वेदान्तदीप: Ady 04 Pada 03

वेदान्तदीप:

चतुर्थाध्याये तृतीय पाद:

५०९। अर्चिरादिना तत्प्रथिते: – किं विद्वानर्चिरादिनैकेन मार्गेण गच्छति, उत तेन वाऽन्येन वेत्यनियम इति संशय:। तदर्थं परीक्ष्यते – किं सर्वासु श्रुतिष्वर्चिरादिरेक एव मार्ग आम्नायते, उत तत्र तत्रान्य इति । यदाऽर्चिरादिरेक एव सर्वत्रोक्त: तदा तेनैव गच्छति।  यदा तत्र तत्राम्नाता अन्ये, तदाऽन्यैर्वाऽनेन वेत्यनियम इति । छान्दोग्यवाजसनेयकादिषु नानाविधा: गतिप्रकाराश्श्रूयन्ते। छान्दोग्ये यथा पुष्करपलाश आपो श्लिष्यन्ते इत्युपक्रम्य सर्वाणि नयति, सर्वेषु लोकेषु भाति एवं वेद, अथ यदु चैवास्मिन् छव्यं कुर्वन्ति यदु नार्चिषमेवाभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान्मासेभ्यसंवत्सरं संवत्सरादादित्यम् आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवस्स एनान्ब्रह्मगमयत्येष देवपथो ब्रह्मपथ एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते इति । बृहदारण्यके एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमित्युपासते तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान् वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति इति। तत्रैवान्यथा यदा वै पुरुषोऽस्माल्लोकात्प्रेति वायुलोकमागच्छति तस्मै तत्र विजिहिते यथा रथचक्रस्य खं तेन ऊर्ध्वमाक्रमते आदित्यमागच्छति तस्मै तत्र विजिहीते यथाऽऽडम्बरस्य खं तेन ऊर्ध्वमाक्रमते चन्द्रमसमागच्छति तस्मै तत्र विजिहीते यथा दुन्दुभे: खम् इत्यादिषु तेषां ब्रह्मप्राप्तौ नैरपेक्ष्यश्रवणात्तैर्वाऽर्चिरादिना वेति विकल्प इति पूर्व पक्ष:। राद्धान्तस्तु – सर्वत्रार्चिराद्यन्तर्भूतादित्यादीनां दर्शनात्स एवेति प्रत्यभिज्ञानात् अन्यत्रोक्तानामन्यत्रोपसंहाराच्च, सर्वत्रार्चिरादिरेक एव मार्ग इति तेनैव गच्छति विद्वान् । सूत्रार्थस्तु – अर्चिरादिनैव गच्छति विद्वान्। कुत:? तत्प्रथिते:, प्रथिति: – प्रसिद्धि:, सर्वत्र तत्प्रत्यभिज्ञानादित्यर्थ:॥१॥ इति अर्चिराद्यधिकरणम्

५१०। वायुमब्दादविशेषविशेषाभ्याम्  – तेऽर्चिषमभिसंभवन्त्यर्चिषोऽहरह्न: इत्यारभ्य, मासेभ्यस्संवत्सरं संवत्सरादित्यम् इति छान्दोग्ये श्रुतम्। तत्र संवत्सरादित्ययोर्मध्ये देवलोको वायुश्च श्रुतौ श्रुत्यन्तरे । द्वयो: प्रकरणयो: किं देवलोको वायुश्चार्थान्तरभूतौ, उत वायुरेक एवेति संशय:। शब्दभेदादर्थान्तरभूताविति पूर्व: पक्ष:। अर्थान्तरत्वे सति, देवलोकादादित्यमिति देवलोकस्य, तेन ऊर्ध्व आक्रमते आदित्यम् इति वायोश्चादित्यात्पूर्वत्वेन श्रौतक्रमनिर्दिष्टत्वाद्देवलोकवायू यथेष्टक्रमेण निवेशयितव्यौ। राद्धान्तस्तु – वायुरेव देवलोकशब्देन निर्दिष्ट इति तस्मादनन्य:। देवानां लोक इति हि देवलोक:, देवानां वासस्थानमित्यविशेषेण निर्दिष्टम्। योऽयं पवत एष एव देवानां गृहा: इति वायोर्विशेषेण देवानां वासस्थानत्वेन श्रुतत्वादविशेषनिर्दिष्टो देवलोको वायुरेवेति निश्चीयत इति, संवत्सरादूर्ध्वं वायुर्वायोरादित्य इति क्रमश्च स्यात्। सूत्रार्थस्तु – अब्दात् – संवत्सरादूर्ध्वं आदित्यात्पूर्वं वायुमेकमेव निवेशयेत्, देवलोकवायुशब्दाभ्याम् अविशेषविशेषाभ्यां वायोरेकस्यैव निर्दिष्टत्वात्, देवानां निवासस्थानमित्यविशेषण हि देवलोकशब्दो वायुं देवानामावस्थानभूतं  अभिदधाति, वायुशब्दस्तमेव विशेषेणेति द्वयो: प्रकरणद्वयविहितयोरेकत्वादित्यर्थ:॥२ इति वाय्वधिकरणम्

