॥

१०१। संस्कारपरामर्शात्तदभावाभिलापाच्च विद्योपदेशे उप त्वा नेष्ये इत्युपनयनसंस्कारपरामर्शात् शूद्रस्य तदभाववचनाच्चानधिकार:। न शूद्रे पातकं किञ्चिन्न च संस्कारमर्हाति।  इति हि निषिध्यते॥३६॥

१०२। तदभावनिर्धारणे च प्रवृत्ते:नैतदब्राह्मणो विवक्तुमर्हाति समिधं सौम्याहर इति शुश्रूषोर्जाबालेश्शूद्रत्वाभावनिश्चय एवोपदेशे प्रवृत्तेर्नाधिकार:॥३७॥

१०३।  श्रवणाध्ययनार्थप्रतिषेधात् शूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिध्यन्ते। तस्माच्छूद्रसमीपे नाध्येतव्यम् इति।  अनुपशृण्वतोऽध्ययनादिर्न संभवति॥३८॥

१०४।      स्मृतेश्चस्मर्यते च शूद्रस्य वेदश्रवणादौ दण्ड:। अथ हास्य वेदमुपशृण्वत: त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेद इति॥३९॥ इति अपशूद्राधिकरणम्॥९॥

(प्रमिताधिकरणशेष🙂

प्रासङ्गिकं परिसमाप्य प्रकृतं परिसमापयति

१०५।  कम्पनात् अङ्गुष्ठप्रमितप्रकरणमध्ये। यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्।  महद्भयं वज्रमुद्यतम् भयादस्याग्निस्तपति इत्यादौ प्राणशब्दनिर्दिष्टाङ्गुष्ठप्रमित-जनितभयनिमित्तादग्निवायुसूर्यप्रभृतिकृत्स्नजगत्कम्पनात् श्रूयमाणादङ्गुष्ठप्रमित: परमात्मैवेति निश्चीयते॥४०॥

१०६। ज्योतिर्दर्शनात् अस्मिन्नेव प्रकरणे तत्संबन्धितया न तत्र सूर्यो भाति इत्यारभ्य तस्य भासा सर्वमिदं विभाति इति सर्वेषां छादकस्यानवधिकातिशयस्य भाश्शब्दाभिहितस्य ब्रह्मभूतस्य परस्य ज्योतिषो दर्शनाच्च अङ्गुष्ठप्रमित: परमात्मा॥४१॥ इति प्रमिताधिकरणशेष:

 

१०

१०७।  आकाशोऽर्थान्तरत्वादिव्यपदेशात् छान्दोग्ये आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा इत्यत्राकाशशब्दनिर्दिष्ट: किं मुक्तात्मा, उत परमात्मेति संशय:  मुक्त इति पूर्व: पक्षः। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि इति मुक्तस्यानन्तरप्रकृतत्वात्।  राद्धान्तस्तुनामरूपयोर्निर्वहिता ते यदन्तरा इति स्वयमस्पृष्ट-नामरूपतया नामरूपयोर्निर्वोढृत्वेन श्रूयमाणोऽयमाकाशो बद्धमुक्तोभयावस्थात्प्रत्यगात्मनः अर्थान्तरत्वात्परमात्मैव।

सूत्रार्थस्तु आकाश: परमात्मा, तस्य नामरूपयोर्निर्वोढृत्वतदस्पर्शलक्षणार्थान्तरत्व-व्यपदेशात्। प्रत्यगात्मनो ह्यर्थान्तरभूत एव नामरूपयोर्निर्वोढा। बद्धावस्थस्तावन्नामरूपाभ्यां स्पृष्टस्तत्परवशश्चेति न निर्वोढा; मुक्तस्यापि जगद्व्यापाररहितत्वान्न निर्वोढृत्वम्।  आदिशब्देन निरुपाधिकब्रह्मत्वामृतत्वात्मत्वादीनि गृह्यन्ते; तानि निरुपाधिकानि मुक्तस्यापि न संभवन्ति॥४२॥

ननु तत्त्वमस्यादिनैक्यव्यपदेशात्, नेह नानाऽस्तीति भेदप्रतिषेधाच्च न प्रत्यगात्मनः अर्थान्तरभूत: परमात्मेत्याशङ्क्याह

१०८। सुषुप्त्युत्क्रान्त्योर्भेदेनव्यपदेशादिति वर्तते। प्राज्ञेनात्मना संपरिष्वक्त:, प्राज्ञेनाऽत्मनाऽन्वारूढ: इति सुषुप्त्युत्क्रान्त्योर्लुप्तसकलविशेषविज्ञानात्प्रत्यगात्मनस्तदानीमेव सर्वज्ञतया भेदव्यपदेशात्प्रत्यगात्मनोऽर्थान्तरभूत एव परमात्मा॥४३॥

१०९। पत्यादिशब्देभ्य:  – परिष्वञ्जके प्राज्ञे श्रूयमाणेभ्य: पत्यादिशब्देभ्यश्चायं प्रत्यगात्मनोऽर्थान्तरभूत: परमात्मा, सर्वस्याधिपतिस्सर्वस्य वशी सर्वस्येशान: इत्यादौ। ऐक्योपदेशभेदप्रतिषेधौ तु ब्रह्मकार्यत्वनिबन्धनाविति। तज्जलान् इति, सर्वं खल्विदं ब्रह्म इत्यादिश्रुतिभिरेव व्यक्तौ ॥४४॥  इति अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥

 

इति श्रीभगवद्रामानुजविरचिते श्री वेदान्तदीपे प्रथमस्याध्यायस्य तृतीय: पाद:

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.