            ५११। तटितोऽधि वरुणस्सम्बन्धात् – छान्दोग्यवाजसनेयक कौषीतकी प्रभृतिष्वाम्नातस्यार्चिरादि-मार्गस्यार्चिरहरापूर्यमाणपक्षोत्तरायणसंवत्सरवाय्वादित्यचन्द्रविद्युद् -वरुणेन्द्रप्रजापतिरूपस्योपसंहारे वायुपर्यन्तस्य श्रुत्यादिभि: क्रमप्रकार उक्त:, वरुणेन्द्रप्रजापतीनां किं विद्युत उपरि निवेश:, उत वायोरुपरीति संशय:। स वायुलोकं स वरुणलोकम् इति कौषीतकीपाठक्रमेण वायोरुपरि वरुणस्य निवेश:। इन्द्रादेरपि वरुणनिवेशाय वाय्वादित्ययो: क्रमस्य बाधितत्वात्तत्रैव वरुणोपरीति पूर्व: पक्ष:। राद्धान्तस्तु – विद्युतो मेघोदरवर्तित्वेन विद्युद्वरुणयोर्लोके वेदे च संबन्धावगमात्पाठक्रमादर्थक्रमस्य बलीयस्त्वेन वरुणस्य विद्युत उपरि निवेश: कार्य:। इन्द्रादेरपि वरुणनिवेशाय विद्युतो व्यवधानसहत्वदर्शनाद्वरुणोपरि निवेश:। सूत्रं च व्याख्यातं॥३॥  इति वरुणाधिकरणम्

५१२। आतिवाहिकास्तल्लिङ्गात् – किमर्चिरादयो विदुषो ब्रह्मप्रेप्सोर्मार्गचिह्नभूता:, उत गमयितार इति संशय:। ‘अमुकं वृक्षममुकां नदीममुकं पर्वतपार्श्वां गत्वाऽमुकं ग्रामं गच्छ‘ इत्यादिदेशिकोपदेशप्रकारदर्शनान्मार्गचिह्नभूता: – इति पूर्व: पक्ष:। राद्धान्तस्तु – स एनान्ब्रह्म गमयति इति वैद्युतपुरुषस्य गमयितृत्वदर्शनात् इतरेषां चाविशेषनिर्दिष्टानां स एव संबन्ध इति निश्चीयते,  अग्निलोकम् इत्यादि लोकशब्दोऽपि मध्ये भोगाभावाद्गमयितृत्व एवोपपद्यते।  सूत्रार्थस्तु – आतिवाहिकाः – विदुषामतिवाहे परमपुरूषेण नियुक्ताः, अर्चिराद्यभिमानिदेवताविशेषा: गमयितार इत्यर्थ:। स एनान्ब्रह्मगमयति इति लिङ्गात्॥४॥

५१३। वैद्युतेनैव ततस्तच्छ्रुते: – तत: विद्युत उपरि वैद्युतेन विदुषो गमनम् तच्छ्रुते:, स एनान्ब्रह्म गमयति इति तस्यैवश्रुते:। वरुणादीनां तदनुग्राहकत्वेन गमयितृत्वमिति निश्चीयत इत्यर्थ:॥५॥  इति आतिवाहिकाधिकरणम्

५१४। कार्यं बादरिरस्य गत्युपपत्ते: – किमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परं ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्चेति संशय:। कार्यं हिरण्यगर्भमुपासीनानिति पूर्व: पक्ष:। तेषामेव गत्युपपत्ते:। न हि परिपूर्णं सर्वगतं परं ब्रह्मोपासीनानां तत्प्राप्तये गतिरुपपद्यते, नित्यप्राप्तत्वात्;  अविद्यानिवृत्तिरेव हि कार्या परमेवोपासीनानित्यपर: पक्ष:, एनान्ब्रह्मगमयति इति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात्। अविद्यानिवृत्ते: फलाभिसन्धिरहितयज्ञाद्यपेक्षत्वात् श्रवणाद्यपेक्षावच्च गतिश्रुत्या देशविशेषापेक्षा च विद्यत इति निश्चीयते। राद्धान्तस्तु – परमुपासीनानन्यानपि नयति, तद्य इत्थं विदुर्ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसंभवन्ति इति पञ्चाग्निविदां परं ब्रह्मोपासीनानां चार्चिरादिगतिश्रुते:। पञ्चाग्निविदो हि प्रकृतिविमुक्तब्रह्मात्मकात्मस्वरूपविद:।  ते च तत्प्राप्य पुनर्न निवर्तन्ते। परं ब्रह्मोपासीनास्तु यथावस्थितं परिपूर्णं परं ब्रह्मैव प्राप्य पुनर्न निवर्तन्ते, तद्य इत्थं विदुर्येचेमेऽरण्ये श्रद्धा तप इत्युपासते। तेऽर्चिषमभिसंभवन्ति, इत्युभयविधान् भेदेनोपादायार्चिरादिगतिश्रुतेरपुनरावृत्तिश्रुतेश्चैवमिति निश्चीयते। सूत्रार्थस्तु – कार्यं –  हिरण्यगर्भ- मुपासीनमातिवाहिको गणो नयतीति बादरिराचार्यो मन्यते, अस्यैव गत्युपपत्ते: परमुपासीनस्य हि न तत्प्राप्तये गतिरुपपद्यते, सर्वगतत्वात्परस्य ब्रह्मण:॥६॥

५१५। विशेषितत्वाच्च – पुरुषो मानस एत्य ब्रह्मलोकान्गमयति इति, प्रजापतेस्सभां वेश्म प्रपद्ये इति च प्राप्यस्थानस्य विशेषितत्वाच्च हिरण्यगर्भमुपासीनमेव नयति॥७॥

५१६। सामीप्यात्तु तद्व्यपदेश: – एवं निश्चिते सति, एनान्ब्रह्म गमयति इति हिरण्यगर्भस्य ब्रह्मशब्दव्यपदेशो ब्रह्मसामीप्यात्, यो ब्रह्माणं विदधाति पूर्वम् इति प्रथमजत्वेन ब्रह्मसामीप्यं हि विद्यते ॥८॥

५१७। कार्यात्यये तदध्यक्षेण सहात: परमभिधानात् – हिरण्यगर्भप्राप्तावप्यपुनरावृत्तिः उपपद्यते। कार्यस्य – हिरण्यगर्भलोकस्यात्यये, तदध्यक्षेण – हिरण्यगर्भेणाधिकारिकपुरुषेण विदुषा सह परप्राप्त्यभिधानात् ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे इति॥९॥

५१८। स्मृतेश्चब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्चरे प्रस्यान्ते कृतात्मान: प्रविशन्ति परं पदम्॥ इति स्मृतेश्चावगम्यते॥१०॥

५१९। परं जैमिनिर्मुख्यत्वात् – परं ब्रह्मोपासीनमेव नयत्यातिवाहिको गण इति जैमिनिराचार्यो मन्यते, ब्रह्म गमयति इति ब्रह्मशब्दस्य तत्रैव मुख्यत्वात्। ब्रह्मलोकान् इति शब्दश्च ब्रह्मैव लोको ब्रह्मलोक इति कर्मधारयपरिग्रहस्यैव न्याय्यत्वादुपपद्यते। एवं निश्चिते सति बहुवचनं च अदिति: पाशान इतिवदुपपन्नम्॥१२॥

५२०। दर्शनाच्चअस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते, इत्यर्चिरादिना गतस्य परब्रह्मप्राप्तिं दर्शयति च॥१२॥

५२१। कार्ये प्रत्यभिसन्धि: – प्रजापतेस्सभां वेश्म प्रपद्ये, इति प्रत्यभिसन्धिश्च न कार्ये, धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि, इत्यकृतं ब्रह्मलोकमिति तत्रैव विशेषितत्वात्, यशोऽहं भवामि ब्राह्मणानाम्, इति सर्वात्मभावाभिसंधानाच्च॥१३॥

५२२। अप्रतीकालम्बनान्नयतीति बादरायण उभयथा दोषात् तत्क्रतुश्च – कार्यं उपासीनानेवेति नायं नियम:, परमेवोपासीनानित्यमपि नियमो न संभवति। कुत:? उभयथा च दोषात् – कार्यमुपासीनानेवेति नियमे अस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते इत्यादिकाश्श्रुतय: ये चेमेऽरण्ये श्रद्धा तप:  इति च प्रकुप्येयु:; परमेवेति नियमे तद्य इत्थं विदु: इति प्रकुप्येत्। तस्मादप्रतीकालम्बनान्नयतीति भगवान्बादरायणो मन्यते। प्रतीकालम्बनास्तु — अचिन्मिश्रम्, केवलमचिद्वस्तु च ‘सिंहो देवदत्त:‘ इतिवत् ब्रह्मदृष्ट्या स्वरूपेण वा तद्वस्तु य उपासते, ते; अप्रतीकालम्बना: – तद्व्यतिरिक्ता:। सर्वज्ञं सर्वकारणं सत्यसङ्कल्पं निखिलहेयप्रत्यनीकानवधिकातिशयानन्दस्वरूपं ब्रह्मोपासते ये, ये च प्रत्यगात्मनं भूतसूक्ष्मैः संपरिष्वक्तं सर्वत्र वर्तमानं भूतसूक्ष्मव्यतिरिक्तं ज्ञानैकस्वरुपं नित्यं निर्विकारं आत्मनि तिष्ठन् इत्यादिनाऽवगतब्रह्मात्मभावं पञ्चाग्निविद्योदितमुपासते, तानुभयविधान्नयति, तद्य इत्थं विदुर्ये चेमेऽरण्ये, इत्युभयविषयश्रुते:, तत्क्रतुश्च – यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेत: प्रेत्य भवति, इत्युभयेषामेवापुनरावृत्तिस्संभवति। अचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां तत्क्रतुन्यायादेव पुनरावृत्तिरवर्जनीया॥१४॥

५२३। विशेषञ्च दर्शयति – प्रतीकाद्युक्तलक्षणमचिन्मिश्रं केवलमचिद्वस्तु चोपासीनानां सर्वेषां गत्यनपेक्षं परिमितफलविशेषं च दर्शयति श्रुति: – यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति, इत्यादिका, अत:, ब्रह्मणा सह ते सर्वे, इति वचनं नार्चिरादिना गतानां गतिप्रकारविषयम्। अर्चिरादिना गतानां देहावसानसमय एव सुकृतदुष्कृतयोर्हानाद्धिरण्यगर्भलोकावाप्तितद्वासतत्रस्थ-भोगानुभवहेत्वभावात्, तत्क्रतुन्यायविरोधात्, तदानीमेव ब्रह्मप्राप्तिश्रुतिविरोधाच्च, ब्रह्मणा सह ते सर्वे, इति वचनं तु पुण्यकर्मविशेषेण हिरण्यगर्भलोकं प्राप्तानां तदुपर्यपि बादरायण: इति न्यायेन तत्रैव निष्पन्नविद्यानां गतिप्रकारविषयम्, ते ब्रह्मलोके, इति तु ब्रह्मलोकशब्दस्य कर्मधारयवृत्त्या ब्रह्मविषयत्वात् ब्रह्मण्युपास्ये वर्तमाना: परान्तकाले – चरमदेहावसानसमये परामृतात् – परस्माद्ब्रह्मण उपासनप्रीताद्धेतो:, परिमुच्यन्ति सर्वे सर्वस्माद्बन्धाद्विमुच्यन्त इति, वेदान्त-विज्ञानसुनुश्चितार्था:, इति प्रकरणादेव गम्यते, तद्य इत्थं विदु: इति पञ्चाग्निविदां ब्रह्मप्राप्त्य-पुनरावृत्तिश्रवणात्तत्क्रतुन्यायेनाचिद्वियुक्त ब्रह्मात्मकात्मस्वरूपोपासनं विवक्षितमिति निश्चीयते, तथैव तत्र श्रुतिरपि, इति तु पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्ति, इति रमणीयचरणा: इति च कर्महेतुकमनुष्यादि भावोऽपामेव भूतान्तरसंसृष्टानामिति चिदचिद्विवेकं प्रतिपाद्य तद्य इत्थं विदु: इति भूतसूक्ष्मव्यतिरिक्तात्मस्वरूपोपासनमेव विदधाति॥१४॥ इति कार्याधिकरणम्॥

इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे चतुर्थस्याध्यायस्य तृतीयपाद:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.